भाषा

ENहिગુ
ग्रंथ पाठ

अनित्यतासूत्र · भाग 11

अनित्यता-सूत्रम्
ओम् नमः सर्वज्ञाय ॥
1. एवम् मया श्रुतम्, एकस्मिन् समये भगवान् श्रावस्त्यां विहरति स्म ( अस् 31 ) जेतवने ऽनाथपिण्डस्यारामे महता भिक्षुसंघेन सार्धम् अर्धत्रयोदशभिर् भिक्षुशतैः ॥
2. तत्र खलु भगवान् भिक्षून् आमन्त्रयते स्म । अनित्यता भिक्षवः सर्वसंस्कारा अध्रुवा अनास्वासिका विपरिणामधर्मानः । यद् यावद् भिक्षवः सर्वेभ्यः संस्कारेभ्यो ऽलं निर्वेतुम् अलं विरक्तुम् अलं विमोक्तुं ॥
3. सर्वेषाम् सत्त्वानां सर्वेषां भूतानां सर्वेषां प्राणिनाम् आमरणान्तं हि जीवितं मरणपर्यवसानं नास्ति जातस्यामरणं ॥
4. ये ऽपि ते भिक्षवो गृहपतयो महासालकुला ब्राह्मणमहासालकुला क्षत्रियो महासालकुला आसां महाधना महाभोगाः प्रभूतमणिमा निष्कमुक्तावैडूर्यशंखशिलाप्रवालजातरूपरजतवित्तोपकरणाः प्रभूतधनधान्यकोष्ठागारसन्निचयाः प्रभूतदासिदासकर्मकरपौरुषेयाः प्रभूतमित्रामात्यज्ञातिसालोहितास्, तेषाम् अपि मरणान्तं जीवितं मरणपर्यवसानं नास्ति जातस्यामरणं ॥
5. ये ऽपि ते भिक्षवः राजानः क्षत्रियाश् च मूर्ध्नाभिषिक्ता जानपदैश्वर्यास्थामवीर्यम् अनुप्राप्ता महान्तं पृथ्वीमण्डलम् अभिनिर्जित्यावसन्ति, तेषाम् अपि मरणान्तं हि जीवितं मरणपर्यवसानं नास्ति जातस्यामरणं ॥
ये ऽपि ते भिक्षव ऋषयो वानप्रस्थाः प्रमुक्तफलाहाराः प्रमुक्तफलभोजिनः प्रमुक्तफलेन यापन्ति, तेषाम् अपि मरणान्तं हि जीवितं मरणपर्यवसानं नास्ति जातस्यामरणं ॥
7. ये ऽपि ते भिक्षवः कामावचरा देवाश् चातुर्महाराजिका देवास् त्रयस्त्रिंशा देवा यामा देवास् तुषिता देवा निर्माणरतयो देवाः परनिर्मितवशवर्तिनो देवास्, तेषाम् अपि मरणान्तं हि जीवितं मरणपर्यवसानं नास्ति जातस्यामरणं ॥
8. ये ऽपि ते भिक्षवो रूपिनो देवाः, प्रथमध्यानलाभिनो ब्रह्मकायिका ब्रह्मपुरोहिता ब्रह्मपार्षद्या महाब्रह्माणा, द्वितीयध्यानलाभिनः परित्तशुभा अप्रमाणशुभा आभास्वरास्, तृतीयध्यानलाभिनः परित्तशुभा अप्रमाणशुभाः शुभकृत्स्नाश्, चतुर्थध्यानलाभिनो ऽनभ्रकाः पुण्यप्रसवा वृहत्फला असंज्ञिसत्त्वा अवृहा ( अस् 33 ) अतपाः सुदर्शाः सुदर्शना अकनिष्ठाश् च देवास्, तेषाम् अपि मरणान्तं हि जीवितं मरणपर्यवसानं नास्ति जातस्यामरणं ॥
9. ये ऽपि ते भिक्षवो ऽरूपिनो देवा आकाशानन्त्यायतनोपगा विज्ञानानन्त्यायतनोपगा आकिंचित्यायतनोपगा नैवसंज्ञानासंज्ञायतनोपगाश् च देवाश् च, तेषाम् अपि मरणान्तं हि जीवितं मरणपर्यवसानं नास्ति जातस्यामरणं । त्रैधातुकम् इदं ॥
10. ये ऽपि ते भिक्षवो ऽर्हन्तः क्षीणाश्रवा कृतकृत्याः कृतकरणीया अपहृतभारा अनुप्राप्तस्वकार्थाः परिक्षीणभवसंयोजनाः सम्यगाज्ञासुविमुक्तचित्ताः सर्वचेतोवसिपरमपारमिताप्राप्तास्, तेषाम् अपि काया निक्षेपणधर्माः ॥
11. ये ऽपि ते भिक्षवः प्रत्येकबुद्धाः खड्गविषाणकल्पा एकम् आत्मानं दमन्ति एकम् आत्मानं शमयन्ति एकम् आत्मानं परिनिर्वापयन्ति, तेषाम् अप्य् अयं कायो निक्षेपणधर्मः ॥
12. ये ऽपि ते भिक्षवस् तथागता अर्हन्तः सम्यक्संबुद्धा दशबलबलिनः उदारार्षभाः सम्यक्सिंहनादनादिनश् चतुर्वैशारद्यं, धर्मारोहणवैशारद्यं सर्वधर्मदेशनावैशारद्यं निर्वाणमार्गावतारणवैशारद्यं आश्रवज्ञानप्रहाणवैशारद्यं, विशदादृढनारायणसंहतकायास्, ( अस् 34 ) तेषाम् अप्य् अयम् कायो निक्षेपणधर्मः ॥
13. तद्यथापि नाम भिक्षवः कुम्भाकारकृतानि भाण्डा आमानि वा पक्वानि वा भेदनपर्यन्तानि भेदनपर्यवसान्य्, एवम् एव भिक्षवः सर्वेषां सत्त्वानां सर्वेषां भूतानां सर्वेषां प्राणिनां मरणान्तं हि जीवितं मरणपर्यवसानं नास्ति जातस्यामरणं ॥
14. इदम् अवोचद् भगवान्, इदम् उक्त्वा सुगतो ह्य् अथापरावोचत् शास्ता ।
अनित्या वत संस्कारा उत्पादव्ययधर्मिनः ।
उत्पद्य हि निरूध्यन्ते तेषां व्युपशमः सुखं ॥
यथाहि कुम्भकारेण मृत्तिकाभाजनं कृतं ।
सर्वम् भेदनपर्यन्तं सत्त्वानां जीवितं तथा ॥
यथा फलानां पक्वानां शश्वत् पतनतो भयं ।
तथा संस्कारजाः सत्त्वानां नित्यं मरणतो भयं ॥
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।
संयोगाश् च वियोगान्ता मरणान्तं हि जीवितं ॥
15. इदम् अवोचद् भगवान् आत्तमनस् ते च भिक्सवस् ते च पर्षदो भगवतो भाषितम् अभ्यनन्दन् ॥
इत्य् आर्यानित्यतासूत्रं समाप्तं ॥
@अल्ल् थे वेर्सेस् उसेद् हेरे अरे fओउन्द् इन् थे उदानवर्ग (सन्स्क्रित्तेxते औस् देन् तुर्fअन्fउन्देन् x, हेरौस्गेगेबेन् वोन् f. बेर्न्हर्द्, ब्द्. इ, ग्öत्तिन्गेन् 1965), अनित्यवर्ग, वेर्सेस् नोस्. 3, 12, 11 अन्द् 22.@@

मूल पाठ: Anityatāsūtra · Edition: Isshi Yamada. "Anityatāsūtra", Journal of Indian and Buddhist Studies [= IBK], 20,2 (1972), pp. 1001-996(30-35). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc