अशोकावदान · भाग 2128
यदा महाराज सुमागधया अनाथपिण्डदुहित्रा उपनिमन्त्रितः पञ्चभिरर्हच्छतैः सार्धमृद्ध्या पुण्डवर्धनं गतस्तदाहं ऋद्ध्या पर्वतशैलं ग्रहाय गगनतलमाक्रम्य पुण्डवर्धनं गतः । त्वन्निमित्तं च मे भगवताज्ञा क्षिप्ता । न तावत्ते परिनिर्वातव्यं यावद्धर्मो नान्तर्हित इति । आह च ।
यदा जगामर्द्धिबलेन नायकः सुमागधायोपनिमन्त्रितो गुरुः ।
तदा गृहीत्वर्द्धिबलेन पर्वतं जगाम तूर्णं खलु पुण्डवर्धनं ॥
आज्ञा तदा शाक्यकुलोदितेन दत्ता च मे कारुणिकेन तेन ।
तावन्नते निर्वृतिरभ्युपेया अन्तर्हितो यावदयं न धर्मः ॥
यदापि महाराज त्वया पूर्वं बालभावाद् भगवतो राजगृहं पिण्डाय प्रविष्टस्य सक्तुं दास्यामीति पांश्वञ्जलिर्भगवतः पात्रे प्रक्षिप्तो राधगुप्तेन चानुमोदितं त्वं च भगवता निर्दिष्टो ऽयं दारको वर्षशतपरिनिर्वृतस्य मम पाटलिपुत्रे नगरे ऽशोको नाम राजा भविष्यति चतुर्भागचक्रवर्ती धार्मिको धर्मराजा यो मे शरीरधातुकं वैस्तारिकं करिष्यति चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापयिष्यत्यहं तत्कालं तत्रैवासम् । आह च ।
यदा पांश्वञ्जलिर्दस्त्वया बुद्धस्य भाजने ।
बालभावात् प्रसादित्वा तत्रैवाहं तदाभवम् ॥
राजाह । स्थविर । कुत्रेदानीमुष्यत इति । स्थविर उवाच ।
उत्तरे सरराजस्य पर्वते गन्धमादने ।
वसामि नृपते तत्र सार्धं सब्रह्मचारिभिः ॥
राजाह । कियन्तः स्थविरस्य परिवाराः । स्थविर उवाच ।
षष्ट्यर्हन्तः सहस्राणि परिवारो नृणां वर ।
वसामि यैरहं सार्धं निष्पृहैर्जितकल्मषैः ॥
अपि च महाराज किमनेन सन्देहेन कृतेन । परिविष्यतां भिक्षुसङ्घः । भुक्तवतो भिक्षुसङ्घस्य प्रतिसंमोदनं करिष्यामि । राजाह । एवमस्तु यथा स्थविर आज्ञापयति । किन्तु बुद्धस्मृतिप्रतिबोधितो ऽहं बोधिस्नपनं तावत् करिष्यामि । समनन्तरं च मनापेन चाहारेण भिक्षुसङ्घमुपस्थास्यामीति ।
अथ राजा सर्वमित्रम् उद्घोषकमामन्त्रयति । अहम् आर्यसङ्घस्य शतसहस्रं दास्यामि । कुम्भसहस्रेण च बोधिं स्नापयिष्यामि । मम नाम्ना घुष्यतां पञ्चवार्षिकमिति ।
तत्कालं च कुनालस्य नयनद्वयमविपन्नमासीत् । स राज्ञो दक्षिणे पार्श्वे स्थितः । तेनांगुलिद्वयमुत्क्षिप्तं न तु वाग् भाषिता । द्विगुणं त्वहं प्रदास्यामीत्याकारयति । पाणौ वर्धितमात्रे च कुनालेन सर्वजनकायेन हास्यं मुक्तं ।
ततो राजा हास्यं मुक्त्वा कथयति । अहो राधगुप्त केनैतद् वर्धितमिति ।
राधगुप्तः कथयति । देव बहवः पुण्यार्थिनः प्राणिनो यः पुण्यार्थी तेन वर्धितमिति ।
राजाह । शतसहस्रत्रयं दास्यामीत्यार्यसङ्घे । कुम्भसहस्रेण च बोधिं स्नपयिष्यामि । मम नाम्ना घुष्यतां पञ्चवार्षिकमिति ।
यावत् कुनालेन चतस्रो ऽङगुलय उत्क्षिप्ता । ततो राजा रूषितो राधगुप्तमुवाच । अहो राधगुप्त को ऽयमस्माभिः सार्धं प्रतिद्वन्द्वयति अलोकज्ञः ।
रुषितं च राजानमवेक्ष्य राधगुप्तो राज्ञः पादयोर्निपत्योवाच । देव कस्य शक्तिर्नरेन्द्रेण सार्धं विस्पर्धितुं भवेत् । कुनालो गुणवान् पित्रा सार्धं विकुरुते । अथ राजा दक्षिणेन परिवृत्य कुनालमवलोक्योवाच । स्थविर अहं कोशं स्थापयित्वा राज्यमन्तःपुरममात्यगणमात्मानं च कुनालं चार्यसङ्घे निर्यातयामि । सुवर्णरूप्यस्फटिकवैडूर्यमयैः पञ्चकुम्भसहस्रैर्नानागन्धपूर्णैः क्षीरचन्दनकुंकुमकर्पूरवासितैर्महाबोधिं स्नपयिष्यामि । पुष्पशतसहस्राणि च बोधिप्रमुखे चार्यसङ्घे ददामि । मम नाम्ना घुष्यतां पञ्चवार्षिकमिति । आह च ।
राज्यं समृद्धं हि संस्थाप्य कोशमन्तः पुरामात्यगणं च सर्वं ।
ददामि सङ्घे गुणपात्रभूते आत्माकुनालं च गुणोपपन्नं ॥
ततो राजा पिण्डोलभरद्वाजप्रमुखे भिक्षुसङ्घे निर्यातयित्वा बोधिवृक्षस्य च चतुर्दिशं वारं बद्ध्वा स्वयमेव च वारमभिरुह्य चतुर्भिः कुम्भसहस्रै र्बोधिस्नपनं कृतवान् । कृतमात्रे च बोधिस्नपने बोधिवृक्षो यथापौराणः संवृत्तः । वक्ष्यति हि ।
कृतमात्रे नृपतिना बोधिस्नपनमुत्तमं ।
बोधिवृक्षस्तदा जातो हरित्पल्लवकोमलः ॥
दृष्ट्वा हरितपत्राढ्यं पल्लवाङ्कुरकोमलं ।
राजा हर्षपरं यातः सामात्यगणनैगमः ॥
अथ राजा बोधिस्नपनं कृत्वा भिक्षुसङ्घं परिवेष्टुमारब्धः । तत्र यशो नाम्ना स्थविरः । तेनाभिहितं । महाराज महानयं परमदक्षिणीय आर्यसङ्घः संनिपतितः । तथा ते परिवेष्टव्यं यथा तेन क्षतिर्न स्यादिति ।
ततो राजा स्वहस्तेन परिवेषयन् यावन् नवकान्तं गतः । तत्र द्वौ श्रामणेरौ संरञ्जनीयं धर्मं समादाय वर्ततः । एकेनापि सक्तवो दत्ता द्वितीयेनापि सक्तवः । एकेन खाद्यका द्वितीयेनापि खाद्यका एव । एकेन मोदका द्वितीयेनापि मोदकाः । तौ दृष्ट्वा राजा हसितः । इमौ श्रामणेरौ बालक्रीडया क्रीडतः ।
यावद् राज्ञा भिक्षुसङ्घं परिवेष्य वृद्धान्तमारूढः । स्थविरेण चानुयुक्तः । मा देवेन कुत्रचिद् अप्रसाद उत्पादित इति ।
राजाह । नेति । अपि तु अस्ति द्वौ श्रामणेरौ बालक्रीडया क्रीडयो यथा बालदारकाः पांश्वागारैः क्रीडन्त्येवं तौ श्रामणेरौ सक्तुक्रीडया क्रीडतः खाद्यक्रीडया क्रीडतः ।
स्थविर उवाच । अलं महाराज । उभौ हि तौ उभयतो भागविमुक्तौ अर्हन्तौ ।
श्रुत्वा च राज्ञः प्रीतिमनसो बुद्धिरुत्पन्ना । तौ श्रमणेरावागम्य भिक्षुसङ्घं पटेनाच्छादयिष्यामि । ततस्तौ श्रामणेरौ राज्ञो ऽभिप्रायमवगम्य भूयो ऽन्ये ऽस्माभिः स्वगुणा उभ्दावयितव्या इति [चिन्तितौ] । तयोरेकेन कटाहका उपस्थापिता द्वितीयेन रङ्गः समुदानीतः ।
राज्ञा पृष्टौ श्रामणेरकौ । किमिदमारब्धं । तयोरभिहितं । देवो ऽस्माकमागम्य भिक्षुसङ्घं पटेनाच्छादितुकामः । तान् पटान् रञ्जयिष्यामः ।
श्रुत्वा च राज्ञो बुद्धिरुत्पन्ना । मया केवलं चिन्तितं न तु वाङ निश्चारिता । परचित्तविदावेतौ महात्मानौ । ततः सर्वशरीरेण पादयोर्निपत्यं कृताञ्जलिरुवाच ।
मौर्यः सभृत्यः सजनः सपौरः सुलब्धलाभार्थसुयष्टयज्ञः ।
यस्येदृशः साधुजन प्रसादः काले तथोत्साहि करोति दानं ॥
यावद् राज्ञाभिहितं । युष्माकमागम्य त्रिचीवरेण भिक्षुसङ्घमाच्छादयिष्यामीति । ततो राजाशोकः पञ्चवार्षिके पर्यवसिते सर्वभिक्षून् त्रिचीवरेणाच्छाद्य चत्वारि शतसहस्राणि सङ्घास्याच्छादनानि ( अ-अव् 104 ) दत्त्वा पृथिवीमन्तःपुरममात्यगणमात्मानं च कुनालं च निष्क्रीतवान् । भूयसा भगवच्छासने श्रद्धा प्रतिलब्धा । चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितम् । इति ।
कुनालोपाख्यानं
यस्मिन्नेव दिवसे राज्ञाशोकेन चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितं तस्मिन्नेव दिवसे राज्ञो ऽशोकस्य पद्मावती नाम्ना देवी प्रसूता । पुत्रो जातः अभिरूपो दर्शनीयः प्रासादिको नयनानि चास्य परशोभनानि ।
यावद् राज्ञो ऽशोकस्य निवेदितं । देव दिष्ट्या वृद्धिर्देवस्य पुत्रो जातः । श्रुत्वा राजा आत्तमनाः कथयति ।
प्रीतिः परा मे विपुला ह्यवाप्ता मौर्यस्य वंशस्य परा विभूतिः ।
धर्मेण राज्यं मम कुर्वतो हि जातः सुतो धर्मविवर्धनो ऽस्तु ॥
तस्य धर्मविवर्धन इति नाम कृतं । यावत् कुमारो राज्ञो ऽशोकस्योपनामितः । अथ राजा कुमारं निरीक्ष्य प्रीतमनाः कथयति ।
सुतस्य मे नेत्रवरा सुपुण्या सुजातनीलोत्पलसंनिकाशा ।
अलङ्कतं शोभति यस्य वक्त्रं सम्पूर्णचन्द्रप्रतिमं विभाति ॥
यावद् राजामात्यान् उवाच । दृष्टानि भवभ्दिः कस्येदृशानि नयनानि । अमात्या ऊचुः । देव मनुष्यभूतस्य न दृष्टानि । अपि तु देव, अस्ति हिमवति पर्वतराजे कुनालो नाम पक्षी प्रतिवसति । तस्य सदृशानि नयनानि । आह च ।
हिमेन्द्रराजे गिरिशैलशृङ्गे प्रबालपुष्पप्रसवे जलाढ्ये ।
कुनालनाम्नेति निवासि पक्षी नेत्राणि तेनास्य समान्यमूनि ॥
ततो राज्ञाभिहितं । कुनालः पक्षी आनीयतामिति ।
तस्योर्ध्वतो योजनं यक्षाः श्रृण्वन्ति । अधो योजनं नागाः । ततो यक्षिस्तत्क्षणेन कुनालः पक्षी आनीतः । अथ राजा कुनालस्य नेत्राणि सुचिरं निरीक्ष्य न किंचिद् विशेषं पश्यति । ततो राज्ञाभिहितं । कुमारस्य कुनालसदृशानि नयनानि । भवतु कुमारस्य कुनाल इति नाम । वक्ष्यति हि ।
नेत्रानुरागेण स पार्थिवेन्द्रः सुतं कुनालेति तदा बभाषे ।
ततो ऽस्य नाम प्रथितं पृथिव्यां तस्यार्यसत्त्वस्य नृपात्मजस्य ॥
विस्तरेण यावत् कुमारो महान् संवृत्तः । तस्य काञ्चनमाला नाम दारिका पत्न्यर्थे आनीता ।
यावद् राजाशोकः कुनालेन सह कुक्कुटारामं गतः । तत्र यशो नाम्ना सङ्घस्थविरः अर्हन् षडभिज्ञः । स पश्यति कुनालस्य न चिरान् नयनविनाशो भविष्यति ।
तेन राजाभिहितः । किमर्थं कुनालः स्वकर्मणि न नियुज्यते । ततो राज्ञाभिहितः । कुनाल सङ्घस्थविरो यदाज्ञापयति तत् परिपालयितव्यं । ततः कुनालः स्थविरस्य पादयोर्निपत्य कथयति । स्थविर किमाज्ञापयसि । स्थविर उवाच । चक्षुःकुनाल अनित्यमिति कुरु । आह ।
कुमार चक्षुः सततं परीक्ष्यं चलात्मकं दुःखसहस्रयुक्तं ।
यत्रानुरक्ता बहवः पृथग्जनाः कुर्वन्ति कर्माण्यहितावहानि ॥
स च तथाभ्यासं करोति मनसिकारप्रयुक्तः । एकाभिरामः प्रशमारामश्च संवृत्तः । स राजकुले विविक्ते स्थाने ऽवस्थितस् चक्षुरादीन्यायतनानि अनित्यादिभिर् आकारैः परीक्षते ।
तिष्यरक्षिता च नाम्नाशोकस्याग्रमहिषी तं प्रदेशमभिगता । सा तं कुनालमेकाकिनं दृष्ट्वा नयनानुरागेण गात्रेषु परिष्वज्य कथयति ।
दृष्ट्वा तवेदं नयनाभिरामं श्रीमद् वपुर्नेत्रयुगं च कान्तं ।
दंदह्यते मे हृदयं समन्ताद् दावाग्निना प्रज्वलते च कक्षः ॥
श्रुत्वा कुनाल उभाभ्यां पाणिभ्यां कर्णौ पिधाय कथयति ।
वाक्यं न युक्तं तव वक्त्तुमेतत् सूनोः पुरस्ताज् जननी ममासि ।
अधर्ममार्गं परिवर्जयस्व अपायमार्गस्य स एव हेतुः ॥
ततस्तिष्यरक्षिता तत्कालमलभमाना ऋद्धा कथयति ।
अभिकामामभिगतां यत्त्वं नेच्छसि मामिह ।
न चिरादेव दुर्बुद्धे सर्वथा न भविष्यसि ॥
कुनाल उवाच ।
मम भवतु मरणं मात स्थितस्य धर्मे विशुद्धभावस्य ।
न तु जीवितेन कार्यं सज्जनजनधिक्कृतेन मम ॥
स्वर्गस्य धर्मलोपो यतो भवति जीवितेन किं तेन ।
मम मरणहेतुना वै बुधपरिभूतेन धिक्कृतेन ॥
यावत् तिष्यरक्षिता कुनालस्य छिद्रान्वेषिणि अवस्थिता ।
राज्ञो ऽशोकस्योत्तरापथे तक्षशिला नगरं विरुद्धं । श्रुत्वा च राजा स्वयमेवाभिप्रस्थितः । ततो ऽमात्यैरभिहितः । देव कुमारः प्रेष्यतां ।
अथ राजा कुनालमाहूय कथयति । वत्स कुनाल गमिष्यसि तक्षशिलानगरं संनामयितुं ।
कुनाल उवाच । परं देव गमिष्यामि ।
ततो नृपस्तस्य निशाम्य भावं पुत्राभिधानस्य मनोरथस्य ।
स्नेहाच्च योग्यं मनसा च बुद्द्वा आज्ञापयामास विहारयात्रां ॥
अथ राजाशोको नगरशोभां मार्गशोभां च कृत्वा जीर्णातुरकृपणांश्च मार्गादपनीय एकरथे ऽभिरुह्य कुमारेण सह पाटलिपुत्रान् निर्गतः । अनुव्रजित्वा निवर्तमानः कुनालं कण्ठे परिष्वज्य नयनं निरीक्षमाणः प्ररुदन्नुवाच ।
धन्यानि तस्य चक्षूंषि चक्षुष्मन्तश्च ते जनाः ।
सततं ये कुमारस्य द्रक्ष्यन्ति दुखपङ्कजं ॥
यावन् नैमित्तिको ब्राह्मणः पश्यति कुमारस्य न चिरान् नयनविनाशो भविष्यति । स च राजाशोकस्तस्य नयनेष्वत्यर्थमनुषुक्तः । दृष्ट्वा च कथयति ।
नृपात्मजस्य नयने विशुद्धे महीपतिश्चाप्यनुरक्तमस्य ।
श्रिया विवृद्धे हि सुखानुकूले पश्यामि नेत्रे ऽद्य विनश्यमाने ॥
इदं पुरं स्वर्ग इव प्रहृष्टं कुमारसंदर्शनजातहर्षं ।
पुरं विपन्ने नयने तु तस्य भविष्यते शोकपरीतचेतः ॥
अनुपूर्वेण तक्षशिलामनुप्राप्तः । श्रुत्वा च तक्षशिलापौरा अर्धत्रिकाणि योजनानि मार्गशोभां नगरशोभां च कृत्वा पूर्णकुम्भैः प्रत्युद्गताः । वक्ष्यति च ।
श्रुत्वा तक्षशिलापौरो रत्नपूर्णघटादिकान् ।
गृह्य प्रत्युज्जगामाशु बहुमान्य नृपात्मजं ॥
प्रत्युद्गम्य कृताञ्जलिरुवाच । न वयं कुमारस्य विरुद्धा न राज्ञो ऽशोकस्य । अपि तु दृष्टात्मानो ऽमात्या आगत्यास्माकमपमानं कुर्वन्ति । यावत् कुनालो महता सम्मानेन तक्षशिलां प्रवेशितः ।
राज्ञश्चाशोकस्य महान् व्याधिरुत्पन्नः । तस्य मुखादुच्चारो निर्गन्तुमारब्धः । सर्वरोमकूपेभ्यश्चाशुचि प्रघरति न च शक्यते चिकित्सितुं । ततो राज्ञाभिहितं । कुनालमानयत राज्ये प्रतिष्ठापयिष्यामीति । किं ममेदृशेन जीवितेन प्रयोजनं ।
श्रुत्वा च तिष्यरक्षिता चिन्तयति । यदि कुनालं राज्ये प्रतिष्ठापयिष्यति नास्ति मम जीवितं । तयाभिहितं । अहं त्वा स्वस्थं करिष्यामि किं तु वैद्यानां प्रवेशः प्रतिषिध्यतां । यावद् राज्ञा वैद्यानां प्रवेशः प्रतिषिद्धः । ततस्तिष्यरक्षितया वैद्यानामभिहितं । यदि कश्चिदीदृशेन व्याधिना स्पृष्टः स्त्री वा पुरुषो वागच्छति मम दर्शयितव्याः ।
अन्यतमश्चाभीरस्तादृशेनैव व्याधिना स्पृष्टः । तस्य पत्न्या वैद्याय व्याधिर्निवेदितः । वैद्येनाभिहितं । स एवागच्छत्वातुरो व्याधिं दृष्ट्वा भैषज्यमुपदेक्ष्यामि । यावदाभीरो वैद्यसकाशमभिगतः । वैद्येन च तिष्यरक्षितायाः समीपमुपनीतः । ततस्तिष्यरक्षितया प्रतिगुप्ते प्रदेशे जीविताद् व्यपरोपितः । जीविताद् व्यपरोप्य कुक्षिं पाटयित्वा पश्यति च तस्य पक्वाशयस्थानं । अन्त्रायां कृमिर्महान् प्रादुर्भूतः । स यद्यूर्ध्वं गच्छति तेनाशुचि प्रघरति । अथाघो गच्छत्यधः प्रघरति । यावत् तत्र मरिचान् पेषयित्वा दत्तो न च [स] म्रियते । एवं पिप्पलिं श्रृङ्गवेरं च । विस्तरेण यावत् पलाण्डुं दत्तः । स्पृष्टश्च ( अ-अव् 111 ) मृत उच्चारमार्गेण निर्गतः । एतच्च प्रकरणं तया राज्ञे निवेदितं । देव पलाण्डुं परिभुंक्ष्व स्वास्थ्यं भविष्यति । राजाह । देवि, अहं क्षत्रियः कथं पलाण्डुं परिभक्षयामि । देव्युवाच । देव, परिभोक्तव्यं जीवितस्यार्थे भैषज्यमेतत् ।
राज्ञा परिभुक्तं । स च कृमिर्मृत उच्चारमार्गेण निर्गतः । स्वस्थीभूतश्च राजा । तेन परितुष्टेन तिष्यरक्षिता वरेण प्रवारिता । किं ते वर प्रयच्छामि । तयाभिहितं । सप्ताहं मम देवो राज्यं प्रयच्छतु । राजाह । अहं को भविष्यामि । देव्युवाच । सप्ताहस्यात्ययाद् देव एव राजा भविष्यति ।
यावद् राज्ञा तिष्यरक्षितायाः सप्ताहं राज्यं दत्तं । तस्या बुद्धिरुत्पन्ना । इदानीं मयास्य कुनालस्य वैरं निर्यातयितव्यः । तया कपटलेखो लिखितस्तक्षशिलकानां पौराणां । कुनालस्य नयनं विनाशयितव्यमिति । आह च ।
राजा ह्यशोको बलवान् प्रचण्ड आज्ञापयत्तक्षशिलाजनं हि ।
उद्धार्यतां लोचनमस्य शत्रौर्मौर्यस्य वंशस्य कलङ्कु एषः ॥
राज्ञो ऽशोकस्य यत्र कार्यमाशु परिप्राप्यं भवति [स] दन्तमुद्रया मुद्रयति । यावत् तिष्यरक्षिता शयितस्य राज्ञस्तं लेखं दन्तमुद्रया मुद्रयिष्यामीति राज्ञः सकाशमभिगता । राजा च भीतः प्रतिबुद्धः । ( अ-अव् 112 ) देवी कथयति । किमिदमिति । राजा कथयति । देवि स्वप्नं मंऽशोभनं दृष्टं । पश्यामि द्वौ गृध्रौ कुनालस्य नयनमुत्पाटयितुमिच्छतः । देवी कथयति । स्वास्थ्यं कुमारस्येति । एवं द्विरपि राजा भीतः प्रतिबुद्धः कथयति । देवि स्वप्नो मे न शोभनो दृष्ट इति । तिष्यरक्षिता कथयति । कीदृशः स्वप्न इति । राजाह । पश्यामि कुनालं दीर्घकेशनखश्मश्रुं पौरं प्रविष्टं । देव्याह । स्वास्थ्यं कुमारस्येति ।
यावत् तिष्यरक्षितया राज्ञः शयितस्य स लेखो दन्तमुद्रया मुद्रयित्वा तक्षशिलां प्रेषितः । यावद् राज्ञा शयितेन स्वप्ने दृष्टं दन्ता विशीर्णाः ।
ततो राजा तस्या एव रात्रेरत्यये नैमित्तिकान् आहूय कथयति । कीदृश एषां स्वप्नानां विपाक इति । नैमित्तिकाः कथयन्ति । देव य ईदृशस्वप्नानि पश्यति तस्य पुत्रस्य चक्षुर्भेदो भवति । आह च ।
दन्ता यस्य विशीर्यन्ते स्वप्नान्ते प्रपतन्ति च ।
चतुर्भेदं च पुत्रस्य पुत्रनाशं स पश्यति ॥
श्रुत्वा च राजाशोकस् त्वरितमुत्थायासनात् कृताञ्जलिश्चतुर्दिशं देवतां याचयितुमारब्धः । आह च ।
या देवता शास्तुरभिप्रसन्ना धर्मे च सङ्घे च गणप्रधाने ।
ये चापि लोके ऋषयो वरिष्ठा रक्षन्तु ते ऽस्मत्तनयं कुनालं ॥
स च लेखो ऽनुपूर्वेण तक्षशिलामुपनीतः । अथ तक्षशिलाः पौरजानपदा लेखदर्शनात् कुनालस्य गुणविस्तरतुष्टा नोत्सहन्ते तदप्रियं निवेदितुं । चिरं विचारयित्वा चण्डो राजा दुःशीलः स्वपुत्रस्य न मर्षयति प्रागेवास्माकं [किं] मर्षयति । आह च ।
मुनिवृत्तस्य शान्तस्य सर्वभूतहितैषिणः ।
यस्य द्वेषः कुमारस्य कस्य नास्य भविष्यति ॥
तैर्यावत् कुनालस्य निवेदितं । लेखश्चोपनीतः । ततः कुनालो वाचयित्वा कथयति । विश्रब्धं यथात्मप्रयोजनं क्रियतामिति । यावच् चण्डाला उपनीताः कुनालस्य नयनम् उत्पाटयतेति । ते च कृताञ्जलिपुटा ऊचुः । नोत्सहयामः । कुतः ।
यो हि चन्द्रमसः कान्तिं मोहादभ्युद्धरेन् नरः ।
स चन्द्रसदृशाद् वक्त्रात् तव नेत्रे समुद्धरेत् ॥
ततः कुमारेण मकुटं दत्तम् । अनया दक्षिणयोत्पाटयत इति । तस्य तु कर्मणावश्यं विपक्तव्यं । पुरुषो हि विकृतरूपोष्टादशभिर्दौर्वर्णिकैः ( अ-अव् 114 ) समन्वागतो ऽभ्यागतः । स कथयति । अहमुत्पाटयिष्यामीति । यावत् कुनालस्य समीपं नीतः । तस्मिंश्च समये कुनालस्य स्थविराणां वचनमामुखीभूतं । स तद् वचनमनुस्मृत्योवाच ।
इमां विपत्तिं विज्ञाय तैरुक्तं तत्त्ववादिभिः ।
पश्यानित्यमिदं सर्वं नास्ति कश्चिद् ध्रुवे स्थितः ॥
कल्याणमित्रास्ते मह्यं सुखकामा हितैषिणः ।
यैरयं देशितो धर्मो वीतक्लेशैर्महात्मभिः ॥
अनित्यतां संपरिपश्यतो मे गुरूपदेशान् मनसि प्रकुर्वतः ।
उत्पाटने ऽहं न बिभेमि सौम्य नेत्रद्वयस्यास्थिरतां हि पश्ये ॥
उत्पाट्ये वा न वा नेत्रे यथा वा मन्यते नृपः ।
गृहीतसारं चक्षुर्मे ह्यनित्यादिभिराश्रयैः ॥
ततः कुनालस् तं पुरुषमुवाच । तेन हि भोः पुरुष एकं तावन् नयनम् उत्पाट्य मम हस्ते ऽनुप्रयच्छ । यवत् स पुरुषः कुनालस्य नयनमुत्पाटयितुं प्रवृत्तः । ततो ऽनेकानि प्राणिशतसहस्राणि विक्रोष्टुमारब्धानि । कष्टं भोः ।
एष हि निर्मलज्योत्स्नो गगनात् पतते शशी ।
पुण्डरीकवनाच्चापि श्रीमानुत्पाट्यते ऽम्बुजः ॥
तेषु प्राणिशतसहस्रेषु रुदत्सु कुनालस्यैव नयनमुत्पाट्य हस्ते दत्तं । ततः कुनालस्तन्नयनं गृह्योवाच ।
रूपाणि कस्मान्न निरीक्षसे त्वं यथा पुरा प्राकृतमांसपिण्ड ।
ते वञ्चितास्ते च विगर्हणीया आत्मेति ये त्वामबुधाः श्रयन्ते ॥
सामग्र्यकं बुर्बुदसन्निकाशं सुदुर्लभं निर्विषयास्वतन्त्रं ।
एवं प्रवीक्षन्ति सदाप्रमत्ता ये त्वां न ते दुःखमनुप्रयान्ति ॥
एवं चिन्तयता तेन सर्वभावेष्वनित्यतां ।
स्त्रोतापत्तिफलं प्राप्तं जनकायस्य पश्यतः ॥
ततः कुनालो दृष्टसत्यस्तं पुरुषमुवाच । इदानीं द्वितीयं विश्रब्धं नयनमुत्पाट्यतां । यावत्तेन पुरुषेण कुनालस्य द्वितीयं नयनमुत्पाट्य हस्ते दत्तं । अथ कुनालो मांसचक्षुषि उद्धृते प्रज्ञाचक्षुषि च विशुद्धे कथयति ।
उद्धृतं मांसचक्षुर्मे यद्यप्येतत् सुदुर्लभं ।
प्रज्ञाचक्षुर्विशुद्धं मे प्रतिलब्धम् अनिन्दितं ।
परित्यक्तो नृपतिना यद्यहं पुत्रसंज्ञया ।
धर्मराजस्य पुत्रत्वमुपेतो ऽस्मि महात्मनः ॥
ऐश्वर्याद् यद्यहं भ्रष्टः शोकदुःखनिबन्धनाद् ।
धर्मैश्वर्यमवाप्तं मे दुःखशोकविनाशनं ॥
यावत् कुनालेन श्रुतं नायं तातस्याशोकस्य आदेशः । अपि तु तिष्यरक्षितायां अयं प्रयोग इति । श्रुत्वा च कुनालः कथयति ।
चिरं सुखं तिष्ठतु तिष्यनाम्नी आयुर्बलं पालयतां च देवी ।
संप्रेषितोयं हि यया प्रयोगो यस्यानुभावेन कृतः स्वकार्थः ॥
ततः काञ्चनमालया श्रुतं कुनालस्य नयनानि उत्पाटितानीति । श्रुत्वा च भर्तृतया कुनालसमीपमुपसंक्रम्य पर्षदमवगाह्य कुनालमुद्धृतनयनं रुधिरावसिक्तगात्रं दृष्ट्वा मूर्छिता भूमौ पतिता । यावज् जलसेकं कृत्वा उत्थापिता ।
ततः कथंचित् संज्ञामुपलभ्य सस्वरं प्ररुदती उवाच ।
नेत्राणि कान्तानि मनोहराणि ये मां निरीक्ष्या जनयन्ति तुष्टिं ।
ते मे विपन्ना ह्यनिरीक्षणीया स्त्यजन्ति मे प्राणसमाः शरीरं ॥
ततः कुनालो भार्यामनुनयन्नुवाच । अलं रुदितेन । नार्हसि शोकमाश्रयितुं । स्वयंकृतानामिह कर्मणां फलमुपस्थितं । आह च ।
कर्मात्मकं लोकमिदं विदित्वा दुःखात्मकं चापि जनं हि मत्वा ।
मत्वा च लोकं प्रियविप्रयोगं कर्तुं प्रिये नार्हसि वाष्पमोक्षं ॥
ततः कुनालो भार्यया सह तक्षशिलाया निष्कासितः । स गर्भाधानमुपादाय परमसुकुमारशरिरः । न किञ्चिद् उत्सहते कर्म कर्तुं । केवलं वीणां वादयति । गायति च । ततो भैक्ष्यं लभते कुनालः पत्न्या सह भुंक्ते ।
ततः काञ्चनमाला येन मार्गेण पातलिपुत्रादानीता तमेव मार्गंमनुसरन्ती भर्तुद्वितीया पाटलिपुत्रं गता । यावदशोकस्य गृहमारब्धा प्रवेष्टुं । द्वारपालेन च निवारितौ । यावद् राज्ञो ऽशोकस्य यानशालायामवस्थितौ ।
ततः कुनालो रात्र्याः प्रत्युषमये वीणां वादयितुमारब्धः । यथा नयनान्युत्पाटितानि सत्यदर्शनं च कृतं तदनुरूपं हितं च गीतं प्रारब्धं । आह च ।
चक्षुरादीनि यः प्राज्ञः पश्यत्यायतनानि च ।
ज्ञानदीपेन शुद्धेन स संसाराद् विमुच्यते ॥
यदि तव भवदुःखपीडिता भवति च दोषविनिश्चिता मतिः ।
सुखमिह च यदीच्छसि ध्रुवं त्वरितमिहायतनानि संत्यज ॥
तस्य गीतशब्दो राज्ञाशोकेन श्रुतः । श्रुत्वा च प्रीतमना उवाच ।
गीतं कुनालेन मयि प्रसक्तं वीणास्वरश्चैव श्रुतश्चिरेण ।
अभ्यागतो ऽपीह गृहं नु कञ्चिन् न चेच्छति द्रष्टुमयं कुमारः ॥
अथ राजाशोको ऽन्यतमपुरुषमाहूयोवाच । पुरुष लक्ष्यते ।
न खल्वेष किं गीतस्य कुनालसदृशो ध्वनिः ।
कर्मण्यधैर्यतां चैव सूचयन्निव लक्ष्यते ॥
तदनेनास्मि शब्देन धैर्यादाकम्पितो भृशं ।
कलभस्येव नष्टस्य प्रनष्टकलभः करी ॥
गच्छ कुनालमानयस्वेति । यावत् पुरुषो यानशालां गतः । पश्यति कुनालम् उद्धृतनयनं वातातपपरिदग्धगात्रमप्रत्यभिज्ञाय च राजानमशोकम् अभिगम्योवाच । देव न ह्येष कुनालः । अन्धक एष वनीपकः पत्न्या सह देवस्य यानशालायाम् अवस्थितः । श्रुत्वा च राजा संविग्नश्चिन्तयामास । यथा मया स्वप्नान्यशोभनानि दृष्टानि नियतं कुनालस्य नयनानि विनष्टानि भविष्यन्ति । आह च ।
स्वप्नान्तरे निमित्तानि यथा दृष्टानि मे पुरा ।
निःसंशयं कुनालस्य नेत्रे वै निधनं गते ॥
ततो राजा प्ररुदन्नुवाच ।
शीघ्रमानीयतामेष मत्समीपं वनीपकः ।
न हि मे शाम्यते चेतः सुतव्यसनचिन्तया ॥
यावत् पुरुषो यानशालां गत्वा कुनालमुवाच । कस्य त्वं पुत्रः । किं च नाम । कुनालः प्राह ।
अशोको नाम राजासौ मौर्याणां कुलवर्धनः ।
कृत्स्नेयं पृथिवी यस्य वशे वर्तति किंकर ॥
तस्य राज्ञस्त्वहं पुत्रः कुनाल इति विश्रुतः ।
धार्मिकस्य तु पुत्रो ऽहं बुद्धस्य आदित्यबान्धवः ॥
ततः कुनाल पत्न्या सह राज्ञो ऽशोकस्य समीपमानीतः । अथ राजाशोकः [पश्यति] कुनालमुद्धृतनयनं वातातपपरिदग्धगात्रं रथ्याचोडकसंघातप्रत्यवरेण वाससा लक्ष्यालक्ष्यप्रच्छादितकौपीनं । स तमप्रत्यभिज्ञाय आकृतिमात्रकं दृष्ट्वा कथयति । त्वं कुनाल इति । कुनालः प्राह । एवं देव कुनालो ऽस्मीति । श्रुत्वा मूर्च्छितो भूमौ पतितः । वक्ष्यति हि ।
ततः कुनालस्य मुखं निरीक्ष्य नेत्रोद्धृतं शोकपरीतचेताः ।
राजा ह्यशोकः पतितो धरण्यां हा पुत्र शोकेन हि दह्यमानः ॥
यावज् जलपरिषेकं कृत्वा राजानमुत्थापयित्वासने निषादितः । अथ राजा कथञ्चित् संज्ञामुपलभ्य कुनालमुत्सङ्गे स्थापयामास । वक्ष्यति हि ।
ततो मुहूर्तं नृप आश्वसित्वा कण्ठे परिष्वज्य रसाश्रुकण्ठः ।
मुहुः कुनालस्य मुखं प्रमृज्य बहूनि राजा विललाप तत्र ॥
नेत्रे कुनालप्रतिमे विलोक्य सुतं कुनालेति पुरा बभासे ।
तदस्य नेत्रे निधनं गते ते पुत्रं कुनालेति कथं च वक्ष्ये ॥
आह च ।
कथय कथय साधुपुत्र तावद् वदनमिदं तव केन चारुनेत्रं ।
गगनमिव विपन्नचन्द्रतारं व्यपगतशोभम् अनीक्षकं कृतं ते ॥
अकरुणहृदयेन तेन तात मुनिसदृशस्य न साधु साधुबुद्धेः ।
नरवरनयनेष्ववैरवैरं प्रकृतमिदं मम भूरिशोकमूलं ॥
वद सुवदन क्षिप्रमेतदर्थं व्रजति शरीरमिदं पुरा विनाशं ।
तव नयनविनाशशोकदग्धं वनमिव नागविमुक्तवज्रदग्धं ॥
ततः कुनालः पितरं प्रणिपत्य उवाच ।
राजन्नतीतं खलु नैव शोच्यं किं न श्रुतं ते मुनिवाक्यम् एतत् ।
यत्कर्मभिस्ते ऽपि जिना न मुक्ताः प्रत्येकबुद्धाः सुदृढैस्तथैव ॥
लब्धाफलस्थाश्च पृथग्जनाश्च ये कृतानि कर्माण्यमृतानि देहिनां ।
स्वयं कृतानामिह कर्मणां फलं कथं तु वक्ष्यामि परैरिदं कृतं ॥
अहमेव महाराज कृतापराधश्च सापराधश्च । विनिवर्तयामि यो ऽहं विनयामि विपत्तिजननानि ।
न शस्त्रवज्राग्निविषाणि पन्नगाः कुर्वन्ति पीडां रभसापकारिणः ।
शरीरलक्ष्ये हि धृते हि पार्थिव पतन्ति दुःखान्यशिवानि देहिनां ॥
अथ राजा शोकाग्निना संतापितहृदय उवाच ।
केनोद्धृतानि नयनानि सुतस्य मह्यं को जीवितं सुमधुरं त्यजितुं व्यवस्तः ।
शोकानलो निपतितो हृदये प्रचण्डः आचक्ष्व पुत्र लघु कस्य हरामि दण्डं ॥
यावद् राज्ञाशोकेन श्रुतं तिष्यरक्षिताया अयं प्रयोग इति । श्रुत्वा राजा तिष्यरक्षितामाहूयोवाच ।
कथं ह्यधन्ये न निमज्जसे क्षितौ छेत्तास्मि शीर्षं परशुप्रहारितं ।
त्यजाम्यहं त्वामतिपापकारिणीम् अधर्मयुक्तां श्रियमात्मवानिव ॥
ततो राजा क्रोधाग्निना प्रज्वलितस्तिष्यरक्षितां निरीक्ष्योवाच ।
उत्पाट्य नेत्रे परिपाटयामि गात्रं किमस्या नखरैः सुतीक्ष्णैः ।
जीवन्तिशूलामथ कारयामि छेत्तास्मि नासां क्रकचेन वास्याः ॥
क्षूरेण जिव्हामथ कर्तयामि विषेण पूर्णामथ घाटयिष्ये ।
स एवमित्यादिवघप्रयोगं बहुप्रकारं ह्यवदन्नरेन्द्रः ॥
श्रुत्वा कुनालः करुणात्मकस्तु विज्ञापयामास गुरुं महात्मा ।
अनार्यकर्मा यदि तिष्यरक्षिता त्वमार्यकर्मा भव मा वधी स्त्रियं ॥
फलं हि मैत्र्या सदृशं न विद्यते प्रभो तितिक्षा सुगतेन वर्णिता ।
पुनः प्रणम्य पितरं कुमारः कृताञ्जलिः सूनृतवाग् जगाद ॥
राजन्न मे दुःखलवो ऽस्ति कश्चित् तीव्रापकारे ऽपि न मन्युतापः ।
मनः प्रसन्नं यदि मे जनन्यां ययोद्धृते मे नयने स्वयं हि ।
तत्तेन सत्येन ममास्तु तावन् नेत्रद्वयं प्राक्तनमेव सद्यः ॥
इत्युक्तमात्रे पूर्वाधिकप्रशोभिते नेत्रयुग्मे प्रादुर्बभूवतुः । यावद् राज्ञाशोकेन तिष्यरक्षितामर्षितेन जतुगृहं प्रवेशयित्वा दग्धा । तक्षशिलाश्च पौराः प्रघातिताः ।
भिक्षवः संशयजाताः सर्वसंशयछेत्तारमायुष्मन्तं स्थविरोपगुप्तं पृच्छति । किं कुनालेन कर्म कृतं यस्य कर्मणो विपाकेन नयनान्युत्पाटितानि ।
स्थविर उवाच । तेन ह्यायुष्मन्तः श्रूयतां ।
भूतपूर्वमतीते ऽध्वनि वाराणस्यामन्यतमो लुब्धकः । स हिमवन्तं गत्वा मृगान् प्रघातयति । सो ऽपरेण समयेन हिमवन्तं गतः । तत्र चाशनिपतितानि पञ्चमृगशतनि एकस्या गुहायां प्रविष्टान्यासादितानि । तेन वागुरया सर्वे गृहीताः । तस्य बुद्धिरुत्पन्ना । यदि ( अ-अव् 124 ) प्रघातयिष्यामि मांसः क्लेदमुपयास्यति । तेन पञ्चानां मृगशतानामक्षीण्युत्पाटितानि । ते उद्धृतनयना न क्वचित् पलायन्ति । एवं बहूनां मृगशतानां नयनान्युत्पाटितानि ।
किं मन्यध्वमायुष्मन्तः । यो ऽसौ लुब्धकः स एष कुनालः । यत्तत्रानेन बहूनां मृगशतानां नयनान्युत्पाटितानि तस्य कर्मणो विपाकेन बहूनि वर्षशतसहस्राणि नरकेषु दुःखमनुभूय ततः कर्मविशेषेण पञ्चजन्मशतानि तस्य नयनान्युत्पाटितानि ।
किं कर्म कृतं यस्य कर्मणो विपाकेनोच्चे कूले उपपन्नः । प्रासादिकश्च संवृत्तः । सत्यदर्शनं च कृतं ।
तेन ह्यायुष्मन्तः श्रूयतां ।
भूतपूर्वमतीते ऽध्वनि चत्वारिंशद्वर्षसहस्रायुषि प्रजायां क्रकुच्छन्दो नाम सम्यक्सम्बुद्धो लोक उदपादि ।
यदा क्रकुच्छन्दः सम्यक्सम्बुद्धः सकलं बुद्धकार्यं कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः, तस्याशोकेन राज्ञा चतूरत्नमयः स्तूपः कारितः । यदा राजाशोकः कालगतो ऽश्राद्धो राजा राज्ये प्रतिष्ठितः । तानि रत्नान्यदत्तादायिकैर्हृतानि । पांशुकाष्ठं चावशिष्टं । तत्र जनकायो गत्वा विशीर्णं दृष्ट्वा शोचितुमारब्धः ।
तस्मिंश्च समयेन्यतमश्च श्रेष्ठिपुत्रः । तेनोक्तः । किमर्थं रुद्यत इति । तैरभिहितं क्रकुच्छन्दस्य सम्यक्सम्बुद्धस्य स्तूपश्चतूरत्नमय आसीत् । स इदानीं विशीर्णं इति ।
ततस्तेन या तत्र क्रकुच्छन्दस्य सम्यक्सम्बुद्धस्य कायप्रमाणिका प्रतिमा बभूव विशीर्णा साभिसंस्कृता । सम्यक्प्रणिधानं च कृतं । यादृशः क्रकुच्छन्दः शास्तेदृशमेव शास्तारमारागयेयं । मा विरागयेयमिति ।
किं मन्यध्वमायुष्मन्तः । यो ऽसौ श्रेष्ठिपुत्रः स एष कुनालः । यत्रानेन क्रकुच्छन्दस्य स्तूपो ऽभिसंस्कृतस्तस्य कर्मणो विपाकेनोच्चकुले उपपन्नः । यत् प्रतिमाभिसंस्कृता तस्य कर्मणो विपाकेन कुनालः प्रासादिकः संवृत्तः । यत् प्रणिधानं कृतं तस्य कर्मणो विपाकेन कुनालेन [यादृशः] शाक्यमुनिः सम्यक्सम्बुद्धस्तादृश एव शास्ता समारागितो न विरागितः । सत्यदर्शनं च कृतं ।
इति श्रीदिव्यावदाने कुनालावदनं सप्तविंशतिमं समाप्तं ॥
अशोकावदानं
यदा राज्ञाशोकेन भगवच्छासने श्रद्धा प्रतिलब्धा स भिक्षून् उवाच । केन भगवच्छासने प्रभूतं दानं दत्तं । भिक्षव ऊचुः । अनाथपिण्डदेन गृहपतिना । राजाह । कियत्तेन भगवच्छासने दानं दत्तं । भिक्षव ऊचुः । कोटिशतं तेन भगवच्छासने दानं दत्तं । श्रुत्वा च राजाशोकश्चिन्तयति । तेन गृहपतिना भूत्वा कोटिशतं भगवच्छासने दानं दत्तं । तेनाभिहितं । अहमपि कोटीशतं भगच्छासने दानं दास्यामि ।
तेन यावच् चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितं । सर्वत्र च शतसहस्राणि दत्तानि । जातौ बोधौ धर्मचक्रे परिनिर्वाणे च सर्वत्र शतसहस्रं दत्तं । पञ्चवार्षिकं कृतं । तत्र च चत्वारि शतसहस्राणि दत्तानि । त्रीणि शतसहस्राणि भिक्षूणां भोजितानि । यत्रैकमर्हतां द्वे शैक्षाणां पृथग्जनकल्याणकानां च । कोषं स्थापयित्वा महापृथिवीमन्तःपुरामात्यगणमात्मानं कुनालं चार्यसङ्घे निर्यातयित्वा चत्वारि शतसहस्राणि दत्त्वा निष्क्रीतवान् । षण्णवतिकोट्यो भगवच्छासने दानं दत्तं । स यावद् ग्लानीभूतः । अथ राजा इदानीं न भविष्यामीति विक्लवीभूतः ।
तस्य राधगुप्तो नामामात्यो येन सह पांशुदानं दत्तं । तदा स राजानमशोकं विक्लवीभूतमवेक्ष्य पादयोर्निपत्य कृताञ्जलिरुवाच ।
यच्छत्रुसङ्घैः प्रबलैः समेत्य नोद्वीक्षितं चण्डदिवाकराभं ।
पद्माननश्रीशतसंप्रपीतं कस्मात् सवाष्पं तव देव वक्त्रं ॥
राजाह । राधगुप्त, नाहं द्रव्यविनाशं न राज्यनाशनं न चाश्रयवियोगं शोचामि । किन्तु शोचामि, आर्यैर्यद्, विप्रयोक्ष्यामि ।
नाहं पुनः सर्वगुणोपपन्नं सङ्घं समक्षं नरदेवपूजितं ।
संपूजयिष्यामि वरान्नपानैर् एतद् विचिन्त्याश्रुविमोक्षणं मे ॥
अपि च राधगुप्त, अयं मे मनोरथो बभूव, कोटीशतं भगवच्छासने दानं दास्यामीति । स च मे ऽभिप्रायो न परिपूर्णः ।
ततो राज्ञाशोकेन चतस्रः कोटीः परिपुरयिष्यामीति हिरण्यसुवर्णं कुक्कुटारामं प्रेषयितुमारब्धः ।
तस्मिंश्च समये कुनालस्य संपदी नाम पुत्रो युवराज्ये प्रवर्तते । तस्यामात्यैर् अभिहितं । कुमार अशोको राजा स्वल्पकालवस्थायी । ( अ-अव् 128 ) इदं च द्रव्यं कुक्कुटारामं प्रेष्यते । कोशबलिनश्च राजानः । निवारयितव्यः ।
यावत्कुमारेण भाण्डागारिकः प्रतिषिद्धः । यदा राज्ञो ऽशोकस्याप्रतिषिद्धा [सम्पत्] तस्य सुवर्णभाजने आहारमुपनाम्यते । भुक्त्वा तानि सुवर्णभाजनानि कुक्कुटारामं प्रेषयति ।
तस्य सुवर्णभाजनं प्रतिषिद्धं । रूप्यभाजने आहारमुपनाम्यते । तान्यपि कुक्कुटारामं प्रेषयति । ततो रूप्यभाजनमपि प्रतिषिद्धं । तस्य यावन् मृभ्दाजन आहारमुपनाम्यते ।
तस्मिंश्च समये राज्ञो ऽशोकस्यार्धामलकं करान्तरगतं । अथ राजाशोकः संविग्नः अमात्यान् पौरांश्च संनिपात्य कथयति । कः साम्प्रतं पृथिव्यामीश्वरः ।
ततो ऽमात्या उत्थायासनाद् येन राजाशोकस्तेनाञ्जलिं प्रणम्य ऊचुः । देव पृथिव्यामीश्वरः । अथ राजा अशोकः साश्रुदुर्दिननयनवदनो ऽमात्यान् उवाच ।
दाक्षिण्यादनृतं हि किं कथयथ भ्रष्टाधिराज्या वयं
शेषं त्वामलकार्धमित्यवसितं यत्र प्रभुत्वं मम ।
ऐश्वर्यं धिगनार्यमुद्धतनदीतोयप्रवेशोपमं
मर्त्येन्द्रस्य ममापि यत् प्रतिभयं दारिद्र्यमभ्यागतं ॥
अथवा को भगवतो वाक्यमन्यथा करिष्यति । सम्पत्तयो हि सर्वा विपत्तिनिदाना इति प्रतिज्ञातं यदवितथवादिना गौतमेन न हि तद् विसंवदति । प्रतिशिष्यते ऽस्मन्नचिराज्ञा मम यावतिथा मनसा साद्य महाद्रिशिलातले विहतावन् नदी प्रतिनिवृत्ता ।
आज्ञाप्य व्यवधूतडिम्बडमराम् एकातपत्रां महीं
उत्पाट्य प्रतिगर्वितानरिगणान् आश्वास्य दीनातुरान् ।
भ्रष्टास्थायतनो न भाटि कृपणः संप्रत्यशोको नृपश्
छिन्नम्लानविशीर्णपत्रकुसुमः शुष्यत्यशोको यथा ॥
ततो राजाशोकः समीपगतं पुरुषमाहूयोवाच । भद्रमुख पूर्वगुणानुरागाद् भ्रष्टैश्वर्यस्यापि मम इमं तावद् अपश्चिमं व्यापारं कुरु । इदं ममार्धामलकं ग्रहाय कुक्कुटारामं गत्वा सङ्घे निर्यातय । मद्वचनाच्च सङ्घस्य पादाभिवन्दनं कृत्वा वक्तव्यं ।
जम्बुद्वीपैश्वर्यस्य राज्ञ एष साम्प्रतं विभव इति । इदं तावद् अपश्चिमं दानं तथा परिभोक्तव्यं यथा मे सङ्घगता दक्षिणा विस्तीर्णा स्यादिति । आह च ।
इदं प्रदानं चरमं ममाद्य राज्यं च तच्चैव गतं स्वभावं ।
आरोग्यवैद्योषधिवर्जितस्य त्राता न मे ऽस्त्यार्यगणाद् बहिर्धा ॥
तत्तथा भुज्यतां येन प्रदानं मम पश्चिमं ।
यथा सङ्घगता मे ऽद्य विस्तीर्णा दक्षिणा भवेत् ॥
एवं देवेति स पुरुषो राज्ञो ऽशोकस्य प्रतिश्रुत्य तदर्धामलकं गृह्य कुक्कुटारामं गत्वा वृद्धान्ते स्थित्वा कृताञ्जलिस्तदर्धामलकं सङ्घे निर्यातयन्नुवाच ।
एकच्छत्रसमुच्छ्रयां वसुमतीमाज्ञापयन् यः पुरा
लोकं तापयति स्म मध्यदिवसप्राप्तो दिवा भास्करः ।
भाग्यच्छिद्रमवेक्ष्य सो ऽद्य नृपतिः स्वैः कर्मभिर्वञ्चितः
संप्राप्ते दिवसक्षये रविरिव भ्रष्टप्रभावः स्थितः ॥
भक्त्यावनतेन शिरसा प्रणम्य सङ्घाय तेन खलु दत्तमिदमामलकस्यार्धं लक्ष्मीचापल्यचिन्हितं । ततः सङ्घस्थविरो भिक्षूनुवाच । भदन्ता भवभ्दिः शक्यमिदानीं संवेगमुत्पादयितुं । कुतः । एवं ह्युक्तं भगवता- परविपत्तिः संवेजनीयं स्थानमिति । कस्येदानीं सहृदयस्य संवेगो नोत्पाद्यते । कुतः ।
त्यागशूरो नरेन्द्रो ऽसौ अशोको मोर्यकुञ्जरः ।
जन्बुद्विपेश्वरो भूत्वा जातो ऽर्धामलकेश्वरः ॥
भृत्यैः स भूमिपतिरद्य हृताधिकारो
दानं प्रयच्छति किलामलकार्धमेतत् ।
श्रीभोगविस्तरमदैरतिगर्वितानां
प्रत्यादिशन्निव मनांसि पृथग्जनानां ॥
यावद् तदर्धामलकं चुर्णयित्वा यूषे प्रक्षिप्य सङ्घे चारितं ।
ततो राजाशोको राधगुप्तमुवाच । कथय राधगुप्त कः साम्प्रतं पृथिव्यामीश्वरः ।
अथ राधगुप्तो ऽशोकस्य पादयोर्निपत्य कृताञ्जलिर् उवाच । देवः पृथिव्यामीश्वरः ।
अथ राजाशोकः कथंचिदुत्थाय चतुर्दिशमवलोक्य सङ्घायाञ्जलिं कृत्वोवाच ।
एष इदानीं महत् कोशं स्थापयित्वा इमां समुद्रपर्यन्तां महापृथिवीं भगवच्छ्रावकसङ्घे निर्यातयामि ।
आह च ।
इमां समुद्रोत्तमनीलकञ्चुकामनेकरत्नाकरभूषिताननां ।
ददाम्यहं भुतधरां समन्दरां सङ्घाय तस्मै ह्युपभुज्यतां फलं ॥
अपि च ।
दानेनाहमनेन नेन्द्रभवनं न ब्रह्मलोके फलं
काङ्क्षामि द्रुतवारिवेगचपलां प्रागेव राजश्रियं ।
दानस्यास्य फलं तु भक्तिमहितं यन्मे ऽस्ति तेनाप्नुयां
चित्तैश्वर्यमहर्यमार्यमहितं नायाति यद् विक्रियां ॥
यावत् पत्राभिलिखितं कृत्वा दन्तमुद्रया मुद्रितं । ततो राजा महापृथिवीं सङ्घे दत्त्वा कालगतः । यावदमात्यैर्नीलपीताभिः शिविकाभिर्निर्हरित्वा शरीरपूजां कृत्वा ध्मापयित्वा राजानं प्रतिष्ठापयिष्याम इति [उक्तम्] । यावद् राधगुप्तेनाभिहितं । राज्ञाशोकेन महापृथिवी सङ्घे निर्यातिता इति । ततो ऽमात्यैरभिहितं किमर्थमिति ।
राधगुप्त उवाच । एष राज्ञो ऽशोकस्य मनोरथो बभूव कोटीशतं भगवच्छासने दानं दास्यामीति । तेन षण्ण्वतिकोट्यो दत्ताः । यावद् आज्ञा प्रतिषिद्धा । तदभिप्रायेण राज्ञा महापृथिवी सङ्घे दत्ता ।
यावदमात्यैश्चतस्रः कोटीर् भगवच्छासने दत्त्वा पृथिवीं निष्क्रीय संपदी राज्ये प्रतिष्ठापितः ।
संपदिनो बृहस्पति पुत्रो बृहस्पते ऽर्वृषसेनो वृषसेनस्य पुष्यधर्मा पुष्यधर्मणः पुष्यमित्रः । सो ऽमात्यानामन्त्रयते । क उपायः स्याद् यदस्माकं नाम चिरं तिष्ठेद् ।
तैरभिहितं । देवस्य च वंशाद् अशोको नाम्ना राजा बभूवेति । तेन चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितं यावद् भगवच्छासनं प्राप्यते तावत् तस्य यशः स्थास्यति । देवो ऽपि चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापयतु ।
राजाह । महेशाख्यो राजाशोको बभूव । अन्यः कश्चिदुपाय इति । तस्य ब्राह्मणपुरोहितः पृथग्जनो ऽश्राद्धः । तेनाभिहितं । देव, द्वाभ्यां कारणाभ्यां नाम चिरं स्थास्यति । राज्ञाशोकेन चतुरशीतिधर्मराजिकासहस्रं स्थापितमतस्तस्य नाम चिरं तिष्ठति । भवांश्चेत् तानि नाशयेद् भवतो नाम चिरतरं स्थास्यतीति ।
यावद् राजा पुष्यमित्रश्चतुरङ्गबलकायं संनाहयित्वा भगवच्छासनं विनाशयिष्यामीति कुक्कुटारामं निर्गतः । द्वारे च सिंहनादो मुक्तः । यावत् स राजा भीतः पाटलिपुत्रं प्रविष्टः । एवं द्विरपि त्रिरपि । यावद् भिक्षूंश्च सङ्घमाहूय कथयति । भगवच्छासनं नाशयिष्यामीति । किम् इच्छथ स्तूपं सङ्घारामान् वा । स्तूपाः भिक्षुभिः ( अ-अव् 134 ) परिगृहीताः । यावत् पुष्यमित्रो यावत् सङ्घारामं [नाशयन्] भिक्षूंश्च प्रघातयन् प्रस्थितः ।
स यावच् छाकलमनुप्राप्तः । तेनाभिहितं । यो मे श्रमणशिरो दास्यति तस्याहं दीनारशतं दास्यामि । [तत्र एकः] धर्मराजिकावास्यऽर्हद् ऋद्ध्या शिरो दातुमारब्धः । श्रुत्वा च राजार्हन्तं प्रघातयितुमारब्धः । स च निरोधं समापन्नः । तस्य परोपक्रमो न क्रमते । स तं समुत्सृज्य यावत् कोष्ठकं गतः ।
दंष्ट्रानिवासी यक्षश्चिन्तयति । इदं भगवच्छासनं विनश्यति । अहं च शिक्षां धारयानि । न मया शक्यं कस्यचिदप्रियं कर्तुं । तस्य दुहिता कृमिशेन यक्षेण याच्यते । न चानुप्रयच्छति त्वं पापकर्मकारीति । यावत् सा दुहिता तेन कृमिशस्य दत्ता । भगवच्छासनपरित्राणार्थं परिग्रहपरिपालनार्थं च ।
पुष्यमित्रस्य राज्ञः पृष्ठतो यक्षो महाप्रमाणो ऽनुबद्धः । तस्यानुभावात् स राजा न प्रतिहन्यते । यावद् दंष्ट्रानिवासी यक्षस्तं पुष्यमित्रानुबद्धं ( अ-अव् 135 ) यक्षं ग्रहाय पर्वतचर्ये ऽचरत् । यावद् दक्षिणं महासमुद्रं गतः । कृमिशेन च यक्षेण महान्तं पर्वतमानयित्वा पुष्यमित्रो राजा सबलवाहनो ऽवष्टब्धः । तस्य सुनिहित इति संज्ञा व्यवस्थापिता । यदा पुष्यमित्रो राजा प्रघाततस्तदा मौर्यवंशः समुच्छिन्नः ।
इति श्रीदिव्यावदाने ऽशोकावदानं समाप्तं ॥
मूल पाठ: Aśokāvadāna · Edition: Sujitkumar Mukhopadhyaya: The Aśokāvadāna. New Delhi : Sahitya Akademi, 1963. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0