भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 19.24

19.24.1

येन देवं सवितारं परि देवा अधारयन् ।
तेनेमं ब्रह्मणस्पते परि राष्ट्राय धत्तन

19.24.2

परीममिन्द्रमायुषे महे क्षत्राय धत्तन ।
यथैनं जरसे नयाज्ज्योक्क्षत्रेऽधि जागरत्

19.24.3

परीममिन्द्रमायुषे महे श्रोत्राय धत्तन ।
यथैनं जरसे नयाज्ज्योक्श्रोत्रेऽधि जागरत्

19.24.4

परि धत्त धत्त नो वर्चसेमं जरामृत्युं कृणुत दीर्घमायुः ।
बृहस्पतिः प्रायच्छद्वास एतत्सोमाय राज्ञे परिधातवा उ

19.24.5

जरां सु गच्छ परि धत्स्व वासो भवा गृष्टीनामभिशस्तिपा उ ।
शतं च जीव शरदः पुरूची रायश्च पोषमुपसंव्ययस्व

19.24.6

परीदं वासो अधिथाः स्वस्तयेऽभूर्वापीनामभिशस्तिपा उ ।
शतं च जीव शरदः पुरूचीर्वसूनि चारुर्वि भजासि जीवन्

19.24.7

योगेयोगे तवस्तरं वाजेवाजे हवामहे ।
सखाय इन्द्रमूतये

19.24.8

हिरण्यवर्णो अजरः सुवीरो जरामृत्युः प्रजया सं विशस्व ।
तदग्निराह तदु सोम आह बृहस्पतिः सविता तदिन्द्रः

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc