भाषा

ENहिગુ
ग्रंथ पाठ

आलम्बनपरीक्षा (टीका सहित) · भाग 12

आलम्बनपरीक्षावृत्तिः (आप्व्)
आचार्यदिङ्नागकृता
नमः सर्वबुद्धबोधिसत्त्वेभ्यः
ये चक्षुरादिज्ञानस्यालम्बनं बाह्यार्थो ऽस्तीतीच्छन्ति । ननु ते कल्पयन्ति परमाणुन्; तत्कारणात्वात्[ज्ञानस्य] । संघातं वा तदाभज्ञानस्य जायमानत्वात् । तत्र तावत्
यद्यपीन्द्रियविज्ञप्तेर्ग्राह्यांशः(=अणवः) कारणं भवेत् ।
अतदाभतया तस्या नाक्षवद्विषयः स तु(अणवः) ॥ आ
विषय इति । ज्ञानेन स्वरूप मेव निर्धार्यते । तदाकारतया जायमानत्वात् । यद्यप्यणवः तत्कारणम् । तथापि न तादृशाः अक्षवत् । एवञ्च नाणवस्तावदालम्बनम् । संघातस्तु तदाभत्वे ऽपि[ज्ञानम्य नालम्बनम् । यतः]
यदाभासा न तस्मात्सा
यो ऽर्थः स्वावभासिविज्ञप्तिमुत्पादयति सह्यालम्बनं युज्यते । यतः स एव ह्युत्पत्तिप्रत्यय उच्यते । संघातस्तु नैवम् ।
द्रव्याभावाद् द्विचन्द्रवत् ।
इन्द्रियवैकल्यात् द्विचन्द्रदर्शनस्य तदाभत्वे ऽपि न तस्य विषयो ऽस्ति । तद्वत् संघातः द्रव्यतो ऽसत्त्वेन अकारणात्वात् नालम्बनम् ।
एवं बाह्यदूयञ्चैव न युक्तं मतिगोचरः ॥ आ
अणुः कलापश्चेति बाह्यो ऽर्थः नालम्बनम्, एकाङ्गवैकल्यात् ॥ तत्र साधनं सञ्चिताकारमिच्छन्ति किल केचन ।
सर्वो ऽर्थो बह्वाकारः अतः तत्र केनचिदाकारेण प्रत्यक्ष इप्यते ।
परमाणुष्वप्यस्ति सञ्चिताभज्ञानोत्पत्तिकारणभावः ।
अण्वाकारो न विज्ञप्तेरर्थः कठिनतादिवत् ॥ आ
यथा कठिनतादि विद्यमानमपि न चाक्षुषबुद्धिविषयः । एवमनुत्वमपि ॥
भवेद्धटशरावादेस्तथा सति समा मतिः ।
घटशरावादिपरमाणुषु बहुष्वपि न को ऽपि विशेषो ऽस्ति ।
आकारभेदाद्भेदश्चेत
यदि मन्यसे ग्रीवाद्याकारः विशेषक्रिया येन बुद्धेर्विशेषणमुपाधिर्भवेत् । इति । अयमुपाधिर्धटादावस्ति ।
नास्ति तु द्रव्यसत्यणौ ॥ आ
प्रमाणभेदाभावात् सः
परमाणुषु द्रव्यान्तरेष्वपि पारिमण्डल्ये भेदो नास्ति ।
अद्रव्ये ऽस्ति ततः स हि ।
आकारभेदः संवृतिसत्स्वेवास्ति न तु परमाणुषु । घटादयश्च संवृतिसन्त एव ॥
अणुनां परिहारे हि तदाभज्ञानविप्लवात् ॥ आ
द्रव्यसत्सु अपनीतसम्बन्धिष्वपि[नील-] वर्णादिवत् स्वबुद्धिर्न त्यज्यते । तथा सति इन्द्रियबुद्धीनां विषयो बहिर्नास्तीत्युपपद्यते ॥
यदन्तर्हेयरूपं तु बहिर्वदवभासते ।
सो ऽर्थः
वाह्यार्थे ऽविद्यमाने अन्तस्सदेव वहिर्वदवभासनमालम्बनप्रत्ययः ।
विज्ञानरूपत्वात्तत्प्रत्ययतयापि च ॥ आ
अन्तर्विज्ञान मर्थतयावभासते ततो उत्पद्यते चेति धर्मताद्वयविशिष्टमित्यतः अन्तस्सदेवालम्बनप्रत्ययः ॥
यदि तावदेवमवभास एव वेद्यते । कथं तदेकदेशः सहजातः प्रत्ययः ।
एकांशः प्रत्ययो ऽवीतात्,
सहभूतो ऽपि अव्यभिचारात् अन्यजातस्य प्रत्ययो भवती ॥ नैयायिकास्तु एवमाहुः । क्रमेण जायमानयोर्हेतुहेतुमतोः भवाभावतद्वत्ता लक्षण मिति ॥ अथवा
शक्त्यर्पणात् क्रमेण [वा] ।
क्रमेणापि सो ऽर्थावभासः स्वानुरूपकार्योत्पत्तये शक्तिं विज्ञानधारां करोतीत्यविरोधः ॥ यदि तर्हि स्वरूपमेवालम्बनप्रत्ययः । कथं तत्[रूपं] चक्षुश्चोपादाय चक्षुर्विज्ञानमुत्पद्यते ॥ [इति] ।
सहकारिवशाद्यद्धि शक्तिरूपं [तत्] इन्द्रियम् ॥ आ
इन्द्रियं स्वकार्यात् शक्तिरूपमेवानुमीयते न तु भौतिकम् ।

सा चाविरुद्धा विज्ञप्तेः
शक्तिस्तु विज्ञाने वास्तु । अनिर्देश्ये स्वस्य रूपे वास्तु कार्योत्पत्तौ न विशेषः ।
एवं विषयरूपकम् ।
प्रवर्तेते ऽनादिकालं शक्तिश्चान्योन्यहेतुके ॥ आ
चक्षुराख्यां शक्तिमन्तः रूपञ्चोपादाय विज्ञानमर्थावभासि आलम्बनादविभक्तमुत्पद्यते । इदं द्वयमपि अनादिकालमन्योन्यहेतुकम् । कदाचित् विज्ञानस्य शक्तिपरिपाकात् विषयाकारता भवति । कदाचिच्च तदाकारशक्तिः । विज्ञानं सा च उभयमन्यत्वेनानन्यत्वेन च यथेष्टमुच्यताम् । एवमन्तरालम्बनं धर्मताद्वयविशिष्टत्वात् विषयतया उपपद्यते ॥
इत्याचार्यदिङ्नागकृता आलम्बनपरीक्षावृत्तिः समाप्ता

मूल पाठ: Ālambanaparīkṣā with Ālambanaparīkṣāvṛtti · Edition: N. Aiyaswami Shastri, Madras: The Adyar Library, 1942. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc