भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 20.128

20.128.1

यः सभेयो विदथ्यः सुत्वा यज्वाथ पूरुषः ।
सूर्यं चामू रिशादसस्तद्देवाः प्रागकल्पयन्

20.128.2

यो जाम्या अप्रथयस्तद्यत्सखायं दुधूर्षति ।
ज्येष्ठो यदप्रचेतास्तदाहुरधरागिति

20.128.3

यद्भद्रस्य पुरुषस्य पुत्रो भवति दाधृषिः ।
तद्विप्रो अब्रवीदु तद्गन्धर्वः काम्यं वचः

20.128.4

यश्च पणि रघुजिष्ठ्यो यश्च देवामदाशुरिः ।
धीराणां शश्वतामहं तदपागिति शुश्रुम

20.128.5

ये च देवा अयजन्ताथो ये च पराददिः ।
सूर्यो दिवमिव गत्वाय मघवा नो वि रप्शते

20.128.6

योऽनाक्ताक्षो अनभ्यक्तो अमणिवो अहिरण्यवः ।
अब्रह्मा ब्रह्मणः पुत्रस्तोता कल्पेषु संमिता

20.128.7

य आक्ताक्षः सुभ्यक्तः सुमणिः सुहिरण्यवः ।
सुब्रह्मा ब्रह्मणः पुत्रस्तोता कल्पेषु संमिता

20.128.8

प्रपाणा च वेशन्ता रेवामप्रतिदिश्ययः ।
अयभ्या कन्या कल्याणी तोता कल्पेषु संमिता

20.128.9

सुप्रपाणा च वेशन्ता रेवान्त्सुप्रतिदिश्ययः ।
सुयभ्या कन्या कल्याणी तोता कल्पेषु संमिता

20.128.10

परिवृक्ता च महिषी स्वस्त्या च युधिं गमः ।
अनाशुरश्चायामी तोता कल्पेषु संमिता

20.128.11

वावाता च महिषी स्वस्त्या च युधिं गमः ।
श्वाशुरश्चायामी तोता कल्पेषु संमिता

20.128.12

यदिन्द्रादो दाशराज्ञे मानुषं वि गाहथाः ।
विरूपः सर्वस्मा आसीत्सह यक्षाय कल्पते

20.128.13

त्वं वृषाक्षुं मघवन्न् अम्रं मर्याकरो रविः ।
त्वं रौहिणं व्यास्यो वि वृत्रस्याभिनच्छिरः

20.128.14

यः पर्वतान् व्यदधाद्यो अपो व्यगाहथाः ।
इन्द्रो यो वृत्रहान्महं तस्मादिन्द्र नमोऽस्तु ते

20.128.15

पृष्ठं धावन्तं हर्योरौच्चैः श्रवसमब्रुवन् ।
स्वस्त्यश्व जैत्रायेन्द्रमा वह सुस्रजम्

20.128.16

ये त्वा श्वेता अजैश्रवसो हार्यो युञ्जन्ति दक्षिणम् ।
पूर्वा नमस्य देवानां बिभ्रदिन्द्र महीयते

20.128.16

२०.१२८.१६
युक्त्वा श्वेता औच्चैःश्रवसं हर्योर्युञ्जन्ति दक्षिणम् ।
पूर्वतमं स देवानां बिभ्रदिन्द्रं महीयते

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc