अग्नि पुराण · अध्याय 331
:ए इत्य् आग्नेये महापुराणे छन्दोजातिनिरूपणं नाम
त्रिंशदधिकत्रिशततमो ऽध्यायः
% छप्तेर् {331}
:श् अथैकत्रिंशदधिकत्रिशततमो ऽध्यायः
विषमकथनम्
अग्निर् उवाच
वृत्तं समञ्चार्धसमं विषमञ्च त्रिधा वदे ।अप्_331.001अब्।
समन्तावत् कृत्वकृतमर्धसमञ्च कारयेत्
विषमञ्चैव वास्यूनमतिवृत्तं समान्यपि ।अप्_331.002अब्।
ग्लौचतुःप्रमाणी स्यादाभ्यामन्यद्वितानकं
पादस्याद्यन्तु वक्रं स्यात् शनौ न प्रथ्मास्मृतौ ।अप्_331.003अब्।
वाल्यमुश् चतुर्थाद्वर्णात् पथ्या वर्णं युजोयतः
विपरीतपथ्यान्यासाच्चपला वा युजस्वनः ।अप्_331.004अब्।
विपुलायुग्नसप्तमः सर्वं तस्यैव तस्य च
:न्
1 नः पूर्व इति ख..
2 ह्य् अ तियेकनुरुमिति ञ..
:प् 190
तौन्तौ वा विपुलानेका चक्रजातिः समीरिता ।अप्_331.005अब्।
भवेत् पदचतुरूद्ध्वं चतुर्वृद्ध्या पदेषु च
गुरुद्वयान्त आपीडः प्रत्यापीडो गणादिकः ।अप्_331.006अब्।
प्रथमस्य विपर्यासे मञ्जरी लवणी क्रमात्
भवेदमृतधाराख्या उद्धताद्युच्यते ऽधुना ।अप्_331.007अब्।
एकतः समजसानःस्युर्न सौ जो गो ऽथ भौनजौ
नोगो ऽथ सजसा गोगस्तृतीयचरणस्य च ।अप्_331.008अब्।
सौरभे केचनभगा ललितञ्च नमौ जसौ
उपस्थितं प्रचुपितं प्रथमाद्यं समौ जसौ ।अप्_331.009अब्।
गोगथो मलजा रोगः समो नगरजयाः पदे
वर्धमानं मलौ स्वौ नसौ अथो भोजोव इरिता ।अप्_331.010अब्।
शुद्धविराडार्षभाख्यं वक्ष्ये चार्धसमन्ततः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0