ग्रंथ पाठ
अथर्ववेद · अध्याय 13.5
13.5.14
१३.५
कीर्तिश्च यशश्चाम्भश्च नभश्च ब्राह्मणवर्चसं चान्नं चान्नाद्यं च
13.5.15
य एतं देवमेकवृतं वेद
13.5.16
न द्वितीयो न तृतीयश्चतुर्थो नाप्युच्यते
13.5.17
न पञ्चमो न षष्ठः सप्तमो नाप्युच्यते
13.5.18
नाष्टमो न नवमो दशमो नाप्युच्यते
13.5.19
स सर्वस्मै वि पश्यति यच्च प्राणति यच्च न
13.5.20
तमिदं निगतं सहः स एष एक एकवृदेक एव
13.5.21
सर्वे अस्मिन् देवा एकवृतो भवन्ति
इति चतुर्थेऽनुवाके द्वितीयं पर्यायसूक्तम्।
मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0