भाषा

ENहिગુ
ग्रंथ पाठ

अपरिमितायुःसूत्र · अध्याय 1

1.1

अपरिमितायुः सूत्र
एवं मया श्रुतम् । एकस्मिन् समये भगवान् श्रावस्त्यां विहरतिस्म जेतवने अनाथपिण्डदस्यारामे महता भिक्षुसङ्घेन सार्धम् अर्धत्रयोदशर्भिभिक्षुशतैः सम्बहुलैश्च बोधिसत्त्वैर्महासत्त्वैः

1.2

तत्र खलु भगवान् मञ्जुश्रीयां कुमारभूताम् आमन्त्रयते स्म । अस्ति मञ्जुश्रीरूपरिष्टायाम् अपरिमितागुणसञ्चयो नाम लोकधातुस्तत्रापरिमितायुर्ज्ञानसुविनिश्चिततेजोराज नाम तथागतो ऽर्हन् सम्यक्सम्बुद्ध एव हि तिष्ठति ध्रियते यापयति सत्त्वानां च धर्मं देशयति

1.3

शृणु मञ्जुश्रीः कुमारभूता, इमे जम्बुद्विपका मनुष्या अल्पायुष्का वर्षशतायुषस्, तेषां बहुन्याकालमरनानि निर्दिष्टानि । ये खलु मञ्जुश्रीः सत्त्वस्तस्यापरिमितायुषः तथागतस्य गुणवर्णपरिकीर्तन नाम धर्मपर्यायं लिखिष्यन्ति लिखापयिष्यन्ति नामधेयमात्रम् अपि श्रोष्यन्ति यावत् पुस्तकगताम् अपि कृत्वा गृहे धारयिष्यन्ति वाचयिष्यन्ति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरछत्रध्वजघण्टापताकाभिश्च समन्तात् पूजाभिः पूजायिष्यन्ति ते परिक्षिणायुषः पुनरैव वर्षशतायुषो भविष्यन्ति । ये खलु पुनर्मञ्जुश्रीः सत्त्वस्तस्यापरिमितायुर्ज्ञानसुविनिश्चित तेजोराजस्य तथागतस्य नामोष्टोत्तरशतं श्रोष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति, तेषाम् आयुर्वधयिष्यन्ति, ये परिक्षिणायुषः सत्त्वा नामधेयं श्रोष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति तेषाम् अप्यायुर्विवर्धयिष्यति

1.4

तस्मात्तर्हि मञ्जुश्रीदिर्घायुष्कत्वं प्रार्थयितुकामः कुलपुत्रा वा कुलदुहितरो वा तस्यापरिमितायुषस्तथागतस्य नामाष्टोत्तरशतं श्रोष्यन्ति लिखिष्यन्ति तेषाम् इमे गुणानुसंसा भविष्यन्ति

1.5

ओम् नमो भगवते अपरिमितायुर्ज्ञानसुविनिश्चिततेजोराजाय तथागतायार्हते सम्यक्सम्बुद्धाय, तद्यथा, ओम् पुण्यमहापुण्य अपरिमितापुण्य अपरिमितायुपुण्य ज्ञानसम्भारोपचिते, ओम् सर्वसंस्कार परिशुद्धधर्मते गगणसमुद्गते स्वभावपरिशुद्धे महानयापरिवारे स्वाहा

1.6

इमां मञ्जुश्रीस्तथागतस्य नामोष्टोत्तरशतं ये केचिल् लिखिष्यन्ति लिखापयिष्यन्ति पुस्तकगताम् अपि कृत्वा गृहे धारयिष्यन्ति वाचयिष्यन्ति, ते परिक्षीणायुषः पुनरैव वर्षशतायुषो भविष्यन्ति, इतश्चुत्वा अपरिमितायुषस्तथागतस्य बुद्धक्षेत्रे उपपद्यन्ते, अपरिमितायुषश्च भविष्यन्ति अपरिमितागुणसञ्चये लोकधातौ

1.7

ओम् नमो भगवते । तेन खलु पुनः समयेन नवनवतीनां बुद्धकोटीनाम् एकमतेनैकस्वरेण इदम् अपरिमितायुः सूत्रं भाषितम्

1.8

ओम् नमो भगवते । तेन खलु पुनः समयेन चतुरशीतीनां बुद्धकोटीनाम् एकमतेनैकस्वरेण इदम् अपरिमितायुः सूत्रं भाषितम्

1.9

ओम् नमो भगवते । तेन खलु पुनः समयेन सप्तसप्ततीनां बुद्धकोटीनाम् एकमतेनैकस्वरेण इदम् अपरिमितायुः सूत्रं भाषितम्

1.10

ओम् नमो भगवते । तेन खलु पुनः समयेन पञ्चषष्टीनां बुद्धकोटीनाम् एकमतेनैकस्वरेण इदम् अपरिमितायुः सूत्रं भाषितम्

1.11

ओम् नमो भगवते । तेन खलु पुनः समयेन पञ्चपञ्चशतीनां बुद्धकोटीनाम् एकमतेनैकस्वरेण इदम् अपरिमितायुः सूत्रं भाषितम्

1.12

ओम् नमो भगवते । तेन खलु पुनः समयेन पञ्चचत्वारिशतीनां बुद्धकोटीनाम् एकमतेनैकस्वरेण इदम् अपरिमितायुः सूत्रं भाषितम्

1.13

ओम् नमो भगवते । तेन खलु पुनः समयेन षट्त्रिंशतीनां बुद्धकोटीनाम् एकमतेनैकस्वरेण इदम् अपरिमितायुः सूत्रं भाषितम्

1.14

ओम् नमो भगवते । तेन खलु पुनः समयेन पञ्चविंशतीनां बुद्धकोटीनाम् एकमतेनैकस्वरेण इदम् अपरिमितायुः सूत्रं भाषितम्

1.15

ओम् नमो भगवते । तेन खलु पुनः समयेन गङ्गानदीवालुकोपमानां बुद्धकोटीनाम् एकमतेनैकस्वरेण इदम् अपरिमितायुः सूत्रं भाषितम्

1.17

ओम् नमो भगवते । य इदम् अपरिमितायुः सूत्रं लिखिष्यति लिखापयिष्यति स न कदाचिन्नरकेषूपपद्यते न तीर्यग्योनौ न यमलोके न अक्षणेषु च कदाचिद् अपि उपपस्यते । यत्र यत्र जन्मन्युपपद्यते, तत्र तत्र सर्वत्र जातौ जातौ जातिस्मरो भविष्यन्ति

1.18

ओम् नमो भगवते । य इदम् अपरिमितायुः सूत्रं लिखिष्यति लिखापयिष्यति तेन चतुरशीतिधर्मस्कन्धसहस्राणि लिखापितानि भविष्यन्ति

1.19

ओम् नमो भगवते । य इदम् अपरिमितायुः सूत्रं लिखिष्यति लिखापयिष्यति तेन चतुरशीतिधर्मराजिकासहस्राणि कारापितानि प्रतिष्ठापितानि भविष्यन्ति

1.20

ओम् नमो भगवते । य इदम् अपरिमितायुः सूत्रं लिखिष्यति लिखापयिष्यति तस्य पञ्चानन्तर्याणि कर्मावरणानि परिक्षयं गच्छन्ति

1.22

ओम् नमो भगवते । य इदम् अपरिमितायुः सूत्रं लिखिष्यति लिखापयिष्यति, तस्य न मारो न मारकायिका न यक्ष न राक्षसा नाकालमृत्युरेवतारं लप्स्यन्ते

1.23

ओम् नमो भगवते । य इदम् अपरिमितायुः सूत्रं लिखिष्यति लिखापयिष्यति, तस्य मरणकालसमये नवनवतयो बुद्धकोट्यः सम्मुखं दर्शनं दास्यन्ति, बुद्धसहस्रं हस्तेन हस्तं तस्योपनामयन्ति, बुद्धक्षेत्राद्बुद्धक्षेत्रं सङ्क्रामति, नात्र काङ्क्षा न विचिकित्सा न विमातिरुत्पादयितव्या

1.24

ओम् नमो भगवते । य इदम् अपरिमितायुः सूत्रं लिखिष्यति लिखापयिष्यति, तस्य चत्वारो महाराजानः पृष्ठतः पृष्ठतः समनुबद्ध रक्षावरणगुप्तिं करिष्यन्ति

1.25

ओम् नमो भगवते । य इदम् अपरिमितायुः सूत्रं लिखिष्यति लिखापयिष्यति स सुखावत्यां लोकधातौ अमिताभस्य तथागतस्य बुद्धक्षेत्रे उपपद्यते

1.26

ओम् नमो भगवते । य इदम् अपरिमितायुः सूत्रं लिखिष्यति लिखापयिष्यति, स पृथिवीप्रदेशः चैत्यभूतो वन्दनीयश्च भविष्यति । येषां तिर्यग्योनिगतानां मृगपक्षीनां कर्णपुटे निपतिष्यति ते सर्वे अनुत्तरायां सम्यक् सम्बोधौ अभिसम्बोधिम् अभिसम्भोत्स्यन्ते

1.27

ओम् नमो भगवते । य इदम् अपरिमितायुः सूत्रं लिखिष्यति लिखापयिष्यति तस्य स्त्रीभावो न कदाचिद् अपि भविष्यति

1.28

ओम् नमो भगवते । य इदम् अपरिमितायुः सूत्रं धर्मपर्यायम् उद्दिश्य एकम् अपि कार्षापणं दानं दास्यति, तेन त्रिसाहस्रमहासाहस्रलोकधातुं सप्तरत्नपरिपूर्णं कृत्वा दानं दत्तं भवति

1.29

ओम् नमो भगवते । य इदम् धर्मभाणकं पूजयिष्यति, तेन सकलसमाप्तः सद्धर्मः पूजितो भवति

1.30

ओम् नमो भगवते । यथा विपश्विशिखिविश्वभुक्रकुच्छन्दकनकमुनिकाश्यपशाक्यमुनिप्रभृतीनां तथागतानां सप्तरत्नमयः पूजाः कृत्वा तस्य पुण्यस्कन्धस्य प्रमाणं शक्यं गणयितुं, न त्वापरिमितायुः सूत्रस्य पुण्यस्कन्धस्य प्रमाणं शक्यं गणयितुम्

1.31

ओम् नमो भगवते । यथा सुमेरोः पर्वतराजस्य समानां रत्नराशिं कृत्वा दानं दद्यात्, तस्य पुण्यस्कन्धस्य प्रमाणं शक्यं गणयितुं, न त्वापरिमितायुः सूत्रस्य पुण्यस्कन्धस्य प्रमाणं शक्यं गणयितुम्

1.32

ओम् नमो भगवते । यथा चत्वारो महासमुद्रा उदकपरिपूण्णा भवेयुः, तत्र एकैकविन्दुं शक्यं गणयितुं, न त्वापरिमितायुः सूत्रस्य पुण्यस्कन्धस्य प्रमाणं शक्यं गणयितुम्

1.33

ओम् नमो भगवते । य इदम् अपरिमितायुः सूत्रं लिखिष्यति लिखापयिष्यति संस्कृत्य पूजयिष्यति तेन दशसु दिक्षु सर्वबुद्धक्षेत्रेषु सर्वतथागता वन्दिताः पूजिताश्च भविष्यन्ति

1.34

ओम् नमो भगवते ।
दानबलेन समुद्गत बुद्धो दानबलाधिगता नरसिंहः ।
दानबलस्य च श्रूयति शब्द कारुणिकस्य पुरे प्रविशन्तं

1.35

शीलबलेन समुद्गत बुद्धो शीलबलाधिगता नरसिंहः ।
शीलबलस्य च श्रूयति शब्द कारुणिकस्य पुरे प्रविशन्तं

1.36

क्षान्तिबलेन समुद्गत बुद्धो क्षान्तिबलाधिगता नरसिंहः ।
क्षान्तिबलस्य च श्रूयति शब्द कारुणिकस्य पुरे प्रविशन्तं

1.37

वीर्यबलेन समुद्गत बुद्धो वीर्याबलाधिगता नरसिंहः ।
वीर्यबलस्य च श्रूयति शब्द कारुणिकस्य पुरे प्रविशन्तं

1.38

ध्यानबलेन समुद्गत बुद्धो ध्यानबलाधिगता नरसिंहः ।
ध्यानबलस्य च श्रूयति शब्द कारुणिकस्य पुरे प्रविशन्तं

1.39

प्रज्ञाबलेन समुद्गत बुद्धो प्रज्ञाबलाधिगता नरसिंहः ।
प्रज्ञाबलस्य च श्रूयति शब्द कारुणिकस्य पुरे प्रविशन्तं

1.40

ओम् नमो भगवते । इदम् वोचद्भगवान् आत्तमनस्ते च भिक्षवस्ते च बोधिसत्त्व महासत्त्वः सा च सर्वावती पर्षत् सदेवमानुषासुरगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दनम् इति

मूल पाठ: Aparimitāyuḥsūtra · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc