भाषा

ENहिગુ
ग्रंथ पाठ

अमोघपाशनामहृदयं महायानसूत्रम् · भाग 12

ओं नमो लोकनाथाय ॥ एव ं मया श्रुतम् एकस्मिन् समये भगवान् पोतलके पर् व् अते विहरति स्म ॥ आर्यावलोकितेश्वरस्य भवने अनेकशालत् आ लतमालचम्पकाशोकातिमुक्तकनानारत्नवृक्षसमलङ्कृते । महता भिक्षुसंघेन सार् ध् अम् अष्टाशीतिभिर् भिक्षुशतसहस्रैर् नवनवतिभिश् च बोधिसत्वकोटीनियुतशतसहस्रैर् अनेकैश् च शुद्धावासकायिकैर् देवपुत्रकोटीनियुतशतसहस्रैः । परिवृतः पुरस्कृत ईश्वरमहेश्वरब्रह्मकायिकान् देवपुत्रान् अधिकृत्य धर् म् अन् देशयति स्म ॥ अथ खल्व् आर्यावलोकितेश्वरो बोधिसत्वो महासत्व उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं कृत्वा प्रणम्य प्रहसितवदनो भूत्वा भगवन्तम् एतद् अवोचत् ॥
अस्ति मम भगवन्न् अमोघपाशराजं नाम हृदयं यन् मया पूर् व् अम् एकनवतिमे कल्पे विलोकितायां लोकधातौ लोकेन्द्रराजस्य तथागतस्य सकाशाद् उद्गृहीतं येन मे भगवन्न् ईश्वरमहेश्वरदेवपुत्रप्रमुखानि बहूनि शुद्धावासकायिकदेवपुत्रप्रमुखान्य् अनेकानि देवपुत्रशतसहस्राणि समादापितान्य् अनुत्तरायां सम्यक्संबोधौ ॥ असंमोहज्ञानव्यूहप्रमुखानि च मया दशसमाधिशतसहस्राणि प्रतिलब्धानि । यस्मिंश् च पुनर् भगवन् पृथिवीप्रदेशे । इदम् अमोघपाशहृदयं प्रचरेत् ॥ वेदितव्यं भगवन्स् तस्मिन् पृथिवीप्रदेशे । ईश्वरमहेश्वरब्रह्मकायिकप्रमुखानि द्वादशदेवपुत्रशतसहस्राणि रक्षावरणगुप्तये स्थास्यन्ति ॥ चैत्यस ं मतो भगवन् स पृथिवीप्रदेशो भविष्यति । यत्रेदम् अमोघपाशहृदय ं प्रचरिष्यति । अनेकबुद्धकोटीनियुतशतसहस्रावरोपितकुशलमूलास् ते भगवन् सत्वा भविष्यन्ति । य इद ं मदीयम् अमोघपाशहृदयं श्रोष्यन्ति ॥
यः कश्चिद् भगवन् किल्विषकारी स्यात् सर् व् अपापास्पदः पापधर् म् असमाचार आर्यापवादकः सद्धर् म् अप्रतिक्षेपकः । अवीचिपरायणः सर् व् अबुद्धबोधिसत्वार्यश्रावकप्रत्येकबुद्धप्रतिक्षेपकः सचेद् विप्रतिसारङ् गच्छेत् । आयत्यां स ं वरम् आपद्यते ॥ तस्यैव तावद् भगवन्न् एकोपवासजापेन । इहैव जन्मनि तत् कर् म् अ विशुध्यति परिक्षयङ् गच्छति । वांत्तीभवति । एकाहिकेन ज्वरेण द्व्याहिकेन वा ॥ त्र्याहिकेन वा । चातुर्थिकेन वा । एवं सप्ताहिकेन वा ज्वरेण । अक्षिशूलेन वा नासाशूलेन वा । कर् ण् अशूलेन वा । दन्तशूलेन वा । ओष्ठशूलेन वा । जिह्वाशूलेन वा । तालुशूलेन वा हृदयशूलेन वा । उदरशूलेन वा । पार्श्वशूलेन वा । कटिशूलेन वा । अङ्गप्रत्यङ्गशूलेन वा । अ र्शो ग्रहणीशूलेन वा । अतीसारेण वा । हस्तपादवेदनया वा । शिरोरुजया वा ।
वलाहकश्वित्रकुष्ठविचर् च् इकाकिटिमलोहलिङ्गगलग्रहभगन्दरविस्फोटकापस्मारकाखोर्दैर् अन्यैर् वा कृत् य् आपकृत् य् ऐर् वा । वधबन्धनताडनतर् ज् अनाभूताभ्याख्यानैर् वा । संक्षेपतो भगवन् कायपीडया वा चित्तपीडया वा । दुःस्वप्नदर्शनेन वा तत् कर् म् अ परिक्षयङ् गच्छति । पर्यवदानङ् गच्छति । प्राग् एव शुद्धसत्वानां श्रद्धाधिमुक्तिकानां । यदि भगवंश् चतस्रः पर्षदश् चत्वारो वर् ण् आ मायाशाठ्येनापि य इदम् अमोघपाशहृदयं श्रोष्यन्ति उद्गृहीष्यन्ति । धारयिष्यन्ति । वाचयिष्यन्ति । लिखिष्यन्ति । लिखापयिष्यन्ति । पर्यवाप्स्यन्ति । अन्येषां वा सत्वानां श्रावयिष्यन्ति । अन्तशस् तिर्यग्योनिगतानां कर् ण् अपुटे स्थित्वा कर् ण् अजापेन दास्यन्ति । इमानि मन्त्रपदानि चिन्तयिष्यन्ति । अप्रतिक्षेपतो ऽरूपतो ऽविकल्पतो ऽस ं भवतो ऽचिरङ्गमतो ऽकरणतो निर्लेपतो । समचिंतानिक्षेपतः । विरहितपंचस्कंधतः । अनेन योगेन बुद्धानुस्मृतिर् भावितव्या । तद् एषां दशभ्यो दिग्भ्यो बुद्धसहस्रं संमुखं दर्शनं कारयिष्यंति । अत्ययदर्शनं च करिष्यंति । पेयालं । यावत् पुस्तकलिखितं कृत्वा गृहे स्थापयिष्यंति । किं बहुना भगवन्न् अन्योन्यस्पर्धया वा श्रोष्यंति । स्वामिभयेन वा परानुवृत्या वा उच्चग्घनहेतुना वा श्रोष्यंति । ज्ञातव्यं भगवन् पण्डितेनार्यावलोकितेश्वरस्यानुभावेन तेषां कर्णपुटे स्थिता स शब्दो निपतिष्यंति ॥ तद्यथापि ॥ स भगवन् कश्चिद् एव पुरुषश् चंदनं वा कर्पूरं वा कस्तूरिकां वा आक्रुश्य परिभाष्य शिलायां वा पिष्ट्वा आत्मानं लेपयेत् । न च तस्य चंदनस्य कर्पूरस्य कस्तूरिकायाश् चैवं भवति । अनेनाहम् आक्रुष्टः परिभाषितो वा गन्धेनातिक्रमिष्यामि ति । अपि च सुगंध एव सः । एवम् एव भगवन्न् इदं मदीयम् अमोघपाशहृदयं । यः कश्चिद् उच्चग्घ्य उल्लाप्य पेयालं । यावन् मायाशठ्येनापि पूजयेत् तेषां भगवन् खटुकंसत्वानां स एव कुशलमूलहेतुर् भविष्यति । यत्र यत्रोपपत्स्यंते तत्र तत्राविरहिताश् च भविष्यंति शीलसमाधिप्रज्ञापुण्यसंभारगंधेन । शीलसौगन्धिकम् एव करोति ॥
यः कश्चिद् भगवन् कुलपुत्रो वा कुलदुहिता वा भिक्षुर् वा भिक्षुणी वा उपासको वा उपासिका वा तदन्यो वा कश्चित् सत्वः अमोघपाशहृदयम् उद्दिश्य शुक्लाष्टम्याम् उपवासं कुर्यात् । सप्तवारान् अमोघपाशहृदयम् अनालापतः परिवर् त् अयेत् । तस्य भगवन् दृष्ट एव धर्मा विंशतिर् अनुशंसाः प्रतिकांक्षितव्याः । कतमे विंशतिर् यद् उत
(1) रोगाश् चास्य काये नोत्पत्स्यंते ।
(2) उत्पन्नाश् चास्य रोगाः कर्मवशेन शीघ्रं प्रशमं यास्यंति ।
(3) स्निग्धमनोज्ञश्लक्ष्णगात्रश् च भविष्यति ।
(4) बहुजनप्रियश् च भविष्यति ।
(5) गुप्तेंद्रियो ऽर्थप्रतिलंभश् चास्य भविष्यति ।
(6) उत्पन्नं चास्यार्थं न चौराः प्रतिमोष्यन्ति ।
(7) अग्निना न दह्यन्ते नोदकेन ह्रियन्ते न राजा शक्नोति मनसाप्य् अपहर्तुम् ।
(8) कर्मान्ताश् चास्य स्फीता भविष्यंति ।
(9) नाशनिर् नोदकभयं भविष्यति ।
(10) न वातवृष्टिभयं भविष्यति ।
(11) सप्तवारान् अमोघपाशहृदयेन भस्मोदकं वा परिजप्य दिग् विदिग् अध ऊर् ध् वं च क्षेत्रस्य बंधो दातव्यः । सर्वोपद्रवा उपशमिष्यन्ति ।
(12) न च्ऽ ओजोहारा ओजो ऽपहर्तुं शक्नुवंति ।
(13) सर्वसत्वानां च प्रियो भविष्यति ।
(14) न चास्य शत्रुभयं भविष्यति ।
(15) उत्पन्नं चास्य शत्रुभ यं शीघ्रं प्रशमं यास्यति ।
(16) न चास्यामनुष्यभयं भविष्यति ।
(17) न काखोर्दभयं न चास्य डाकिनीभयं न चास्य तीव्राः क्लेशोपक्लेशा भविष्यन्ति ।
(18) नाग्निना न शस्त्रेण । न विषेण कालं करिष्यति ।
(19) देवताश् चास्य सततसमितं रक्षावरणगुप्तये स्थास्यन्ति ।
(20) यत्र यत्रोपपत्स्यते । तत्र तत्राविरहितश् च भविष्यति । मैत्रीकरुणामुदितोपेक्षया ।
इमे विंशतिर् अनुशंसाः प्रतिकांक्षितव्याः ॥ अपरान् अष्टौ धर् म् आन् प्रतिलप्स्यते । कतमान् अष्टौ
(1) मरणकाले आर्यावलोकितेश्वरो भिक्षुरूपेन स ं मुखन् दर्शनं दास्यति ।
(2) सुखेन कालं करिष्यति ।
(3) न भ्रान्तदृष्टिर् भविष्यति ।

(4) न हस्तविक्षेपं करिष्यति । न पादविक्षेपं करिष्यति । नोच्चारप्रस्रावन् न मञ्चावरूढः कालं करिष्यति ।
(5) सूपस्थितस्मृतिर् भविष्यति ।
(6) नाधोमुखः कालं करिष्यति ।
(7) मरणकाले अक्षयप्रतिभानञ् चास्य भविष्यति ।
(8) यत्र चास्य बुद्धक्षेत्रे प्रणिधिस् तत्रोपपत्तिर् भविष्यति । अविरहितश् च कल्याणमित्रैर् भविष्यति ।
दिने दिने त्रिष्कालं त्रीणि वारान् परिवर् त् अयितव्यः । मद्यमान्सपलाण्डुगृञ्जनकलशुनशङ्कारकृतोच्छिष्टविशेषार्थिना ह्य् एते वर् ज् यः ॥ अयञ् चामोघपाशहृदयो धर् म् अपर्यायः सर् व् असत्वानां बलाबलं ज्ञात्वा श्रावयितव्यः । आचार्यमुष्टिर् न कर् त् अव्या । यस्माद् विगतमलमात्सर्या । ईर्ष्यापगता बोधिसत्वा भवन्ति । सत्वानाम् अर्थकरणेनैव बुद्धबोधिः प्राप्यते । बोधिसत्वानां गणताञ् च गच्छति । बोधिर् उच्यते प्रज्ञा । सत्व उच्यते उपायः ॥ एतौ द्वौ धर् म् औ सत्वानाम् अर्थेनैव प्राप्येते । सचेन् पुनर् भगवान् जानीयात् ॥ न्व् अहम् इमम् अमोघपाशहृदयन् तथागतस्य पुरतः कीर् त् अयेयं चतसृणां पर्षदाम् अर्थाय हिताय सुखायान्येषाञ् च पापकारिणां ।
अथ खलु भगवान् आर्यावलोकितेश्वरं बोधिसत्वं महासत्वम् एतद् अवोचत् ।
भाष त्वं शुद्धसत्व । यस्येदानीं कालं मन्यसे ॥ अनुमोदितं तथागतेन पश्चिमे काले पश्चिमे समये बोधिसत्वयानिकानां पितृकार्यं करिष्यति ॥
अथ खल्व् आर्यावलोकितेश्वरो बोधिसत्वो महासत्वो ऽनिमिषनयनो भूत्वा भगवन्तम् एतद् अवोचत् ॥
शृणु मे भगवन् सर् व् अबोधिसत्वनमस्कृतम् इदं विमोक्षमुखमण्डलं बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय ॥
ओं ॥ नमस् त्र्यध्वानुगतप्रतिष्ठितेभ्यः सर्वबुद्धबोधिसत्वेभ्यः । नमः प्रत्येकबुद्धार्यश्रावकसंघेभ्यो ऽतीतानागतप्रत्युत्पन्नेभ्यः । नमः सम्यग्गतानाम् । नमः सम्यक्प्रतिपन्नानां । नमः शारद्वतीपुत्राय महामतये । नम आर्यमैत्रेयप्रमुखेभ्यो बोधिसत्वसंघेभ्यः ।

नमः सुप्रतिष्ठितशैलेन्द्रराजप्रमुखेभ्यः सर्वतथागतेभ्यो ऽर्हद्भ्यः सम्यकसंबुद्धेभ्यो भगवद्भ्यः ।
नमः सुवर् ण् अवर् ण् अविनिर्दितेश्वरराजाय तथागताय । नमः सिंहविक्रीडितराजाय तथागताय । नम आर्यामिताभाय तथागताय । नमः सुप्रतिष्ठितमणिकूटराजाय तथागताय । नमः समन्तरश्म्युद्गतश्रीकूटराजाय तथागताय । नमो विपश्यिने तथागताय । नमः शिखिने तथागताय । नमो विश्वभुवे तथागताय । नमः क्रकुच्छन्दाय तथागताय । नमः कनकमुनये तथागताय । नमः काश्यपाय तथागताया । नमः शाक्यमुनये तथागतायार्हते सम्यक्सम्बुद्धाय । तद्यथा
ओं मुने 2 महामुनये स्वाहा ।
ओं शमे 2 महाशमे रक्ष 2 मां सर्वसत्वांश् च सर्वपापप्रशमने स्वाहा ॥
नमः सुपरिकीर् त् इतनामधेयाय तथागताय ॥ नमः समन्तावभासविजितसंग्रामश्रिये तथागताय ॥ नम इन्द्रकेतुध्वजश्रिये तथागताय ॥ नमो रत्नप्रभासेश्वरराजाय तथागताय ॥ नमो ऽप्रतिहतभैषज्यराजाय तथागताय ॥ नमो विक्रान्तगामिने तथागताय ॥
नमो बुद्धाय नमो धर् म् आय नमः संघाय ॥ नमो ऽतीतानागतप्रत्युत्पन्नेभ्यो बुद्धेभ्यो भगवद्भ्यः ॥ तद्यथा
स्मृतिवर् ध् अनि । मतिवर् ध् अनि । धृतिवर् ध् अनि । प्रज्ञावर् ध् अनि । प्रतिभानवर् ध् अनि । ध्यानवर् ध् अनि । समाधिवर् ध् अनि । समर्थवर् ध् अनि । सर् व् अबोधिपक्षधर् म् अवर् ध् अनि । सकलबुद्धधर् म् अपरिपूरणीये स्वाहा ।
नमो रत्नत्रयाय । नम आर्यावलोकितेश्वराय बोधिसत्वाय महासत्वाय महाकारुणिकाय ॥
नमो महास्थामप्राप्ताय बोधिसत्वाय महासत्वाय महाकारुणिकाय ॥
एभ्यो नमस्कृत्वा इदम् आर्यावलोकितेश्वरमुखोद्गीर् ण् अम् अमोघपाशराजं नाम हृदयन् तथागतस ं मुखं भाषितं महतां पर्षन्मध्ये । अहम् इदानीम् आवर् त् अयिष्ये ॥ सिध्यन्तु मन्त्रपदाः सर्वकार्याणि सर्वभयेभ्यो मम सर्वसत्वानाञ् च रक्षा भवतु ॥ तद्यथा
ओं चर 2 चिरि 2 चुरु 2 मर 2 मिरि 2 मुरु 2 महाकारुणिक स्वाहा ॥ संशोधनमन्त्रः ॥
सर 2 सिरि 2 सुरु 2 चुरु 2 विरि 2 धिरि 2 पिरि 2 मिरि 2 महापद्महस्ताय स्वाहा ॥ विघ्नोत्सारणमन्त्रः ॥
कल 2 किलि 2 कुलु 2 महाशुद्धसत्वाय स्वाहा ॥ देवतासंशोधनमन्त्रः ॥
बुध्य 2 बोध 2 बोधि 2 बोधय 2 कण 2 किणि 2 कुणु 2 परमशुद्धसत्वाय स्वाहा ॥ तथागतमन्त्रः ॥
कर 2 किरि 2 कुरु 2 महास्थामप्राप्ताय स्वाहा ॥ निवेशनमन्त्रः ॥
चल 2 सञ्चल 2 विचल 2 एटट 2 भर 2 भिरि 2 भुरु 2 तर 2 तिरि 2 तुरु 2 एह्य् एहि महाकारुणिक स्वाहा ॥ आकर्षणमन्त्रः ॥
महापशुपतिवेशधर । धर 2 धिरि 2 धुरु 2 तर 2 सर 2 चर 2 पर 2 वर 2 मर 2 लर 2 हर 2 हाहा । हीही । हूहू । ओंकार ब्रह्मवेशधर । धर 2 धिरि 2 धुरु 2 तर 2 सर 2 चर 2 पर 2 वर 2 हर 2 रश्मिशतसहस्रप्रतिमण्डितशरीर । ज्वल 2 तप 2 भास 2 भ्रम 2 भगवन् सोमादित्य । यमवरुण । कुबेरब्रह्मेन्द्र । वाय्वग्नि । धनद । ऋषिदेवगणाभ्यर् च् इतचरण स्वाहा ॥ अर्घासनस्नानमन्त्राद्यलंकारगन्धपुष्पधूपच्छत्रध्वजपताकाबलिदीपमन्त्रः ॥
सुरु 2 चुरु 2 मुरु 2 घुरु 2 सनत्कुमार । रुद्रवासव ।विष्णु । धनद । वाय्वग्नि । ऋषिनायक । विनायक । बहुविविधवेशधर स्वाहा ॥ देवतालक्षणमन्त्रः ॥
धर 2 धिरि 2 धुरु 2 तर 2 थर 2 घर 2 पर 2 लर 2 हर 2 यर 2 मर 2 वर 2 वरदायक स्वाहा ॥ साधकस्य निवेशनमन्त्रः ॥
समन्तावलोकितविलोकितलोकेश्वरत्रिभुवनेश्वरसर्वगुणसमलंकृत । अवलोकितेश्वर । मुहु 2 मुरु 2 मुय 2 मुञ्च 2 रक्ष 2 मां सर्वसत्वांश् च सर्वभयेभ्यः सर्वोपद्रवेभ्यः सर्वोपसर् ग् एभ्यः सर्वग्रहेभ्यः सर्वव्याधिभ्यः सर्वज्वरेभ्यः । एवं वधबन्धनताडनतर् ज् अनराजतस्कराग्न्युदकविषशस्त्रपरिमोचक स्वाहा ॥
कण 2 किणि 2 कुणु 2 चर 2 चिरि 2 चुरु 2 इन्द्रियबलबोध्यङ्गचतुरार्यसत्यसंप्रकाशक । तम 2 दम 2 सम 2 मस 2 रम 2 धम 2 महाकारुणिक । महातमोन्धकारविधमन । षट्पारमितापरिपूरक । मल 2 मिलि 2 मुलु 2 टट टट 4 ठठ ठठ 4 टिटि टिटि 4 टुटु टुटु 4 ठिठि ठिठि 4 ठुठु ठुठु 4 एणेयचर् म् अकृतपरिकर । एह्य् एहि महाकारुणिक ईश्वरमहेश्वरमहाभूतगणसंभञ्जक । कर 2 किरि 2 कुरु 2 पर 2 हर 2 वर 2 सर 2 कट 2 किटि 2 कुटु 2 मट 2 महाविशुद्धविषयनिवासिन् । महाकारुणिक स्वाहा ॥ सप्तपरिवारमन्त्रः ॥
श्वेतयज्ञोपवीतरत्नमकुटमालाधर । सर्वज्ञशिरसि कृतजटामकुटमहाद्भुतकमलालङ्कृतकरतल । ध्यानसमाधिविमोक्षाप्रकम्प्य बहुसत्वसन्ततिपरिपाचकमहाकारुणिक । सर्वकर् म् आवरणविशोधक । सर्वज्ञज्ञानपरिपूरक । सर्वव्याधिपरिमोचक । सर्वसत्वाशापरिपूरक । सर्वसत्वसमाश्वासनकर नमो ऽस्तु ते स्वाहा ॥
अमोघाय स्वाहा ॥ अमोघपाशाय स्वाहा ॥ अजिताय स्वाहा ॥ अपराजिताय स्वाहा ॥ अमिताभाय स्वाहा ॥ अमिताभसुताय स्वाहा ॥ मारसैन्यप्रमर्दनाय स्वाहा ॥ अभयाय स्वाहा ॥ अभयप्रदानाय स्वाहा ॥ जयाय स्वाहा ॥ विजयाय स्वाहा ॥ जयविजयाय स्वाहा ॥ वरदाय स्वाहा ॥ वरप्रदाय स्वाहा ॥ अकालमृत्युप्रशमनाय स्वाहा ॥ इदञ् च मे कर् म् अ कुरु नमो ऽस्तु ते स्वाहा ॥
ओं रण 2 हूं फट् स्वाहा ॥
ओं जय हूं फट् स्वाहा ॥
ओं युजि हूं फट् स्वाहा ॥
ओं हूं जय स्वाहा ॥
ओं ह्रीः त्रैलोक्यविजयामोघपाशाप्रतिहत ह्रीः हः हूं फट् स्वाहा ॥
ओं वसुमति हूं स्वाहा ॥
ओं आरोलिक स्वाहा ॥
ओं बहुले 2 स्वाहा ॥
ओं आरोलिक ह्रीः ज्रीः हूं फट् स्वाहा ॥ नियतानियतवेदनीयाशुभस्य मे भगवन् कर् म् अणो ऽशेषतः क्षयं कुरु स्वाहा ॥
ओं पद्महस्ताय स्वाहा ॥
ओं बुद्धधर् म् असंघाय स्वाहा ॥ ॥

पठितसिद्धस्यास्य मन्त्रस्य कर् म् आणि भवन्ति । त्रिष्कालजापेन पञ्चानन्तर्यानि विशोधयति । सर्वकर् म् आवरणविशु द्धिञ् च करोति । अगुरुधूपेन सीमाबन्धः भस्मोदकेन सर्षपेण खदिरकिलकाद्यैः सर्वज्वरेषु सूत्रकं बन्धयितव्यं । सर्वव्याधिषु घृतं तैलम् उदकं वा प् अरिजप्य दात व्यं । काखोर्दच्छेदनं शस्त्रेण । रक्षा सूत्रेण । उदरशूलेन लवनोदकं । विषनाशनं मृत्तिकया उदकेन वा । चक्षुरोगे श्वेतसूत्रकं कर् ण् ए बन्धयितव्यं । दन्तशूले करवीरदन्तकाष्ठं । सीमाबन्धे पञ्चरङ्गिकसूत्रम् एकविंशतिवारान् परिजप्य । चतुःषु खदिरकीलकेषु बद्ध्वा चतुर्द्दिशं निखातव्यं । सीमाबन्धो भवति । सर्वरक्षा सूत्रकेन उदकेन । भस्मकेन वा । सर्वग्रहेषु पञ्चरङ्गिकसूत्रकं । सर्वज्वरेषु श्वेतसूत्रकं । सर् प् अकीटलूतलोहलिङ्गगलग्रहेषु मधुपिप्पलीयुतं । चक्षुरोगेषु गन्धोदकं पलाशोदकं वा मधुयष्ट्युदक ं वा । सर्वकलिकलहविवादाभ्याख्यानेषु । उदकं परिजप्य मुख ं प्रक्षालयितव्यं । परविषयराज्यराष्ट्रोपद्रवरक्षासु पूर् ण् अकलशं स्थापयित्वा शुचिना शुचिवस्त्रप्रावृतेन महतीं पूजां कृत्वा वाचयितव्यं महाशान्तिर् भवति ॥ तेन चोदकेन सेक्तव्यं । सर्वसत्वानां रक्षा कृता भवति । सर्वेत्युपद्रवोपसर् ग् आः प्रशाम्यन्ति । मुद्रिकया चन्दनतिलकं हृदये । एकविंशतिवारान् परिजप्य कर् त् अव्यं । सर्वानन्तर्याणि कर्माणि क्षयति । सततजापेन गृहे रक्षा । पद्महोमेन सर् व् असत्वरक्षा । चन्दनहोमेन सर्वग्रहभूतरक्षा । जया विजया । नाकुली गन्धनाकूली । वारुणी । अ भ यपाणि । इन्द्रपाणि । गन्धप्रियङ्गु । तगर चक्रा । महाचक्रा । विष्णुक्रान्ता । सोमराजी । सुचन्दना चेति ॥ एषां यथास ं भवतः । अष्टोत्तरशतवारान् परिजप्य मणिं कृत्वा शिरसि बाहौ वा धारयितव्यं । बालानां गले । नारीणां विलग्ने । स्वय ं परमसौभाग्यकरणं । अलक्ष्मीप्रशमनं पुत्रदञ् च ॥ एतेन मणिना बन्धेन सर्वरक्षा कृता भवति । विषाग्निर् न् आक्रमति । विषकृतं नोत्पद्यते । उत्पन्ना अपि न पीडाञ् जनयिष्यन्ति । शीघ्रं प्रशमयिष्यन्ति । ग्रहाः प्रशमयिष्यन्ति । वातमेघाशनिस्तम्भन ं वारिणा । करवीरलतया सर्वकर् म् अकरं । आर्यावलोकितेश्वरहृदयं परमसिद्धसमाधितम् एवैतानि कर् म् आणि कुरुते ॥
अथ साधयितुम् इच्छेद् विधिः पटे ऽश्लेषकैर् वर् ण् अकैर् बुद्धप्रतिमाम् आलेख्य । आर्यावलोकितेश्वरो जटामकुटधारी । एणेयचर् म् अकृतवासाः । पशुपतिवेशधरः । सर्वालंकारविभूषितं कृत्वा । पोषधिकेन चित्रकरेण चित्रापयितव्यः ॥ ततः साधकेन तस्याग्रतो ऽपतितगोमयेन मण्डलकं कृत्वा श्वेतपुष्पावकीर् ण् अं । अष्टौ गन्धोदकपूर् ण् अकुम्भाः स्थापयितव्याः । अष्टाव् उपहाराश् चतुःषष्टिरूपकरणानि । बलिर्मान्सरुधिरवर् ज् इतः । अगुरुधूपं दहता विद्या अष्टसहस्रं जप्तव्या । अहोरात्रोषितेन त्रिरात्रोषितेन वा त्रिःशुक्लभोजिना शुचिना त्रिष्कालस्नायिना शुचिवस्त्रप्रावृतेन जापो दातव्यः । ततः प्रतिमाया अग्रतः । आत्मानं ज्वलितं पश्यति । तद् दृष्ट्वा च हृष्यति स्वयम् आर्यावलोकितेश्वर आगच्छति । सर्वाशा परिपूरयति । मनःशिलाञ्जन ं वा परिजप्याक्षीण्य् अञ्जयित्वा अन्तर्हितो भवति । आकाशेन क्रामति । असंमोहज्ञानव्यूहं नाम समाधिं प्रतिलभते । यद् इच्छति तत् करोत्य् एव साधक इति ॥ ॥
इदम् अवोचद् भगवान् आत्तमना आर्यावलोकितेश्वरो बोधिसत्वो महासत्वस् ते च भिक्षवस् ते च बोधिसत्वस् ते च शुद्धावासकायिकदेवपुत्राः सदेवमानुषासुरगन्धर्वश् च लोको भगवतो भाषितम् अभ्यनन्दन्न् इति ॥ ॥
आर्यामोघपाशनामहृदयं महायानसूत्रं समाप्तं ॥ ।

मूल पाठ: Amoghapāśanāmahṛdayaṃ mahāyānasūtram · Edition: Meisezahl, R. O. The Amoghapāśahṛdaya-dhāraṇī. The Early Sanskrit Manuscript of the Reiunji Critically Edited and Translated Monumenta Nipponica 17 265-328 Fragmentary Nepalese palm-leaf Ms. (University Library Cambridge Or. Ms. 152), as edited by Meisezahl . · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc