भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 19.36

19.36.1

शतवारो अनीनशद्यक्ष्मान् रक्षांसि तेजसा ।
आरोहन् वर्चसा सह मणिर्दुर्णामचातनः

19.36.2

शृङ्गाभ्यां रक्षो नुदते मूलेन यातुधान्यः ।
मध्येन यक्ष्मं बाधते नैनं पाप्माति तत्रति

19.36.3

ये यक्ष्मासो अर्भका महान्तो ये च शब्दिनः ।
सर्वां दुर्णामहा मणिः शतवारो अनीनशत्

19.36.4

शतं वीरान् अजनयच्छतं यक्ष्मान् अपावपत्।
दुर्णाम्नः सर्वान् हत्वाव रक्षांसि धूनुते

19.36.5

हिरण्यशृङ्ग ऋषभः शातवारो अयं मणिः ।
दुर्णाम्नः सर्वांस्तृध्वाव रक्षांस्यक्रमीत्

19.36.6

शतमहं दुर्णाम्नीनां गन्धर्वाप्सरसां शतम् ।
शतं शश्वन्वतीनां शतवारेण वारये

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc