भाषा

ENहिગુ
ग्रंथ पाठ

आपत्तिदेशनाविधि · भाग 11

आपत्तिदेशनाविधिः
नमो बुद्धाय
"गुरवो महावज्रधरादजः, दशदिगवस्थिताश्च सर्वबुद्धबोधिसत्त्वाः माम् समन्वाहरन्तु । भदन्तो मां समन्वाहरतु । अहमेवंनामा अनादिसंसारात् प्रभृतिप्रत्युत्पन्नपर्यन्तं राग-द्वेष-मोहवशात् कायवाङ्मनसा दशाकुशलानि कृतवान्, पञ्चानन्तर्याणि, पञ्च तत्सभागानि, प्रातिमोक्षसंवरविरोधः, बोधिसत्त्वशिक्षाविरोधः, गुह्यमन्त्र-समयादि-विरोधः, समासतो ऽभ्युदय-निःश्रेयसविघ्नभूताः, संसारापायहेतुभूताश्च ये के ऽपि आपत्तिदोषराशयः (सन्ति) तान् सर्वान् गुरुवज्रधरादीनां, दशदिगवस्थितानां सर्वबुद्धबोधिसत्त्वानां, भदन्तस्य च अग्रतो देशयामि, आविष्करोमि, न प्रतिच्छादयामि । आविष्कृतेन मम स्पर्शविहारो भवति,अनाविष्कृतेन एवन्न भवती ति त्रिर्वदेत् ।
ततो दर्शन-संवर-पृच्छानन्तरम् "उपायं", "साधु" चेति वदेत् ।
प्रथमसंयोजनविधिः- एवन्नामाहं अनादिसंसारात् प्रभृति क्लेशबाहुल्यात् प्रमादादिवशाद् वा दोषापत्तिराशिबहुलः, तान् संघस्य अग्रतः प्रतिदेष्टुकामः, अतो ऽनुगृह्यताम् इति । अन्ते आपत्तित उद्धृतो ऽस्मीत्यतीव कृतज्ञो ऽस्मीति धर्मानुरुपकार्यम् अनुमोदये इति वदेत् ।
"आपत्तिदेशनाविधिः आचार्यदीपङ्करश्रीज्ञानविरचितः समाप्तः ।
तेनैव भारतीयोपाध्यायेन भोटीयलोकचक्षुषा भिक्षु-जयशीलेन च अनूद्य निर्णीतः ।

मूल पाठ: Āpattideśanāvidhi · Edition: Ramesh Chandra Negi, Atishavirachita Ekadasa grantha. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc