भाषा

ENहिગુ
ग्रंथ पाठ

आद्यास्तोत्रम् · अध्याय 1

1

॥ आद्यास्तोत्रम् ॥
ॐ नम आद्यायै ।
शृणु वत्स प्रवक्ष्यामि आद्या स्तोत्रं महाफलम् ।
यः पठेत् सततं भक्त्या स एव विष्णुवल्लभः

2

मृत्युर्व्याधिभयं तस्य नास्ति किञ्चित् कलौ युगे ।
अपुत्रा लभते पुत्रं त्रिपक्षं श्रवणं यदि

3

द्वौ मासौ बन्धनान्मुक्ति विप्रवक्त्रात् श्रुतं यदि ।
मृतवत्सा जीववत्सा षण्मासं श्रवणं यदि

4

नौकायां सङ्कटे युद्धे पठनाज्जयमाप्नुयात् ।
लिखित्वा स्थापयेद्गेहे नाग्निचौरभयं क्वचित्

5

राजस्थाने जयी नित्यं प्रसन्नाः सर्वदेवता ।
ॐ ह्रीं ब्रह्माणी ब्रह्मलोके च वैकुण्ठे सर्वमङ्गला

6

इन्द्राणी अमरावत्यामविका वरुणालये।
यमालये कालरूपा कुबेरभवने शुभा

7

महानन्दाग्निकोने च वायव्यां मृगवाहिनी ।
नैऋत्यां रक्तदन्ता च ऐशाण्यां शूलधारिणी

8

पाताले वैष्णवीरूपा सिंहले देवमोहिनी ।
सुरसा च मणीद्विपे लङ्कायां भद्रकालिका

9

रामेश्वरी सेतुबन्धे विमला पुरुषोत्तमे ।
विरजा औड्रदेशे च कामाक्ष्या नीलपर्वते

10

कालिका वङ्गदेशे च अयोध्यायां महेश्वरी ।
वाराणस्यामन्नपूर्णा गयाक्षेत्रे गयेश्वरी

11

कुरुक्षेत्रे भद्रकाली व्रजे कात्यायनी परा ।
द्वारकायां महामाया मथुरायां माहेश्वरी

12

क्षुधा त्वं सर्वभूतानां वेला त्वं सागरस्य च ।
नवमी शुक्लपक्षस्य कृष्णसैकादशी परा

13

दक्षसा दुहिता देवी दक्षयज्ञ विनाशिनी ।
रामस्य जानकी त्वं हि रावणध्वंसकारिणी

14

चण्डमुण्डवधे देवी रक्तबीजविनाशिनी ।
निशुम्भशुम्भमथिनी मधुकैटभघातिनी

15

विष्णुभक्तिप्रदा दुर्गा सुखदा मोक्षदा सदा ।
आद्यास्तवमिमं पुण्यं यः पठेत् सततं नरः

16

सर्वज्वरभयं न स्यात् सर्वव्याधिविनाशनम् ।
कोटितीर्थफलं तस्य लभते नात्र संशयः

17

जया मे चाग्रतः पातु विजया पातु पृष्ठतः ।
नारायणी शीर्षदेशे सर्वाङ्गे सिंहवाहिनी

18

शिवदूती उग्रचण्डा प्रत्यङ्गे परमेश्वरी ।
विशालाक्षी महामाया कौमारी सङ्खिनी शिवा

19

चक्रिणी जयधात्री च रणमत्ता रणप्रिया ।
दुर्गा जयन्ती काली च भद्रकाली महोदरी

10

नारसिंही च वाराही सिद्धिदात्री सुखप्रदा ।
भयङ्करी महारौद्री महाभयविनाशिनी

इति ब्रह्मयामले ब्रह्मनारदसंवादे आद्या स्तोत्रं समाप्तम् ॥
॥ ॐ नम आद्यायै ॐ नम आद्यायै ॐ नम आद्यायै ॥

मूल पाठ: ādyāstotram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc