भाषा

ENहिગુ
ग्रंथ पाठ

आनन्दकन्द · अध्याय 1.11

1.11.1

आक्, 1, 11
<जीवत एव दिव्यदेहसिद्धिः; भूतकालान्तकरसः>
श्रीभैरवी ।
देवदेव महादेव कथितानि त्वयाधुना ।
रसायनानि दिव्यानि सिद्धिदानि महेश्वर

1.11.2

चिरकालेन देहानां कल्पानां सिद्धिदानि हि ।
सद्यः सिद्धिर्यथा देव जायते परमेश्वर

1.11.3

तद्ब्रूहि न्यूनाभ्यधिकहीनक्षीणाङ्गिनाम् अपि ।
अथ गद्गदमूकानां कुब्जानामथ कुष्ठिनाम्

1.11.4

अन्धपङ्ग्वबलानां च जराजर्जरितात्मनाम् ।
सदा रोगार्तषण्डानां कृशानां भ्रान्तचेतसाम्

1.11.5

भूतप्रेतपिशाचापस्मारोन्मत्तयुजामपि ।
प्रमादाज्जीवशेषाणां देहसिद्धिप्रदं नृणाम्

1.11.6

श्रीभैरवः ।
श्रुत्वा तद्भैरवीवाक्यं साधु पृष्टं त्वया प्रिये ।
तथाविधां प्रवक्ष्यामि देहसिद्धिं वरानने

1.11.7

पञ्चभूतात्मिकाः पञ्च कर्तव्या घुटिकाः प्रिये ।
जीवात्मिका भवेत्षष्ठी घुटिका पिण्डकोष्टयुक्

1.11.8

काले तु या कन्या कुर्यात्संभोगमायतम् ।
तद्वराङ्गस्थितं रक्तं शुक्लं स्याद्व्योमसत्वकम्

1.11.9

तस्याः सद्यः प्रसूतस्य विष्ठा पुत्रस्य मारुतम् ।
तत्त्वं स्यात्केवलं तस्या रजस्तेजात्मसत्त्वकम्

1.11.10

तदपत्यस्य रुधिरं जलतत्त्वं प्रकीर्तितम् ।
तत्सूतस्य वपुः सर्वं पार्थिवं तत्त्वमुच्यते

1.11.11

सूतसेवकशुक्लं च जीवतत्त्वं भवेत्प्रिये ।
कोटिवेधकरं सूतं कर्षं कर्षं नियोजयेत्

1.11.12

एकैकतत्त्वमध्ये तु प्रसेकं तानि मर्दयेत् ।
तेषां च गोलकान्कृत्वा षड्रसं स्थापयेत्पृथक्

1.11.13

नृमानमुन्नतं कायमायामं तु तदर्धकम् ।
कटाहं ताम्रघटितं पिण्डस्थौल्यं षडङ्गुलम्

1.11.14

चतुर्मुखमयं कोष्ठं तस्योपरि कटाहकम् ।
धारयेन्निश्चलं सम्यक्तदन्तः पूरयेत्प्रिये

1.11.15

गोघृतं च महातैलं समभागमिदं द्वयम् ।
अर्चयेद्दशदिक्पालान् योगिनीश्च कुमारिकाम्

1.11.16

श्रीगुरुं सिद्धचक्रं च भैरवं भैरवीं तथा ।
गणाधिपं क्षेत्रपालं निजेष्टदैवतं तथा

1.11.17

नवग्रहाग्निविप्रांश्च दैवज्ञान् भिषगुत्तमान् ।
तथान्तरायकर्त्ःंश्च भूतप्रेतपिशाचकान्

1.11.18

यक्षराक्षसगन्धर्वान्मन्त्रज्ञान्स्वजनानपि ।
तर्पयेन्मद्यमांसैश्च वस्त्रभूषणकाञ्चनैः

1.11.19

तत्तत्प्रियकरैर् दिव्यैर्बलिं दिक्षु विनिक्षिपेत् ।
चतुर्भिर्वङ्कनालैश्च धमयेत्खदिराग्निना

1.11.20

फेनहीनम् अधूमं च संतप्तं च यदा भवेत् ।
श्रीगुरुं निजदेवं च चन्द्रसूर्याग्नितारकाः

1.11.21

भुवनानि नमस्कृत्य कटाहे निक्षिपेत्तनुम् ।
ज्ञात्वा सम्यग्द्रुतं देहं पार्थिवाख्यं रसं क्षिपेत्

1.11.22

धमेद्गाढं प्रयत्नेन तत्कल्कं च यदा भवेत् ।
ततो ऽप्तत्त्वाख्यरसकं निक्षिपेद् रक्ततां नयेत्

1.11.23

तेजस्तत्त्वरसं पश्चात्क्षिपेत्तन्मांसतां व्रजेत् ।
निक्षिपेद्वायुतत्त्वाख्यं रसं तत्र विनिक्षिपेत्

1.11.24

शुभ्रवर्णत्वमाप्नोति ततश्चाकाशतत्त्वकम् ।
निक्षिपेज्जीवतत्त्वाख्यं रसतत्त्वं च पार्वति

1.11.25

रसं क्षिपेत्त्वन्ध्रितस्य स्वर्णस्य तत्समं भवेत् ।
सजीवो जायते सिद्धो हुंकारत्रयम् उच्चरेत्

1.11.26

यथोदितो भानुबिम्बो महाबुद्धिपराक्रमः ।
महावपुर्महातेजा नागायुतमहाबलः

1.11.27

मन्मथोपमरूपाढ्यो वाचा वागीश्वरीसमः ।
बुद्ध्या जीवसमः श्रीमान्विष्णुवद्धनदोपमः

1.11.28

त्यागे रोषे च कालाग्निर्गाम्भीर्येण महोदधिः ।
स्रष्टा हर्ता च गोप्ता च सर्वानुग्राहकः प्रभुः

1.11.29

दिव्यदृष्टिर् वज्रदेहः स साक्षाद्भैरवस्त्वयम् ।
अर्धयोजनविस्तीर्णहेमकिङ्किणिमण्डितम्

1.11.30

चलद्भ्रमरसशोभं नानामाणिक्यमण्डितम् ।
हेममालापरिष्वक्तं घण्टानादमनोहरम्

1.11.31

दिव्यदीप्तमहानादिशङ्खकाहलसंकुलम् ।
वीणावेणुमृदङ्गाद्यैर् वादित्रैर् मुरजैः समम्

1.11.32

तालैर्बहुविधैश्चान्यैर्दिव्यघोषैः समाकुलम् ।
गायत्किन्नरगन्धर्वैस्तथा किंपुरुषैर्युतम्

1.11.33

लसन्माणिक्यकेयूरहारकङ्कणमुद्रकाः ।
काचनूपुरसंयुक्ता दिव्याभरणभूषिताः

1.11.34

दिव्यमालापरिष्कारा दिव्यगन्धानुलेपनाः ।
दिव्याम्बराश्चारुरूपा मत्तमन्मथविह्वलाः

1.11.35

दिव्याङ्गनास्तदा चैनं समाश्रित्य ब्रुवन्ति च ।
किं कर्म सिद्धसंखेदास् त्वादेशो देव दीयताम्

1.11.36

उपासते सिद्धकन्याः परः शतसहस्रकम् ।
यत्र यास्यति तत्रैव चानुयामो वयं वृताः

1.11.37

दिव्यालयांश्च विविधान्हेममाणिक्यमण्डितान् ।
दिव्यानि स्नानपानानि स्वीकुर्वाणो मुहुर्मुहुः

1.11.38

वज्र्यादिसर्वलोकेषु स्वेच्छया विहरत्यसौ ।
पूज्यते देवसिद्धौघैः यथायं भैरवस्तथा

1.11.39

भुञ्जानः सर्वभोगांश्च क्षुत्पिपासाविवर्जितः ।
योगिनीशतसाहस्रं भोक्ता संचिन्तयन् सुखम्

1.11.40

महाकल्पान्तकालेऽपि प्रक्षीणेऽस्मिन्वरानने ।
लीयते परमे व्योम्नि लीयन्ते यत्र देवताः

1.11.41

भूतकालान्तको नाम रसस्यास्य प्रभावतः ।
अभेद्यो ऽयम् अखण्ड्यश्च त्वदाह्यो भवति प्रिये

1.11.42

रसायनस्य सर्वस्य सिद्धिदोऽयं महेश्वरि ।
वक्ष्यते मन्त्रराजोऽयं रससिद्धिप्रदायकः

1.11.43

ऐं ह्रीं श्रीं क्लीं सौः श्रीभैरव

मूल पाठ: Ānandakanda · Edition: S.V. Radhakrishna Sastri, Srirangam: Sri Vilasam Press, 1952. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc