अमोघपाशहृदयसूत्र · भाग 11
आर्यामोघपाशनामहृदयसूत्रम्*
ओं नमः श्रीलोकनाथाय । अमोघपाशाय भगवते नमः ।
एवं मया श्रुतम् एकस्मिन् समये भगवान् पोतलके पर्वते विहरति स्म । आर्यावलोकितेश्वरस्य भुवने अनेकशालतालतमालचम्पकाशोकातिमुक्तकनानारत्नवृक्षसमलङ्कृते महता भिक्षुसङ्घेन सार्धम् अष्टादशभिर् भिक्षुसहस्रैः नवनवतिभिश् च बोधिसत्त्वकोटिनियुतशतसहस्रैः अनेकैश् च शुद्धावासिकायिकैर् देवपुत्रकोटिनियुतशतसहस्रैः परिवृतः पुरस्कृत ईश्वरो महेश्वरब्रह्मकायिकदेवपुत्रान् अधिकृत्य धर्मं देशयति स्म ।
अथ खलु आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्व उत्थायासनाद् एकांसम् उत्तरासंगं कृत्वा दक्षिणजानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं कृत्वा प्रणम्य प्रहसितवदनो भूत्वा भगवन्तम् एतद् अवोचत्* । अस्ति मम भगवन् अमोघपाशराजं नाम हृदयं यन् मया पूर्वम् एकनवतिकल्पविलोकितायां लोकधातौ लोकेन्द्रराजतथागतस्य अर्हत्सम्यक्संबुद्धस्य सकाशाद् उद्ग्रहीतं येन भगवान् ( अफ्सू 160 ) ईश्वरो महेश्वरदेवपुत्रप्रमुखानि बहूनि शुद्धावासिकायिकदेवपुत्रप्रमुखान्य् अनेकदेवपुत्रशतसहस्राणि समादापितान्य् अनुत्तरायां सम्यक्सम्बोधौ । असंमोहज्ञानव्यूहप्रमुखानि च मया दशसमाधिशतसहस्राणि प्रतिलब्धानि । यस्मिंश् च पुनर् भगवन् पृथिवीप्रदेशे इदम् अमोघपाशहृदयं प्रचरेत्* । वेदितव्यं भगवन् तस्मिन् पृथिवीप्रदेशे ईश्वरमहेश्वरब्रह्मकायिकप्रमुखानि द्वादशदेवपुत्रशतसहस्राणि रक्षावरणगुप्तये स्थास्यन्ति । चैत्यसंमतो भगवन् पृथिवीप्रदेशो भविष्यति यत्रेदम् अमोघपाशहृदयं प्रचरिष्यति । अनेकबुद्धकोटिनियुतशतसहस्रावरोपितकुशलमूलास् ते भगवन् सत्त्वा भविष्यन्ति । य इदं अमोघपाशहृदयं श्रोष्यन्ति । यः कश्चिद् भगवन् किल्विषकारी स्यात् सर्वपापास्पदः पापधर्मसमाचारी आर्यापवादकः सद्धर्मप्रतिक्षेपकः अवीचिपरायणः सर्वबुद्धबोधिसत्त्वार्यश्रावकप्रत्येकबुद्धप्रतिक्षेपकः सचेद् विप्रतिसारं गच्छेद् आयत्यं संवरम् आपद्यते ।
तस्यैव तावद् भगवन् उपवासजापेन इहैव जन्मनि तत् कर्म विशुध्यति परिक्षयं गच्छति निवर्तितं भवति । एकाहिकेन ज्वरेण द्व्याहिकेन त्र्याहिकेन वा चातुर्थिकेन वा ज्वरेण एवं सप्ताहिकेन वा ज्वरेण । अक्षिशूलेन वा दन्तशूलेन वा कर्णशूलेन वा नासाशूलेन वा दन्तोष्ठशूलेन वा जिव्हाशूलेन वा तालुशूलेन वा हृदयशूलेन वा उदरशूलेन वा पार्श्वशूलेन वा कटिशूलेन वा अङ्गशूलेन वा प्रत्यङ्गशूलेन वा अर्शग्रहणीशूलेन वा अतिसारेण वा हस्तपादवेदनया वा शिरोरुजा वा बलाहकचित्रकुष्ठविचर्चिकाकिटिभभगन्दरलोहलिङ्गगलग्रहविस्फोटकापस्मारकाखोर्दाख्यैर् वा कृतापकृत्यैर् मारणबन्धनताडनतर्जनभूताख्यानैर् ( अफ्सू 161 ) वा । संक्षेपतो भगवन् कायपीडया वा चित्तपीडया वा दुस्वप्नदर्शनेन वा तत् कर्म परिक्षयं गच्छति । पर्यवदानं गच्छति । प्राग् एव शुद्धसत्त्वानां श्रद्धाधिमुक्तिकानां यदि भगवन् चतस्रः पर्षदश् चत्वारो वर्णः माया इमध्यनापि य इदं मदीयम् अमोघपाशहृदयं श्रोष्यति उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति लिखिष्यति लिखापयिष्यति पर्यवाप्स्यति अन्येषां च सत्त्वानां श्रावयिष्यति अन्तस् तिर्यग्योनिगतानां वा सत्त्वानां कर्णपूटे स्थित्वा कर्णजापं दास्यति । इमानि च मन्त्रपदानि चिन्तयिष्यति । अप्रतिक्षेपतः अरूपतः अविकल्पतः असंप्रभवतः अचिरम् अगमतः अकरणतः निःक्लेशतः समचित्तनिक्षेपतः विरहितपञ्चस्कन्धः । अनेन योगेन बुद्धानुस्मृतिर् भावयितव्या । तद् एषां दशभ्यो दिग्भ्यो बुद्धसहस्रं संमुखं दर्शनं करिष्यन्ति । अत्ययदेशनां च करिष्यति । पेयालम्* । यावत् पुस्तकलिखितं कृत्वा गृहे स्थापयिष्यति । किं बहुना भगवन्न् अन्योन्यस्पर्धया वा श्रोष्यति । स्वामिभयेन वा परानुवृत्त्या वा उच्चग्घनहेतुना वा श्रोष्यन्ति । ज्ञातव्यं भगवन् पण्डितेनार्यावलोकितेश्वरस्यानुभावेन तेषां कर्णपुटे स्थित्वा स शब्दो निपतिष्यति ।
तद्यथापि नाम भगवन् कश्चिद् एव पुरुषश् चन्दनं वा कर्पूरं वा केसरं वा कस्तूरिकां वा आकृष्य परिभाष्य शिलायां वा भूमौ वा पिष्ट्वा आत्मानं लेपयेत्* । न च तस्य चन्दनस्य कर्पूरस्य केसरस्य कस्तूरिकायाश् चैवं भवति अनेनाहम् आकृष्टः परिभाषितो वा गन्धेनातिक्रमिष्यामीति । अपि च सुगन्ध एव सः । एवम् एव भगवन्न् इदं मदीयम् अमोघपाशहृदयं यः कश्चिद् उच्चघन वा उल्लाप्य । पेयालम्* । ( अफ्सू 162 ) यावत्* मायाशब्देनापाथेयेनापि पूजयेत्* । तेषां भगवन् खटुकां सत्त्वानां स एव कुशलहेतुर् भविष्यति । यत्र यत्रोपपत्स्यन्ते तत्र तत्र अविरहिताश् च भविष्यन्ति शीलसमाधिप्रज्ञापुण्यसंभारगन्धेन । शीलसौगन्धिकम् एव करोति । यः कश्चिद् भगवन् कुलपुत्रो वा कुलदुहिता वा भिक्षुर् वा भिक्षुणी वा उपाशको वा उपाशिका वा तदन्यो वा कश्चित् सत्त्वः अमोघपाशहृदयम् उद्दिष्य शुक्लाष्टम्याम् उपवासं कुर्यात्* । सप्तवारान् अमोघपाशहृदयम् अनालापतः आवर्तयेत्* तस्य भगवन् दृष्ट एव धर्मा विंशतिर् अनुशंसाः प्रतिकांक्षितव्याः । कतमे विंशति? यदुत रोगाश् चास्य काये नोत्पत्स्यन्ते । उत्पन्नाश् चास्य रोगाः कर्मवशेन शीघ्रं प्रसमं यास्यन्ति । स्निग्धमनोज्ञश्लक्ष्णगात्रश् च भविष्यति । बहुजनप्रियश् च भविष्यति । गुह्यार्थप्रतिलम्भश् चास्य भविष्यन्ति । उत्पन्नाश् चास्यार्थं न चौरा प्रतिमोचयन्ति । अग्निना दह्यते । नोदकेन ह्रीयते । न राजा शक्नोति मनसापहर्तुम्* । कर्मान्ताश् चास्य स्फीता भविष्यन्ति । नाशनिनोदकभयं भविष्यति । न वातवृष्टिभयं भविष्यति । सप्तवारान् अमोघपाशहृदयेन भस्मोदकं वा परिजप्य दिग्विदिग् अध ऊर्ध्वश् च क्षेत्रस्य बन्धो दातव्यः । सर्वोपद्रवोपशमिष्यति । न चौजोहारा ओजो ऽपहर्तुं शक्नुवन्ति । सर्वसत्त्वानां च प्रियो भविष्यति मन-आपश् च भविष्यति । न चास्य शत्रुभयं भविष्यति । उत्पन्नश् चास्य शत्रुभयं शीघ्रं प्रशमं यास्यति । न चास्य मनुष्यभयं भविष्यति । न च काखोर्दभयं न च डाकिनीभयं न च तीव्राः क्लेशोपक्लेशा भविष्यन्ति । नाग्निना न विषेण न शस्त्रेण कालं करिष्यन्ति । यत्र यत्रोपपत्स्यन्ते तत्र तत्राविरहिताश् च भविष्यन्ति मैत्रीकरुणामुदितोपेक्षया । इमे विंशतिर् अनुशंसाः प्रतिकांक्षितव्याः ।
अपरान् अष्टौ धर्मान् प्रतिलप्स्यन्ते । कतमान् अष्टौ? मरणकाले आर्यावलोकितेश्वरो भिक्षुरूपेण संमुखं दर्शनं दास्यति । सुखेन कालं करिष्यति । न भ्रान्तदृष्टिर् ( अफ्सू 163 ) भविष्यति । न हस्तविक्षेपं करिष्यति । न पादविक्षेपं नोच्चारं न प्रस्रावं न चारूढः कालं करिष्यति । सुप्रतिष्ठितस्मृतिर् भविष्यति । नाधोमुखः कालं करिष्यति । मरणकाले ऽक्षयप्रतिभानं चास्य भविष्यति । यत्र यत्र चास्य बुद्धक्षेत्रे प्रणिधिस् तत्र तत्रोपपत्तिर् भविष्यति । अविरहितश् च भविष्यति कल्याणमित्रैः । दिने दिने त्रिकालं त्रीणि वारान् आवर्तयितव्यम्* । मद्यमांसपलाण्डुगुञ्जनकलशुनशंकारकृतोच्छिष्टविशेषार्थिनो ह्य् एतद् वर्ज्यः । अयं चामोघपाशहृदयं नाम धर्मपर्यायः सर्वसत्त्वानां बलाबलं ज्ञात्वा श्रोषयितव्यः । आचार्यमुष्टिर् न कर्तव्या । यस्माद् धि गते मलमात्सर्येर्ष्यापगतो बोधिसत्त्वा भवन्ति । सत्त्वानाम् अर्थकरणेन बोधिः प्राप्यते बोधिसत्त्वानां गणनांश् च गच्छन्ति । बोधिर् इत्य् उच्यते प्रज्ञासत्त्व उपायः । एतौ द्वौ धर्मौ सत्त्वानाम् अर्थकरणेनैव प्राप्येते । सचेन् मे भगवन्न् अनुजानीयाद् यन् न्व् अहम् इमं हृदयं तथागतस्य पुरतः कीर्तये चतसृणां पर्षदाम् अर्थाय हिताय सुखायान्येषां च पापकारिणाम्* ।
अथ खलु भगवान् आर्यावलोकितेश्वरो बोधिसत्त्वं महासत्त्वम् एतद् अवोचत्* । भाषस्व शुद्धसत्त्वाय यस्येदानीं कालं मन्यसे । अनुमोदितं तथागतेन पश्चिमकाले पश्चिमसमये बोधिसत्त्वयानिकानां पितृकार्यं करिष्यति ।
अथ खलु आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वो ऽनिमिषनयनो भूत्वा भगवन्तम् एतद् अवोचत्* । शृणु मे भगवन् सर्वबुद्धबोधिसत्त्वनमस्कृतम् इदं विमोक्षमुखमण्डलं बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय महतो जनकायस्यार्थाय हिताय सुखाय विमोक्षार्थाय । नामस् त्र्यध्वानुगतप्रतिष्ठितेभ्यः सर्वबुद्धबोधिसत्त्वेभ्यः । नमः प्रत्येकबुद्धार्यश्रावकसंघेभ्यो ऽतीतानागतप्रत्युत्पन्नेभ्यः । नमः सम्यग्गतानाम्* । ( अफ्सू 164 ) नमः सम्यक्प्रतिपन्नानाम्* । नमः शारद्वतीपुत्राय महामतये । नमः आर्यमैत्रेयप्रमुखेभ्यो महाबोधिसत्त्वसंघेभ्यः । नमः सुप्रतिष्ठितशैलेन्द्रराजप्रमुखेभ्यः तथागतेभ्यो ऽर्हद्भ्यः सम्यकसंबुद्धेभ्यो भगवद्भ्यः । नमः सुवर्णवर्णसुप्रतिभासविनिवर्तितेश्वरराजाय तथागताय । नमः सिंहविक्रीडितराजाय तथागताय । नमो अमिताभाय तथागताय । नमः सुप्रतिष्ठितमणिकूटराजाय तथागताय । नमः समन्तरश्म्युद्गतश्रीकूटराजाय तथागताय । नमो विपश्यिने तथागताय । नमः शिखिने तथागताय । नमो विश्वभुवे तथागताय । नमः क्रकुच्छन्दाय तथागताय । नमः कनकमुनये तथागताय । नमः काश्यपाय तथागताया । नमः शाक्यमुनये तथागतायार्हते सम्यक्सम्बुद्धाय । तद्यथा ō
ओं मुने मुने महामुनये स्वाहा । ओं शमे शमे महाशमे रक्ष रक्ष मां सर्वसत्त्वांश् च सर्वपापं प्रशमने स्वाहा । नमः सुपरिकीर्तितनामधेयाय तथागताय । नमः समन्तावभासविजितसंग्रामश्रिये तथागताय । नमः इन्द्रकेतुध्वजश्रिये तथागताय । नमो रत्नप्रभासेश्वरराजाय तथागताय । नमो ऽप्रतिहतभैषज्यराजाय तथागताय । नमो विक्रान्तगामिने तथागताय । नमो बुद्धाय । नमो धर्माय । नमः संघाय । नमो ऽतीतानागतप्रत्युत्पन्नेभ्यो बुद्धेभ्यो भगवद्भ्यः । तद्यथा ō
स्मृतिवर्द्धनि मतिवर्द्धनि गतिवर्द्धनि धृतिवर्द्धनि प्रज्ञावर्द्धनि प्रतिभानवर्द्धनि ध्यानवर्द्धनि समाधिवर्द्धनि शमथवर्द्धनि विपश्यनावर्द्धनि । सर्वबोधिपक्षधर्मवर्द्धनि सकलबुद्धधर्मपरिपूर्णाय स्वाहा । नमो रत्नत्रयाय । नम आर्यावलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय महाकारुणिकाय । नमो महास्थामप्राप्ताय ( अफ्सू 165 ) बोधिसत्त्वाय महासत्त्वाय महाकारुणिकाय । एभ्यो नमस्कृत्वा इदम् आर्यावलोकितेश्वरमुखोद्गीर्णम् अमोघपाशराजनाम हृदयं तथागतसंमुखं भाषितं महत्पर्षन्मध्ये ऽहम् इदानीम् आवर्तयिष्ये । सिध्यन्तु मे मन्त्रपदा सर्वकार्याणि सर्वभयेभ्यो मम सर्वसत्त्वानां च रक्षा भवतु । तद्यथा ō
ओं चर चर चिरि चिरि चुरु चुरु मर मर मिरि मिरि मुरु मुरु महाकारुणिक । सर सर सिरि सिरि सुरु सुरु चुरु चुरु चिरि चिरि विरि विरि मिरि मिरि महापद्महस्त । कल कल किलि किलि कुलु कुलु महाशुद्धसत्त्व । बुद्ध्य बुद्ध्य बोध बोध बोधि बोधि बोधय बोधय कण कण किणि किणि कुणु कुणु परमशुद्धसत्त्व । कर कर किरि किरि कुरु कुरु महास्थामप्राप्त । चल चल संचल संचल विचल विचल प्रचल प्रचल एटट एटट भर भर भिरि भिरि भुरु भुरु तर तर तिरि तिरि तुरु तुरु एह्य् एहि महाकारुणिक । महापशुपतिवेशधर । धर धर धिरि धिरि धुरु धुरु तर तर सर सर चर चर पर पर वर वर मर मर लर लर हर हर हाहा हीही हूहू ओं कारब्रह्मवेशधर । धर धर धिरि धिरि धुरु धुरु तर तर सर सर चर चर नर नर वर वर हर हर रश्मिशतसहस्रप्रतिमण्डितशरीर ज्वल ज्वल तप तप भास भास भ्रम भ्रम ( अफ्सू 166 ) भगवन् सोमादित्ययमवरुणकुबेरब्रह्मेन्द्रवाय्वग्निधनद-ऋषिदेवगणाभ्यर्चितचरण । सुरु सुरु चुरु चुरु मुरु मुरु धुरु धुरु सनत्कुमाररुद्रवासवविष्णुधनदवाय्वग्नि-ऋषिनायकविनायकबहुविविधवेशधर । धर धर धिरि धिरि धुरु धुरु तर तर थर थर धर धर पर पर लर लर हर हर यर यर सर सर वर वर वरदायक । समन्तावलोकितविलोकितलोकेश्वरमहेश्वरत्रिभुवनेश्वरसर्वगुणसमलङ्कृतावलोकितेश्वर मुहु मुहु मुरु मुरु मुय मुय मुञ्च मुञ्च रक्ष रक्ष मां सर्वसत्त्वांश् च सर्वभयेभ्यः सर्वोपद्रवेभ्यः सर्वोपसर्गेभ्यः सर्वग्रहेभ्यः सर्वव्याधिभ्यः सर्वविषेभ्यः सर्वज्वरेभ्यः । एवं बन्ध बन्ध ताडनतर्जनराजतस्कराग्न्युदकविषशस्त्रपरिमोचक । कण कण किणि किणि कुणु कुणु चर चर चिरि चिरि चुरु चुरु इन्द्रियबलबोध्यंगचतुरार्यसत्यसंप्रकाशक । तप तप तम तम दम दम शम शम मस मस धम धम महाकारुणिक महातमोन्धकारविधमनषट्पारमितापरिपूरक । मल मल मिलि मिलि मुलु मुलु टट टट ठठ ठठ टिटि टिटि ठिठि ठिठि टुटु टुटु ठुठु ठुठु एणेयचर्मकृतपरिकर एह्य् एहि महाकारुणिक । ईश्वरमहेश्वरमहाभूतगणसंभञ्जक । कर कर किरि किरि कुरु कुरु पर पर हर हर ( अफ्सू 167 ) वर वर सर सर मर मर कर कर कट कट किटि किटि कुटु कुटु मट मट महाविशुद्धविषयनिवासिन महाकारुणिक । श्वेतयज्ञोपवीतरत्नमुकुटमालाधरसर्वज्ञशिरसि कृतजटामुकुटमहाद्भुतकमलालङ्कृतकरतलध्यानसमाधिविमोक्षाप्रकम्प्य बहुसत्त्वसंततिपरिपालकमहाकारुणिक सर्वकर्मावरणविशोधक सर्वज्ञज्ञानपरिपूरक सर्वव्याधिविमोचक सर्वसत्त्वाशापरिपूरकसर्वसत्त्वसमाश्वासनकर नमो ऽस्तु ते स्वाहा । अमोघाय स्वाहा । अमोघपाशाय स्वाहा । अजिताय स्वाहा । अपराजिताय स्वाहा । अमिताभाय स्वाहा । अमिताभसुताय स्वाहा । मारसैन्यप्रमर्दनाय स्वाहा । अभयाय अभयप्रदाय स्वाहा । जयाय स्वाहा । विजयाय स्वाहा । जयविजयाय स्वाहा । वरदाय स्वाहा । वरप्रदाय स्वाहा । अकालमृत्युप्रशमनाय स्वाहा । इदं च मे कर्म कुरु नमो ऽस्तु ते स्वाहा । ओं रण रण हूं फट्* स्वाहा । ओं जय हूं फट्* स्वहा । ओं ज्र जिं जुं फट्* स्वाह । ओं हूं जय स्वाहा । ओं ह्रीः त्रैलोक्यविजयामोघपाशाप्रतिहत ह्रीः हः हूं फट्* स्वाहा । ओं वसुमति स्वाहा । ओं आरोलीक्* स्वाहा । ओं बहुले बहुले स्वाहा । ओं आरोलिक्* ह्रीः ह्रीः हूं फट्* स्वाहा । नियतानियतवेदनीयाशुभस्य मे भगवन् कर्मणो ऽशेषतः परिक्षयं कुरु स्वाहा । पद्महस्ताय स्वाहा । ओं बुद्धधर्मसंघाय स्वाहा । पठितसिद्धस्यास्य मन्त्रस्य कर्माणि भवन्ति । ( अफ्सू 168 ) त्रिकालजापेन पञ्चानन्तर्याणि शोधयति । सर्वकर्मावरणानि विशुद्धिं च करोति । अगरुधूपेन सीमाबन्धः भस्मोदकेन सर्षपखदिरकीलकाद्यैः सर्वज्वरेषु सूत्रकं बन्धयितव्यम्* । सर्वव्याधिषु घृततैलमुदकं वा परिजप्य दातव्यम्* । काखोर्दच्छेदनं शस्त्रेण रक्षासूत्रकं च । उदरशूलेन लवणोदकं विषनाशनं मृत्तिकया उदकेन वा । चक्षुरोगेण श्वेतसूत्रकं कर्णे बन्धयितव्यम्* । दन्तशूलेन करवीरदन्तकाष्ठकम्* । सीमाबन्धं पञ्चरङ्गिकसूत्रम् एकविंशतिवारान् परिजप्य चतुर्षु खदिरकीलकेषु बद्ध्वा चतुर्दिशं निखातव्यं सीमाबन्धो भविष्यति । सर्वरक्षासूत्रकेनोदकेन भस्मेन वा । सर्वग्रहेषु पञ्चरङ्गिकसूत्रकम्* । सर्वज्वरेषु श्वेतसूत्रकं सर्पकीटाः लूतलोहलिंगगलग्रहेषु मधुपिप्पलीयुतम्* । चक्षुरोगे गन्धोदकपलाशोदकं मधुयष्ट्युदकं वा सर्वकलिकलहविवादेभ्यः अभ्याख्यानेषूदकं परिजप्य मुखं प्रक्षालयितव्यम्* । परविषयराज्योपद्रवराष्ट्रकेषु पूर्णकलशं स्थापयित्वा शुचिना शुचिवस्त्रप्रावृतेन महतीं पूजां कृत्वा वाचयितव्यं महाशान्तिर् भवति । तेन चोदकेन सेक्तव्यं सर्वसत्त्वानां रक्षा कृता भवति । सर्वेत्य् उपद्रवोपसर्गाः प्रशाम्यन्ति । मुद्रितां चन्दनतिलकं हृदये एकविंशतिवारान् परिजप्य कर्तव्यं सर्वानन्तर्याणि क्षयं यान्ति । सततजापेन गृहरक्षा । पद्महोमेन सर्वसत्त्वरक्षा । चन्दनहोमेन सर्वग्रहभूतनक्षत्ररक्षा । जयाविजया-अपराजिता नाकुली गन्धनाकूली धारणी अभयपाणि इन्द्रियपाणिगन्धप्रियंगुतगरचक्रा महाचक्रा विक्रान्तासोमराजी सुनन्दा चेति । यथा संभवत अष्टोत्तरशतवारान् परिजप्य मणिं कृत्वा शिरसि बाहौ वा धारयितव्यम्* । बालानां गले नारीणां विलग्ने स्वयं परं सौभाग्यकरम्* । ( अफ्सू 169 ) अलक्ष्मीप्रशमनं पुत्रदं च । एतेन मणिना बद्धेन सर्वरक्षा कृता भवति । विषाग्निना न क्रमति विषकृतं नोत्पद्यते । उत्पन्नापि न पीडां जनयिष्यति शीघ्रं प्रशमयिष्यन्ति । ग्रहान् प्रशमयिष्यति वातमेघाशनिस्तम्भनं वारिणा करवीरलतया सर्वकर्मकरम्* । आर्यावलोकितेश्वरहृदयं परमसिद्धम् असाधितम् एते तानि कर्माणि कुरुते । अथ साधयितुम् इच्छन् विधिः पटे ऽशेषकैर् वर्णकैर् बुद्धप्रतिमालिख्यार्यावलोकितेश्वरो जटामुकुटधारी एणेयचर्मकृतपरिवासा पशुपतिवेशधरः सर्वालङ्कारभूषितं कृत्वा पोषधिकेन चित्रकरेण
चित्रापयितव्यः । ततः साधकेन तस्याग्रतो ऽपतितगोमयेन मण्डलं कृत्वा श्वेतपुष्पावकीर्णम् अष्टाउ गन्धोदकपूर्णकुम्भाः स्थापयितव्याः । अष्टाव् उपहाराश् चतुषष्टिर् उपकरणानि । बलिमांसरुधिरवर्जितः अगरुधूपं दहता विद्याष्टसहस्रजापयितव्या । अहोरात्रोषितेन वा त्रिरात्रोषितेन वा त्रिशुक्लभोजिता वा त्रिकालस्नापयिता शुचिवस्त्रप्रावृतो भूत्वा जापो दातव्यः । ततः प्रतिमाया अग्रतः आत्मानं च लिखितं पश्यति तं दृष्ट्वा च प्रहृष्यति यावत् स्वयम् एवार्यावलोकितेश्वर आगच्छति । सर्वाशा परिपूरयति । मनःशिलाञ्जनं वा परिजप्य अक्षिण्य् अंजयित्वा ततो ऽन्तर्हितो भवति । आकाशे क्रामति । असंमोहज्ञानव्यूहनाम समाधिं प्रतिलभते । यद् इच्छति तत् करोत्य् एव साधक इति ।
इदम् अवोचद् भगवान् आत्तमना आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वस् ते च भिक्षवस् ते च बोधिसत्त्वास् ते शुद्धावासकायिका देवपुत्राः सदेवमानुषासुरगन्धर्वश् च लोको भगवतो भाषितम् अभ्यनन्दन्न् इति ।
॥ आर्यामोघपाशनामहृदयं महायानसूत्रं समाप्तम्* ॥
मूल पाठ: Amoghapāśahṛdayasūtra · Edition: : Āryāmoghapāśanāmahṛdayaṃ mahāyānasūtram, Dhīḥ 38 (2004), pp. 157-169. = AphSū · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0