भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 20.124

20.124.1

कया नश्चित्र आ भुवदूती सदावृधः सखा ।
कया शचिष्ठया वृता

20.124.2

कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः ।
दृल्हा चिदारुजे वसु

20.124.3

अभी षु नः सखीनामविता जरितॄणाम् ।
शतं भवास्यूतिभिः

20.124.4

इमा नु कं भुवना सीषधामेन्द्रश्च विश्वे च देवाः ।
यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह चीकॢपाति

20.124.5

आदित्यैरिन्द्रः सगणो मरुद्भिरस्माकं भूत्वविता तनूनाम् ।
हत्वाय देवा असुरान् यदायन् देवा देवत्वमभिरक्षमाणाः

20.124.6

प्रत्यञ्चमर्कमनयं छचीभिरादित्स्वधामिषिरां पर्यपश्यन् ।
अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc