अलंकारसर्वस्व · श्लोक 0-19
॥ श्रीः ॥
अलङ्कारसर्वस्वम्
नमस्कृत्य परां वाचं देवीं त्रिविधविग्रहाम् ।
गुर्वलङ्कारसूत्राणां वृत्त्या तात्पर्यमुच्यते
स्तर्त् भूमिका
इह हि तावद् भामहोद्भटप्रभृतयश्चिरन्तनालङ्कारकाराः प्रतीयमानमर्थे वाच्योपस्कारकतयालङ्कारपक्षनिक्षित्पं मन्यन्ते ।
तथाहि-पर्यायोक्ताप्रस्तुतप्रशंसासमासोक्त्याक्षेपव्याजस्तुत्युपमेयोपमानन्वयादौ वस्तुमात्रं गम्यमानं वाच्योपस्कारकत्वेन ऽस्वसिद्धये पराक्षेपःपरार्थे स्वसमर्पणम्ऽ इति यथायोगं द्विविधया भङ्ग्या प्रतिपादितं तैः ।
रुद्रटेनापि भावालङ्कारो द्विधोक्तः ।
रूपकदीपकापह्नुतितुल्ययोगितादावुपमाद्यलङ्कारो वाच्योपस्कारकत्वेनोक्तः ।
उत्प्रेक्षा तु स्वयमेव प्रतीयमाना कथिता ।
रसवत्प्रेयःप्रभृतौ तु रसभावादिर्वाच्यशोभाहेतुत्वेनोक्तः ।
तदित्थं त्रिविधमपि प्रतीयमानमलङ्कारतया ख्यापितमेव । [रुअस्स्_भू.1]
वामनेन तु सादृश्यनिबन्धनाया लक्षणाय वक्रोक्त्यलङ्कारत्वं ब्रुवता कश्चिद्ध्वनिभेदो ऽलङ्कारतयैवोक्तः ।
केवलं गुणविशिष्टपदरचनात्मिका रीतिः काव्यात्मकत्वेनोक्ता ।
उद्भटादिभिस्तु गुणालङ्काराणां प्रायशः साम्यमेव सूचितम् ।
विषयमात्रेण भेदप्रतिपादनात् ।
संघटनाधर्मत्वेन चेष्टेः ।
तदेवमलङ्कारा एव काव्ये प्रधानमिति प्राच्यानां मतम् । [रुअस्स्_भू.2]
वक्रोक्तिजीवितकारः पुनर्वैदग्ध्यभङ्गीभणितिस्वभावां बहुविधां वक्रोक्तिमेवप्राधान्यात्काव्यजीवितमुक्तवान् ।
व्यापारस्य प्राधान्यं च [काव्यस्य] प्रतिपेदे ।
अभिधानप्रकारविशेषा एव चालङ्काराः ।
सत्यपि त्रिभेदे प्रतीयमाने व्यापाररूपा भणितिरेव कविसंरम्भगोचरः ।
उपचारवक्रतादिभिः समस्तो ध्वनिप्रपञ्चः स्वीकृतः ।
केवलमुक्तिवैचित्र्यजीवितं काव्यं, न व्यङ्ग्यार्थजीवितमिति तदीयं दर्शनं व्यवस्थितम् । [रुअस्स्_भू.3]
भट्टनायकेन तु व्यङ्ग्यव्यापारस्य प्रौढोक्त्याभ्युपगतस्य काव्यंशत्वं ब्रुवता न्यग्भावितशब्दार्थस्वरूपस्य व्यापारस्यैव प्राधान्यमुक्तम् ।
तत्राप्यभिधाभावकत्वलक्षणव्यापारद्वयोत्तीर्णो रसचर्वणात्मा भोगापरपर्यायोव्यापारः प्राधान्येन विश्रान्तिस्थानतयाङ्गीकृतः । [रुअस्स्_भू.4]
ध्वनिकारः पुनरभिधातात्पर्यलक्षणाख्यव्यापारत्रयोत्तीर्णस्य ध्वननद्योतनादिशब्दाभिधेयस्य व्यञ्जनव्यापारस्यावश्याभ्युपगम्यत्वाद् व्यापारस्य च वाक्यार्थत्वाभावाद् वाक्यार्थस्यैव च व्याङ्ग्यरूपस्य गुणालङ्कारोपस्कर्तव्यत्वेन प्राधान्याद् विश्रान्तिधामत्वादात्मत्वं सिध्दान्तितवान् ।
व्यापारस्य विषयमुखेन स्वरुण्प्रतिलम्भात् तत्प्राधान्येन प्राधान्यात् स्वरूपेण विचार्यत्वाभावाद् विषयस्यैव समग्रभरसहिष्णुत्वम् ।
तस्माद् विषय एव व्यङ्ग्यनामा जीवितत्वेन वक्तव्यः,यस्य गुणालङ्कारकृतचारुत्वपरिग्रहसाभ्राज्यम् ।
रसादयस्तु जीवितभूता नालङ्कारत्वेनवाच्याः ।
अलङ्काराणामुपस्कारकत्वाद्,रसादीनां च प्राधान्येनोपस्कार्यत्वात् ।
तस्माद् व्यङ्ग्य एव वाक्यार्थीभूतः काव्यजीवितमित्येष एव पक्षो वाक्यार्थविदां सहृदयानामावर्जकः ।
व्यञ्जनव्यापारस्य सर्वैरनपह्नुतत्वात् तदाश्रयेण च पक्षान्तरस्याप्रतिष्टानात् । [रुअस्स्_भू.5]
यत्तु व्यक्तिविवेककारो वाच्यस्य प्रतीयमानं प्रति लिङ्गतया व्यञ्जनस्यानुमानान्तर्भावमाख्यत् तद् वाच्यस्य प्रतीयमानेन सह तादाप्म्यतदुत्पत्त्यभावादविचारिताभिधानम् ।
तदेतत्कुशाग्रधिषणैः क्षोदनीयमतिगहनमिति नेह प्रतन्यते । [रुअस्स्_भू.6]
अस्तिं तावद् व्यङ्ग्यनिष्टो व्यञ्जनव्यापारः ।
तत्र व्यङ्ग्यस्य प्राधान्याप्राधान्याभ्यां ध्वनिगुणीभूतव्यङ्ग्याख्यौ द्वौ काव्यभेदौ ।
व्यङ्ग्यस्यास्फुटत्वे ऽलङ्कारत्त्वेन चित्राख्यः काव्यभेदस्तृतीयः ।
तत्रोत्तमो ध्वनिः ।
तस्य लक्षणाभिधामूलत्वेनाविवक्षितवाच्यविवक्षितान्यपरवाच्यविवक्षितान्यपरवाच्याख्यौ द्वौ भेदौ ।
आद्यो ऽप्यर्थान्तरसंक्रमसंसलक्ष्यक्रमितवाच्यात्यान्ततिरस्कृतवाच्यत्वेन द्विविधः ।
द्वितीयो ऽप्यसंलक्ष्यक्रमसंलक्ष्यक्रमव्यङ्ग्यतया द्विविधः ।
लक्षणामूलः शब्दशक्तिमूलो वस्तुध्वनिः,असंलक्ष्यक्रमव्यङ्ग्यः अर्थशक्तिमूलो रसादिध्वनिः ।
संलक्ष्यक्रमव्यङ्ग्यः शब्दार्थोभयशक्तिमूलो वस्तुध्वनिरलङ्कारध्वनिश्चेति ।
तत्र रसादिध्वनिरलङ्कारमञ्जर्यां दर्शितः, काव्यस्य शृङ्गारप्रधानत्वात् ।
शिष्टस्तु यथावसरं तत्रैव विभक्तः ।
गुणीभूतव्यङ्ग्यो वाच्याङ्गत्वादिभेदैर्यथासंभवं समासोक्त्यादौ दर्शितः । [रुअस्स्_भू.7]
स्तर्त् सूत्र 1:
चित्रं तु शब्दार्थांलकारस्वभावतया बहुतरप्रभेदम् ।
तथा हि-
इहार्थपौनरुक्त्यं शब्दपौनरुक्त्यं शब्दार्थपौनरुक्त्यं चेति त्रयः पौनरुक्त्यप्रकाराः
आदौ पौनरुक्त्यप्रकाररवचनं वक्ष्यमाणालङ्काराणां कक्षाविभागघटनार्थम् ।
अर्थापेक्षया शब्दस्य प्रतीतावन्तरङ्गत्वे ऽपि प्रथममर्थतधर्मनिर्देशश्चिरन्तनप्रसिद्ध्या पुनरुक्तकवदाभासस्य पूर्वं लक्षणार्थः ।
इहशब्दः प्रत्थाने ।
इतिशब्दः प्रकारे, त्रिशब्दादेव संख्यापरिसमात्पिसिद्धेः ।
स्तर्त् सूत्र 2:
तत्रार्थपौनरुक्त्यं प्ररुढं दोषः
प्ररुढाप्ररुढत्वेन द्वैविध्यम् ।
प्रथमं हेयवचनमुपादेये विश्रान्त्यर्थम् ।
तत्रेति त्रयनिर्धारणे ।
यथावभासनविश्रान्तिः प्ररोहः ।
स्तर्त् सूत्र 3:
आम्रुखावभासनं पुनः पुनरुक्तवदाभासम्
आमुखग्रहणं पर्यवसाने ऽन्यथात्वप्रतिपत्त्यर्थम् ।
लक्ष्यनिर्देशे नापुंसकः संस्कारो लौकिकालङ्कारवैधर्येण काव्यालङ्कारणामलङ्कार्यंपारतन्त्र्यध्वननार्थः ।
अर्थपौनरुक्त्यादेवार्थीश्रितत्वादर्थालङ्कारत्वं ज्ञेयम् ।
प्रभेदास्तु विस्तरभयान्नोच्यन्ते ।
उदाहरणं मदीये श्रीकण्ठस्तवे यथा-
"अहीनभुजगाधीशवपुर्वलयकङ्कुणम् ।
शैलादिनन्दिचरितं क्षतकन्दर्पदर्पकम् ॥
वृषपुङ्गवलक्ष्माणं शिखिपावकलोचनम् ।
ससर्वमङ्गलं नौमि पार्वतीसखमीश्वरम्" ॥
ऽदीरुणः काष्ठतो जातो भस्मभूतिकरः परः ।
रक्तशोणार्चिरुच्चण्डः पातु वः पावकः शिखीऽ ॥
भुजङ्गकुण्डली व्यक्तशाशिशुभ्रांशुशीतगुः ।
जगन्त्यपि सदापायादव्याच्चेतोहरः शिवः" ॥
स्तर्त् सूत्र 4:
शब्दपौनरुक्त्यं व्यञ्जनमात्रपौनरुक्त्यं स्वरव्यञ्जनसमुदायपौनरुक्त्यं च
अलंकारप्रस्तावे केवलं स्वरपौनरुक्त्यमचारुत्वान्न गण्यते इति द्वैविध्यमेव ।
स्तर्त् सूत्र 5:
संख्यानियमे पूर्वं छेकानुप्रासः
द्वयोर्व्यञ्जनसमुदाययोः परस्परमनैकधा सादृश्यं संख्यानियमः ।
पूर्वं व्यञ्जमसमुदायाश्रितं यथा-
ऽकिं नाम दर्दुर दुरध्यवसाय सायं कायं निपीड्य निनदं कुरुषे रुषेव ।
एतानि केलिरसितानि सितच्छदानामाकर्ण्य कार्णमधुराणि न लज्जितो ऽसिऽ ॥
अत्र सायंशब्देनास्यालङ्कारस्य यकारमात्रसादृश्यापेक्षया वृत्त्यनुप्रासेन सहैकाभिधानलक्षणः संकरः ।
छेका विदग्धाः ।
स्तर्त् सूत्र 6:
अन्यथा तु वृत्त्यतनुप्रासः
केवलव्यञ्जनमात्रसादृश्यमेकधा समुदायसादृश्यं त्र्यादीनां च परस्परसादृश्यमान्यथाभावः ।
वृत्तिस्तु रसविषयो व्यापारः ।
तद्वती पुनर्वर्णरचनेहवृत्तिः ।
स च परुषकोमलमध्यमवर्णारब्धत्वात्त्रिधा ।
तदुपलक्षितो ऽयमनुप्रासः ।
यथा-
ऽआटोपेन पटीययसा यदपि सा वाणी कवेरामुखे खेलन्ती प्रथमे तथापि कुरुते नो सन्मनोरञ्जनम् ।
न स्याद्यावदमन्दसुन्दरगुणालङ्कारझङ्कारितः सप्रस्यन्दिलसायनरसासारानुसारी रसःऽ ॥
यथा वा-
ऽसह्याः पन्नगफूत्कृतानलशिखा नाराचपाल्यो ऽपि वा राकेन्दोः किरणा विषद्रवमुचो वर्षासु वा वायवः ।
न त्वेताः सरलाः सितासितरुचः साचीकृताः सालसाः साकूताः समदाः कुरङ्गकदृशां मानानुविध्दा दृशःऽ ॥
स्तर्त् सूत्र 7:
स्वरव्यञ्जमसमुदायपौनरुक्त्यं यमकम्
अत्र क्वचिद्भिन्नार्थत्वं क्विचिदभिन्नार्थत्वं कचिदेकस्यानर्थकत्वमपरस्य सार्थकत्वमिति संक्षेपतः प्रकारत्रयम् ।
यथा-
ऽयो यः पश्यति तन्नेत्रे रुचिरे वनजायते ।
तस्य तस्यान्यनेत्रेषु रुचिरेव न जायतेऽ ॥
इदं सार्थकत्वे ।
एवमन्यज्झेयम् ।
स्तर्त् सूत्र 8:
"शब्दार्थपौनरुक्त्यां प्ररुढं दोषः"
प्ररुढग्रहणं वक्ष्यमाणप्रभेदवैलक्षण्यार्थम् ।
यदाहुः-ऽशब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात्ऽ ।
इति ।
स्तर्त् सूत्र 9:
ऽतात्पर्यभेदवत्तु लाटानुप्रासःऽ
तात्पर्यमन्यपरत्वम् ।
तदेव भिद्यते, न शब्दार्थ-स्वरूपम् ।
यथा-
ऽताला जअन्ति गुणा जाला दे सहिअएहिं घेप्पन्ति ।
रैकिरणाणुगाहिआइं हाएन्ति कमलाइं कमलाइंऽ ॥
[ऽतदा जायन्ते गुणाः यदा ते सहृदयैर्गृयैर्गृह्यन्ते ।
रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानिऽ] ॥
ऽब्रूमः कियन्नय कथञ्चन कालमल्पम् अत्राब्जपत्रनयने नयने निमील्य ।
हेमाम्बुजं तरुणि तत्तरसापहृत्य देवद्विषो ऽयमहमागत इत्यवेहिऽ ॥
इत्यादौ विभक्त्तयादेरपौनरुक्त्ये ऽपि बहुतरशब्दार्थपौनरुक्त्याल्लाटानुप्रासत्वमेव ।
ऽकाशाः काशा इवाभान्ति सरांसीव सरांसि च ।
चेतांस्याचिक्षिपुर्यूनां निम्रगा निम्रगा इवऽ ॥
इत्यादावनन्वयेन सहास्यैकाभिधानलक्षणो न संकरः ।
अन्योन्यापेक्षया शब्दार्थगतत्वेनार्थमात्रगतत्वेन च व्यवस्थिकेर्भिन्नविषयत्वात् ।
ऽअनन्वये च शब्दैक्यमौचित्यादानुषङ्गिकम् ।
अस्मिंस्तु लाटानुप्रासे साक्षादेव प्रयोजकम्ऽ ॥
स्तर्त् सूत्र 10:
तदेवं पौनरुक्त्ये पञ्चालङ्काराः
निगदव्याख्यातमेतत् ।
स्तर्त् सूत्र 11:
वर्णानां खङ्गाद्यकृतिहेतुत्वे चित्रम्
पौनरुक्तक्यप्रस्तावे स्थानविशेषश्लिष्टवर्णपौनरुक्त्यात्मकं चित्रवचनम् ।
यद्यपि लिप्यक्षराणां खङ्गादिसंनिवेशविशिष्टत्वं तथापि श्रोत्राकाशसमवेतवर्णात्मकशब्दाभेदेन तेषां लोके प्रतीतेर्वाचकशब्दालङ्कारो ऽयम् ।
आदिप्रहणाद् यथाव्युत्पत्तिसंभवं पद्मबन्धादिपरिग्रहः ।
यथा-
ऽभासते प्रतिभासार रसाभाता हताविभा ।
भावितात्माशुभावादे देवाभा बत सभाऽ ॥
एषो ऽष्टदलपद्मबनधः ।
अत्र दिग्दलेषु निर्गमप्रवेशाभ्यां श्लिष्टाक्षरत्वम् ।
विविग्दलेषु त्वन्यथा ।
कर्णिकाक्षरं तु श्लिष्टमेव ।
स्तर्त् सूत्र 12:
उपमानोपमेययोः साधर्म्ये भेदाभेदतुल्यत्वे उपमा
अर्थालङ्कारप्रकरणमिदम् ।
उपमानोपमेययोरित्यप्रतीतोपमानोपमेयनिषेधार्थम् ।
साध्र्म्ये त्रयः प्रकाराः ।
भेदप्राधान्यं व्यतिरेकादिवत् ।
अभेदप्राधान्यं रूपकादिवत् ।
द्वयोस्तुल्यत्वं यथास्याम् ।
यदाहुः-ऽयत्र किञ्चित्सामान्यं कश्चिञ्च विशेषः स विषयः सदृशतायाःऽ इति ।
उपमैवनेकप्रकारवैचित्र्येणानेकालङ्कारबूजभूतेति प्रथमं निर्दिष्टा ।
अस्याश्च पूर्णालुत्पात्वभेदाञ्चिरन्तनैर्बहुविधन्वमुक्तम् ।
तत्रापि साधारणधर्म्स्य क्वचिदनुरागामितयैकरूप्येण निर्देशः, क्वचिद्वस्तुप्रतिवस्तुभावेन पृथङ्निर्देशः ।
पृथङ्निर्देशे च संबन्धिभेदमात्रं प्रतिवस्तूपमावत्, बिम्बप्रतिबिम्बभावो वा दृष्टान्तवत् ।
क्रमेणोदाहरणम् -
ऽप्रङामहत्या शिखयेव दीपस्त्रिमार्गेव त्रिविदस्य मार्गः ।
संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषितश्चऽ ॥
ऽयान्त्या मुहुर्वलितकन्धरमाननं तदावृत्तवृन्तशतपत्रनिभं वहन्त्या ।
दिग्धो ऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षःऽ ॥
अत्र वलुतत्वावृत्तत्वे संबन्धिभेदाद्भिन्ने ।
धर्म्यभिप्रायेण तु बिम्बप्रतिबिम्बत्वमेव ।
ऽपाण्ड्यो ऽयमंसार्पितलम्बहारः कॢत्पाङ्गरागो हरिचिन्दनेन ।
आभाति बालातपरक्तसानुः सनिर्झरोद्गर इवाद्रिराजःऽ ॥
अत्र हाराङ्करागयोर्निर्झरबालातपौ प्रतिबिम्बत्वेन निर्दिष्टौ ।
स्तर्त् सूत्र 13:
एकस्यैवोपमानोपमेयत्वे ऽनन्वयः
वाच्याभिप्रायेण पूर्वंरूपानुगमः ।
एकस्य तु विरुद्धधर्मसंसर्गो द्वितीयसव्रह्यचारिनिवृत्त्यर्थः ।
अत एवानन्वय इति योगो ऽप्यत्र संभ्रवति ।
यथा-
ऽयुद्धे ऽर्जुनो ऽर्जुन इव प्रथितप्रतापो भीमो ऽपि भीम इव वैरिषु भीमकर्मा ।
न्यग्रोधवर्तिनमयाधिपतिं कुरुणामुत्प्रासनार्थमिव जग्मतुरादरेणऽ ॥
स्तर्त् सूत्र 14:
द्वयोः पर्यायेण तस्मिन्नुपमेयोपमा
तच्छब्देनोपमानोपमेयत्वप्रत्यवमर्शः ।
पर्यायो यौगपद्याभावः ।
अत एवात्र वाक्यभेदः ।
इयं च धर्मस्य साधारण्ये वस्तुप्रतिवस्तुनिर्देशे च द्विधा ।
आद्ये यथा-
ऽखमिव जलं जलमिव खं हंसश्चन्द्र इव हंस इव चन्द्रः ।
कुमुदाकारास्तारास्ताराकाराणि कुमुदानिऽ ॥
द्वितीये यथा-
ऽसच्छायाभ्भोजवदनाः सच्छायवदनाम्बुजा ।
वाप्यो ऽङ्गना इवाभान्ति यत्र वाप्य इवाङ्गनाःऽ ॥
स्तर्त् सूत्र 15:
सदृशानुभवाद् वस्त्वन्तरस्मृतिः स्मरणम्
वस्त्वन्तरं सदृशमेव ।
अविनाभावाभावान्नानुमानम् ।
यथा-
ऽअतिशयितसुरासुरप्राभावं शिशुमवलोक्य तथैव तुल्यरूपम् ।
कुशिकसुतमखद्विषां प्रमाथे धृतधनुषं रघुनन्दनं स्मरामिऽ ॥
सादृश्यं विना तु स्मृतिर्नायमलङ्कारः ।
यछा-
ऽअत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः ।
रहस्त्वदुत्सङ्गनिषण्णामूर्धा स्मरामि वानीरगृहेषु सुत्पःऽ ॥
अत्र च कर्तृविशेषणानां स्मर्तव्यदशाभावित्वे स्मतृदशाभावित्वमसमीचीनम् ।
प्रेयोलङ्कारस्य तु सादृश्यव्यतिरिक्तनिमित्तोत्थापिता स्मृतिर्विषयः ।
यथा
ऽअहो कोपे ऽपि कान्तं मुखम्ऽ इति ।
तत्रापि विभावाद्यागूरितत्वेन स्वशब्दमात्रप्रतिपाद्यात्वे यथा-
ऽअत्रानुगादम्ऽ इत्यादि ।
ऽयैर्दृष्टो ऽसि तदा ललाटपतितप्रासप्रहारो युधि स्फीतासृक्स्त्रुतिपाटलीकृतपुरोभागः परान् पातयन् ।
तेषां दुःसहकामदेहदहनप्रोद्भतनेत्रानल- ज्वालालीभरभास्वरे स्मरिपावस्तं गतं कौतुकम्ऽ ॥
इत्यादौ सदृशवस्त्वन्तरानुभवे ऽशक्यवस्त्वन्तरकरणात्मा विशेषालङ्कारः, कारणस्य क्रियासामान्यात्मनो दर्शिने ऽपि संभवात् ।
मतान्तरे काव्यलिङ्गमेतत् ।
तदेते सादृश्याश्रयेण भेदाभेदतुल्यत्वेनालङ्कारा निर्णीताः" ।
स्तर्त् सूत्र 16:
अभेदप्राधान्ये आरोपे आरोपविषयानपह्नवे रूपकम्
अभेदस्य प्राधान्याद्भेदस्य वस्तुतः सद्भावः ।
अन्यत्रान्यावाप आरोपः ।
तस्य विषयविषय्यवष्टब्धत्वाद्विषयस्यापह्नवे ऽपह्नुतिः ।
अन्यथा तु विषयिणा विषयस्य रूपवतः करणाद्रूपकम् ।
साधर्म्ये त्वनुगतमेव ।
यदाहुः-
ऽउपमैव तुरोभूतभेदा रूपकमिष्यतेऽ इति आरोपादभेदे ऽध्यवसायः प्रकृष्यते इति पश्चात्तन्मूलालङ्कारविभागः ।
इदं तु निरवयवं सावयवं परम्परितमिति त्रिविधम् ।
आद्यं केवलं मावारूपकञ्चते द्विधा ।
द्वितीयं समस्तवस्तुविषयमेकदेशविवर्ति चेति द्विधैव ।
तृतीयं श्लिष्टशब्दनिबन्धनत्वेन द्विविधं सत्प्रत्येकं केवलमालारूपकत्वाच्चतुर्विधम् ।
तदेवमष्टौ रूपकभेदाः ।
अन्ये तू प्रत्येकं वाक्योक्तसमासोक्तादिभेदाः संभवन्ति ते ऽन्यतो द्रष्टव्याः ।
क्रमेण यथा-
ऽदासे कृतागासि भवत्युचितः प्रभूणां पादप्रहार इति सुन्दरि नास्मि दूये ।
उद्यत्कठोरपुलकाङ्कुरकण्टकाग्रैर्- यत्खिद्यते तव पदं ननु सा व्यथा मेऽ ॥
ऽपीयूषप्रसृतिर्नवा मखभुजां दात्रं तमोलूनये स्वर्गङ्गाविमनस्ककोकवदनस्त्रस्ता मृणालीलते ।
द्विर्भावः स्मरकार्मुकस्य किमपि प्राणेश्वरीसागसा- माशातन्तुरुदञ्चति प्रतिपदि प्रालेयभानोस्तनुःऽ ॥
ऽविस्तारशालिनि नभस्तलपत्त्रपात्रे कुन्दोज्ज्वलप्रभ-भ संचयभूरिभक्तम् ।
गङ्गातरङ्गघनमाहिषदुग्धदिग्धं जग्धं मया नरपते कलिकालकर्णऽ ॥
ऽआभाति ते क्षितिभृतः क्षणदाप्रभेयं निस्त्रिंशमांसलतमालवनान्तलेखा ।
इन्दुत्विषो युधि हठेन तवारिकीर्ती- रानीय यत्र रमते तरुणः प्रतापःऽ ॥
क्षितिभृत इत्यत्र श्लिष्टं पदम् ।
परम्परितम्-
ऽकिं पद्मम्य रुचिं न हन्ति नयनानन्दं विधत्ते न वा वृद्धिं वा झषकेतनस्य कुरुते नालोकमात्रेण किम् ।
वक्त्रेन्दौ तव सत्ययं यदपरः शीतांशुरभ्युद्गतो दर्पः स्यादमृतेन चिदिह तदप्यस्त्येव बिम्बाधरेऽ ॥
अत्र वक्त्रेन्दुरूपणहेतुकमधरामृतस्य पीयूषेण श्लिष्टशब्दं रूपणम् ।
ऽविद्वन्मानसहंस वैरिकमसासंकोचदीत्पद्युते दुर्गामार्गणनीललोहित समित्स्वीकारवैश्वानर ।
सत्यप्रीतिविधानदक्ष विजयप्राग्भावभीम प्रभो साम्राज्यं वरवीर वत्सरशतं वैरिञ्चमुच्चैः क्रियाःऽ ॥
अत्र त्वमेव हंस इत्यारोपणपूर्वको मानसमेव मानसमित्याद्यारोप इति श्लिष्टशब्दं मालापरम्परितम् ।
ऽयामि मनोवाक्कायैः शरणं करुणात्मकं जगन्नाखथम् ।
जन्मजरामरणार्णवतरणतरण्डं हराङ्घ्रियुगम्ऽ ॥
ऽपर्यङ्को राजलक्ष्म्या हरितमणिमयः पौरुषाब्धेस्तरङ्गो भ्रग्नप्रत्यर्थिवंशोल्वणविजयकरिस्त्यामदानाम्बुपट्टः ।
सङ्ग्रामत्रासताम्यन्मुरलपतियशोहंसनीलाम्बुवाहः खङ्गः क्ष्मासौविदल्लः समिति विजयते मालवाखण्डलस्यऽ ॥
अत्र क्ष्मासौविदल्ल इति परम्परितमप्येकदेशविवर्ति ।
एवमादयो ऽन्ये ऽपि भेदा लेशतः सूचिता एव ।
इदं वैधर्म्येणापि दृश्यते ।
यथा-
ऽसौजन्याम्बुमरुस्थली सुचरितालेख्यद्युभित्तिर्गुण- ज्योत्स्नाकृष्णचतुर्दशी सरलतयोगश्वपुच्छच्छटा ।
यैरेषापि दुराशया कलियुगे राजावली सेविता तेषां शूलिनि भक्तिमात्रसुलभे सेवा कियत्कौशलम्ऽ ॥
अत्र चारोप्यमाणस्य धर्मित्वादाविष्टलिङ्गसंख्यात्वे ऽपि क्वचित्स्वतो ऽसंभवत्संख्यायोगस्यापि विषयसंख्यात्वम् प्रत्येकमारोपात् ।
यथा - ऽक्वचिज्जटावल्कलावलम्बिनः कपोला दावाग्रयःऽ इत्यादौ ।
न हि कपिलमुनेर्बहुत्वम् ।
ऽभ्रमिमरतिमलसहृदयतां प्रलयं मूर्च्छे तमः शरीरसादम् ।
मरणं च जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम्ऽ ॥
इत्यत्र नियतसंख्याककार्यविशेषोत्थापितो गरलार्थप्रभावितो विषशब्दे श्लेष एव ।
जलदभुजगजमिति रूपकसाधकमिति पूर्वे सिद्धत्वाभावान्न तन्निचन्वनं विषशब्दे श्लिष्टशब्दं परम्परितमिति श्लेष एवात्रेत्याहुः ।
स्तर्त् सूत्र 17:
आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः
आरोप्यमाणं रूपके प्रकृतोपयोगित्वाभावात्प्रकृतोपरञ्जकत्वेनैव केवलेनान्वयं भजते परिणामे तु प्रकृतात्मतया आरोप्यमाणस्योपयोग इति प्रकृतमारोप्यमाणरूपत्वेन परिणमिति ।
आगमानुगमविगमख्यात्यभावात्सांख्यीयपरिणामवैसक्षण्यम् ।
तस्य सामानाधिकरण्यवैयधिकरण्यप्रयोगाद् द्वैविध्यम् ।
आद्यो यथा-
ऽतीर्वा भूतेशमौलिस्त्रजममरधुनीमात्मनासौ तृतीय- स्तस्मै सौमित्रिमैत्रीमयमुपहृतवानातरं नाविकाय ।
व्यामग्राह्यस्तनीभिः शबरयुवतिभिः कौतुकोदञ्चदक्षं कृच्छ्रादन्वीयमानस्त्वरितमय गिरिं चित्रकूटं प्रतस्थेऽ ॥
अत्र सौमित्त्रिमैत्त्री प्रकृता आरोप्यमाणसमानाधिकरणातररूपत्वेन परिणता ।
आतरस्य मैत्त्रीरूपतया प्रकृते उपयोगात् ।
तदत्र यथा समासोक्तावारोन्यमाणं प्रकृतोपयोगि तच्चारोपविषयात्मतया तत्र स्थितम्, अत एव तत्र तद्व्यवहारसमारोपः एवमिहापि ज्ञेयम्, केवलं तत्र विषयस्यैव प्रयोगः, विषयिणो गम्यमानत्वात् ।
इह तु द्वयोरप्यभिधानम्, तादात्म्यात् तु तयोः परिणामित्वम् ।
द्वितीयो यथा-
ऽअथ पक्त्रिमतामुपेयिवद्भिः सरसैर्वक्रपथाश्रितैर्वचोभिः ।
क्षितिभर्तुरुपायानं चकार प्रथमं तत्परतस्तुरङ्गमाद्यैःऽ ॥
राजसंघटने तूपायनमुचितम् ।
तच्चात्र वचोरूपमिति वचसां व्यधिकरणोपायनरूपत्वेन परिणामः ।
स्तर्त् सूत्र 18:
विषयस्य संदिह्यमानत्वे संदेहः
ऽअभेदप्राधान्ये आरोप इत्येव ।
विषयः प्रकृतो ऽर्तः, यद्भित्तित्वेनाप्रकृतः संदिह्यते ।
अप्रकृते संदेहे विषयो ऽपि संदिह्यत एव ।
तेन प्रकृताप्रकृतगतत्वेन कविप्रतिभोत्थापिते संदेहे संदेहालङ्कारःऽ ।
स च त्रिविधः ।
शुद्धो निश्चयगर्भो निश्चयान्तश्च ।
शुद्धो यत्र संशय एव पर्यवसानम् ।
यथा-
ऽकिं तारुण्यतरोरियं रसभरोद्भिन्ना नवा वल्लरी लीलाप्रोच्छलितस्य किं लहरिका लावण्यवारांनिधेः ।
उद्गाढोत्कलिकावतां स्वसमयोपन्यासविस्त्रम्भिणः किं साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणःऽ ॥
निश्चयगर्भो यः संशयोपक्रमो निश्चयमध्यः संशयान्तश्च ।
स यथा--
ऽअयं मार्तण्डः किं स खलु तुरगैः सत्पभिरितः कृशानुः किं साक्षात्प्रसरति दिशो नैष नियतम् ।
कृतान्तः किं साक्षान्महिषवहनो ऽसाविति चिरात् समलोक्याजौ त्वां विदधति विकल्पान्प्रतिभटाःऽ ॥
निश्चयान्तो यत्र संशय उपक्रमो निश्चये पर्यवसानम् ।
यथा--
ऽइन्दुः किं क्व कलङ्कः सरसिजमेतत्किमम्बु कुत्र गतम् ।
ललितसविलासवचनैर्मुखमिति हरिणाक्षि निश्चितं परतःऽ ॥
कचितारोप्यमाणानां भिन्नाश्रयत्वेन दृश्यते ।
यथा--
ऽरञ्जिता नु विविधास्तरुशैला नामितं तु गगनं म्थगितं नु ।
पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरेणऽ ॥
अत्रारोपविषये तिमिरे रागादि तर्वादिभिन्नाश्रयत्वेनारोपितम् ।
केचित्त्वध्यवसायाश्रयत्वेन संदेहप्रकारमाहुः ।
अन्ये तु नुशब्दस्य संभावनाद्योतत्वादुत्प्रेक्षाप्रकारमिममाचक्षते ।
स्तर्त् सूत्र 19:
सादृश्याद् वस्त्वन्तरप्रतीतिर्भ्रान्तिमान्
मूल पाठ: Alaṃkārasarvasva 1-34 · Edition: R. P. Dvivedi: Alamkara Sarvasva of Sri Rajanaka Ruyyaka & Mankha, with the Vimarsini of Jayaratha and with the translation and explanation of both in Hindi, Varanasi : Chowkhamba 1971 (Kashi Sanskrit Series, 206), pp. 1-352 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0