भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 10.3

10.3.1

अयं मे वरणो मणिः सपत्नक्षयणो वृषा ।
तेना रभस्व त्वं शत्रून् प्र मृणीहि दुरस्यतः

10.3.2

प्रैणान् छृणीहि प्र मृणा रभस्व मणिस्ते अस्तु पुरएता पुरस्तात्।
अवारयन्त वरणेन देवा अभ्याचारमसुराणां श्वःश्वः

10.3.3

अयं मणिर्वरणो विश्वभेषजः सहस्राक्षो हरितो हिरण्ययः ।
स ते शत्रून् अधरान् पादयाति पूर्वस्तान् दभ्नुहि ये त्वा द्विषन्ति

10.3.4

अयं ते कृत्यां विततां पौरुषेयादयं भयात्।
अयं त्वा सर्वस्मात्पापाद्वरणो वारयिष्यते

10.3.5

वरणो वारयाता अयं देवो वनस्पतिः ।
यक्ष्मो यो अस्मिन्न् आविष्टस्तमु देवा अवीवरन्

10.3.6

स्वप्नं सुप्त्वा यदि पश्यासि पापं मृगः सृतिं यति धावादजुष्टाम् ।
परिक्षवाच्छकुनेः पापवादादयं मणिर्वरणो वारयिष्यते

10.3.7

अरात्यास्त्वा निरृत्या अभिचारादथो भयात्।
मृत्योरोजीयसो वधाद्वरणो वारयिष्यते

10.3.8

यन् मे माता यन् मे पिता भ्रातरो यच्च मे स्वा यदेनश्चकृमा वयम् ।
ततो नो वारयिष्यतेऽयं देवो वनस्पतिः

10.3.9

वरणेन प्रव्यथिता भ्रातृव्या मे सबन्धवः ।
असूर्तं रजो अप्यगुस्ते यन्त्वधमं तमः

10.3.10

अरिष्टोऽहमरिष्टगुरायुष्मान्त्सर्वपूरुषः ।
तं मायं वरणो मणिः परि पातु दिशोदिशः

10.3.11

अयं मे वरण उरसि राजा देवो वनस्पतिः ।
स मे शत्रून् वि बाधतामिन्द्रो दस्यून् इवासुरान्

10.3.12

इमं बिभर्मि वरणमायुष्मान् छतशारदः ।
स मे राष्ट्रं च क्षत्रं च पशून् ओजश्च मे दधत्

10.3.13

यथा वातो वनस्पतीन् वृक्षान् भनक्त्योजसा ।
एवा सपत्नान् मे भङ्ग्धि पूर्वान् जातामुतापरान् वरणस्त्वाभि रक्षतु

10.3.14

यथा वातश्चाग्निश्च वृक्षान् प्सातो वनस्पतीन् ।
एवा सपत्नान् मे प्साहि पूर्वान् जातामुतापरान् वरणस्त्वाभि रक्षतु

10.3.15

यथा वातेन प्रक्षीणा वृक्षाः शेरे न्यर्पिताः ।
एवा सपत्नांस्त्वं मम प्र क्षिणीहि न्यर्पय ।
पूर्वान् जातामुतापरान् वरणस्त्वाभि रक्षतु

10.3.16

तांस्त्वं प्र छिन्द्धि वरण पुरा दिष्टात्पुरायुषः ।
य एनं पशुषु दिप्सन्ति ये चास्य राष्ट्रदिप्सवः

10.3.17

यथा सूर्यो अतिभाति यथास्मिन् तेज आहितम् ।
एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।
तेजसा मा समुक्षतु यशसा समनक्तु मा

10.3.18

यथा यशश्चन्द्रमस्यादित्ये च नृचक्षसि ।
एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।
तेजसा मा समुक्षतु यशसा समनक्तु मा

10.3.19

यथा यशः पृथिव्यां यथास्मिन् जातवेदसि ।
एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।
तेजसा मा समुक्षतु यशसा समनक्तु मा

10.3.20

यथा यशः कन्यायां यथास्मिन्त्संभृते रथे ।
एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।
तेजसा मा समुक्षतु यशसा समनक्तु मा

10.3.21

यथा यशः सोमपीथे मधुपर्के यथा यशः ।
एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।
तेजसा मा समुक्षतु यशसा समनक्तु मा

10.3.22

यथा यशोऽग्निहोत्रे वषट्कारे यथा यशः ।
एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।
तेजसा मा समुक्षतु यशसा समनक्तु मा

10.3.23

यथा यशो यजमाने यथास्मिन् यज्ञ आहितम् ।
एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।
तेजसा मा समुक्षतु यशसा समनक्तु मा

10.3.24

यथा यशः प्रजापतौ यथास्मिन् परमेष्ठिनि ।
एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।
तेजसा मा समुक्षतु यशसा समनक्तु मा

10.3.25

यथा देवेष्वमृतं यथैषु सत्यमाहितम् ।
एवा मे वरणो मणिः कीर्तिं भूतिं नि यच्छतु ।
तेजसा मा समुक्षतु यशसा समनक्तु मा

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc