आपस्तम्बधर्मसूत्र · भाग 2133
अप्2.1.2.7। एतेन-अन्ये दोष.फलैः कर्मभिः परिध्वंसा दोष.फलासु योनिषु [जायन्ते वर्ण.परिध्वंसायाम् ।
अप्2.1.2.8। यथा चाण्डाल.उपस्पर्शने संभाषायां दर्शने च दोषस् तत्र प्रायश्चित्तम् ।
अप्2.1.2.9। अवगाहनम् अपाम् उपस्पर्शने संभाषायां ब्राह्मण.संभाषा दर्शने ज्योतिषां दर्शनम् ॥ ( = क् 9+10 )
अप्2.2.3.1। आर्याः [प्रयता वैश्वदेवे- ऽअन्न.संस्कर्तारः [स्युः ।
अप्2.2.3.2। भाषां कासं क्षवयुम्# इत्य् अभिमुखो- ऽअन्नं [वर्जयेत् । ( क् क्षवधुम् )
अप्2.2.3.3। केशान् अङ्गं वासश् च-आलभ्य-अप [उपस्पृशेत् ।
अप्2.2.3.4। आर्य.अधिष्ठिता[ वा शूद्राः संस्कर्तारः स्युः ।
अप्2.2.3.5। तेषां स एव-आचमन.कल्पः ।
अप्2.2.3.6। अधिकम् अहर् अहः केश.श्मश्रु.लोम.नख.वापनम् ।
अप्2.2.3.7। उदक.उपस्पर्शनं च सह वाससा ।
अप्2.2.3.8। अपि वा-अष्टमीष्व् एव पर्वसु वा [वपेरन्# । ( क् वपरेन् )
अप्2.2.3.9। परोक्षम् अन्नं [संस्कृतम् अग्नाव् [अधिश्रित्य-अद्भिः [प्रोक्षेत् । तद् देव.पवित्रम् इत्य् [आचक्षते ।
अप्2.2.3.10। [सिद्धे- ऽअन्ने [तिष्ठन् भूतम् इति स्वामिने [प्रब्रूयात् ।
अप्2.2.3.11। तत् [सु.भूतं विराड् अन्नं तन् मा [क्षायि-इति प्रतिवचनः ।
अप्2.2.3.12। गृहमेधिनोर्# यद् [अशनीयस्य होमा बलयश् च स्वर्ग.पुष्टि.[संयुक्ताः । ( क् गृहमेधिनो )
अप्2.2.3.13। तेषां मन्त्राणाम् उपयोगे द्वादश.अहम् अधः.शय्या ब्रह्म.चर्यं क्षार.लवण.वर्जनं च ।
अप्2.2.3.14। उत्तमस्य-एक.रात्रम् उपवासः ।
अप्2.2.3.15। बलीनां तस्य तस्य देशे संस्कारो हस्तेन [परिमृज्य-[अवोक्ष्य [न्युप्य पश्चात् परिषेचनम् ।
अप्2.2.3.16। औपासने पचने वा षड्भिर् [आद्यैः प्रतिमन्त्रं हस्तेन [जुहुयात् ।
अप्2.2.3.17। उभयतः परिषेचनं यथा पुरस्तात् ।
अप्2.2.3.18। एवं बलीनां देशे देशे [समवेतानां सकृत् सकृद् अन्ते परिषेचनम् ।
अप्2.2.3.19। [सति सु.उपसंसृष्टेन[ [कार्याः ।
अप्2.2.3.20। अपरेण-अग्निं सप्तम.अष्टमाभ्याम् उदग्.अपवर्गम् ।
अप्2.2.3.21। उद.धान.संनिधौ नवमेन ।
अप्2.2.3.22। मध्ये- ऽअगारस्य दशम.एकादशाभ्यां प्राग्.अपवर्गम् ।
अप्2.2.3.23। उत्तर.पूर्वदेशे#- ऽअगारस्य-उत्तरैश् चतुर्भिः ॥ ( क् उत्तर.पूर्वे देशे )
अप्2.2.4.1। शय्या.देशे काम.लिङ्गेन ।
अप्2.2.4.2। देहल्याम् अन्तरिक्ष.लिङ्गेन ।
अप्2.2.4.3। उत्तरेण-अपिधान्याम् ।
अप्2.2.4.4। उत्तरैर् ब्रह्म.सदने ।
अप्2.2.4.5। दक्षिणतः पितृ.लिङ्गेन प्राचीन.आवीत्य्.अवाचीन.पाणिः [कुर्यात् ।
अप्2.2.4.6। रौद्र उत्तरो यथा देवताभ्यः ।
अप्2.2.4.7। तयोर् नाना परिषेचनं धर्म.भेदात् ।
अप्2.2.4.8। नक्तम् एव-उत्तमेन वैहायसम् ।
अप्2.2.4.9। य एतान् अव्यग्रो यथा.उपदेशं [कुरुते नित्यः स्वर्गः पुष्टिश् च ।
अप्2.2.4.10। अग्रं च [देयम् ।
अप्2.2.4.11। अतिथीन् एव-अग्रे [भोजयेत् ।
अप्2.2.4.12। बालान् वृद्धान् रोग.संबन्धान् स्त्रीश् च-अन्तर्वत्नीः ।
अप्2.2.4.13। काले स्वामिनाव् अन्नार्थिनं न [प्रत्या.चक्षीयाताम् ।
अप्2.2.4.14। अभावे भूमिर् उदकं तृणानि कल्याणी वाग् इति ।# एतानि वै सतो- ऽअगारे न [क्षीयन्ते कदाचन-इति । ( क् ओम्. । )
अप्2.2.4.15। एवं.वृत्ताव् अनन्त.लोकौ [भवतः ।
अप्2.2.4.16। ब्राह्मणाय-अनधीयाअनाय-आसनम् उदकम् अन्नम् इति [देयम् ।# न [प्रत्युत्तिष्ठेत् । ( क् ओम्. । )
अप्2.2.4.17। अभिवादनाय-एव-उत्तिष्ठेद् [अभिवाद्यश् चेत् ।
अप्2.2.4.18। राजन्य.वैश्यौ च ।
अप्2.2.4.19। शूद्रम् [अभ्यागतं कर्मणि [नियुञ्ज्यात् । अथ-अस्मै [दद्यात् । ( = क् 19+20 )
अप्2.2.4.20। दासा वा राज.कुलाद् [आहृत्य-अतिथिवत्-शूद्रम् [पूजयेयुः । ( = क् 21 )
अप्2.2.4.21। नित्यम् उत्तरं वासः [कार्यम् । ( = क् 22 )
अप्2.2.4.22। अपि वा सूत्रम् एव-[उपवीतार्थे । ( = क् 23 )
अप्2.2.4.23। यत्र [भुज्यते तत् [समूह्य [निर्हृत्य-[अवोक्ष्य तं देशम् अमत्रेभ्यो लेपान् [संकृष्य-अद्भिः [संसृज्य-उत्तरतः शुचौ देशे रुद्राय [निनयेत् । एवं वास्तु शिवं [भवति । ( = क् 24 )
अप्2.2.4.24। ब्राह्मण आचार्यः [स्मर्यते तु । ( = क् 25 )
अप्2.2.4.25। आपदि ब्राह्मणेन राजन्ये वैश्ये वा-अध्ययनम् । ( = क् 26 )
अप्2.2.4.26। अनुगमनं च पश्चात् । ( = क् 27 )
अप्2.2.4.27। तत ऊर्ध्वं ब्राह्मण एव-अग्रे [गतौ [स्यात् ॥ ( =क् 28 )
अप्2.2.5.1। सर्व.विद्यानाम् अप्य् उपनिषदाम् [उपाकृत्य-अनध्ययनं तद् अहः ।
अप्2.2.5.2। [अधीत्य च-अविक्रमणं सद्यः ।
अप्2.2.5.3। यदि [त्वरेत गुरोः समीक्षायां स्वाध्यायम् [अधीत्य कामं गच्छेत् ।# एवम् उभयोः शिवं [भवति ॥ ( क् ओम्. । )
अप्2.2.5.4। [समावृत्तं चेद् आचार्यो- ऽ[अभ्यागच्छेत् तम् अभिमुखो- ऽ[अभ्यागम्य तस्य-[उपसंगृह्य न [बीभत्समान उदकम् [उपस्पृशेत् [पुरस्कृत्य-[उपस्थाप्य यथा.उपदेशं [पूजयेत् ।
अप्2.2.5.5। आसने शयने [भक्ष्ये [भोज्ये वाससि वा [संनिहिते निहीनतर.वृत्तिः [स्यात् ।
अप्2.2.5.6। [तिष्ठन् सव्येन पाणिना-[अनुगृह्य-आचार्यम् [आचमयेत् ।
अप्2.2.5.7। अन्यं वा [समुदेतम् ।
अप्2.2.5.8। स्थान.आसन.चङ्क्रमण.स्मितेष्व् [अनुचिकीर्षन् ।
अप्2.2.5.9। [संनिहिते मूत्रा.पुरीष.वात.कर्म-उच्चैर् भाषा.हास.ष्ठेवन#.दन्त.स्कवन.निःशृङ्खण.भ्रुक्षेपण.तालन.निष्ठ्यानि-इति । ( क् --.ष्ठीवन-- )
अप्2.2.5.10। दारे प्रजायां च-उपस्पर्शन.भाषा विस्रम्भ.पूर्वाः [परिवर्जयेत् ।
अप्2.2.5.11। वाक्येन वाक्यस्य [प्रतीघातम् आचार्यस्य [वर्जयेत् ।
अप्2.2.5.12। श्रेयसां च । ( 11+ 12 = क् 11 )
अप्2.2.5.13। सर्व.भूत.परीवाद.आक्रोशांश् च । ( = क् 12 )
अप्2.2.5.14। विद्यया च विद्यानाम् । ( = क् 13 )
अप्2.2.5.15। यया विद्यया न [विरोचेत पुनर् आचार्यम् [उपेत्य नियमेन [साधयेत् । ( = क् 14 )
अप्2.2.5.16। उपाकरणाद् आ-उत्सर्जनाद्#1 अध्यापयितुर् नियमः ।#2 लोम.संहरणं मांसं श्राद्धं मैथुनम् इति च [वर्जयेत् । ( = क् 15, 1: उपाकरणाद्या-उत्सर्जनाद् , 2: ओम्. । )
अप्2.2.5.17। ऋत्वे वा जायाम् । ( = क् 16 )
अप्2.2.5.18। यथा.आगमं शिष्येभ्यो विद्या.संप्रदाने नियमेषु च [युक्तः [स्यात् ।# एवं [वर्तमानः पूर्व.अपरान् संबन्धान् आत्मानं च क्षेमे [युनक्ति । ( = क् 17, ओम्. । )
अप्2.2.5.19। मनसा वाचा प्राणेन चक्षुषा श्रोत्रेण त्वक्.शिश्न.उदर.आरम्भनण.अनास्रावान् [परिवृञ्जानो- ऽअमृतत्वाय [कल्पते ॥ ( = क् 18 )
अप्2.3.6.1। जाति.आचार.संशये धर्म.अर्थम् [आगतम् अग्निम् [उपसमाधाय जातिम् आचारं च पृच्छेत् ।
अप्2.3.6.2। साधुतां चेत् [प्रतिजानीते- ऽअग्निर् उपद्रष्टा वायुर् उपश्रोता-आदित्यो- ऽअनुख्याता साधुतां#1 [प्रतिजानीते साधु-अस्मा [अस्तु वितथ एष एनस इत्य् [उक्त्वा [शास्तुं [प्रतिपद्येत#2 । ( क् 1:इन्सेत्स् चेत्, 2:प्रतिपद्यते )
अप्2.3.6.3। अग्निर् इव [ज्वलन्न् अतिथिर् [अभ्यागच्छति ।
अप्2.3.6.4। धर्मेण वेदानाम् एक.एकां शाखाम् [अधीत्य श्रोत्रियो [भवति ।
अप्2.3.6.5। [स्व.धर्म.युक्तं कुटुम्बिनम् [अभ्यागच्छति धर्म.पुरस्कारो न-अन्य.प्रयोजनः सो- ऽअतिथिर् [भवति ।
अप्2.3.6.6। तस्य पूजायां शान्तिः स्वर्गश् च ।
अप्2.3.6.7। तम् अभिमुखो- ऽअभ्यागम्य यथा.वयः [समेत्य तस्य-आसनम् [आहारयेत् ।
अप्2.3.6.8। शक्ति.विषये न-अबहु.पादम् आसनं [भवति-इत्य् एके ।
अप्2.3.6.9। तस्य पादौ [प्रक्षालयेत् ।# शूद्र.मिथुनाव् इत्य् एके ।(क् ओम्. । )
अप्2.3.6.10। अन्यतरो- ऽअभिषेचने [स्यात् ।
अप्2.3.6.11। तस्य-उदकम् [आहारयेन् मृन्मयेन#-इत्य् एके । ( क् मृण्.मयेन )
अप्2.3.6.12। न-उदकम् [आचारयेद्(आहारयेद्?)# [असमावृत्तः । ( क् आहारयेद् )
अप्2.3.6.13। अध्ययन.सांवृत्तिश् च-अत्र-अधिका ।
अप्2.3.6.14। [सान्त्वयित्वा [तर्पयेद् रसैर् भक्ष्यैर् अद्भिर् [अवरार्ध्येन*-इति । [*एद्. अवरार्घ्येन-]
अप्2.3.6.15। आवसथं [दद्याद् उपरि.शय्याम् उपस्तरणम् उपधानं स.अवस्तरणम् अभ्यञ्जनं च-इति ।
अप्2.3.6.16। अन्न.संस्कर्तारम् [आहूय व्रीहीन् यवान् वा तद्.अर्थान् [निर्वपेत् ।
अप्2.3.6.17। [उद्धृतान्य् अन्नान्य् [अवेक्षेत-इदं भूया3 इदा3म् इति ।
अप्2.3.6.18। भूय [उद्धर-इत्य् एव [ब्रूयात् ।
अप्2.3.6.19। [द्विषन् [द्विषतो वा न-अन्नम् [अश्नीयाद् दोषेण वा [मीमांसमानस्य [मीमांसितस्य वा ।
अप्2.3.6.20। पाप्मानं हि स तस्य [भक्षयति-इति [विज्ञायते ॥
अप्2.3.7.1। स एष प्राजापत्यः# कुटुम्बिनो यज्ञो नित्य.प्रततः[ । ( क् प्रजापत्यः )
अप्2.3.7.2। यो- ऽअतिथीनाम् अग्निः स आहवनीयो यः कुटुम्बे स गार्हपत्यो यस्मिन् [पच्यते सो- ऽअन्वाहार्यपचनः ।
अप्2.3.7.3। ऊर्जं पुष्टिं प्रजां पशून् इष्टा.पूर्तम् इति गृहाणाम् [अश्नाति यः पूर्वो- ऽअतिथेर् [अश्नाति ।
अप्2.3.7.4। पय.उपसेचनम् अन्नम् अग्निष्टोम.संमितं[ सर्पिषा-उक्थ्य.संमितं[ मधुना-अतिरात्र.संमितं[ मांसेन द्वादश.अह.संमितम्[ उदकेन प्रजा.वृद्धिर् आयुषश् च ।
अप्2.3.7.5। प्रिया अप्रियाश् च-अतिथयः स्वर्गं लोकं [गमयन्ति-इति [विज्ञायते ।
अप्2.3.7.6। स यत् प्रातर् मध्यंदिने सायम् इति [ददाति सवनान्य् एव तानि [भवन्ति ।
अप्2.3.7.7। यद् [अनुतिष्ठत्य् [उदवस्यत्य् एव तत् ।
अप्2.3.7.8। यत् [सान्त्वयतति# सा दक्षिणा प्रशंसा । ( क् सान्तवयति )
अप्2.3.7.9। यत् [संसाधयति ते विष्णु.क्रमाः ।
अप्2.3.7.10। यद् [उपावर्तते सो- ऽअवभृथः ।
अप्2.3.7.11। इति हि# ब्राह्मणम् । ( क् ओम्. हि )
अप्2.3.7.12। राजानं चेद् अतिथिर् [अभ्यागच्छेत्-श्रेयसीम् अस्मै पूजाम् आत्मनः [कारयेत् ।
अप्2.3.7.13। [आहित.अग्निं चेद् अतिथिर् [अभ्यागच्छेत् स्वयम् एनम् [अभ्युदेत्य [ब्रूयात् । व्रात्य क्व-अवात्सीर् इति । व्रात्य उदकम् इति । व्रात्य [तर्पयंस् त्व् इति ।
अप्2.3.7.14। पुरा-अग्निहोत्रस्य होमाद् उपांशु [जपेत् । व्रात्य यथा ते मनस् तथा-[अस्तु-इति । व्रात्य यथा ते वशस् तथा-[अस्तु-इति । व्रात्य यथा ते प्रियं तथा-[अस्तु-इति । व्रात्य यथा ते निकामस् तथा-[अस्तु-इति ॥
अप्2.3.7.15। यस्य-[उद्धृतेष्व् [अहुतेष्व् अग्निष्व् अतिथिर् [अभ्यागच्छेत् स्वयम् एनम् [अभ्युदेत्य [ब्रूयात् व्रात्य [अतिसृज [होष्यामि । इत्य् [अतिसृष्टेन [होतव्यम् । [अनतिसृष्टश् चेज्-[जुहुयाद् दोषं ब्राह्मणम् [आह ॥
अप्2.3.7.16। एक.रात्रं चेद् अतिथीन् [वासयेत् पार्थिवांल् लोकान् [अभिजयति द्वितीयया-अन्तरिक्ष्यांस् तृतीयया दिव्यांश् चतुर्थ्या परावतो लोकान् अपरिमिताभिर् [अपरिमितांल् लोकान् [अभिजयति-इति [विज्ञायते ।
अप्2.3.7.17। [असमुदेतश् चेद् अतिथिर् [ब्रुवाण [आगच्छेद् आसनम् उदकम् अन्नं श्रोत्रियाय [ददामि-इत्य् एव [दद्यात् । एवम् अस्य [समृद्धं [भवति ॥
अप्2.4.8.1। येन [कृत.आवसथः [स्याद् अतिथिर् न तं [प्रत्युत्तिष्ठेत् [प्रत्यवरोहेद् वा पुरस्तात्-चेद् [अभिवादितः ।
अप्2.4.8.2। शेषभोजी-अतिथीनां [स्यात् ।
अप्2.4.8.3। न रसान् गृहे [भुञ्जीत-अनवशेषम् अतिथिभ्यः ।
अप्2.4.8.4। न-आत्म.अर्थम् अभिरूपम् अन्नं [पाचयेत् ।
अप्2.4.8.5। गो.मधु.पर्क.अर्हो वेद.अध्यायः ।
अप्2.4.8.6। आचार्य ऋत्विक् स्नातको राजा वा धर्म[युक्तः ।
अप्2.4.8.7। आचार्याय-ऋत्विजे श्वशुराय राज्ञ इति परिसंवत्सराद् [उपतिष्ठद्भ्यो गौर् मधु.पर्कश् च ।
अप्2.4.8.8। दधि मधु.[संसृष्टं मधु.पर्कः पयो वा मधु.संसृष्टम्[ ।
अप्2.4.8.9। अभाव उदकम् ।
अप्2.4.8.10। षडङ्गो वेदः ।
अप्2.4.8.11। छन्दः कल्पो व्याकरणं ज्योतिषं निरुक्तं शीक्षा छन्दो.विचितिर् इति ।
अप्2.4.8.12। शब्द. अर्थ.आरम्भणानां तु कर्मणां समाम्नाय.समाप्तौ वेद.शब्दः । तत्र संख्या [विप्रतिषिद्धा ।
अप्2.4.8.13। अङ्गानां तु प्रधानैर् अव्यपदेश इति न्यायवित्.समयः ।
अप्2.4.8.14। अतिथिं [निराकृत्य यत्र [गते भोजने [स्मरेत् ततो [विरम्य-[उपोष्य ॥
अप्2.4.9.1। श्वो.भूते#1 यथा.मनसं#2 [तर्पयित्वा [संसाधयेत् । ( क् 1. श्वो भूते , 2.यथा.मानसं )
अप्2.4.9.2। यानवन्तम् आ यानात् ।
अप्2.4.9.3। यावत्-न-[अनुजानीयाद् इतरः ।
अप्2.4.9.4। अप्रतीभायां सीम्नो [निवर्तेत ।
अप्2.4.9.5। सर्वान् वैश्वदेवे भागिनः [कुर्वीत-आ श्व.चाण्डालेभ्यः# । ( क् श्व.चण्डालेभ्यः )
अप्2.4.9.6। न-[अनर्हद्भ्यो [दद्याद् इत्य् एके ।
अप्2.4.9.7। [उपेतः स्त्रीणाम् [अनुपेतस्य च-उच्छिष्टं [वर्जयेत् ।
अप्2.4.9.8। सर्वाण्य् उदक.पूर्वाणि दानानि ।
अप्2.4.9.9। यथा.श्रुति विहारे ।
अप्2.4.9.10। ये नित्या भाक्तिकास् तेषाम् अनुपरोधेन संविभागो [विहितः ।
अप्2.4.9.11। कामम् आत्मानं भार्यां पुत्रं वा-[उपरुन्ध्यान् न तु-एव दास.कर्म.करम् ।
अप्2.4.9.12। तथा च-आत्मनो- ऽअनुपरोधं [कुर्याद् यथा कर्मस्व्# असमर्थः# [स्यात् । ( क् कर्मसु समर्थस् )
अप्2.4.9.13अ। अथ-अप्य् [उदाहरन्ति । (श्) अष्टौ ग्रासा मुनेर् भक्षः# षोडश-अरण्यवासिनः । द्वात्रिंशतं गृहस्थस्य-[अपरिमितं ब्रह्मचारिणः ॥ ( क् भक्ष्याः )
अप्2.4.9.13ब्। (श्) आहित.अग्निर् अनड्वांश् च ब्रह्मचारी च ते त्रयः । [अश्नन्त एव [सिध्यन्ति न-एषां सिद्धिर् [अनश्नताम् इति ॥
अप्2.5.10.1। भिक्षणे निमित्तम् आचार्यो विवाहो यज्ञो माता.पित्रोर् बुभूर्षा-[अर्हतश् च नियम.विलोपः ।
अप्2.5.10.2। तत्र गुणान् [समीक्ष्य यथा.शक्ति [देयम् ।
अप्2.5.10.3। इन्द्रिय.प्रीत्य्.अर्थस्य तु भिक्षणम् अनिमित्तम् । न तद् [आद्रियेत ॥ ( = क् 3+4 )
अप्2.5.10.4। स्वकर्म ब्राह्मणस्य-अध्ययनम् अध्यापनम् यज्ञो याजनम् दानं प्रतिग्रहणम् दायाद् यं शिलोञ्छः# । ( = क् 5, सिलोञ्छः )
अप्2.5.10.5। अन्यत्-च-[अपरिगृहीतम् । ( = क् 6 )
अप्2.5.10.6। एतान्य् एव क्षत्रियस्य-अध्यापन.याजन.प्रतिग्रहणानि-इति [परिहाप्य दण्ड.युद्ध.अधिकानि । ( = क् 7 )
अप्2.5.10.7। क्षत्रियवद् वैश्यस्य दण्ड.युद्ध.वर्जं कृषि.गो.रक्ष्य.वाणिज्य.अधिकम् । ( = क् 8 )
अप्2.5.10.8। न-[अननूचानम् ऋत्विजं [वृणीते न पणमानम्# । ( = 9, --.माणम् )
अप्2.5.10.9। [अयाज्यो- ऽ[अनधीयानः । ( = क् 10 )
अप्2.5.10.10। युद्धे तद् योगा यथा.उपायम् [उपदिशन्ति तथा [प्रतिपत्तव्यम् । ( = क् 11 )
अप्2.5.10.11। [न्यस्त.आयुध.प्रकीर्ण.केश.प्राञ्जलि.[पराङ्.आवृत्तानाम् आर्या वधं [परिचक्षते । ( = क् 12 )
अप्2.5.10.12। शास्त्रैर् [अधिगतानाम् इन्द्रिय.दौर्बल्याद् [विप्रतिपन्नानां [शास्ता निर्वेषम् [उपदिशेद् यथा.कर्म [यथा.उक्तम् । ( = क् 13 )
अप्2.5.10.13। तस्य चेत्-शास्त्रम् [अतिप्रवर्तेरन् रजानं [गमयेत् । ( = क् 14 )
अप्2.5.10.14। राजा पुरोहितं धर्म.अर्थ.कुशलम् । ( = क् 15 )
अप्2.5.10.15। स ब्राह्मणान् [नियुञ्ज्यात् । ( = क् 16 )
अप्2.5.10.16। बल.विशेषेण वध.दास्य.वर्जं नियमैर् [उपशोषयेत् ॥ ( = क् 17 )
अप्2.5.11.1। इतरेषां वर्णानाम् आ प्राण.विप्रयोगात् [समवेक्ष्य तेषां कर्माणि राजा दण्डम् [प्रणयेत् ।
अप्2.5.11.2। न च संदेहे दण्डं [कुर्यात् ।
अप्2.5.11.3। [सु.विचितं [विचित्य-आ दैव.प्रश्नेभ्यो राजा दण्डाय [प्रतिपद्येत ।
अप्2.5.11.4। एवं.वृत्तो[ राजा-उभौ लोकाव् [अभिजयति ।
अप्2.5.11.5। राज्ञः पन्था ब्राह्मणेन-[असमेत्य ।
अप्2.5.11.6। समेत्य तु ब्राह्मणस्य-एव पन्थाः ।
अप्2.5.11.7। यानस्य भार.अभिनिहितस्य-अतुरस्य[ स्त्रिया इति सर्वैर् [दातव्यः ।
अप्2.5.11.8। वर्ण.ज्यायसां च-इतरैर् वर्णैः ।
अप्2.5.11.9। [अशिष्ट.पतित.मत्त.उन्मत्तानाम् आत्म.स्वस्ति.अयन.अर्थेन सर्वैर् एव [दातव्यः ।
अप्2.5.11.10। धर्म.चर्यया जघन्यो वर्णः पूर्वं पूर्वं वर्णम् [आपद्यते जाति.[परिवृत्तौ ।
अप्2.5.11.11। अधर्म.चर्यया पूर्वो वर्णो जघन्यं जघन्यं वर्णम् [आपद्यते जाति.परिवृत्तौ ।
अप्2.5.11.12। धर्म.प्रजा.संपन्ने[ दारे न-अन्यां [कुर्वीत ।
अप्2.5.11.13। अन्यतर.अभावे [कार्या प्राग् अग्न्याधेयात् ।
अप्2.5.11.14। आधाने हि [सती कर्मभिः [संबध्यते येषाम् एतद् अङ्गम् ।
अप्2.5.11.15। सगोत्राय दुहितरं न [प्रयच्छेत् ।
अप्2.5.11.16। मातुश् च योनि.संबन्धेभ्यः ।
अप्2.5.11.17। ब्राह्मे विवाहे बन्धु.शील#1.श्रुत.अरोग्याणि [बुद्ध्वा प्रजा.सहत्व#2.कर्मभ्यः [प्रतिपादयेत्-शक्ति.विषयेण-[अलंकृत्य । ( क् 1:इन्सेर्त्स् लक्षणसम्पन्न, 2:प्रजां सहत्व-- )
अप्2.5.11.18। आर्षे दुहितृमते मिथुनौ गावौ [देयौ ।
अप्2.5.11.19। दैवे यज्ञ.तन्त्र ऋत्विजे [प्रतिपादयेत् ।
अप्2.5.11.20। मिथः कामात् [सांवर्तेते स गान्धर्वः ॥
अप्2.5.12.1। शक्ति.विषयेण द्रव्याणि [दत्वा# [वहेरन्# स आसुरः । ( क् दत्वा-आवहेरन् )
अप्2.5.12.2। दुहितृमतः [प्रोथयित्वा# [वहेरन्# स राक्षसः । ( क् प्रोथयित्वा`आवहेरन् )
अप्2.5.12.3। तेषां त्रय आद्याः [प्रशस्ताः पूर्वः पूर्वः श्रेयान् ।
अप्2.5.12.4। यथा# [युक्तो# विवाहस् तथा [युक्ता प्रजा [भवति । ( क् यथायुक्तो )
अप्2.5.12.5। पाणि.समूढं[ ब्राह्मणस्य न-अप्रोक्षितम् [अभितिष्ठेत् ।
अप्2.5.12.6-7। अग्निं ब्राह्मणम् च-अन्तरेण न-[अतिक्रामेत् । ब्राह्मणांश् च ।
अप्2.5.12.8। [अनुज्ञाप्य वा-[अतिक्रामेत् ।
अप्2.5.12.9। अग्निम् अपश् च न युगपद्-[धारयीत ।
अप्2.5.12.10। नाना.अग्नीनां च संनिवापं# [वर्जयेत् । ( क् सन्निपातं )
अप्2.5.12.11। प्रतिमुखम् अग्निम् [आह्रियमाणम् न-अप्रतिष्ठितं भूमौ [प्रदक्षिणी.कुर्यात् ।
अप्2.5.12.12। पृष्ठतश् च-आत्मनः पाणी न [संश्लेषयेत् ।
अप्2.5.12.13। [स्वपन्न् [अभिनिम्रुक्तो न-[आश्वान् वाग्.यतो[ रात्रिम् [आसीत । श्वो. भूत उदकम् [उपस्पृश्य वाचं [विसृजेत् ।
अप्2.5.12.14। [स्वपन्न् [अभ्युदितो न-[आश्वान् [वाग्.यतो- ऽअहस् [तिष्ठेत् ।
अप्2.5.12.15। आ# [तमितोः# प्राणम् [आयच्छेद् इत्य् एके । ( क् आतमितोः )
अप्2.5.12.16। स्वप्नं वा पापकं [दृष्ट्वा ।
अप्2.5.12.17। अर्थं वा [सिषाधयिषन् ।
अप्2.5.12.18। नियम.अतिक्रमे च-अन्यस्मिन् ।
अप्2.5.12.19। दोष.फल.संशये न तत् [कर्तव्यम् ।
अप्2.5.12.20। एवम् अध्याय.अनध्याये ।
अप्2.5.12.21। न संशये प्रत्यक्षवद् [ब्रूयात् ।
अप्2.5.12.22। [अभिनिम्रुक्त.अभ्युदित.कुनखि.श्यावदाग्रदिधिषु.दिधिषूपति.पर्याहित.परीष्ट.परिवित्त.परिविन्न.परिविविदानेषु च-उत्तर.उत्तरस्मिन्न् अशुचि.कर.निर्वेषो गरीयान् गरीयान् ॥
अप्2.5.12.23। तत्-च लिङ्गं [चरित्वा-[उद्धार्यम् इत्य् एके ॥
अप्2.6.13.1। सवर्णापूर्व.शास्त्र.विहितायां यथ.र्तु [गच्छतः पुत्रास् तेषां कर्मभिः संबन्धः ।
अप्2.6.13.2। दायेन#-अव्यतिक्रमश् च-उभयोः । ( क् दायेन च- )
अप्2.6.13.3। पूर्ववत्याम् [असंस्कृतायां वर्ण.अन्तरे च मैथुने दोषः ।
अप्2.6.13.4। तत्र-अपि दोषवान् पुत्र एव ।
अप्2.6.13.5। उत्पादयितुः पुत्र इति हि ब्राह्मणम् ।
अप्2.6.13.6अ। अथ-अप्य् [उदाहरन्ति ।(श्) इदानीम् एव-अहं जनक स्त्रीणाम् [ईर्ष्यामि नो पुरा । यदा यमस्य सादने जनयितुः पुत्रम् [अब्रुवन् ॥
अप्2.6.13.6ब्। (श्) रेतो.धाः पुत्रं [नयति [परेत्य यम.सादने । तस्माद् भार्यां [रक्षन्ति [बिभ्यन्तः पर.रेतसः ॥
अप्2.6.13.6च्। (श्) [अप्रमत्ता [रक्षथ तन्तुम् एतं मा वः क्षेत्रे परबीजानि [वाप्सुः । जनयितुः पुत्रो [भवति सांपराये मोघं [वेत्ता [कुरुते तन्तुम् एतम् इति ॥
अप्2.6.13.7। [दृष्टो धर्म.व्यतिक्रमः साहसं च पूर्वेषाम् ।
अप्2.6.13.8। तेषां तेजो.विशेषेण प्रत्यवायो न [विद्यते ।
अप्2.6.13.9। तद् [अन्वीक्ष्य [प्रयुञ्जानः [सीदत्य् अवरः ।
अप्2.6.13.10। दानं क्रय.धर्मश् च-अपत्यस्य न [विद्यते ।
अप्2.6.13.11अ। विवाहे दुहितृमते दानं [काम्यं धर्मार्थं [श्रूयते तस्माद् दुहितृमते- ऽअधिरथं शतं [देयं तन् मिथुया [कुर्याद् इति ।
अप्2.6.13.11ब्। तस्यां क्रय.शब्दः संस्तुति.मात्रम् ।# धर्माद्-हि संबन्धः ।
अप्2.6.13.12। एक.धनेन ज्येष्ठं [तोषयित्वा । ( क् ओम्. । )
अप्2.6.14.1। [जीवन् पुत्रेभ्यो दायं [विभजेत् समं क्लीबम् [उन्मत्तं# [पतितं च [परिहाप्य । ( क् उन्मत्त )
अप्2.6.14.2। पुत्र.अभावे यः [प्रत्यासन्नः सपिण्डः ।
अप्2.6.14.3। तद्.अभाव आचार्य आचार्य.अभावे- ऽअन्तेवासी [हृत्वा तद्.अर्थेषु धर्म.कृत्येषु वा-[उपयोजयेत् ।
अप्2.6.14.4। दुहिता वा।
अप्2.6.14.5। सर्व.अभावे राजा दायं [हरेत# । ( क् हरेत् )
अप्2.6.14.6। ज्येष्ठो दायाद इत्य् एके ।
अप्2.6.14.7। देश.विशेषे सुवर्णम् कृष्णा गावः कृष्णं भौमं ज्येष्ठस्य ।
अप्2.6.14.8। रथः पितुः परीभाण्डं# च गृहे । ( क् परिभाण्डं )
अप्2.6.14.9। अलंकारो भार्याया# ज्ञाति.धनं च-इत्य् एके । ( क् भार्यायाः )
अप्2.6.14.10। तत्-शास्त्रैर् [विप्रतिषिद्धम् ।
अप्2.6.14.11। मनुः पुत्रेभ्यो दायं [व्यभजद् इत्य् अविशेषेण [श्रूयते ।
अप्2.6.14.12। अथ-अपि तस्मात्-ज्येष्ठं पुत्रं धनेन [निरवसाययन्ति-इत्य् एकवत्-[श्रूयते ।
अप्2.6.14.13। अथ-अपि नित्य.अनुवादम् अविधिम् [आहुर् न्यायविदो यथा तस्माद् अजावयः पशूनां सह#1 [चरन्ति#1-इति#2 तस्मात् स्नातकस्य मुखं [रेभायति#3-इव#4 तस्माद् बस्तश् च श्रोत्रियश् च स्त्री.कामतमाव् इति । ( क् 1:सहचरन्ति-, 2:इन्सेर्त्स् ।, 3:रेफायति-, 4:इन्सेर्त्स् । )
अप्2.6.14.14। सर्वे हि धर्म.युक्ता[ भागिनः ।
अप्2.6.14.15। यस् त्व् अधर्मेण द्रव्याणि [प्रतिपादयति ज्येष्ठो- ऽअपि तम् अभागं [कुर्वीत ।
अप्2.6.14.16। जायाअ.पत्योर् न विभागो [विद्यते ।
अप्2.6.14.17। पाणिग्रहणाद्-हि सहत्वं कर्मसु ।
अप्2.6.14.18। तथा पुण्य.फलेषु ।
अप्2.6.14.19। द्रव्य.परिग्रहेषु च ।
अप्2.6.14.20। न हि भर्तुर् विप्रवासे नैमित्तिके दाने स्तेयम् [उपदिशन्ति ॥
अप्2.6.15.1। एतेन देश.कुल.धर्मा [व्याख्याताः ।
अप्2.6.15.2। मातुश् च योनि.संबन्धेभ्यः पितुश् च-आ सप्तमात् पुरुषाद्# यावता वा संबन्धो [ज्ञायते तेषां [प्रेतेषु-उदक.उपस्पर्शनं गर्भान् [परिहाप्य-अपरिसंवत्सरान् । ( क् ओम्. पुरुषाद् )
अप्2.6.15.3। माता.पितराव् एव तेषु ।
अप्2.6.15.4। हर्तारश् च ।
अप्2.6.15.5। भार्यायां परम.गुरु.संस्थायां च-अकालम्# अभोजनम्# । ( क् च-अकालभोजनम् )
अप्2.6.15.6। आतुर.व्यञ्जनानि [कुर्वीरन् ।
अप्2.6.15.7-8। केशान् [प्रकीर्य पांसून् ओप्येकवाससो#1 (पांसून् [ओप्य-एकवाससो ?) दक्षिणा.मुखाः सकृद् [उपमज्जय#2-[उत्तीर्य-उपविशन्ति ।#3 एवं त्रिः ।#4 ( = क् 7, 1:ओप्य-एकवाससो, 2:उपमज्ज्य, 3:ओम्. ।, 4:अद्द्स् क् 8:एवं त्रिः )
अप्2.6.15.9। तत्.प्रत्ययम् उदकम् [उत्सिच्य-अप्रतीक्षा ग्रामम् [एत्य यत् स्त्रिय [आहुस् तत् [कुर्वन्ति ।
अप्2.6.15.10। इतरेषु च-एतद् एव-एके- [उपदिशन्ति ।
अप्2.6.15.11। शुचीन् मन्त्रवतः सर्व.कृत्येषु [भोजयेत् ।
अप्2.6.15.12। देशतः कालतः शौचतः सम्यक् प्रतिग्रहीतृत इति दानानि [प्रतिपादयति ।
अप्2.6.15.13। यस्य-अग्नौ न [क्रियते यस्य च-अग्रं न [दीयते न तद् [भोक्तव्यम् ।
अप्2.6.15.14। न क्षार.लवण.होमो [विद्यते ।
अप्2.6.15.15। तथा-अवरान् न [संसृष्टस्य च ।
अप्2.6.15.16। [अहविष्यस्य होम उदीचीनम् उष्णं भस्म-[अपोह्य तस्मिञ् [जुह्यात् तद्-[हुतम् अहुतं च-अग्नौ [भवति ।
अप्2.6.15.17। न स्त्री [जुहुयात् ।
अप्2.6.15.18। न-[अनुपेतः ।
अप्2.6.15.19। आ-अन्न.प्राशनाद् गर्भा न-[अप्रयता [भवन्ति ।
अप्2.6.15.20। आ परिसंवत्सराद् इत्य् एके ।
अप्2.6.15.21। यावता या दिशो न [प्रजानीयुः ।
अप्2.6.15.22। आ-उपनयनाद् इत्य् अपरम् ।
अप्2.6.15.23। अत्र ह्य् अधिकारः शास्त्रैर् [भवति ।
अप्2.6.15.24। सा निष्ठा ।
अप्2.6.15.25। स्मृतिश् च ।
अप्2.7.16.1। सह देव.मनुष्या अस्मिंल् लोके पुरा [बभूवुः । अथ देवाः कर्मभिर् दिवं [जग्मुर् [अहीयन्त मनुष्याः । तेषां ये तथा कर्माण्य् [आरभन्ते सह देवैर् ब्रह्मणा च-अमुष्मिंल् लोके [भवन्ति । अथ-एतन् मनुः श्राद्ध.शब्दं कर्म [प्रोवाच ।
अप्2.7.16.2। प्रजा.निःश्रेयसा च । ( 1+2 = क् 1 )
अप्2.7.16.3। तत्र पितरो देवता ब्राह्मणास् त्व् आहवनीय.अर्थे* । ( = क् 2 ) [*एद्. आहनीयार्थे]
अप्2.7.16.4। मासि मासि [कार्यम् । ( = क् 3 )
अप्2.7.16.5। अपर.पक्षस्य-अपर.अह्नः श्रेयान् । ( = क् 4 )
अप्2.7.16.6। तथा-अपर.पक्षस्य जघन्यान्य् अहानि । ( = क् 5 )
अप्2.7.16.7। सर्वेष्व् एव-अपर.पक्षस्य-अहस्सु [क्रियमाणे पितृऋन् [प्रीणाति । कर्तुस् तु काल.अभिनियमात् फल.विशेषः ॥ ( = क् 6 )
अप्2.7.16.8। प्रथमे- ऽअहनि [क्रियमाणे स्त्री.प्रायम् अपत्ये [जायते । ( = क् 7 )
अप्2.7.16.9। द्वितीये- ऽअस्तेनाः । ( = क् 8 )
अप्2.7.16.10। तृतीये ब्रह्म.वर्चसिनः । ( = क् 9 )
अप्2.7.16.11। चतुर्थे क्षुद्र.पशुमान् । ( = क् 10 )
अप्2.7.16.12। पञ्चमे पुमांसः । बहु.अपत्यो न च-अनपत्यः [प्रमीयते । ( = क् 11 )
अप्2.7.16.13। षष्ठे- ऽअध्वशीलो- ऽअक्षशीलश् च । ( = क् 12 )
अप्2.7.16.14। सप्तमे कर्षे राद्धिः । ( = क् 13 )
अप्2.7.16.15। अष्टमे पुष्टिः । ( = क् 14 )
अप्2.7.16.16। नवम एकखुराः । ( = क् 15 )
अप्2.7.16.17। दशमे व्यवहारे राद्धिः । ( = क् 16 )
अप्2.7.16.18। एकादशे कृष्ण.अयसं त्रपु.सीसम् । ( = क् 17 )
अप्2.7.16.19। द्वादशे पशुमान् । ( = क् 18 )
अप्2.7.16.20। त्रयोदशे बहु.पुत्रो बहु.मित्रो [दर्शनीय.अपत्यः ।# युव.मारिणस् तु [भवन्ति । ( = क् 19, ओम्. । )
अप्2.7.16.21। चतुर्दश आयुधे राद्धिः । ( = क् 20 )
अप्2.7.16.22। पञ्चदशे पुष्टिः । ( = क् 21 )
अप्2.7.16.23। तत्र द्रव्याणि तिलमाषा व्रीहि.यवा आपो मूल.फलानि । ( = क् 22 )
अप्2.7.16.24। स्नेहवति त्व् एव-अन्ने तीव्रतरा पितृऋणां प्रीतिर् द्राघीयांसं च कालम् । ( = क् 23 )
अप्2.7.16.25। तथा धर्म.आहृतेन[ द्रव्येण तीर्थे [प्रतिपन्नेन । ( = क् 24 )
अप्2.7.16.26। संवत्सरं गव्येन प्रीतिः । ( = क् 25 )
अप्2.7.16.27। भूयांसम् अतो माहिषेण । ( = क् 26 )
अप्2.7.16.28। एतेन ग्राम्य.अरण्यानां पशूनां मांसं मेध्यं [व्याख्यातम् ॥ ( = क् 27 )
अप्2.7.17.1। खड्ग.उपस्तरणे खड्ग.मांसेन-आनन्त्यं कालम् ।
अप्2.7.17.2। तथा शतबलेर् मत्स्यस्य मांसेन ।
अप्2.7.17.3। वार्ध्राणसस्य# च । ( क् वार्घ्राणसस्य )
अप्2.7.17.4। [प्रयतः [प्रसन्न.मनाः सृष्टो [भोजयेद् ब्राह्मणान् ब्रह्मविदो योनि.गोत्र.मन्त्र.अन्तेवासी.असंबन्धान् ।
अप्2.7.17.5। गुण.हान्यां तु परेषां [समुदेतः सोदर्यो- ऽअपि [भोजयितव्यः ।
अप्2.7.17.6। एतेन-अन्तेवासिनो [व्याख्याताः ।
अप्2.7.17.7-8। अथ-अप्य् [उदाहरन्ति । (श्) संभोजनी नाम पिशाच.भिक्षा न-एषा पितृऋन् [गच्छति न-उत# देवान् । इह-एव सा [चरति [क्षीण.पुण्या शाला.अन्तरे गौर् इव [नष्ट.वत्सा ॥ ( क् नो- ऽअथ )
अप्2.7.17.9। (श्)? इह-एव [संभुञ्जती# दक्षिणा कुलात् कुलं [विनश्यति-इति । ( क् सम्भुञ्जति-इति )
अप्2.7.17.10। तुल्य.गुणेषु वयो.वृद्धः श्रेयान् द्रव्य.कृशश् च-ईप्सन् ।
अप्2.7.17.11। पूर्वेद्युर् निवेदनम् ।
अप्2.7.17.12। अपरे.द्युर् द्वितीयम् ।
अप्2.7.17.13। तृतीयम् आमन्त्रणम् ।
अप्2.7.17.14। त्रिः.प्रायम् एके श्राद्धम् [उपदिशन्ति ।
अप्2.7.17.15। यथा प्रथमम् एवं द्वितीयं तृतीयं च ।
अप्2.7.17.16। सर्वेषु [वृत्तेषु सर्वतः [समवदाय शेषस्य ग्रास.अवरार्ध्यं*# [प्राश्नीयाद् [यथा.उक्तम् । ( क् ग्रास वरार्ध्यं )[*एद्. --.अवरार्घ्यं (!)]
अप्2.7.17.17। उदीच्य.वृत्तिस् त्व् आसन.गतानां हस्तेषु-उदपात्र.आनयनम् ।
अप्2.7.17.18। [उद्ध्रियताम् अग्नौ च [क्रियताम् इत्य् [आमन्त्रयते ।
अप्2.7.17.19। कामम् [उद्ध्रियतां कामम् अग्नौ [क्रियताम् इत्य् [अत्तिसृष्ट [उद्धरेत्-जुहुयात्-च ।
अप्2.7.17.20। श्वभिर् अपपात्रैश् च श्राद्धस्य दर्शनं [परिचक्षते ।
अप्2.7.17.21। श्वित्रः शिपि.विष्टः पर.तल्प.गाम्य् आयुधीय.पुत्रः [शूद्र.उत्पन्नो ब्राह्मण्याम् इत्य् एते श्राद्धे [भुञ्जानाः पङ्क्ति.दूषणा [भवन्ति ।
अप्2.7.17.22। त्रिमधुस् त्रिसुपर्णस् त्रिणाचिकेतश् चतुर्मेधः पञ्चाग्निर् ज्येष्ठ.सामगो# वेद.अध्याय्य् अनूचानपुत्रः श्रोत्रिय इत्य् एते श्राद्धे [भुञ्जानाः पङ्क्ति.पावना [भवन्ति । ( क् ज्येष्ठ.सामिको )
अप्2.7.17.23। न च नक्तं श्राद्धं [कुर्वीत ।
अप्2.7.17.24। [आरब्धे च-अभोजनम् आ समापनात् ।
अप्2.7.17.25। अन्यत्र राहु.दर्शनात् ॥
अप्2.8.18.1। विलयनं [मथितं पिण्याकं मधु मांसं च [वर्जयेत् ।
अप्2.8.18.2। कृष्ण.धान्यं शूद्रान्नं ये च-अन्येन.अश्य.संमताः# । ( क् च-अन्ये- ऽअनाश्य.सम्मताः )
अप्2.8.18.3। [अहविष्यम् अनृतं क्रोधं येन च [क्रोधयेत् । स्मृतिम् [इच्छन् यशो मेधां स्वर्गं पुष्टिं द्वादश-एतानि [वर्जयेत् । ( = क् 3+4 )
अप्2.8.18.4। अधो.नाभि-उपरि.जानु-[आच्छाद्य त्रि.षवणम् उदकम् [उपस्पृशन्न् अनग्नि.पक्व.वृत्तिर् [अच्छाया.उपगः#1 स्थान.आसनिकः संवत्सरम् एतद् व्रतं [चरेत् ।#2 एतद् अष्टाचत्वारिंशत् [संमितम् इत्य् [आचक्षते । ( = क् 5, 1:अच्छाया.उपगतस्थाम--, 2: ओम्. । )
अप्2.8.18.5। नित्यश्राद्धम् । ( = क् 6 )
अप्2.8.18.6। बहिर् ग्रामात्-शुचयः शुचौ देशे [संस्कुर्वन्ति । ( = क् 7 )
अप्2.8.18.7। तत्र नवानि द्रव्याणि । ( = क् 8 )
अप्2.8.18.8। यैर् अन्नं [संस्क्रियते येषु च [भुज्यते । ( = क् 9 )
अप्2.8.18.9। तानि च [भुक्तवद्भ्यो [दद्यात् । ( = क् 10 )
अप्2.8.18.10। [समुदेतांश् च [भोजयेत् । ( = क् 11 )
अप्2.8.18.11। न च-अतद्.गुणाय-उच्छिष्टं [प्रयच्छेत् । ( = क् 12 )
अप्2.8.18.12। एवं संवत्सरम् । ( = क् 13 )
अप्2.8.18.13। तेषाम् उत्तमं लोहेन-अजेन [कार्यम् । ( = क् 14 )
अप्2.8.18.14। मानं च [कारयेत् [प्रतिच्छन्नम् । ( = क् 15 )
अप्2.8.18.15। तस्य-उत्तर.अर्धे ब्राह्मणान् [भोजयेत् । ( = क् 16 )
अप्2.8.18.16। उभयान् [पश्यति ब्राह्मणांश् च [भुञ्जानान् माने च पितृऋन् इत्य् [उपदिशन्ति । ( = क् 17 )
अप्2.8.18.17। [कृत.अकृतम् अत ऊर्ध्वम् । ( = क् 18 )
अप्2.8.18.18। श्राद्धेन हि#1 तृप्तिं [वेदयन्ते#2 पितरः । ( = क् 19, 1:ओम्.हि, 2:निवेदयन्ते ) )
अप्2.8.18.19। तिष्येण पुष्टि.कामः । ( = क् 20 )
अप्2.8.19.1। गौर.सर्षपाणां [चूर्णानि [कारयित्वा तैः पाणि.पादं [प्रक्षाल्य मुखं कर्णौ [प्राश्य च यद् वातो न-[अतिवाति तद्.आसनो- ऽअजिनं बस्तस्य प्रथमः कल्पो [वाग्.यतो दक्षिणा.मुखो [भुञ्जीत ।
अप्2.8.19.2। अनायुष्यं त्व्# एवं.मुखस्य# भोजनं मातुर् इत्य् [उपदिशन्ति । ( क् त्वैवंमुखस्य ? )
अप्2.8.19.3। औदुम्बरश् चमसः सुवर्ण.नाभः [प्रशास्तः ।
अप्2.8.19.4। न च-अन्येन-अपि [भोक्तव्यः# । ( क् भोक्तव्यम् )
अप्2.8.19.5। यावद्.ग्रासं [संनयन् ।#1
अप्2.8.19.6। [अस्कन्दयन् ।#1
अप्2.8.19.7। न-[अपजहीत ।#1
अप्2.8.19.8। [अपजहीत वा ।#1
अप्2.8.19.9। कृत्स्नं ग्रासं [ग्रसीत#2 सह-अङ्गुष्ठम् । ( 5+6+7+8+9 = क् 5, अल्ल् 1:ओम्. ।, 2:ग्रसति )
अप्2.8.19.10। न च मुख.शब्दं [कुर्यात् । ( = क् 6 )
अप्2.8.19.11। पाणिं च न-[अवधूनुयात् । ( = क् 7 )
अप्2.8.19.12। [आचम्य च-ऊर्ध्वौ पाणी [धारयेद् आ प्रोदकी.भावात् । ( = क् 8 )
अप्2.8.19.13। ततो- ऽअग्निम् [उपस्पृशेत् । ( = क् 9 )
अप्2.8.19.14। दिवा च न [भुञ्जीत-अन्यत्-मूल.फलेभ्यः । ( = क् 10 )
अप्2.8.19.15। स्थालीपाक.अनुदेश्यानि[ च [वर्जयेत् । ( = क् 11 )
अप्2.8.19.16। स.उत्तराच्छादनश् च-एव यज्ञोपवीती [भुञ्जीत । ( = क् 12 )
अप्2.8.19.17। नैय्यमिकं तु श्राद्धं स्नेहवद् एव [दद्यात् । ( = क् 13 )
अप्2.8.19.18। सर्पिर् मांसम् इति प्रथमः कल्पः । ( = क् 14 )
अप्2.8.19.19। अभावे तैलं शाकम् इति । ( = क् 15 )
अप्2.8.19.20। मघासु च-अधिकं श्राद्ध.कल्पेन सर्पिर् ब्राह्मणान् [भोजयेत् ॥( = क् 16 )
अप्2.8.20.1। मासि.श्राद्धे तिलानां द्रोणं द्रोणं येन-उपायेन [शक्नुयात् तेन-[उपयोजयेत् ।
अप्2.8.20.2। [समुदेतांश् च [भोजयेन् न च-अतद्गुणाय-उच्छिष्टम् [दद्युः ।
अप्2.8.20.3। उदगयन [आपूर्यमाण.पक्षस्य-एकरात्रम् अवरार्ध्यम् [उपोष्य तिष्येण पुष्टि.कामः स्थालीपाकं [श्रपयित्वा महाराजम् [इष्ट्वा तेन सर्पिष्मता ब्राह्मणं [भोजयित्वा पुष्ट्य्.अर्थेन सिद्धिं [वाचयीत ।
अप्2.8.20.4। एवम् अहर् अहर् आ परस्मात् तिष्यात् ।
अप्2.8.20.5। द्वौ द्वितीये ।
अप्2.8.20.6। त्रींस् तृतीये ।
अप्2.8.20.7। एवं संवत्सरम् [अभ्युच्चयेन ।
अप्2.8.20.8। महान्तं पोषं [पुष्यति ।
अप्2.8.20.9। आदित एव-उपवासः ।
अप्2.8.20.10। [आत्त.तेजसां भोजनं [वर्जयेत् ।
अप्2.8.20.11। भस्म.तुषा.अधिष्ठानम् ।
अप्2.8.20.12। पदा पादस्य प्रक्षालनम् अधिष्ठानं च [वर्जयेत् ।
अप्2.8.20.13। प्रेङ्खोलनं च पादयोः ।
अप्2.8.20.14। जानुनि च-अत्याधानं जङ्घायाः ।
अप्2.8.20.15। नखैश् च नख.वादनम्# । ( क् वादनः )
अप्2.8.20.16। स्फोटनानि च-अकारणात् ।
अप्2.8.20.17। यच् च-अन्यत् [परिचक्षते ।
अप्2.8.20.18। या-[उक्ता च धर्म.युक्तेषु[ द्रव्य.परिग्रहेषु च ।
अप्2.8.20.19। [प्रतिपादयिता च तीर्थे ।
अप्2.8.20.20। [यन्ता च-अतीर्थे [यतो न भयं [स्यात् ।
अप्2.8.20.21। [संग्रहीता च मनुष्यान् ।
अप्2.8.20.22। [भोक्ता च धर्म.अविप्रतिषिद्धान्[ भोगान् ।
अप्2.8.20.23। एवम् उभौ लोकाव् [अभिजयति ॥
अप्2.9.21.1। चत्वार आश्रमा गार्हस्थ्यम् आचार्य.कुलं मौनं वानप्रस्थ्यम् इति ।
अप्2.9.21.2। तेषु सर्वेषु यथा.उपदेशम् अव्यग्रो [वर्तमानः क्षेमं [गच्छति ।
अप्2.9.21.3। सर्वेषाम् उपनयन.प्रभृति समान आचार्यकुले वासः ।
अप्2.9.21.4। सर्वेषाम् अनूत्सर्गो विद्यायाः ।
अप्2.9.21.5। [बुद्ध्वा कर्माणि यत् [कामयेत तद् [आरभेत ।
अप्2.9.21.6। यथा विद्या.अर्थस्य नियम एतेन-एव*-अन्तम् [अनूपसीदत आचार्य.कुले शरीर.न्यासो ब्रह्मचारिणः । [*एद्. एब]
अप्2.9.21.7। अथ परिव्राजः ।
अप्2.9.21.8। अत एव ब्रह्मचर्यवान् [प्रव्रजति ।
अप्2.9.21.9। तस्य-[उपदिशन्ति ।
अप्2.9.21.10। अनग्निर् अनिकेतः [स्याद् अशर्म.अशरणो मुनिः ।# स्वाध्याय-एव-[उत्सृजमानो वाचं ग्रामे प्राण.वृत्तिं [प्रतिलभ्य-अनिहो- ऽअनमुत्रश् [चरेत् । ( क् ओम्. । )
अप्2.9.21.11। तस्य [मुक्तम् आच्छादनं [विहितम् ।
अप्2.9.21.12। सर्वतः परिमोक्षम् एके ।
अप्2.9.21.13। सत्य.अनृते सुख.दुःखे वेदान् इमं लोकम् अमुं च [परित्यज्य-आत्मानम् [अन्विच्छेत् ।
अप्2.9.21.14। [बुद्धे क्षेम.प्रापणम् ।
अप्2.9.21.15। तत्-शास्त्रैर् [विप्रतिषिद्धम् ।
अप्2.9.21.16। [बुद्धे चेत् क्षेम.प्रापणम् इह-एव न दुःखम् [उपलभेत ।
अप्2.9.21.17। एतेन परं [व्याख्यातम् ।
अप्2.9.21.18। अथ वानप्रस्थः ।
अप्2.9.21.19। अत एव ब्रह्मचर्यवान् [प्रव्रजति ।
अप्2.9.21.20-21। तस्य-[उपदिशन्ति । एक.अग्निर् अनिकेतः [स्याद् अशर्म.अशरणो मुनिः ।# स्वाध्याय एव-[उत्सृजमानो वाचम् ॥ ( = क् 20 , ओम्. । )
अप्2.9.22.1। तस्य-अरण्यम् आच्छादनं [विहितम् ।
अप्2.9.22.2। ततो मूलैः फलैः पर्णैस् तृणैर् इति [वर्तयंश् [चरेत् ।
अप्2.9.22.3। अन्ततः [प्रवृत्तानि ।
अप्2.9.22.4। ततो- ऽअपो वायुम् आकाशम् इत्य् [अभिनिश्रयेत् ।
अप्2.9.22.5। तेषाम् उत्तर उत्तरः संयोगः फलतो [विशिष्टः ।
अप्2.9.22.6। अथ वानप्रस्थस्य-एव-अनुपूर्व्यम् एके- [उपदिशन्ति ।
अप्2.9.22.7। विद्यां [समाप्य दारं [कृत्वा-अग्नीन् [आधाय कर्माण्य् [आरभते सोम.अवरार्ध्यानि यानि [श्रूयन्ते ।
अप्2.9.22.8। गृहान् [कृत्वा स.दारः स.प्रजः सह-अग्निभिर् बहिर् ग्रामाद् [वसेत् ।
अप्2.9.22.9। एको वा ।
अप्2.9.22.10। शिलोञ्छेन [वर्तयेत् ।
अप्2.9.22.11। न च-अत ऊर्ध्वं [प्रतिगृह्णीयात् ।
अप्2.9.22.12। [अभिषिक्तश् च [जुहुयात् ।
अप्2.9.22.13। शनैर् अपो- ऽअभ्यवेयाद्#1 [अभिघ्नन्न् अभिमुखम्#2 आदित्यम् उदकम् [उपस्पृशेत् । ( क् 1:अपो- ऽअभ्युपेयाद्, 2:अभिमुख )
अप्2.9.22.14। इति सर्वत्र-उदक.उपस्पर्शन.विधिः ।
अप्2.9.22.15। तस्य द्वंद्वं#1 द्रव्याणाम्#1 एके- [उपदिशन्ति पाक.अर्थ.भोजन.अर्थ#2.वासि.परशु.दात्रकाजानाम् । ( क् 1:द्वन्द?.द्रव्याणाम्, 2:पाक.अर्थं भोजन.अर्थं )
अप्2.9.22.16। द्वंद्वानाम्# एक.एकम् [आदाय-इतराणि [दत्वा-अरण्यम् [अवतिष्ठेत । ( क् द्वन्दानाम् )
अप्2.9.22.17। तस्य-अरण्येन-एव-अत ऊर्ध्वं होमो वृत्तिः प्रतीक्षात्-छादनं च ।
अप्2.9.22.18। येषु कर्मसु पुरोडाशाश् चरवस् तेषु [कार्याः ।
अप्2.9.22.19। सर्वं च-उपांशु सह स्वाध्यायेन ।
अप्2.9.22.20। न-अरण्यम् अभि-[आश्रावयेत् ।
अप्2.9.22.21। अग्नि.अर्थं शरणम् ।
अप्2.9.22.22। आकाशे स्वयम् ।
अप्2.9.22.23। [अनुपस्तीर्णे शय्या.आसने ।
अप्2.9.22.24। नवे सस्ये [प्राप्ते पुराणम् [अनुजानीयात् ॥
अप्2.9.23.1। भूयांसं वा नियमम् [इच्छन्न् अन्वहम् एव पात्रेण सायं प्रातर् अर्थम् [आहरेत् ।
अप्2.9.23.2। ततो मूलैः फलैः पर्णैस् तृणैर् इति [वर्तयंश् [चरेद् अन्ततः [प्रवृत्तानि ततो- ऽअपो वायुम् आकाशम् इत्य् [अभिनिश्रयेत्# तेषाम् उत्तर उत्तरः संयोगः फलतो [विशिष्टः । ( क् इन्सेर्त्स् । )
अप्2.9.23.3। अथ पुराणे श्लोकाव् [उदाहरन्ति ।
अप्2.9.23.4। (श्) अष्टाशीतिसहस्राणि ये प्रजाम् [ईशिर-ऋषयः । दक्षिणेन-अर्यम्णः पन्थानं ते श्मशानानि [भेजिरे ॥ ( 3+4 = क् 3 )
अप्2.9.23.5। (श्) अष्टाशीतिसहस्राणि ये प्रजां न-[ईषिर-ऋषयः । उत्तरेण-अर्यम्णः# पन्थानं ते- ऽअमृतत्वं हि [कल्पते ॥ ( = क् 4 )
अप्2.9.23.6। इत्य् ऊर्ध्व.रेतसां प्रशंसा । ( = क् 5 )
अप्2.9.23.7। अथ-अपि संकल्प.सिद्धयो [भवन्ति । ( = क् 6 )
अप्2.9.23.8। यथा वर्षं प्रजा.दानं# दूरे दर्शनं मनोजवता यच् च-अन्यद् एवं [युक्तम् । ( = क् 7, प्रजा दानं )
अप्2.9.23.9। तस्मात्-श्रुतितः प्रत्यक्ष.फलत्वाच् च [विशिष्टान् आश्रमान् एतान् एके [ब्रुवते । ( = क् 8 )
अप्2.9.23.10। [त्रैविद्य.वृद्धानां तु वेदाः प्रमाणम् इति निष्ठा तत्र यानि [श्रूयन्ते व्रीहि.यव.पशु.आज्य.पयः.कपाल.पत्नी.संबन्धान्य् उच्चैर् नीचैः [कार्यम् इति तैर् [विरुद्ध आचारो- ऽअप्रमाणम् इति [मन्यन्ते । ( = क् 11 )
अप्2.9.23.11। यत् तु श्मशानम् [उच्यते नाना.कर्मणाम् एषो- ऽअन्ते पुरुष.संस्कारो [विधीयते । ( = क् 12 )
अप्2.9.23.12। ततः परम् अनन्त्यं फलं स्वर्ग्य.शब्दं [श्रूयते ॥
अप्2.9.24.1। अथ-अप्य् अस्य प्रजातिम् अमृतम् आम्नाय [आह ।# प्रजाम् अनु [प्रजायसे तद् उ ते मर्त्यामृतम् इति । ( क् -- )
अप्2.9.24.2। अथ-अपि स एव-अयं [विरूढः पृथक् प्रत्यक्षेण-[उपलभ्यते [दृश्यते च-अपि सारूप्यं देहत्वम् एव-अन्यत् ।
अप्2.9.24.3-6। ते [शिष्टेषु कर्मसु [वर्तमानाः पूर्वेषां सांपरायेण कीर्तिं स्वर्गं च [वर्धयन्ति । एवम् अवरो- ऽअवरः परेषाम् । आ भूत.संप्लवात् ते [स्वर्ग.जितः । पुनः सर्गे बीज.अर्था [भवन्ति-इति भविष्यत्.पुराणे ।
अप्2.9.24.7-8। अथ-अपि प्रजापतेर् वचनम् । (श्) त्रयीं विद्यां ब्रह्मचर्यं प्रजातिं श्रद्धां तपो यज्ञम् अनुप्रदानम् । य एतानि [कुर्वते तैर् इत् सह स्मो रजो [भूत्वा [ध्वंसते- ऽअन्यत् [प्रशंसन्न् इति ॥
अप्2.9.24.9। तत्र ये पापकृतस् त एव [ध्वंसन्ति यथा पर्णं वनस्पतेर् न परान् [हिंसन्ति ।
अप्2.9.24.10। न-अस्य-अस्मिंल् लोके कर्मभिः संबन्धो [विद्यते तथा परस्मिन् कर्म.फलैः ।
अप्2.9.24.11। तद् एतेन [वेदितव्यम् ।
अप्2.9.24.12। प्रजापतेर् ऋषीणाम् इति सर्गो- ऽअयम् ।
अप्2.9.24.13। तत्र ये पुण्य.कृतस् तेषां प्रकृतयः परा [ज्वलन्त्य [उपलभ्यन्ते ।
अप्2.9.24.14। [स्यात् तु कर्म.अवयवेन तपसा वा कश्चित् सशरीरो- ऽअन्तवन्तं लोकं [जयति संकल्प.सिद्धिश् च [स्यान् न तु तज् ज्यैष्ठ्यम् आश्रमाणाम् ।
अप्2.9.25.1। [व्याख्याताः सर्व.वर्णानां साधारण.वैशेषिका धर्माः ।# राज्ञस् तु विशेषाद् [वक्ष्यामः । ( = क् ओम्. । : धर्मा राज्ञस् -- )
अप्2.9.25.2। दक्षिणा.द्वारं वेश्म पुरं च [मापयेत् ।
अप्2.9.25.3। अन्तरस्यां पुरि वेश्म ।
अप्2.9.25.4। तस्य पुरस्ताद् आवसथस् तद् आमन्त्रणम् इत्य् [आचक्षते ।
अप्2.9.25.5। दक्षिणेन पुरं सभा दक्षिण.उदग्.द्वारा यथा-उभयं [संदृश्येत बहिर् अन्तरं च-इति ।
अप्2.9.25.6। सर्वेष्व् एव-अजस्रा अग्नयः [स्युः ।
अप्2.9.25.7। अग्नि.पूजा च नित्या यथा गृहमेधे ।
अप्2.9.25.8। आवसथे श्रोत्रिय.अवरार्ध्यान् अतिथीन् [वासयेत् ।
अप्2.9.25.9। तेषां यथा.गुणम् आवसथाः शय्य.आन्न.पानं च [विदेयम् ।
अप्2.9.25.10। गुरून् अमात्यांश् च न-[अतिजीवेत् ।
अप्2.9.25.11। न च-अस्य विषये क्षुधा रोगेण हिम.आतपाभ्यां वा-अवसीदेद् अभावाद् बुद्धि.पूर्वं वा कश्चित् ।
अप्2.9.25.12। सभाया मध्ये- ऽअधिदेवनम् [उद्धत्य-अवोक्ष्य-अक्षान् [निवपेद् युग्मान् वैभीतकान् यथाअर्थान् ।
अप्2.9.25.13। आर्याः शुचयः सत्यशीला दीवितारः [स्युः ।
अप्2.9.25.14। आयुध.ग्रहणं नृत्त.गीत.वादित्राणि-इति राज.अधीनेभ्यो- ऽअन्यत्र न [विद्येरन् ।
अप्2.9.25.15। क्षेमकृद् राजा यस्य विषये ग्रामे- ऽअरण्ये वा तस्कर.भयं न [विद्यते ॥
अप्2.10.26.1। भृत्यानाम् अनुपरोधेन क्षेत्रं वित्तं च [ददद् ब्राह्मणेभ्यो यथा.अर्हम् अनन्तांल् लोकान् [अभिजयति ।
अप्2.10.26.2। ब्राह्मण.स्वान्य् [अपजिगीषमाणो राजा यो [हन्यते तम् [आहुर् आत्मयूपो यज्ञो- ऽअनन्त.दक्षिण इति ।
अप्2.10.26.3। एतेन-अन्ये शूरा [व्याख्याताः प्रयोजने [युध्यमानास् तनु.त्यजः ।
अप्2.10.26.4। ग्रामेषु नगरेषु च-आर्यान्-शुचीन् सत्यशीलान् प्रजागुप्तये [निदध्यात् ।
अप्2.10.26.5। तेषां पुरुषास् तथा.गुणा एव [स्युः ।
अप्2.10.26.6। सर्वतो योजनं नगरं तस्करेभ्यो [रक्ष्यम् ।
अप्2.10.26.7। क्रोशो ग्रामेभ्यः ।
अप्2.10.26.8। तत्र यत्-मुष्यते तैस् तत् [प्रतिदाप्यम् ।
अप्2.10.26.9। धार्म्यं शुल्कम् [अवहारयेत् ।
अप्2.10.26.10। अकरः श्रोत्रियः ।
अप्2.10.26.11। सर्व.वर्णानां च स्त्रियः ।
अप्2.10.26.12। कुमाराश् च प्राग् व्यञ्जनेभ्यः ।
अप्2.10.26.13। ये च विद्या.अर्था [वसन्ति ।
अप्2.10.26.14। तपस्विनश् च ये धर्म.पराः ।
अप्2.10.26.15। शूद्रश् च पाद.अवनेक्ता ।
अप्2.10.26.16। [अन्ध.मूक.बधिर.रोग.विष्टाश् च
अप्2.10.26.17। ये व्यर्था द्रव्य.परिग्रहैः ।
अप्2.10.26.18। अबुद्धि.पूर्वम् [अलंकृतो युवा परदारम् [अनुप्रविशन् कुमारीं वा वाचा [बाध्यः ।
अप्2.10.26.19। बुद्धि.पूर्वं तु [दुष्ट.भावो दण्ड्यः ।
अप्2.10.26.20। [संनिपाते [वृत्ते शिश्न.च्छेदनं स.वृषणस्य ।
अप्2.10.26.21। कुमार्यां तु स्वान्य् [आदाय [नाश्यः ।
अप्2.10.26.22। अथ [भृत्ये राज्ञा ।
अप्2.10.26.23। [रक्ष्ये च-अत ऊर्ध्वं मैथुनात् ।
अप्2.10.26.24। निर्वेष.अभ्युपाये तु स्वामिभ्यो- ऽ[अवसृजेत् ॥
अप्2.10.27.1। [चरिते यथा.पुरं धर्माद्-हि संबन्धः ।
अप्2.10.27.2। सगोत्र.स्थानीयां न परेभ्यः [समाचक्षीत ।
अप्2.10.27.3। कुलाय हि स्त्री [प्रदीयत इत्य् [उपदिशन्ति ।
अप्2.10.27.4। तद् इन्द्रिय.दौर्बल्याद् [विप्रतिपन्नम् ।
अप्2.10.27.5। [अविशिष्टं हि परत्वं पाणेः ।
अप्2.10.27.6। तद्.व्यतिक्रमे खलु पुनर् उभयोर् नरकः ।
अप्2.10.27.7। नियम.आरम्भणो हि वर्षीयान् अभ्युदय एवम् आरम्भणाद् अपत्यात् ।
अप्2.10.27.8। [नाश्य आर्यः शूद्रायाम् ।
अप्2.10.27.9। [वध्यः शूद्र आर्यायाम् ।
अप्2.10.27.10। दारं च-अस्य [कर्शयेत् ।
अप्2.10.27.11। सवर्णायाम् अन्य.पूर्वायां सकृत् [संनिपाते पादः [पतति-इत्य् [उपदिशन्ति ।
अप्2.10.27.12। एवम् अभ्यासे पादः पादः ।
अप्2.10.27.13। चतुर्थे सर्वम् ।
अप्2.10.27.14। जिह्वा.आच्छेदनं शूद्रस्य-आर्यं धार्मिकम् [आक्रोशतः ।
अप्2.10.27.15। वाचि# पथि शय्यायाम् आसन इति [समीभवतो दण्ड.ताडनम् । (क् बाचि )
अप्2.10.27.16। पुरुष.वधे स्तेये भूमि.आदान इति स्वान्य् [आदाय [वध्यः ।
अप्2.10.27.17। चक्षु.निरोधस् त्व् एतेषु ब्राह्मणस्य ।
अप्2.10.27.18। नियम.अतिक्रमणम् अन्यं वा रहसि [बन्धयेत् ।
अप्2.10.27.19-20। आ समापत्तेः । असमापत्तौ [नाश्यः ।
अप्2.10.27.21। आचार्य ऋत्विक् स्नातको राजा-इति त्राणं [स्युर् अन्यत्र [वध्यात् ॥
अप्2.11.28.1। क्षेत्रं [परिगृह्य-उत्थाना.भावात् फलाभावे यः [समृद्धः स भावि तद् [अपहार्यः ।
अप्2.11.28.2-3। अवशिनः कीनाशस्य कर्म.न्यासे दण्ड.ताडनम् । तथा पशुपस्य ।
अप्2.11.28.4। अवरोधनं च-अस्य पशूनाम् ।
अप्2.11.28.5। [हित्वा व्रजम् आदिनः [कर्शयेत् पशून् न-[अतिपातयेत् । ( = क् 5+6 )
अप्2.11.28.6। [अवरुध्य पशून् मारणे नाशने वा स्वामिभ्यो- ऽ[अवसृजेत् । ( = क् 7 )
अप्2.11.28.7। प्रमादाद् अरण्ये पशून् [उत्सृष्तान् [दृष्ट्वा ग्रामम् [आनीय स्वामिभ्यो- ऽअवसृजेत् । ( = क् 8 )
अप्2.11.28.8-9। पुनः प्रमादे सकृद् [अवरुध्य । तत ऊर्ध्वं न [सूर्क्षेत् । ( = क् 9+10 )
अप्2.11.28.10। परपरिग्रहम् [अविद्वान् [आददान एध.उदके मूले पुष्पे फले गन्धे ग्रासे शाक इति वाचा [बाध्यः । ( = क् 11 )
अप्2.11.28.11। विदुषो वाससः परिमोषणम् । ( = क् 12 )
अप्2.11.28.12। [अदण्ड्यः [कामकृते तथा प्राण.संशये भोजनम् [आददानः । ( = क् 13 )
अप्2.11.28.13। [प्राप्त.निमित्ते दण्ड.अकर्मणि राजानम् एनः [स्पृशति ॥ ( = क् 14 )
अप्2.11.29.1। [प्रयोजयिता [मन्ता [कर्ता-इति स्वर्ग.नरक.फलेषु कर्मसु भागिनः ।
अप्2.11.29.2। यो भूय [आरभते तस्मिन् फल.विशेषः ।
अप्2.11.29.3। कुटुम्बिनौ धनस्य-[ईशते ।
अप्2.11.29.4। तयोर् [अनुमते- ऽअन्ये- ऽअपि तद्-हितेषु [वर्तेरन् ।
अप्2.11.29.5। विवादे [विद्या.अभिजन.संपन्ना वृद्धा मेधाविनो धर्मेष्व् अ.विनिपातिनः ।
अप्2.11.29.6। संदेहे लिङ्गतो दैवेन-इति [विचित्य ।
अप्2.11.29.7। पुण्याहे प्रातर् अग्नाव् [इद्धे- ऽ[अपामन्ते राजवत्य् उभयतः [समाख्याप्य सर्व.अनुमते मुख्यः सत्यं प्रश्नं [ब्रूयात् ।
अप्2.11.29.8। अनृते राजा दण्डं [प्रणयेत् ।
अप्2.11.29.9। नरकश् च-अत्र-अधिकः सांपराये ।
अप्2.11.29.10। सत्ये स्वर्गः सर्व.भूत.प्रशंसा च ।
अप्2.11.29.11। सा निष्ठा या विद्या स्त्रीषु शूद्रेषु च ।
अप्2.11.29.12। आथर्वणस्य वेदस्य शेष इत्य् [उपदिशन्ति ।
अप्2.11.29.13। कृच्छ्रा धर्म.समाप्तिः [समाम्नातेन#1 ।#2 लक्षण.कर्मणात्#3 तु [समाप्यते । ( क् 1:समाम्नानेन, 2: ओम्. ।, 3:कर्मणा )
अप्2.11.29.14। तत्र लक्षणम् । सर्व.जन.पदेष्व् [एकान्त.समाहितम् आर्याणां वृत्तं [सम्यग्.विनीतानां वृद्धानाम् आत्मवताम् अलोलुपानाम् अदाम्भिकानां वृत्त.सादृश्यं [भजेत ।# एवम् उभौ लोकाव् [अभिजयति । ( = क् 14+15, ओम्. । )
अप्2.11.29.15। स्त्रीभ्यः सर्व.वर्णेभ्यश् च धर्म.शेषान् [प्रतीयाद् इत्य् एके- इत्य् एके ॥
॥समाप्तं च-इदम् आपस्तम्बीय.धर्मसूत्रम् ॥
मूल पाठ: Āpastambadharmasūtra · Edition: Bühler's edition (Bombay Sanskrit Seires Nos.LIV and L), 3rd ed. 1932. Variant reading is in the parenthesis after the end of each suutra, according to Kashi Sanskrit Seires No.93 (K) edited by A.Chinnaswami, Benares 1932. · Data entry Y.Ikari · GRETIL (Göttingen) · CC BY-NC-SA 4.0