भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 19.57

19.57.1

यथा कलां यथा शफं यथा र्णं सन्नयन्ति ।
एवा दुष्वप्न्यं सर्वमप्रिये सं नयामसि

19.57.2

सं राजानो अगुः समृणाम्यगुः सं कुष्ठा अगुः सं कला अगुः ।
समस्मासु यद्दुष्वप्न्यं निर्द्विषते दुष्वप्न्यं सुवाम

19.57.3

देवानां पत्नीनां गर्भ यमस्य कर यो भद्रः स्वप्न ।
स मम यः पापस्तद्द्विषते प्र हिण्मः ।
मा तृष्टानामसि कृष्णशकुनेर्मुखम्

19.57.4

तं त्वा स्वप्न तथा सं विद्म स त्वं स्वप्नाश्व इव कायमश्व इव नीनाहम् ।
अनास्माकं देवपीयुं पियारुं वप यदस्मासु दुष्वप्न्यं यद्गोषु यच्च नो गृहे

19.57.5

अनास्माकस्तद्देवपीयुः पियारुर्निष्कमिव प्रति मुञ्चताम् ।
नवारत्नीन् अपमया अस्माकं ततः परि ।
दुष्वप्न्यं सर्वं द्विषते निर्दयामसि

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc