भाषा

ENहिગુ
ग्रंथ पाठ

अजितसेनव्याकरण · भाग 19

ओं नमः सर्वज्ञाय ॥
एवं मया श्रुतम् एकस्मिन् समये भगवान्* श्रावस्त्यां विहरति स्म जेतवने अनाथपिण्डदस्यारामे महता भिक्षुसंघेन सार्धम् अर्धत्रयोदशभिर् भिक्षुसहस्रैः । तद्यथा आयुष्मता चाज्ञातकौण्डिन्येन आयुष्मता च महानाम्ना आयुष्मता च रेवतेन आयुष्मता च वक्कुलेन आयुष्मता च शारिपु[त्रेण आयुष्मता च] पूर्णेन मैत्रायणी[पुत्रेण] च श्रावकनियुतैः । ते सर्वे येन भगवान् येन च जेतवनं विहारं तेनोपसंक्रान्ता भगवतः पादौ शिरसाभिवन्द्य भगवतः पुरतस् तस्थुर् द्वात्रिंशता बोधिसत्वसहस्रैः । तद्यथा सहचित्तोत्पादधर्मचक्रप्रवर्तनेन च बोधिसत्वेन महासत्वेन अनिक्षिप्तधुरेण च बोधिसत्वेन महासत्वेन मैत्रेयेण च बोधिसत्वेन महासत्वेन अवलोकितेश्वरेण च बोधिसत्वेन महासत्वेन महास्थामप्राप्तेन च बोधिसत्वेन महासत्वेन । एवंप्रमुखैर् द्वात्रिंशता बोधिसत्वसहस्रैः । ते सर्वे येन भगवान् येन च जेतवनं विहारं तेनोपसंक्रान्ता
भगवतः पादौ शिरसाभिवन्द्य भगवतः पुरतस् तस्थुः । अथ खलु भगवान् पूर्वाह्णकालसमये निवास्य पात्रचीवरमा[त्रः] श्रावस्तीं महानगरीं पिण्डाय प्राविशत्* । अथ भगवान् आयुष्मन्तम् आनन्दम् (अस्व् 104) आमन्त्रयते स्म । गच्छानन्द पात्रं चक्रिकं शिक्यमानय । अथायुष्मान् आनन्दो भगवतः श्रुतमात्रेण पात्रं चक्रिकं शिक्यं भगवते उपनामयाम् आस । अथायुष्मान् आनन्दो भगवतः कृताञ्जलिपुटो भगवन्तं गाथाभिर् अध्यभाषत ।
यदा त्वं प्रविशसि पिण्डपातिक
विमोचये त्वं बहवं हि प्राणिनाम्* ।–म्स्: विमोचयेयं ... उत्तारयेयं
उत्तारये त्वं बहवं सत्वा
नरकभयाज् जातिजरामहाभया ॥
संसारदुःखकलिला महाभयाद्
{विमोचयेयं तव लोकनायकाः} ।
महानुभावो वरदक्षिणीयो
विमोचयित्वा {बहवं हि सत्वा ।
संसारदुःखकलिला महाभयः
विमोचयित्वा} पुनरं हि आगमी ॥
अथायुष्मान् आनन्दो भगवत इमा गाथा भाषित्वा तूष्णीं स्थितो ऽभूत्* । अथ भगवान्* श्रावस्त्यां महानगर्यां नातिदूरे स्थितो ऽभूत्* । अथ ते सर्वे गवाक्षतोरणनिर्यूहका [हिरण्य]मयाः स्फटिकमया रूप्यमयाः प्रादुरभूवन्* । तथा श्रावस्त्यां म[हानगर्यां] महान्तं जनकायं संस्थितो ऽभूवन्* । अथ स जनकायः संशयजातो बभूव को हेतुः कः प्रत्ययः नगरस्य शुभनिमित्तं प्रादुरभूत्* । मा चेदं नगरं भस्मप्रलयं स्यात्* । अथ तत्र जनकाये अनेकवर्षशतसहस्रिको (अस्व् 105) जीर्णो वृद्धो महल्लकः पुरुषः संस्थितो ऽभूत्* । अथ स पुरुषस् तं जनकायं समाश्वासयन्न् एवम् आह । मा भैषुर् भोः कुलपुत्राः । अस्मिन्न् एव पृथिवीप्रदेशे जेतवनं नाम विहारः । तत्र शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां
च बुद्धो भगवान्* । सो ऽयं श्रावस्तीं महानगरीं पिण्डाय प्राविशत्* । तस्यागमनकालसमये इदं शुभनिमित्तम् अभूत्* । अथ स जनकायस् तं जीर्णकं पुरुषं कृताञ्जलिर् [एवम् आह] । यत् तस्य भगवतस् तथागतस्यार्हतः सम्यक्संबुद्धस्य गु[णवर्णसमुदीरण]समये इदं शुभनिमित्तम् अभूत्* । दृष्टमात्रस्य तस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य कीदृशः पुण्याभिसंस्कारो भविष्यति । अथ स जीर्णकपुरुषस् तं जनकायं भगवतो गुणवर्णसमुदीरणतया गाथाभिर् अध्यभाषत ।
यो लोकनाथस्य हि नामु यः श्रुणे
संसारदुःखा विनिमुक्तु सो नरो ।
अपायगामी न कदाचि भेष्यते
स्वर्गं च सो यास्यति शीघ्रम् एवम्* ।
यो लोकनाथस्य हि नामु यः श्रुणे
दृढप्रतिज्ञो बहुकल्पकोटिभिः ।
महानुभावो सुगतो महात्मनः
कल्पानकोटीनयुतान् अचिन्तियान्* ॥
(अस्व् 106)
सो बोधिसत्वो स्थित गङ्गवालुकान्
कदाचि सो गच्छति दुर्गती भयम्* ।
यो लोकनाथस्य हि नामु यः श्रुणे
अपायगामी न कदाचि भेष्यते ॥
कल्पानकोटीनयुतान् अचिन्तिया
राजा स भोती सद चक्रवर्ती ।
यो लोकनाथस्य हि नामु धारयेत्* ॥
यत् किंचि पूर्वं सद पापु यत् कृतं
सर्वं क्षयं यास्यति शीघ्रम् एतत्* ।
शक्रो ऽपि देवेन्द्रमहानुभावो
कल्पानकोटीनयुतान् अचिन्तिया ॥
सुखावतीं गच्छति बुद्धक्षेत्रं
पर्यङ्कबद्धो स च बोधिसत्वो ।
ब्रह्मस्वरो सुस्वरु मंजुघोष
भवन्ति वर्षानसहस्रकोटिभिः ॥
अपायगामी न कदाचि भेष्यते

यो लोकनाथस्य हि नामु धारयेत्* ।
अथ स जीर्णकः पुरुषो जनकायं भगवतो गुणवर्णम् उदीरयित्वा तूष्णीं स्थितो ऽभूत्* । अथ भगवान् पूर्वेण नगरद्वारेण श्रावस्तीं महानगरीं प्रविष्टो ऽभूत्* । तत्र च नगरद्वारे द्वादशकोट्यः पद्मानां प्रादुरभूवन्* । तेषु च पद्मेषु द्वादशकोट्यो बोधिसत्वानां पर्यङ्कनिषण्णाः (अस्व् 107) प्रादुरभूवन् प्राञ्जलयः । अथ भगवतः प्रविष्टमात्रेण श्रावस्त्यां महानगर्यां नवनवतिकोटीनियुतशतसहस्राणि सत्वानां सुखावत्यां लोकधातौ प्रतिष्ठापितानि चतुरशीतिसत्वकोटीनियुतशतसहस्राण्य् आभिरत्या लो[कधातो]र् अक्षोभ्यतथागतस्य बुद्धक्षेत्रं प्रतिष्ठापितानि ।
अथ भगवान् आ[नन्देन सह नगरा]वलम्बिकाया दारिकाया गृहे समागतो ऽभूत्* । अथ भगवान् नगरावलम्बिकाया दारिकाया गृहे चक्रिकं कटकटापयाम् आस । अथ सा दारिका तं चक्रीशब्दं श्रुत्वा संशयजाताभूत्* । को हेतुः कः प्रत्ययः । मम गृहे न कदाचित् पिण्डपातिक आगतो ऽभूत्* । अथ सा नगरावलम्बिका दारिका शून्याकारगृहे निषण्णा अश्रुकण्ठी रुदन्ती परिदेवन्ती स्थिताभूत् तीक्ष्णधारम् असिं गवेषन्ती परिदेवन्ती रुदन्ती स्थिताभूत्* । अथ [सा] दारिका शून्याकारगृहे निषण्णा परिदेवन्ती अश्रु[कण्ठी] रुदन्ती गाथाभिर् अध्यभाषत ।
अहो बत दुःखु दरिद्रके गृहे
वरं मम मरणु न चापि जीवितम्* ।
किं चापि मे कार्युषु जीवितेन
यद्यैवाहं दुःखु शरीर पीडितम्* ।
कन ...................... ह्यत्राणं भवते परायणम्* ।
अनाथभूता अहम् अद्यमेव यद्यैवाहं जात दरिद्रके गृहे ॥
(अस्व् 108)
अथ स नगरावलम्बिका दारिका शून्याकारगृहे [निषण्णा] इमा गाथा भाषित्वा तूष्णीं स्थिताभूत्* ।
अथ शुद्धवासकायिको देवपुत्रो ऽन्तरीक्षगतः स्थितश् चिन्तयति स्म । पश्येच् चेद् इमां भगवान्* । अनेकदुष्करकोटिनियुतशतसहस्रचीर्णचरितः स शाक्यमुनिस् तथागतो नगरावलम्बिकाया दारिकाया गृहे स्थितो ऽभूत्* । अथ शुद्धवासकायिको देवपुत्रः शतसहस्रमूल्यं मुक्ताहारं गृहीत्वा शतरसभोजनपिटकं गृहीत्वा काशिकानि वस्त्राणि गृहीत्वा येन नगरावलम्बिकाया दारिकाया गृहं तेनोपसंक्रान्तो ऽभूत्* । अथ शुद्धवासकायिको देवपुत्रो नगरावलम्बिकां दारिकाम् एवम् आह । प्रावर दारिके इमानि काशिकानि वस्त्राणि इमान्य् अनेकशतसहस्रमूल्यान्य् आभरणानि । प्रावृत्य चेदं शतसहस्रमूल्यं मुक्ताहारं गृहीत्वा इमं शतरसभोजनपिटकं गृहीत्वा भगवन्तम् उपनामय । अथ सा दारिका तानि काशिकानि वस्त्राणि प्रावृत्य शतसहस्रमूल्यं मुक्ताहारं गृहीत्वा तं शतरसभोजनपिटकं गृहीत्वा येन भगवांस् तेनोपसंक्रान्ता । उपसंक्रम्य
भगवन्तम् उपनामयति स्म । अथ भगवांस् तां नगरावलम्बिकाम् एवम् आह । परिणामय त्वं दारिके यथा परिणामितं विपश्यिशिखिविश्वभुक्ककुत्सुन्दकनकमुनिकाश्यपप्रभृतिभिः सद्भिस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः । अन्तो भविष्यति स्त्रीभावाद् अन्तो भविष्यति दरिद्रगृहात्* । अथ सा दारिका तं पिण्डपातं परिणामयित्वा (अस्व् 109) भगवन्तम् उपनामयाम् आस । अनेन पिण्डपातकुशलमूलेन मा कस्मिंश्चिद् दरिद्रगृहे उपपद्येय ।
अथ सा नगरावलम्बिका दारिका तं पिण्डपातं परिणामयित्वा भगवते दत्वा स्वगृहगमनम् आरब्धा । अथ भगवांस् तां नगरावलम्बिकां दारिकाम् एवम् आह । प्रतिनिवर्तस्व दारिके । पूर्वजातिनिदानं समनुस्मरामि । तद् अहं प[रिकीर्त]यिष्यामि । अथ सा दारिका प्रतिनिवृत्य सर्वाङ्गप्रणि[पातेन] भगवन्तं प्रपतिता । अथ सा नगरावलम्बिका दारिका भगव[न्तं गा]थाभिर् अध्यभाषत ।
अवश्यं मे पूर्वकृतेन कर्मणा
येनाहं [जात] दरिद्रके गृहे ।
करोहि कारुण्य ममं हि दुःखित
[विनिवर्तयस्व] नरका हि पालान्* ॥
करोहि कारुण्य मम दुःखिताया
इस्त्रिभावा उपपन्नु नायक ।
त्वं लोकनाथ जरव्याधिशोक
विमोचये मं मम दुःखितायाः ॥
त्राणं भवाही शरणं परायणं
विमोचयाही मम दुःखितायाः ।
कृतं हि नाथ प्रणिधिं त्वया हि
ये केचि सत्वा इह जम्बुद्वीपे ॥
(अस्व् 110)
तिष्ठन्ति ये वै दशसु दिशासु
सत्वा हि सर्वे सुखिता [करि]ष्ये ।
सर्वे च हं मोचयि दुःखसागरात्
त्राणं भवाही श[रणं पराय]णम्* ॥
त्वयं हि नाथ मयि मोचयी जगत्*
अवश्यं मे पूर्वकृ[तेन] कर्मणा ।
येनाहं जातु दरिद्रके गृहे
त्राणं भवाही मम [दुःखितायाः] ॥
[भवं] तु नाथ जरव्याधिमोचकं
त्राणं भवाही गुण संचि[ताग्र] ।
न चा करिष्ये पुनर् एव पापं
यद् वेदयामी इमि वेदनानि ॥
कृपं जनि ...... मग्र सत्वा

त्राणं भवाही शरणं परायणम्* ।
ये केचि सत्वा इह जम्बुद्वीपे
नामं च वै धारय पश्च काले ॥
परिनिर्वृतस्य तत पश्चकाले
भविष्यति शासनविप्रलोपम्* ।
यत् किंचि पापं तदपूर्व यत् कृतं
सर्वं क्षयं यास्यति शीघ्रम् ए[त]त्* ॥
अथ सा नगरावलम्बिका दारिका भगवन्तं गाथा भाषित्वा पु[नर् अपि] गृहगमनम् आरब्धा । अथ भगवान् तां नगरावलम्बिकां (अस्व् 111) [दारिकां कल]विङ्करुतस्वरनिर्घोषेणैवम् आह । प्रतिनिवर्तस्व [दारिके पूर्वजातिनिदानं स]मनुस्मरामि तद् अहं परिकीर्तयिष्यामि । [अथ सा दारिका] प्रतिनिवृत्यैवम् आह ।
परिकीर्तय लोकविनायकाद्य
य[द् यत् कृतं] पाप सदा सुदारुणम्* ।
अवश्य मे पापु कृतं सुदारुणं
येना[हं जातु] दरिद्रके गृहे ॥
त्वं सार्थवाहु इह सर्वलोके
विमोचये मं इह इस्त्रिभावा ।
त्राणं भवाही शरणं परायणं
कृतज्ञहं नित्य भवामि नायके ॥
संश्रावये मं इमु धर्मनेत्री
नासौ कदाचित् तजते अपायम्* ।
संशोधयी कर्म यथाकृतं मया
त्राणं भवाही शरणं परायणम्* ॥
असङ्गज्ञानी वरलोकनायक
वन्दामि नाथ शरणं कृताञ्जली ॥
अथ भगवांस् तां दारिकाम् एवम् आह । भूतपूर्वो दारिके अतीते ऽध्वनि असंख्येयैः कल्पैः रत्नशिखी नाम तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्* । तेन (अस्व् 112) खलु पुनः समयेन पद्मावती नाम राजधान्य् अभूत्* । तेन खलु पुनः समयेन पद्मावत्यां राजधान्यां पद्मप्रभो नाम गृहपतिर् अभूत्* । तस्य पद्मप्रभस्य गृहपतेस् त्वं [दुहि]ताभूः । तेन खलु पुनः समयेन ग्रामनगरनिगमजनपदेषु पिण्डपातिको भिक्षुः पिण्डपातायावतरति । यदा त्वद्गृहम् आगतो ऽभूत् तदा त्वं दारिके पिण्डपातं गृहीत्वा गृहान् निष्क्रान्ता पुनर् एव प्रविष्टाभूः । न चाहं मुण्डितशिरसो ऽधन्यस्य पिण्डपातं दास्यामि । तेन कर्मोपचयेन त्वया दारिके द्वादश कल्पसहस्राणि पुनः पुनर् दरिद्रगृहे दुःखान्य् अनुभूतानि । एकेन त्वया
दारिके कुशलमूलेन बोधिव्याकरणं प्रतिलप्स्यसे । यत् त्वया तस्य भिक्षो रूपलिङ्गसंस्था न दृष्टा भविष्यसि त्वं दारिके अनागते ऽध्वनि अचिन्त्यैर् अपरिमाणैः कल्पैर् नगरध्वजो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्* लोके । अथ सा दारिका भगवन्तं त्रिः प्रदक्षिणं कृत्वैवम् आह । कीदृशं भगवन् मम बुद्धक्षेत्रं भविष्यति यत्रैवाहं बुद्धो भविष्यामि । भगवान् आह । अपरिमितगुणसंचया नाम सा बुद्धक्षेत्रं भविष्यति । यादृशी च सा सुखावती लोकधातुः तादृशं तद् बुद्धक्षेत्रं भविष्यति । पर्यङ्कनिषण्णा आर्योपपादुका बोधिसत्वा भविष्यन्ति । ईदृशं तद् बुद्धक्षेत्रम्* । (अस्व् 113)
अथ च सा दारिका तुष्टा उदग्रा आत्तमनाः प्रमुदिता प्रीतिसौमस्यजाता स्वगृहगमनम् आरब्धा । अथ भगवांस् तां दारिकाम् एवम् आह । त्वं दारिके सप्तमे दिवसे कालं करिष्यसि । कालं कृत्वा । पूर्वस्यान् दिशि मगधविषये राजा अजितसेनो नाम । तस्य राज्ञो ऽजितसेनस्य अन्तःपुरसहस्रम् अस्ति । तस्य खलु पुना राज्ञो ऽजितसेनस्य पुत्रो जनिष्यसे । एष एव तव पश्चिमो गर्भवासो भविष्यति ।
अथ भगवान् पश्चिमकेन नगरद्वारेण श्रावस्त्या महानगर्या निष्क्रान्तो येन जेतवनं विहारस् तेनोपसंक्रान्तः । अथायुष्मान् आनन्दो भगवन्तं दूरत एवागच्छन्तं दृष्ट्वा पादौ शिरसाभिवन्द्य त्रिःप्रदक्षिणीकृत्य भगवन्तं गाथाभिर् अध्यभाषत ।
सुवर्णवर्णं वरलक्षणार्चितं
द्वाविंशतिलक्षणरूपधारिणम्* ।
यदा त्वया आगतु पिण्डपातिका
विमोचयित्वा इह सर्वसत्वा ॥
सुखेन संस्थापयि सर्वसत्वा
मैत्रीबलं सर्वजगत् त्वया कृतम्* ।
स पिण्डपातं वरम् आण्डनायक
विमोचितस् ते जगती भया च ॥
ये बोधिसत्वा इह जम्बुद्वीपे
सर्वे च मार्गं तव दर्शयन्ति ।
(अस्व् 114)
परिनिर्वृतस्य सद पश्चकाले
धारेतु सूत्रं इमु बुद्धवर्णितम्* ॥
परिनिर्वृतस्य तव पश्चकाले

भविष्यति शासनविप्रलोपम्* ।
इमाम् नयं धारयि सूत्ररत्नम्* ॥
अथायुष्मान् आनन्द इमा गाथा भाषित्वा भगवन्तं त्रिःप्रदक्षिणीकृत्य भगवतः पुरतस् तस्थौ । अथ भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते स्म । गच्छानन्द गण्डीम् आकोटय । ते श्रावकाः परिभोक्ष्यन्ति पिण्डपातम्* । अथायुष्मान् आनन्दो भगवन्तम् आमन्त्रयते स्म । कीदृशं भगवन् गण्डीशब्दस्य कुशलमूलं भविष्यति । भगवान् आह । शृणु आनन्द गण्डीशब्दस्य कुशलमूलं परिकीर्तयामि । ये केचिद् आनन्द गण्डीशब्दं श्रोष्यन्ति तेषां पञ्चानन्तर्याणि कृत्यानि परीक्षयं यास्यन्ति । अवैवर्तिकास् ते भविष्यन्ति क्षिप्रं चानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते । आनन्द आह । कीदृशं भगवंस् तैः सत्वैः कुशलमूलम् अवरोपितम्* । भगवान् आह । शृणु आनन्द ये सत्वाः पश्चिमे काले पश्चिमे समये मम परिनिर्वृतस्य सद्धर्मविप्रलोपे वर्तमाने सद्धर्मस्यान्तर्धानकालसमये ग्रामनगरनिगमजनपदराष्ट्रराजधानीषु
ये सत्वा [वा] अरण्यायतने गण्ड्याकोटनशब्दं श्रोष्यन्ति नमो बुद्धायेति करिष्यन्ति तेषां पञ्चानन्तर्याणि कर्माणि परिक्षयं (अस्व् 115) यास्यन्ति । ईदृशान्य् आनन्द गण्डीशब्दस्य कुशलमूलानि । अथायुष्मान् आनन्दः शान्तप्रशान्तेन गण्डीम् आकोटयते स्म । अथ तेन गण्दीशब्देन सर्वे ते महाश्रावकाः सन्निपतिता अभूवन्* । यथा यथा आसने निषण्णाः पिण्डपातं परिभुञ्जन्ते स्म । अथ तत्रैव श्रावकमध्ये नन्दिमित्रो नाम महाश्रावकः सन्निपतितो ऽभूत्* सन्निषण्णः । अथ भगवान् आयुष्मन्तं नन्दिमित्रं महाश्रावकम् आमन्त्रयते स्म । गच्छ त्वं नन्दिमित्र महाश्रावक पूर्वस्यान् दिशि मगधविषये राज्ञो ऽजितसेनस्य कल्याणमित्रपरिचर्यां कुरु । अथ नन्दिमित्रो महाश्रावको भगवन्तम् एवम् आह । न भगवन्* शक्ष्यामस् तं पृथिवीप्रदेशं गन्तुम्* । दुरासदास् ते सत्वाः । ते मां जीविताद् व्यवरोपयिष्यन्ति । अथ भगवान् आयुष्मन्तं
तं नन्दिमित्रं महाश्रावकम् एवम् आह । न ते सत्वास् ते शक्ष्यन्ते बालाग्रम् अपि कम्पयितुं प्रागेव जीविताद् व्यवरोपयितुम्* । अथ नन्दिमित्रो महाश्रावकः प्रत्यूषकालसमये सुवर्णवर्णं वस्त्रं प्रावृत्य येन पूर्वस्यान् दिशि मगधविषये राज्ञो ऽजितसेनस्य राजधानी तेनानुक्रान्तो ऽभूत्* । अथ राजा अजितसेनस् तं नन्दिमित्रं महाश्रावकं दृष्ट्वा तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो ऽभूत्* । अथ राज्ञाजितसेनेन अमात्यः प्रेषितो ऽभूत्* । गच्छैनं भिक्षुम् आनय । तदा सो ऽमात्यो येन नन्दिमित्रो महाश्रावकस् (अस्व् 116) तेनोपसंक्रान्तः । अथ सो ऽमात्यो नन्दिमित्रं महाश्रावकम् एवम् आह । आगच्छ महाश्रावक भिक्षो राजा ते आज्ञापयति । अथ नन्दिमित्रो महाश्रावको ऽमात्यम् एवम् आह । मम राज्ञा किं कार्यं मम राजा किं करिष्यति । अथामात्यो येन राजाजितसेनस् तेनोपसंक्रान्तः । तं राजानम् अजितसेनम् एवम् आह । न च स भिक्षुस् तव पार्श्वे आगच्छति
। अथ राज्ञाजितसेनेन पञ्चामात्यशतानि प्रेषितानि । न च स भिक्षू राज्ञो ऽजितसेनस्य पार्श्वम् आगच्छति । अथ स राजा स्वकेनैवात्मभावेन येन स नन्दिमित्रमहाश्रावकस् तेनोपसंक्रान्तः । उपसंक्रम्य कृताञ्जलिर् एवम् आह । आगच्छ भो भिक्षो मम राजधानीं प्रविश । अथ राजा अजितसेनो दक्षिणहस्ते तं भिक्षुं गृहीत्वा स्वकां राजधानीं प्रविष्टो ऽभूत्* । अथ राज्ञाजितसेनेन नन्दिमित्रस्य भिक्षोः सिंहासनं दत्तम् अभूत्* । अथ राजाजितसेनो भद्रपीठके निषद्य तं नन्दिमित्रं महाश्रावकम् एवम् आह । कुत्र त्वं भिक्षो गच्छसि । को हेतुः कः प्रत्ययः । अथ नन्दिमित्रो महाश्रावको राजानम् अजितसेनम् एवम् आह । ये केचिद् भिक्षुप्रव्रजितास् ते सर्वे भिक्षाहाराः पिण्डपातम् अवचरन्तः परिभुञ्जन्ति । अथ राजा अजितसेनस् तं नन्दिमित्रं महाश्रावकम् एवम् आह । परिभुङ्क्ष्व मम गृहे पिण्डपातम्* । यावज्जीवं पिण्डपातं प्रदास्यामि । यदि ते भिक्षो मम
स्वमांसेन कार्यं स्वमांसं दास्यामि । अथ नन्दिमित्रो महाश्रावको राजानम् अजितसेनं गाथाभिर् अध्यभाषत । (अस्व् 117)
भुंजामि तद् भोजनु यद् ददाहि
मृष्टान्नपानं रसपानम् उत्तमम्* ।
क्लेशा हि निर्मुक्त त्वया भविष्यसि
सुदुर्लभं लब्ध मनुष्यलाभम्* ॥
सुदुर्लभं शासनु नायकस्य
श्रद्धाप्रसादं परमं सुदुर्लभम्* ।
ये शासने प्र[व्र]जिता च भिक्षवा
सुदुर्लभं शासनु नायकानाम्* ॥
सुदुर्लभं सुगतवरस्य दर्शनं
नमो ऽस्तु ते बुद्ध महानुभावो ।
नमो ऽस्तु ते धर्ममयं महामुने
नमो ऽस्तु ते क्लेशविचक्षणार्यम्* ॥
नमो ऽस्तु ते सर्वजरप्रमोक्षणात्*
नमो ऽस्तु ते मार्गनिदर्शनार्यम्* ॥
नमो ऽस्तु ते मार्गपथस्य दर्शकं
नमो ऽस्तु ते बोधिपथस्य दर्शकम्* ॥
अथ नन्दिमित्रो महाश्रावको राजानम् अजितसेनं भगवतो गुणवर्णम् उदीरयित्वा तूष्णीं स्थितो ऽभूत्* । अथ राजानम् अजितसेनं तं नन्दिमित्रो महाश्रावको गाथाभिर् अध्यभाषत ।
सुदुर्लभं भिक्षु तथैव दर्शनं
सुदुर्लभं तस्य भवेय दर्शनम्* ।
(अस्व् 118)
ये भिक्षुसंघस्य ददेय दानं
न तस्य यक्षा न च राक्षसाश् च ॥
न {प्रेतकुम्भाण्डमहोरगाश्} च (?)
विघ्नं न कुर्वन्ति कदाचि तेषाम्* ।
ये भिक्षुसंघाय ददन्ति दानं
सुदुर्लभं तस्य मनुष्यलाभम्* ॥
यो दुर्लभं दर्शनु भिक्षुभावं
सुदुर्लभं कल्पशतैर् अचिन्तियैः ।
यो लोकनाथस्य हि नामु धारये
कल्पान कोटीनयुतान् अचिन्तिया ॥
न जातु गच्छे विनिपातदुर्गतिं
यो ईदृशं पश्यति भिक्षुराजम्* ।
न तस्य भोती विनिपातदुर्गतिं

यो ईदृशं पश्यति भिक्षुराजम्* ॥
कल्याणमित्रं मम मार्गदर्शको
(यं) स आगताये मम पिण्डपातिका ।
यो दास्यते अस्य हि पिण्डपातं
मुक्ता न भेष्यंति जरार्तव्याधया ॥
क्लेशा विनिर्मुक्त सदा तु भेष्यति
ते तस्य दास्यन्तिह पिण्डपातम्* ॥
अथ स राजा अजितसेनो नन्दिमित्रं महाश्रावकं गुणवर्णम् उदीरयित्वा तूष्णीं स्थितो ऽभूत्* । अथ नन्दिमित्रो महाश्रावको (अस्व् 119) राजानम् अजितसेनम् एवम् आह । एवम् अस्तु महाराज भुञ्जे पिण्डपातं तव गृहे । अथ राजा अजितसेनः खादनीयेन भोजनीयेन तं नन्दिमित्रमहाश्रावकं सन्तर्पयति स्म ।
अथ नन्दिमित्रमहाश्रावको राजानम् अजितसेनम् एवम् आह । किं तव महाराज अस्मिन् पृथिवीप्रदेशे उद्यानभूमिर् अस्ति । राजा आह । अस्ति महाश्रावक उद्यानभूमिर् मम रमणीया सुशोभना । नन्दिमित्र आह । गच्छाम्य् अहं महाराज । ताम् उद्यानभूमिं प्रेक्षे । राजा आह । गच्छ नन्दिमित्र । उद्यानभूमिं प्रेक्षस्व । अथ नन्दिमित्रमहाश्रावको येन राज्ञो ऽजितसेनस्योद्यानभूमिस् तेनोपसंक्रान्तः । अथ तत्रोद्यानभूमौ ये उद्यानगुणास् ते सर्वे सन्तीति । या ग्रैष्मिक्यः पुष्करिण्यस् ताः शीतलजलपरिपूर्णा या वार्षिक्यस् ता नात्युष्णा नातिशीतलजलपरिपूर्णाः । ताश् च पुष्करिण्यः सुवर्णसोपानसंच्छन्ना दिव्या रमणीयाः । ये च जांबूपकपरिभोगगुणास् ते सर्वे सन्तीति । अधिमुक्तकचम्पकाशोकमुचिलिन्दपाटलसुमनासौगन्धिकपुष्पाणि सन्तीति । (अस्व् 120) ये तिर्यग्योनिगताः पक्षिणः शुकशारिकाचक्रवाकमयूरकोकिलादयस् ते नानारुतानि कुर्वन्ति स्म । अथ तत्रैव उद्यानभूमौ
सुवर्णवर्णाः सुवर्णतुण्डाः सुवर्णपक्षाः सुवर्णपादाः पक्षिणाः प्रादुर्भूताः । ते सर्वे बुद्धशब्दं निश्चारयन्ति । अथ नन्दिमित्रमहाश्रावको येन राज्ञो ऽजितसेनस्य राजधानी तेनोपसंक्रान्तः । अथ राजा अजितसेनस् तं नन्दिमित्रं महाश्रावकम् एवम् आह । आगतस् त्वं महाश्रावक । दृष्टोद्यानभूमिः । नन्दिमित्र आह । दृष्टा मयोद्यानभूमी रमणीया सुशोभना । अथ नन्दिमित्रं महाश्रावकं राजा अजितसेनो गाथाभिर् अध्यभाषत ।
ये जम्बुद्वीपे परिभोगमासी
अधिमुक्तकचम्पकधानुष्कारिका ।
अशोकमुचिलिन्द तथैव पाटला
सौगन्धिकाश् च सुमना च वार्षिका ॥
तदा पारियात्रा नदीतीरनिर्मिता
सुवर्णवर्णा सद पक्षिणा अभूत्* ।
मार्गं च ते दर्शयि अग्रबोधये
दिव्या मनोज्ञा मधुरस्वरांश् च
संश्रावयिष्यन्ति च नित्यकालम्* ॥
अथ नन्दिमित्रमहाश्रावको राज्ञो ऽजितसेनस्य गाथा भाषित्वा तूष्णीं स्थितो ऽभूत्* । अथ राज अजितसेनो भेरीं पराहन्ते स्म । (अस्व् 121) अथ तेन भेरीशब्देन समेत्यामात्यगणस् तं राजानम् अजितसेनम् एवम् आह । कस्यार्थे महाराज भेरी पराहता । अथ स राजा आह । हस्तिरथं च अश्वरथं च सज्जं कृतं स्यात्* । अहम् उद्यानभूमिं गमिष्यामि क्रीडनार्थाय । अथ ता अमात्यकोट्यो वचनं श्रुत्वा शीघ्रम् एव तद् हस्तिरथम् अश्वरथं सज्जं कृतवत्यः । अथ तेन क्षणलवमुहूर्तमात्रेण राजाजितसेनो येन सोद्यानभूमिस् तेनोपसंक्रान्तः । स च नन्दिमित्रमहाश्रावकस् तेनैवोपसंक्रान्तो राजानम् अजितसेनम् एवम् आह । अस्मिन् पृथिवीप्रदेशे महाराज मम कुटिकं कारयितव्यं यत्राहं सन्निषण्णस् तव गृहे पिण्डपातं परिभोक्ष्यामि । अथ राजा अजितसेनो नन्दिमित्रमहाश्रावकम् एवम् आह । कीदृशं तव कुटिकं कारयितव्यम्* । नन्दिमित्र आह । यादृशास् तव महाराज
महाचित्तोत्पादश्रद्धाप्रसादास् तादृशं कुटिकं कारय । अथ राजा अजितसेनो ज्येष्ठामात्यम् एवम् आह । अस्मिन्न् एव पृथिवीप्रदेशे कुटिकं कारय । अथ ज्येष्ठामात्यो राजानम् एवम् आह । कीदृशं महाराज कुटिकं कारयामि । राजा अजितसेन एवम् आह । त्रिंशद्योजनानि दीर्घेण षड्योजनान्य् ऊर्ध्वायां सप्तरत्नमयं मणिमुक्तिसंच्छादितं कुटिकं कारय । अथ सो ऽमात्यः कुटिकं कारयति । सप्तरत्नमयं (अस्व् 122) मणिमुक्तिसंच्छादितं कारयित्वा येन राजा अजितसेनस् तेनोपसंक्रान्तो राजानम् अजितसेनम् एवम् आह । कृतं महाराज मया कुटिकं यादृशम् आज्ञप्तम्* । राजा आह । तत्रैव पृथिवीप्रदेशे चंक्रमः कारयितव्यश् चतुर्योजनानि दीर्घेण द्वे योजने विस्तारेण । अथ सो ऽमात्यस् तं चंक्रमं कारयित्वा येन राजा अजितसेनस् तेनोपसंक्रान्तो राजानं गाथाभिर् अध्यभाषत ।
कृतं मया चंक्रमु सुष्ठु शोभनं
आज्ञा त्वया यत् कृतपूर्वम् एव च ।
सत्वान मोचेति प्रकृतिं शुभाशुभं
विमोचये प्राणिन सर्वम् एतत्* ॥
अहो सुलब्धा प्रणिधीकृतं त्वया
विमोचयी सर्वजगत्* सदेवकम्* ।
प्रणिधिं कृतं यत् त्वयम् ईदृशं भवे
धर्मं प्रकाशेति मि धर्मभाणको ॥
निषण्ण स्थित्वा कुटिका च चंक्रमे
आज्ञा कृतं यत् त्वय यादृशी कृता ।
स चंक्रमं चैव कृतं सुशोभनं
मणिरत्नसंच्छादित तं स भूमिम्* ॥
अथ राजा अजितसेनो येन स्वका राजधानी तेनोपसंक्रान्तः । अथ नन्दिमित्रमहाश्रावकः प्रतिनिवृत्य तत्रैव (अस्व् 123) कुटिके निषण्णो विकिरणं नाम बोधिसत्वसमाधिं समापन्नो ऽभूत्* । अन्येन केशान् अन्येन नयनान्य् अन्येन दन्तान् अन्येन ग्रीवा अन्येन बाहू अन्येन हृदयम् अन्येनोदरम् अन्येनोरू अन्येन जङ्घे अन्येन पादौ समापन्नो ऽभूत्* । अथ स राजा अजितसेनः सप्ताहस्यात्ययेन तं भिक्षुं न पश्यति ।
अथ राजा ज्येष्ठकुमारम् एवम् आह । आगच्छ कुलपुत्र गमिष्यामि तां कुटिकाम्* । येन स भिक्षुस् तेनोपसंक्रमिष्यामि । अथ स राजा सपुत्रो येन सा कुटिका तेनोपसंक्रान्तो ऽभूत्* । अथ स राजा अजितसेनस् तं भिक्षुम् आत्मभावं खण्डं खण्डं कृतं दृष्ट्वा संशयजातो ऽभूत्* । संत्रस्तरोमकूपजातो वस्त्राणि पाटयन् परिदेवन् रुदन् अश्रुकण्ठः पुत्रम् एवम् आह । आनय पुत्र तीक्ष्णधारम् असिम्* । आत्मानं जीविताद् व्यवरोपयिष्यामि । अथ स राजकुमारः प्रांजलिं कृत्वा राजानं गाथाभिर् अध्यभाषत ।
मा शोकचित्तस्य भवे नृपेन्द्र
मा वेदयी वेदनम् ईदृशानि ।
आत्मघातं करित्वा तु निरये त्वं गमिष्यसि
रौरवं नरकं चापि गमिष्यसि सुदारुणम्* ॥
... दक्षिणीयो अयं लोके जरव्याधिप्रमोचकः । (अस्व् 124)

न चायं घातितो यक्षैर् न भूतैर् न च राक्षसैः ।
बोधिसत्वो ऽप्य् अयं लोके जरव्याधिप्रमोचकः ॥
दक्षिणीयो अयं लोके जरव्याधिप्रमोचकः ।
दुर्लभो दर्शनं अस्य बोधिमार्गस्य दर्शकः ॥
कल्याणमित्रम् अयं आसी तव कारणम् आगतम्* ।
दक्षिणीयो अयं लोके सर्वसत्वसुखाव् अहम्* ॥
सर्वज्ञं पारमिप्राप्तं लोकनाथेन प्रेषितम्* ।
दृढवीर्यं दृढस्थामं लोकनाथं महर्षिणम्* ॥
यो नाम तस्य धारेति नासौ गच्छति दुर्गतिम्* ।
अपायं न गमिष्यन्ति स्वर्गलोकोपपत्तये ॥
अथ स राजकुमारस् तं पितरं गाथा भाषित्वा तूष्णीं स्थितो ऽभूत्* । अथ राजा अजितसेनः स्वकं पुत्रम् एवम् आह । कथं त्वं कुमार जानीषे यद् अयं भिक्षुः समाधिं समापन्नो ऽभूत्* । अथ स राजकुमार एवम् आह । पश्य महाराज अयं भिक्षुर् बोधिसत्वसमाधिं समापन्नः सर्वक्लेशविनिर्मुक्तो भवसागरपारंगतः सर्वसत्वहितार्थं च मार्गं दर्शयते शुभम्* । अथ स राजकुमारो राजानम् एवम् आह । आगच्छ तात चंक्रमं गमिष्यामः । अथ स राजा स च राजकुमारो बहुभिर् दारकशतैः सार्धं येन स चंक्रमस् तेनोपसंक्रान्तौ । अथ स भिक्षुस् ततः समाधेर् व्युत्थितो राजानम् अजितसेनम् एवम् आह । आगच्छ महाराज किं करोष्य् अस्मिन् स्थाने । (अस्व् 125)
अथ राजा तं भिक्षुं दृष्ट्वा मौलिपट्टं राजकुमारस्य ददाति । तव राज्यं भवतु । धर्मेण पालये नाधर्मेण । राजकुमार आह । बहून्य् असंख्येयानि राजकार्याणि मया कृतानि । न च कदाचित् तृप्तिर् आसीत्* । तव तात राज्यं भवतु । न मम राज्येन कार्यं न भोगेन नैश्वर्याधिपत्येन कार्यम्* । तव राज्यं भवतु तात । धर्मेण पालये नाधर्मेणेति ।
अथ राजा येन स भिक्षुस् तेनोपसंक्रान्तः प्राञ्जलिर् एवम् आह ।
सुदुर्लभं [दर्शन] तुभ्यम् आर्षाः
कृताञ्जलिः [समभिमुखी] नायकानाम्* ।
मोक्षागमं दर्शनु तुभ्यम् आर्षाः
सुदुर्लभं कर्मशतैर् अचिन्तियैः ॥
ये दर्शनं दास्यति तुभ्यम् आर्षा
मुक्ता च सो भेष्यति कल्पकोटिभिः ।
न जातु गच्छे विनिपातदुर्गतिं
यो नामधेयं शृणुते मुहूर्तम्* ॥
राजा आह ।
निषद्य युग्ये रतनामये शुभे
व्रजाम्य् अहं येन स राजधानीम्* ।
ददाम्य् अहं भोजनु सुप्रभूतं
ददाम्य् अहं काशिकवस्त्रम् एतत्* ।
(अस्व् 126)
सूक्ष्माणि जालानि च संहितानि
यां चीवरां तुभ्य ददामि अद्य ॥
अथ स भिक्षू रत्नमये युग्ये गृहीत्वा येन राजधानी तेनोपसंक्रान्तः । सन्तर्पितो भोजनेन । अथ नन्दिमित्रमहाश्रावको राजानम् अजितसेनं गाथाभिर् अध्यभाषत ।
संतर्पितो भोजन सुप्रभूतं
मृष्टान्नपानरसम् उत्तमं शुभम्* ।
ये भिक्षुसंघाय ददंति दानं
ते बोधिमण्डेन चिरेण गच्छत ॥
सुदुर्लभं दर्शन नायकस्य न
चिरेण सो गच्छति बुद्धक्षेत्रम्* ।
अमितायुषस्य वरबुद्धक्षेत्रे
सुखावतीं गच्छति शीघ्रम् एतत्* ॥
अथ नन्दिमित्रमहाश्रावकः अजितसेनस्य राज्ञो गाथा भाषित्वा तूष्णीं स्थितो ऽभूत्* । अथ राजा अजितसेनो भेरीं पराहन्ति स्म । अथ तेन भेरीशब्देन सर्वास् ता अमात्यकोट्यो राजानम् एवम् आहुः । कस्यार्थे महाराज भेरी पराहता । राजा आह । सप्तमे दिवसे हस्तिरथम् अश्वरथं सज्जं कृतं स्यात्* । अहं सप्तमे दिवसे जेतवनं नाम विहारं गमिष्यामि शाक्यमुनेस् तथागतस्यार्हतः सम्यक्संबुद्धस्य दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय (अस्व् 127) । अथामात्यकोट्यस् तं राजानम् अजितसेनम् एवम् आहुः । कृतम् अस्माभिः महाराज हस्तिरथम् अश्वरथं सज्जम्* । अथ राजा अजितसेनो हस्तिरथे अवरुह्य तं च नन्दिमित्रमहाश्रावकं रत्नमये रथे अवरोह्य येन जेतवनं विहारस् तेनोपसंक्रान्तः । अथ भगवान् राजानम् अजितसेनं दूरत एवागच्छन्तं दृष्ट्वा तान् सर्वश्रावकान् आमन्त्रयत । सर्वैर् नानाऋद्धिविकुर्वितं दर्शयितव्यम्* । अथ ते सर्वे महाश्रावका
ज्वालामालं नाम बोधिसत्वसमाधिं समापन्ना अभूवन्* । अथ राजा दूरतस् तं ज्वालामालं दृष्ट्वा नन्दिमित्रमहाश्रावकम् एवम् आह । कस्यार्थे इमं पर्वतं ज्वालामालीभूतं पश्यामि । नन्दिमित्र आह । अत्र शाक्यमुनिस् तथागतो ऽर्हन् सम्यक्संबुद्धः स्थितिं ध्रियते यापयति धर्मं च देशयति । ते च बोधिसत्वा ज्वालामालं नाम बोधिसत्वसमाधिं समापन्नाः । अथ राजा अजितसेनो हस्तिरथाद् अवतीर्य पादाभ्यां पुत्रसहस्रेण सार्धं येन भगवांस् तेनोपसंक्रान्तः । अथ भगवान् सुवर्णवर्णेन कायेन व्यामप्रभया चंक्रमते स्म । अथ राजा अजितसेनो भगवतो रूपवर्णलिंगसंस्थानं दृष्ट्वा मूर्च्छित्वा धरणितले निपतितः । अथ भगवान् सुवर्णवर्णं बाहुं प्रसार्य तं राजानम् उत्थापयति स्म । उत्तिष्ठ महाराज कस्यार्थे प्रपतितः । राजा अह । (अस्व् 128)

बहूनि कल्पानि अचिन्तियानि
जातीशताकोटि अचिन्तियानि ।
न मे कदाचिद् इह दृष्टरूपं
त्वं लोकनाथो वरदक्षिणीयो ॥
त्वं सार्थवाह जरव्याधिमोचकं
सुवर्णवर्णं वरलक्षणांगम्* ।
द्वातृंशता लक्षणधारिणं मुने
नासौ कदाचिद् व्रजते अपायभूमिम्* ।
यो लोकनाथस्य हि रूपु पश्ये
त्वं लोकनाथा शिरसा नमस्यामी ॥
अथ राजा अजितसेनः कृताञ्जलिः भगवन्तम् एवम् आह । अहं भगवन् तव शासने प्रव्रजिष्यामि । अथ भगवान् तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमन्स्यजातः । अलब्धलाभा ये [तत्र] मम शासनं वैस्तारिकं भवति । तं राजानम् अजितसेनम् एवम् आह । गच्छ त्वं महाराज स्वगृहे सप्तमे दिवसे आगमिष्यामि ।
अथ राजा अजितसेनस् तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमन्स्यजातस् तं कल्याणमित्रं भिक्षुं पुरतःस्थाप्य स्वगृहं गत्वा सर्वान् अमात्यान् आमन्त्रयते स्म । सर्वैर् ग्रामनगरनिगमजनपदैः पथं शोधयितव्यं गृहे गृहे ध्वजान्य् उच्छ्रापितव्यानि गृहे गृहे रत्नमयानि (अस्व् 129) कुम्भानि परिपूरयितव्यानि । तदा तैः सर्वैर् अमात्यैर् आज्ञातम्* । सर्वग्रामनगरनिगमजनपदैः पथं शोधितं ध्वजान्य् उच्छ्रापितानि रत्नमयानि कुम्भानि परिपूरितानि । यत्र राजा अजितसेनः प्रतिवसति तत्र द्वादशकोट्यो ध्वजानाम् उच्छ्रापिता द्वादशकोट्यो रत्नमयानां कुम्भानां परिपूरिताः । यावत् सप्तमे दिवसे तथागतो ऽर्हन् सम्यक्संबुद्धः शारिपुत्रमौद्गल्यायनानन्दपूर्णमैत्रायणीपुत्रप्रमुखैर् महाश्रावकसंघैः परिवृतः पुरस्कृतः अजितसेनस्य राज्ञो राजधानीम् अनुप्राप्तः । अथ राजा अजितसेनः पुष्पपिटकं गृहीत्वा कल्याणमित्रं पुरतःस्थाप्य
भगवन्तं पुष्पैर् अवकिरन् भगवन्तम् एवम् आह ।
अनेन कुशलमूलेन सर्वसत्वा अनुत्तरां सम्यक्संबोधिम् अभिसम्पद्यन्ते । अथ राज्ञा अजितसेनेन आसनानि प्रज्ञप्तानि । तस्य भगवतः सिंहासनं प्रदत्तम्* । अथ भगवान् सिंहासने निषण्णो राज्ञो ऽजितसेनस्य धर्मान् देशितवान्* । अथ राज्ञा अजितसेनेन प्रभूतेनाहारेण खादनीयेन भोजनीयेन सन्तर्पितः । अथ राजा अजितसेनो ज्येष्ठकं राजकुमारं ददाति । इमं राजकुमारं प्रव्राजय । तद् अहं पश्चात् प्रव्रजिष्यामि । अथ भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते स्म । गच्छानन्द इमं राजकुमारं प्रव्राजय । (अस्व् 130) अथायुष्मतानन्देन स राजकुमारः प्रव्राजितः । सह प्रव्रजितमात्रेण अर्हत्फलं प्राप्तम् अभूत्* । सर्वबुद्धक्षेत्राणि पश्यति स्म । अथ स राजकुमारो ऽन्तरीक्षगतस् तं पितरं गाथाभिर् अध्यभाषत ।
मा विलंब कुरुते तात
मा खेदं किंचि यास्यसि ।
अहो सुलब्धं सुगतान दर्शनं
अहो सुलब्धं सुगतान लाभम्* ॥
अहो सुलब्धं परमं हि लाभं
प्रव्रज्यलाभं सुगतेन वर्णितम्* ।
संसारमोक्षो सुगतेन वर्णितं
प्रव्रज्य शीघ्रं म विलंब तात ॥
मा खेदयी लोकविनायकेन्द्रं
सुदुर्लभं लब्ध मनुष्यलाभं
...सुदुर्लभं दर्शनु नायकानाम्* ।
शीघ्रं च प्रव्रज्य मया हि लब्धं
प्राप्तं मया उत्तमम् अग्रबोधिम्* ।
श्रुत्वा न राजा तद पुत्रवाक्यं
स प्रव्रजी शासनि नायकस्य ॥
अथ राजकुमारो ऽन्तरीक्षगतो गाथां भाषित्व तूष्णीं स्थितो ऽभूत्* । अथ राजा अजितसेनः पुत्रस्य वाक्यं श्रुत्वा तुष्ट उदग्र (अस्व् 131) आत्तमनाः प्रमुदितः [प्रीति]सौमन्स्यजातो भगवन्तम् उद्दिश्य विहारं कारयति स्म । तूर्यकोट्यो ऽनुप्रदत्ताः । अन्तःपुरसहस्रम् अस्यास्त्रीन्द्रियम् अन्तर्हितपुरुषेन्द्रियं प्रादुरभूत्* । अथ राजा अजितसेनो भगवतः शासने प्रव्रजितो ऽभूत्* । ताश् चामात्यकोट्यो भगवतः शासने प्रव्रजिता अभूवन्* । तच् चान्तःपुरपुरुषसहस्रं प्रव्रजितम् अभूत्* । भगवान् राजानम् अजितसेनं प्रव्राज्य येन जेतवनं विहारस् तेन गमनम् आरब्धवान्* ।
अथायुष्मान् आनन्दो भगवन्तम् एवम् आह । अयं राजा अजितसेनो राज्यं परित्यज्य विहारं कारयित्वा भगवतः शासने प्रव्रजितो ऽभूत्* । अस्य कीदृशं कुशलमूलं भविष्यति । भगवान् आह । साधु साधु आनन्द यत् त्वया परिकीर्तितम्* । अयं राजा अजितसेनो मम शासने प्रव्रजितो भविष्यति । अनागते ऽध्वन्य् अपरिमितैः कल्पैर् अचिन्त्यैर् अपरिमाणैर् अजितप्रभो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोके भविष्यति विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्* । आनन्द आह । अयं नन्दिमित्रमहाश्रावको राज्ञः कल्याणमित्रम् अभूत्* । कीदृशं वास्य कुशलमूलं भविष्यति । भगवान् आह । (अस्व् 132) अयम् आनन्द नन्दिमित्रमहाश्रावकस् तत्रैव कालसमये नन्दिप्रभो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोके भविष्यति । आनन्द आह । कीदृशं भगवन्* तेषां तथागतानां बुद्धक्षेत्रं भविष्यति । भगवान्
आह । अपरिमितगुणसंचया नाम सा बुद्धक्षेत्रं भविष्यति यत्रेमे तथागता भविष्यन्ति । आनन्द आह । य इमं धर्मपर्यायं सकलं समाप्तं पश्चिमे काले पश्चिमे समये संप्रकाशयिष्यति तस्य कीदृशः पुण्यस्कन्धो भविष्यति । भगवान् आह । यदा मयानन्द दुष्करकोटिनियुतशतसहस्राणि चरित्वा बोधिर् अभिसंबुद्धा तदा ते सत्वा बोधिम् अभिसंभोत्स्यन्ते । य एतद्धर्मपर्यायात्* चतुष्पदिकाम् अपि गाथां श्रोष्यन्ति अवैवर्तिकाश् च ते सत्वा भविष्यन्त्य् अनुत्तरायां सम्यक्संबोधौ । आनन्द आह । य इमं धर्मपर्यायं धर्मभाणकाः संप्रकाशयिष्यन्ति तेषां कीदृशं कुशलमूलं भविष्यति । भगवान् आह । शृणु आनन्द राजा भविष्यति चक्रवर्ती चतुर्द्वीपेश्वरः । य इमं धर्मपर्यायं सकलं समाप्तं संप्रकाशयिष्यन्ति मुक्ताश् च भविष्यन्ति जातिजराव्याधिपरिदेवदुःखदौर्मनस्योपायासेभ्यः परिमुक्ता भविष्यन्ति । आनन्द आह
। ये पश्चिमे काले पश्चिमे समये सत्वा इमं धर्मपर्यायं प्रतिक्षेप्स्यन्ति न पत्तीयिष्यन्ति तेषां का गतिर् भविष्यति कः परायणम्* । (अस्व् 133) भगवान् आह । अलम् अलम् आनन्द । मा मे पापकं कर्मस्कन्धं परिपृच्छ । न मया शक्यं परिकीर्तयितुम्* । अन्यत्र बुद्धकोटिभिर् न शक्यं परिकीर्तयितुम्* । आनन्द आह । परिकीर्तय भगवन् परिकीर्तय । सुगतो भगवान् आह । शृणु आनन्द सद्धर्मप्रतिक्षेपकस्य गतिं परिकीर्तयिष्यामि । रौरवे महानरके हाहहे महानरके अवीचौ महानरके तिर्यग्योनौ यमलोके च प्रेतविषये बहूनि कल्पसहस्राणि दुःखम् अनुभवितव्यम्* । यदि कदाचिन् मनुष्यलोके उपपत्स्यते दीर्घशुष्कतालुकण्ठो भविष्यति । द्वादशयोजनानि तस्य जिह्वा भविष्यति । द्वादशहल्यानि प्रवहिष्यन्ति ये एवं वाग् भाषिष्यन्ते । मा भोः कुलपुत्रा भोः क्वचित् सद्धर्मं प्रतिक्षेप्स्यथ । सद्धर्मप्रतिक्षेपकस्य एवं गतिर् भवति । आनन्द आह । केन हेतुना भगवन् सद्धर्मः

प्रतिक्षिप्तो भवति । भगवान् आह । ये सत्वाः पश्चिमे काले पश्चिमे समये एतेषां सूत्रानुधारकाणां धर्मभाणकानाम् आक्रोशिष्यन्ति परिभाषिष्यन्ते कुत्सयिष्यन्ति पंसयिष्यन्ति तस्य धर्मभाणकस्य दुष्टचित्तम् उत्पादयिष्यन्ति तेभ्यः सद्धर्मः प्रतिक्षिप्तो भविष्यति । यः सत्वः (अस्व् 134) त्रिसाहस्रमहासाहस्र्यां लोकधातौ सत्वानाम् अक्षीण्य् उत्पाटयेत्* अयं ततो बहुतरम् अपुण्यस्कन्धो भवेत्* । एवम् एव य एतेषां सूत्रधारकाणां धर्मभाणकानां दुष्टचित्तप्रेक्षिता अयं ततो बहुतरम् अपुण्यस्कन्धं प्रसविष्यते ।
अथ आनन्दो भगवतो गाथाः प्रत्यभाषत ।
बहुसूत्रसहस्राणि $ श्रुतं मे शास्तुसंमुखात्* &
न [च] मे ईदृशं सूत्रं % श्रुतपूर्वं कदाचन ॥
परिनिर्वृतस्य शास्तुस्य $ पश्चात्काले सुभैरवे &
इदं सूत्रं प्रकाशिष्ये % धारयिष्ये इमं नयम्* ॥
यत्र सूत्ररत्ने अस्मिं $ पश्चात्काले भविष्यति &

रक्षां करिष्यामि तेषां % पश्चात्कले सुभैरवे ॥
प्रतिक्षिपिष्यामि नेदं $ गंभीरं बुद्धभाषितम्* ॥
अथायुष्मान् आनन्दो भगवतो गाथा भाषित्वा तूष्णीं स्थितो ऽभूत्* । अथ काश्यपो महाश्रावको भगवन्तं गाथाभिर् अध्यभाषत ।
सुवर्णवर्णं वरलक्षणांगं
द्वात्रिंशता लक्षणधारिणं जिनम्* ।
सुभाषितं सूत्र महानुभावगं
गंभीरधर्मं निपुणं सुदुर्दृशम्* ॥
(अस्व् 135)
प्रकाशितं सूत्रम् इदं निरुत्तरं
मा पश्चकाले परिनिर्वृते जिने ।
धारिष्ये मं सूत्रनयं निरुत्तरं ।
अथायुष्मान्* शारद्वतीपुत्रो भगवन्तं गाथाभिर् अध्यभाषत ।
नमो ऽस्तु ते बुद्ध महानुभाव
प्रकाशितं सूत्रम् इदं निरुत्तरम्* ।
परिनिर्वृतस्य तव लोकनायका
लिखिष्यति सूत्रम् एतं निरुत्तरम्* ॥
न चापि सो गच्छति दुर्गतीभयं
स्वर्गं च सो गच्छति क्षिप्रम् एतत्* ॥
अथायुष्मान् पूर्णो मैत्रायणीपुत्रो भगवन्तं गाथाभिर् अध्यभाषत ।
कृतज्ञो बहुसत्वानां $ मोचको दुर्गतीभयात्* &
प्रकाशितं त्वया सूत्रं % गम्भीरं बुद्धदक्षिणम्* ॥
अहं हि पश्चिमे काले $ निर्वृते त्वयि नायके &
इदं सूत्रं प्रकाशिष्ये % हिताय सर्वप्राणिनाम्* ॥
इति
अथ ब्रह्मा सहांपतिर् भगवन्तं गाथाभिर् अध्यभाषत ।
नमो ऽस्तु ते बुद्ध महानुभावा
प्रकाशितं सूत्रम् इदं त्वया शुभम्* ।
(अस्व् 136)
परिनिर्वृतस्य तव लोकनायक
रक्षां करिष्यामि ह सूत्ररत्ने ॥
अथ चत्वारो महाराजा भगवन्तं गाथाभिर् अध्यभाषन्त ।
अहो [सुरम्यं] वरसूत्ररत्नं
प्रकाशितं ईदृश पश्चकाले ।
................ सूत्ररत्नं
प्रकाशितं पश्यति पश्चकाले ॥
सुगतान वै लोकविनायकानां
अहं हि धारिष्यम सूत्ररत्नम्* ।
रक्षां करिष्याम्य् अह सूत्ररत्नं
इमवोचद् भगवान् आत्तमना ॥
सा च सर्वावती पर्षद् भगवतो भाषितम् अभ्यनन्दत्* ।

अजितसेनव्यकरणनिर्देशो नाम महायानसूत्रं समाप्तम्* ॥
देयधर्मो ऽयं बालोसिंहेन सार्धं भार्याजाजतित्रन सार्धं मातापित्रोः परमदुष्कर्त्रोः सार्धं क्षिणीएन अखिलोटिएन दिशोटजाज मंगलि ... उत्रयन्नगर्विदोटिएन वट्ररि-खुशोटि-खुशोगोटिएन सार्धं सर्वसत्वैः सर्व ... भिर् यत्र पुण्य तद्भ ... सर्वसत्वानाम् अनुत्तरः ... सार्धं परमकल्याणमित्रस्थिरबन्धुएन । लिखितम् इदं पुस्तकं धर्मभाणकनरेन्द्रदत्तेन ।

मूल पाठ: Ajitasenavyākaraṇa · Edition: N. Dutt in: Gilgit Manuscripts, vol. I, Srinagar 1939, pp. 103-136. 2nd ed. Delhi 1984 · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc