भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 20.135

20.135.1

भुगित्यभिगतः शलित्यपक्रान्तः फलित्यभिष्ठितः ।
दुन्दुभिमाहननाभ्यां जरितरोथामो दैव

20.135.2

कोशबिले रजनि ग्रन्थेर्धानमुपानहि पादम् ।
उत्तमां जनिमां जन्यानुत्तमां जनीन् वर्त्मन्यात्

20.135.3

अलाबूनि पृषातकान्यश्वत्थपलाशम् ।
पिपीलिकावतश्वसो विद्युत्स्वापर्णशफो गोशफो जरितरोथामो दैव

20.135.4

वीमे देवा अक्रंसताध्वर्यो क्षिप्रं प्रचर ।
सुसत्यमिद्गवामस्यसि प्रखुदसि

20.135.5

पत्नी यदृश्यते पत्नी यक्ष्यमाणा जरितरोथामो दैव ।
होता विष्टीमेन जरितरोथामो दैव

20.135.6

आदित्या ह जरितरङ्गिरोभ्यो दक्षिणामनयन् ।
तां ह जरितः प्रत्यायंस्तामु ह जरितः प्रत्यायन्

20.135.7

तां ह जरितर्नः प्रत्यगृभ्णंस्तामु ह जरितर्नः प्रत्यगृभ्णः ।
अहानेतरसं न वि चेतनानि यज्ञान् एतरसं न पुरोगवामः

20.135.8

उत श्वेत आशुपत्वा उतो पद्याभिर्यविष्ठः ।
उतेमाशु मानं पिपर्ति

20.135.9

आदित्या रुद्रा वसवस्त्वेनु त इदं राधः प्रति गृभ्णीह्यङ्गिरः ।
इदं राधो विभु प्रभु इदं राधो बृहत्पृथु

20.135.10

० देवा ददत्वासुरं तद्वो अस्तु सुचेतनम् ।
युष्मामस्तु दिवेदिवे प्रत्येव गृभायत्

20.135.11

त्वमिन्द्र शर्मरिणा हव्यं पारावतेभ्यः ।
विप्राय स्तुवते वसुवनिं दुरश्रवसे वह

20.135.12

त्वमिन्द्र कपोताय छिन्नपक्षाय वञ्चते ।
श्यामाकं पक्वं पीलु च वारस्मा अकृणोर्बहुः

20.135.13

अरंगरो वावदीति त्रेधा बद्धो वरत्रया ।
इरामह प्रशंसत्यनिरामप सेधति

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc