भाषा

ENहिગુ
ग्रंथ पाठ

अहोरत्रव्रतकथा · अध्याय 1

1.1

अहोरात्रव्रतकथा
अव्क्_प्_1. ओं नमो धर्मधातवे ।
आकाशनिर्मलो भूतो निष्प्रपञ्चगुणाश्रयः ।
पञ्चस्कन्धात्मकः शान्तस् तस्मै स्तूपात्मने नमः

1.2

एकस्मिन्न् अन्तरे काले भगवान् कपिलवस्तुनि महानगरे विह र ति स्म सार्धं पञ्चमात्रैर् भिक्षुशतैः स ं बहुलैश् च कृतकृत्यैर् जितेन्द्रियैः क्षीणास्रवैर् अन्यैश् च बोधिसत्त्वशतैः षट्पारमितानिर्जातैः पञ्चचक्षुसमन्वागतैर् अनेकैः श्रावकमुख्यैर् अनुत्तरपुण्यक्षेत्रे निवासितैर् बुद्धशासनरतिभिर् अनेकैर् देवनागयक्षादिभिः परिमण्डितैः सपार्षदपरिपूर्णैः ।
अव्क्_प्_2. तत्सभायां सुभूति र् वज् र् अधरम् एवम् आह । वज् र् अधर श्रीमान् मुनिशार्दूलस् तत्सभायाम् अनेकदेवनागयक्षादिसंमिलिते नैकगिरम् आज्ञां नावभाषितं किम् । किमभिलाषो भवसि सुभूते यथाभिप्रायस् तथा विज्ञापय शाक्यमुनौ । सुभूतिर् आह । नराणाम् उत्तमं व्रतं यद् अहोरात्रव्रतं व्रतराज ं महोदयं ममाभिलाषः । इत्य् उक्ते महानुमतं सादरं कृत्वा वज् र् अधरो भगवन्तम् एवम् आह । भगवन् मुनिशार्दूल गिरम् एकम् अपि नावभाषितम् । सर्वसभाजनानाम् अभिलषितं सुभूतिर् इति व्रतराज ं महोदयं यद् अहोरात्रव्रतोपायिकाम् अभिलाषिको ऽहम् इत्य् आह । तत् सकलं प्रभाषय त्वं मुनीश्वर ।
अव्क्_प्_3. भगवान् आह । साधु साधु वज् र् अधर लोकानां हितहेतुना पृच्छितं सफलं पूरयामि । इत्य् उक्त्वा श्रीधर्मधातुसमाधौ स्थितवान् ।
नासिकाग्रे महापद्मे धर्मज्वलं समुज्ज्वलन् ।
अवभास्य दिशान् सर्वांस् तत्सभायां विराजते

1.3

तदा सर्वपर्षदजनाः के चित् परं धर्मसुभाषितं के चिद् भगवतो वचोऽमृतकं पातुम् ... । तथैवान्ये कथा ः परस्परं प्रवादिताः । ते पर्षदजना ः साधु भगवद्रश्मयः प्रादुर्भूता अवश्यं धर्मकथां प्रतिभाषयिष्यति ।
अव्क्_प्_4. तदा वज् र् अधरः पुनर् अप्य् उवाच । साधु भगवन् महाप्रभ कस्मिन् भगव न् पृथिव्यां केन संचारितम् अहोरात्रव्रतं ब्रूहि मे परमेश्वर । भगवान् आह । शृणु वज् र् अधर महातेजं व्रतानाम् उत्तमं व्रतं पृथिव्यां पावनीकथाम् ।
अव्क्_प्_5. पुरातनीकाले उत्तरदिग्भागे धर्मपत्तनो नाम महानगरी आसीद् मघवत्पत्तनसमा सुजन-म्-उत्तमैः परिपूरिता । कथं विस्तारिता नगरी । सप्तयोजनसंवृता व्यायामविस्तीर्णा भवति .... तालपङ्क्तिभिः परिखाभिश् च परिरुन्ध्यमाना महोत्सवा । तदूर्ध्वं त्रिकूटपर्वतो ऽस्ति । नानावृक्षसमाकीर्णं नानापक्षिगणसदारतं नानाकुसुमसुगन्धवासितम् अनेकर्षिभिः सुवासितं त्रिकूटम् एव । अनेकशूरसमाकीर्णानेकविद्वज्जनावृता नानाशिल्पज्ञसमापन्ना भिषग्वरप्रभृतिनानासुपुरुषपरिपूर्णा भवति नगरी कालवेदीकालज्ञसमयज्ञचैत्तज्ञमन्त्रीसमापन्ना च ।
अव्क्_प्_6. तस्यां नगर्यां धर्मदक्षो नाम राजा बभूव नयविनयविवेकविधिज्ञः प्रजावत्सलस्वभावः परदुःखं सुखं वा स्वात्मनि वेदनीयो दयावान् धर्मत्राणधर्मपरायण ः परकार्येषु महोत्सव ः । तस्य पत्नी सुव्रती सदा धर्मचारिणी विद्यागुणसंपन्ना ।
अव्क्_प्_7. अथ तस्मिन् समये तत्र त्रिकूटपर्वते शारिपुत्रो नाम महात्मायुष्मान् जैनज्ञो बुद्धज्ञानविदां वरो विहरति । तदा शारिपुत्रो ऽनुविचिन्तयति । को धर्मवत्सलो धर्मपरायणो धर्मचरणो ऽस्ति कस्मिन्न् इति । त त् क्षणात् स्मृत्य दर्शितम् इत्य् उक्तम् । दर्शितो धर्मचरणो धर्मवत्सलो धर्मपरायणो धर्मदक्षो नाम राजा अस्ति । तं धर्म ं देशयिष्यामि । इत्य् उक्त्वा धर्मपत्तनं महानगरी ं गतवान् समनुप्राप्त ः । तत्र प्रासाद-म्-एकम् अस्ति । तस्मिन् तिष्ठति । स ततो ऽनेकधर्मकथनेन स्थितवान् । तं सर्वजना स् तत्र प्रासादिकेन साधुकारम् अदात् । तत ः के चि त् सत्पुरुषा ः शिष्यत्वम् अनुगच्छन्ति तस्य ।
अव्क्_प्_8. अथ धर्मदक्षो महाराजा सर्ववृत्तान्तम् अनुमतं श्रुत्वा स विचारम् आदरेण सगौरवेण महोत्सवेन राजकुले प्रवेशयति वासनभक्तेन प्रतिष्ठापयति । अथ शारिपुत्रो राजानम् आशीर्वचनम् अब्रवीत् । सद्धर्म ं कुरुतां स्वस्ति सद्धर्म ं कुरुतां वत्स सद्धर्म ं कुरुतां मोक्षं सर्वकामा भवन्तु वः । अथ स राजा प्रहर्षेण आशीर्वचनम् आक र् ण्य शारिपुत्रम् एवम् आह । विभो शारिपुत्र कथम् आशीर्वचनं तव । कश् चि द् बुद्धो वा देवो वा देवी वा महेश्वरो वा नारायणो वान्यो वा रक्षत्व् इत्य् आशीर्वचनं मह्यं दद्या त् । सद्धर्म ं कु रु ताम् इति ददासि । सद्धर्मं न जानामि भगवन् सद्धर्मं भाषतु महामते ।
अव्क्_प्_9. शारिपुत्र आह ।
न जानासि महरज धर्माणां धर्मम् उत्तमम् ।
धर्मधातु ं कथं नाम धर्मो नामाकरं वरम्

1.4

शृणु राजन् महातेज प्रथमतो धर्मधातुप्रसंस्कारं कृत्वा अहोरात्रव्रतं कारये त् । अथ चाश्रमे वा नगरे विहारे वा अन्ये वा यत्र धर्मधातुर् अस्ति तत्राहोरात्रव्रतं कुर्यात् । अहर्निशम् अहोरात्रं सद्धर्मं तद् व्रतम् इति पुरा तथागतैः ।
अव्क्_प्_10. राजोवाच ।
कथं विधिविधानादीन् कथ्यतां भिक्षुसत्तम ।
व्रतराजं तु संसारे दिनमासादिकं क्र मात्

1.5

शारिपुत्र उवाच । प्रथमे महाराज यवोदक स् थापनं कुर्या च् चतस्रदेवतास्थापनं धर्मधातुप्रभृतस्य । इच्छन्ति ये सत्त्वा ब्रह्मक्षत्रि य वैश्यशूद्रादयश् चतुर्जातिव्रतं कुर्या त् । षोडशवि ं शतिजाति भिर् अन्यैः स्वस्वयोग्यश् च युज्यते ।
अव्क्_प्_11. राजन् मासाश्विनीशुक्लपक्षे चतुर्दश्यां दन्तधावनं कुर्या त् । क्षुरकर्मशुचिस्नानं मध्याह्ने दायदानं कुर्या त् । ततः सूर्ये षष्टे गते शाल्योदनं भोजनं कुर्या त् । ततो मुखप्रक्षालनं ...... पश्चात् । तदा व्याख्यानं शृणुयात् ततः । रात्रौ त्रयार्धप्रहरे राजन् सर्वे समुत्थाय प्रत्यूषवेलायां स्नात्वा क्रियाकारं कृत्वा शुचिवस्त्रं प्रावृत्य व्रतं कुर्या त् । पञ्चदेवतामण्डलं कृत्वा अपतितगोमयेनोपलिप्यार्घं दत्त्वा च स् तूपाय पुष्पधूपदीपगन्धनैवेद्यवीणावंशमृदङ्गमुरजपटहतालशङ्खध्वजच्छत्त्रगीतनृत्यादीन् षोडशविधिम् अर्चनै राजन् नानोत्सवप्रपूरितैः प्रथमे पञ्चप्रदक्षिणं कारये त् । स्तुति ं बुद्धे प्रगीयते । लाजाक्षत ं सपुष्पं च चैत्यमूर्ध्नि प्रक्षिपे त् ।
अव्क्_प्_12. अथ राजोवाच । भिक्षुसत्तम महाप्राज्ञ अहोरात्रव्रतं एकस्थाने वा द्वितीये वान्ये वा किम् उ । शारिपुत्र उवाच ।
नैकस्थाने महरज यत्र चैत्य ं प्रतिष्ठति ।
यत्र देवालये चैत्ये यत्र तीर्थस्य संगमे ।
यत्र यत्र मनोरम्ये बुद्धक्षेत्रे प्रचङ्क्रमे

1.6

राजोवाच । कथं नाथ प्रमाणं च यतिचैत्यप्रदक्षिणं संपूर्णं यावत् ताव द् दिन ं किं वा । शारिपुत्र उवाच । नैव महाराज यतिनां निद्रा न विश्राम ं न धावितं किं चित् ....... ईदृक्प्रमाण इति ।
अव्क्_प्_13 राजोवाच । समर्थो ऽसमर्थो वा तस्य विवेकं कथय प्रभो । शारिपुत्र उवाच । के चिद् असमर्था वा बालवृद्धा वा अहोरात्रव्रतं न कर्तव्यं महाराजेति । राजोवाच । कथं भिक्षो महाप्राज्ञ असमर्था बालवृद्धाश् च धर्मप्रतिलब्धा भवे युः । शारिपुत्र उवाच । उपवासोषितो भूत्वा चैत्यार्चनं स्नानादिकं कृत्वा जपस्तोत्रं च कारये त् । असमर्थानां तथा पुन र् बालानां अभिलाषं यदा दिनम् एकं वा दिनार्धं वा प्रहरम् एक ं वा उपवासोषितो भूत्वा चैत्यार्चनं एकद्वित्रिप्रदक्षि णं यथाशक्ति क र् तव्यं महाराजेति ।
अव्क्_प्_14. व्रतनियम ं कथं भिक्षो भक्षभोज्य ं कथं पुनर् व्रत ं पूर्ण ं कथं कुर्या त् । व्रतपर्यन्तकं कथम् । शारिपुत्र उवाच । शुचिस्ना ना दिकं कृत्वा चित्तम् अन्तर्गतमीक्षयेत् सर्वशुक्लोपचारेण सुगन्धकुसुमयुक्तेन निहतदण्डशस्त्रेण निहतप्राणिवधेन निहतादत्तदानेन निहतकामाचारेण त्यक्तपिशुनेन त्यक्तभिन्नभाषनेन त्यक्तादृष्टवचनेन त्यक्तपारुषकवचनेन च न चाभिध्याधानेन न च व्यापादचित्तेन न च मिथ्यादृष्टिग्रहणेन नैव लव ण भोजनेन नैव मद्यपानपिपासेन नैव मांसाहारेण विना उच्चशय्यां विना ज् य् एष्ठल ङ् घनेन विना अकालभोजनेन । एवं महाराज विधिम् एव कर्तव्यम् । अहर्निशापर्यन्ते प्राशनं कुर्या त् । पुनश् च महाराज व्रतसंपूरणार्थं प्रतिवर्ष ं वा वर्षम् एकं वा त्रितय ं वा पञ्च वा सप्त वा व्रत ं समाप्त ं कुर्या त् ।
अव्क्_प्_15. व्रतस ं पूरणान्तरे विचित्रच्छत्त्रं च ..... छत्त्रं च नानोपचारेण कुसुमप्ररोहणं क र् तव्यम् । नानोत्सवविनोदितनृत्यगीतहास्यलास्यविलासपञ्चस्वरसंवृतकालाहारेण पुष्पाक्षतपिष्टकादिप्रक्षिप्तेन ध्वजप्ररोहणं कुर्या त् । यथाविधि यज्ञादिकं कृत्वा तत आचार्याय वस्त्रान्नसुवर्णकङ्कणादि संपूरणाय । एवं महाराज तत आचार्यायोपाध्यायेन व्रतिनं मङ्गलार्थं प्रतिष्ठां कुर्या त् । ततः कुमारीपूजनं कारये त् । एवं विधि र् महाराज ।
अव्क्_प्_16. राजोवाच ।
साधु साधु महाप्राज्ञ व्रतबन्ध ं मया श्रुतम् ।
फलं तस्य कथं नाथ भाषस्व त्वं यथामतम्

1.7

शृणु राजन् प्रवक्ष् य् आमि व्रतराजस्य यं फलम् ।
पुरा तथागतैः प्राह तद् एकं व्रतशासनम्

1.8

निर्घोषदमनो नाम असुरेन्द्रः प्रकीर्तितः ।
अमरावती ं समासाद्य तिष्ठति सुखलीलया

1.9

तदा देवा ना म् इन्द्रो दीनमना दुःखितः सस्मार । केन प्रकारेण विजेष्यामि । ममाश्रमे निर्घोषदमनो ऽसुरेन्द्र ः स्थितः । तदा इति विचिन्त्य देवानाम् इन्द्रः अस्मिन् त्राय स् त्रि ं शद्भवने प्राक्तनदेवेन्द्रैः स ं पूजार्थ ं स ं स्थापितं महाचैत्यम् अस्ति । तस्मिन् चैत्ये अहोरात्रव्रत ं क्रियते यथाविधि देवानाम् इन्द्रेण । तदनन्तरे निर्घोषदमनो ऽसुरेन्द्रो निर्जित्य पृथिव्याम् अवधारित ः । एवं महाराज ईदृशम् अहोरात्रव्रतप्रभावं मया श्रुतम् ।
अव्क्_प्_17. राजोवाच ।
कथं भिक्षो महासत्त्व तत्फलं तदन्यद् अपि ।
भाषस्व सकलं तं च व्रतराजस्य सर्वतः

1.10

शारिपुत्र उवाच ।
शृणु राजन् महातेज तद्व्रतस्य फलं मया ।
कथ्यते सकलं सम्यक् प र् यन्तम् आदिपश्चिमम्

1.11

वितानम् उच्चै र् प्रकरोति म र् त्या ः श्रिधर्मधातौ ः तथागते वा ।
जराविपत्ति ं मरणान्तजन्म त्यक्त्वा सरोगं सततं लभन्ते

1.12

धर्मं च रत्नं च मयूरपद्मं चतुर्ध्वजान् संप्रतिष्ठापितेन ।
मैत्र्यादिचत्वारविहारकादीन् समाप्यते बुद्धविदां बलानि

1.13

अव्क्_प्_18. ये न धर्मधातवे व्रतारम्भे दीयते पाद्यं रतोअदुग्धादिमिश्रितं तेन शुचिगात्र ं महानिधिं प्रतिलभ्यते । तत्र आचमनं ध्यात्वा दीयते इह जन्मपापानि विनश्यन्ति । धर्मधातवे ... लङ्घयति । दुग्धाक्षताम्बुनवरत्नादि शङ्खस्थापितं कुर्वन्ति नरा धर्मधातवे ते सुखमोदिन्याम् अभिलाषफला न्य् आप्स्यन्ति । पटदुकूलसुकुमारादि ये प्रढौकन्ति धर्मधातवे ते पटदुकूलवस्त्राणां तन्तुसंख्यया जन्म सु सुरपुरे परिभुञ्जन्ते । तिलकप्रढौकितेन सौन्दर्यरूपगुणविशालसुगन्धवरं तेन लभ्यते । विचित्राणि च पुष्पानि ........................................
अव्क्_प्_19. अपि तेन सुव र् णलतिकातुल्यदानस्य तत्फलं स् तूपबिम्बे बुद्धेषु मुनयो वदन्ति सदा ।
पदोत्क्षेपपदोत्क्षेपम् एकसुवर्णकं दान म् ।
तत्फलं मुनयो जगु ः स्तोत्रम् एव प्रकुर्वीत

1.14

धर्मधातवे सुरलोकै ः प्रपूज्यते ....... येन गीतं प्रगीयते स् तूपबिम्बेषु दिव्यश्रोत्रो भूत्वा सुरपुरे दिव्यघोषं श्रूयते ते न । धर्मधातवे राजन् जपम् एक ं प्रजप्यते ये न सुगतज्ञान ं समासाद्यते समाधि ं पुनर् आप्यते । विविधवाद्यं ये प्रवाद्यन्ते ते महाराज धर्मधातौ देवलोके दिव्यवाद्यं प्रतिश्रु त् य स्थिता ः । धर्मधातु स् तूपबिम्बेषु ये नृत्यं प्रकुर्वन्ति नानावाद्यसमायुक्तं ते सुरलोके सुखभोग्य ं समासाद्य गन्धर्व इर् सह रम न् ते नृत्यमानस्य शस्त्रअस्त्रहस्तेन तत्शस्त्रेण सर्वपापानि प्रतिहन्य न् ते । चैत्यबिम्बे ये सुधालेप ं कुर्वन्ति ते पापराशिविष् य् अन्दिताः सुरलोकम् अनुगच्छन्ति । ये स् तूपबिम्बे दोलिबन्धितचतु र् दिशावरोहन्ति लक्षपुष्पगुण्ठिता वा षष्टिशतत्रयप्रमाणेन दिशामालिका स् ते पुष्पगुण्ठितसंख्यया जन्म सु सुरलोके भोगम् आप्नुवन्ति । ये नानाछत्त्रं विचित्र ....... छत्त्रं वा महाराज प्रत्यारोहयन्ति ते राजा नो भवन्ति चक्रवर्ता श् चतुरङ्गविजितवन्तः स्वर्गानुचारिणो देवलोकगता भवन्ति जैनपदं प्राप्नुवन्ति । एवम् अस्य महाराज अहोरात्रव्रतराजस्य फल ं संक्षेपाद् उक्तं मया ।
अव्क्_प्_20. राजोवाच । भिक्षुसत्तम महाभिज्ञ निद्रा ं न कुर्याद् इति सेव्यते विश्रामं न कुर्याद् इति विश्रामं क्रियते तस्य फलं कथं दोषबहुलम् । शारिपुत्र उवाच । निद्राविश्रामं क्रियते येन दशांशं फलम् आप्यते । अथ राजोवाच । भो शारिपुत्र व्रतराजस्य फलहीनभूतम् इत्थम् । अस्योपायम् अस्ति किं वा न वा । शारिपुत्र उवाच । महाराज तस्योपायम् अस्ति । किंतु धर्मधातु ं प्रणम्यादौ पञ्चप्रदक्षिणाप्रयुक्तेन अष्टाङ्गप्रणाम ं कुर्या त् । क्षमापयित्वा गौरवेण प्रतियाचयेत् । तेन सर्वदोषं प्रतिमुच्यते इति । एवं महाराज अहोरात्रव्रतस्य महानुशंसा महाफलम् । ब्रह्मघातकं बालघातकं वध्यते च सहोदरस्त्रीहत्यागोवधपापं मातृघातक ं पितृघातकं स् तूपभेदकम् । अस्य महासहस्राणां संपूर्णफलम् आप्यते प्राग् एक स्य । तथागतैर् भाषित ं तथा श्रुतं मया ।
अव्क्_प्_21. सप्तपर्वतानि मृत्तिकाकर्षानि वापराणि वापरशतानि पलसहस्राणि वा पलायुतलक्षं वा तथैव स ं ख्याम् अपि कलाम् अपि शक्तं मया । न त अहोरात्रव्रतराजस्य फलपर्यन्तं शक्यते । एवं महाराज अप्रमेयफलं व्रतराजस्य अन्येन किम् । एवं महाराज धर्मदक्ष संपूर्णफलभूतस्य धर्माणां सप्तभागैकभागं भूपतये । एकभाग ं सारथीजनेभ्यः पुनर् एकभाग ं देशवासिनां चतुर्भागान् व्रतिनाम् । एवम् एव भागप्रमाणं महाराज ।
अव्क्_प्_22. राजोवाच । साधु महाभिज्ञ व्रतानां व्रतम् उत्तमं व्रतराजम् इति ख्यातं सत्यम् एव महामते । ममाभिलाषो ऽभूत् सम्यक् करिष्यामीति निश्चय ः । त त् क्षणाद् एव राज्ञा पत्नी ं व्रतीम् आहूय आदेशितम् । अमात्यपार्षदादि ......... दशवि ं शतिजनादीन् सर्वान् संनिपात्य महाचैत्यं कारितवान् । शारिपुत्रेण यथादेशितं सर्वविधीन् सामग्री ं सज्जीकृत्य स्थितवान् । ततो दिनान् प्रेरयाम् आस । तदादिसमागतपदकादि ं स्थापितम् । चतुर्दश्याम् उपवासस्थितो भूत्वा मध्याह्ने दीपदानं दीयते धर्मधातौ । ततो मुखप्रक्षालनादिकं कृत्वा शारिपुत्रव्याख्यानं संपूर्ण ं श्रूयते । ततो ऽहर्निशं त्रयार्धप् र् अहरे समुत्थाय प्रत्यूषे स्नानादिक ं कृत्वा व्रतम् आरभ्यते ।
अव्क्_प्_23. ततो व्रतान्तरे धर्मधातुं पञ्चप्रदक्षिणादिलाजाक्षतप्रक्षेपणस्तुतिगीतनानोत्सवप्रपूरितेन यावच् चैत्ये देवालये तीर्थे वा बहुबुद्धक्षेत्रे गतवान् । न निद्रा ं न विश्रामं कारयन् रात्रौ अनेकदीपं प्रदीयते । प्रतिचैत्यदेवताया दीपमालां प्रज्वलयन् अनेकनृत्यगीतहास्यलास्यादिकं कृत्वा अहर्निशं ल ङ् घयति । हे वज् र् अधर यथा शारिपुत्रेण आदेशित ं त्रिवर्ष म् एवं विधिना पूरयित्वा दिग्मालिकादि ं विचित्र .... छत्त्रादि ं प्रत्यारोहयन्ति । ततो कुमारिपूजां कृत्वा व्रतप्रमोचनं क्रियते । एवं वज् र् अधर ध र् मदक्षमहाराजेन अहोरात्रव्रतराजं कृतवान् ।
अव्क्_प्_24. सगौरवेण ततो महाराजेन धर्मदक्षेण शारिपुत्राय सहस्रमूल्य ं मुक्ताहारं नानालंकारादीन् विहारभूमिचीवरवस्त्रपर्यन्त ं दत्तवान् । ततो राजा याचनागाथा ं कृतवान् ।
क्षमस्व भो महासत्त्व व्रतराजमहोदये ।
मम भागो न संप्राप्तः तव पादप्रसादतः

1.15

शारिपुत्रो ..... भूत्वा पुनर् उवाच ।
तव भाग्ये महरज मद्गिरम् एककं शृणु ।
पूर्वानुकूलं सूत्रं च प्रवक्ष् य् आमि विधि ं तव

मूल पाठ: Ahoratravratakathā-prose · Edition: R. Handurukande, Three Sanskrit Texts on Caitya Worship ḥ In Relation to the Ahorātravrata, Tokyo 2000 (Studia Philologica Buddhica, Monograph Series, 16). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc