ग्रंथ पाठ
अथर्ववेद · अध्याय 2.25
2.25.1
शं नो देवी पृश्निपर्ण्यशं निरृत्या अकः ।
उग्रा हि कण्वजम्भनी तामभक्षि सहस्वतीम्
2.25.2
सहमानेयं प्रथमा पृश्निपर्ण्यजायत ।
तयाहं दुर्णाम्नां शिरो वृश्चामि शकुनेरिव
2.25.3
अरायमसृक्पावानं यश्च स्फातिं जिहीर्षति ।
गर्भादं कण्वं नाशय पृश्निपर्णि सहस्व च
2.25.4
गिरिमेनामा वेशय कण्वान् जीवितयोपनान् ।
तांस्त्वं देवि पृश्निपर्ण्यग्निरिवानुदहन्न् इहि
2.25.5
पराच एनान् प्र णुद कण्वान् जीवितयोपनान् ।
तमांसि यत्र गच्छन्ति तत्क्रव्यादो अजीगमम्
मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0