भाषा

ENहिગુ
ग्रंथ पाठ

अद्भुतधर्मपर्याय · भाग 11

अद्भुतधर्मपर्याय
[0] एवं मया श्रुतम् एकस्मिन् समये भगवान् श्रावस्त्यां विहरति स्म वेणुवने कलन्दकनिवासे.
[1] अथायुष्मान् आनन्दः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय राजगृहं पिण्डाय प्राविक्षत्. अद्राक्षीद् आयुष्मान् आनन्दो राजगृहे नगरे सावदानं पिण्डाय चरमाणो ऽन्यतमस्मिन् प्रदेशे कूटागारम् अशीतिद्वारम् उल्लिप्तावलिप्तम् उच्छृतध्वजपताकम् आमुक्तपट्टदामकलापम्. दृष्ट्वा च पुनस् तस्यैतद् अभवत्. यः कश्चिच् छ्राद्धः कुलपुत्रो वा कुलदुहिता वा ईदृशं कूटागारं कारयित्वा चतुर्दिशे भिक्षुसंघे निर्यातयेद् यो वा तथागतस्यार्हत्ः सम्यक्संबुद्धस्यामलकप्रमाणं स्तूपं प्रतिष्ठापयेत् सूचीमात्रां यष्टिम् आरोपयेद् बदरीपत्रमात्रं च्छत्रं यवफलप्रमाणां प्रतिमां कारयेत् सर्षफलप्रमाणं धातुं प्रतिष्ठापयेत् तत् कतमं ततः प्रभूततरं पुण्यं स्यात्? अथायुष्मत आनन्दस्यैतद् अभवत्. शास्ता मे संमुखीभूतः सुगतो मे संमुखीभूतः. यण्व् अहम् एतम् एवार्थं भगवत आरोचयेयं यथा मे स भगवां व्याकरिष्यति तथाहं धारयिष्यामीत्य्.
[2] अथायुष्मान् आनन्दो राजगृहे नगरे सावदानं पिण्डाय चरित्वा कृतभक्तकृत्य पश्चाद्भक्तपिण्डपातप्रतिक्रान्तः पात्रचीवरं प्रतिशमय्य पादौ प्रक्षाल्य येन भगवांस् तेनोपसंक्रान्त उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते ऽस्थात्. एकान्तस्थित आयुष्मान् आनन्दो भगवन्तम् इदम् अवोचत्. इहाहं भदन्त पूर्वाह्णे निवास्य पात्रचीवरम् आदाय राजगृहं पिण्डाय प्राविक्षं. सो ऽहम् अद्राक्षम् राजगृहे नगरे सावदानं पिण्डाय चरमाणो ऽन्यतमस्मिन् प्रदेशे कूटागारम् अशीतिद्वारम् उल्लिप्तावलिप्तम् उच्छृतध्वजपताकम् आमुक्तपट्टदामकलापं च दृष्ट्वा च पुनर् मे एतद् अभवत्. यः कश्चिच् छ्राद्धः कुलपुत्रो वा कुलदुहिता वा ईदृशं कूटागारं चतुर्दिशे भिक्षुसंघे निर्यातयेद् यो वा तथागतस्यार्हत्ः सम्यक्संबुद्धस्य परिनिर्वृतस्य मृत्तिकापिण्डाद् आमलकप्रमाणं स्तूपं प्रतिष्ठापयेत् सूचीमात्रां यष्टिम् आरोपयेद् बदरीपत्रमात्रं च्छत्रं यवफलप्रमाणां प्रतिमां कारयेत् सर्षफलप्रमाणं धातुं प्रतिष्ठापयेत् तत् कतमं ततः प्रभूततरं पुण्यं स्यात्? तस्य ममैतद् अभवत्. शास्ता मे संमुखीभूतः सुगतो मे संमुखीभूतः. यन्व् अहम् एतम् एवार्थं भगवत आरोचयेयं यथा भगवां व्याकरिष्यति तथाहं धारयिष्यामीत्य्.
[3] एवम् उक्ते भगवान् आयुष्मन्तम् आनन्द, इदम् अवोचत्. साधु साध्व् आनन्द बहुजनहिताय त्वम् आनन्द प्रतिपन्नो च बहुजनसुखाय लोकानुकम्पायै अर्थाय हिताय सुखाय देवमनुष्याणां यस् त्वं तथागतम् एतम् एवार्थं परिप्रष्टव्यं मन्यसे. तेन ह्य् आनन्द शृणु साधु च सुष्ठु च मनसिकुरु, भाषिष्ये. जम्बूद्वीपो ह्य् आनन्द द्वीपः सप्तयोजनसहस्राण्य् आयामविस्तारेण उत्तरविशालो दक्षिणेन शकटामुखः तम् एनम् कास्चिच् छ्राद्धः कुलपुत्रो वा कुलदुहिता वा सप्तरत्नमयं कृत्वा स्रोतापन्नेभ्यः सकृदागामिभ्यो ऽनागामिभ्यो ऽर्हद्भ्यः प्रत्येकबुद्धेभ्यश् चातुर्दिशे वा भ्किषुसंघे निर्यातयेत्. यो वा तथागतस्यार्हतः सम्यकसंबुद्धस्य परिनिर्वृतस्य मृत्तिकापिण्डाद् आमलकफलप्रमाणं स्तूपं प्रतिष्ठापयेत् सूचीमात्रां वा यष्टिम् आरोपयेत् बदरीपत्रमात्रच्छत्त्रम् यवफलप्रमाणं प्रतिमां कारयेत् सर्षफलप्रमाणं धातुं प्रतिष्ठापयेत्, इदम् एवानन्द ततः प्रभूततरं पुण्यं वदामि.
[4] तिष्ठत्व् आनन्द जम्बूद्वीपो द्वीपः. अस्त्य् आनन्द पूर्वविदेहो नाम द्वीपो ऽष्टौयोजनसहस्राण्य् आयामविस्तारेण समन्ताद् अर्धचन्द्राकारपरिणामितः. तम् एनं कश्चित् श्राद्धः कुलपुत्रो वा कुलदुहिता वा सप्तरत्नमयं कृत्वा चातुर्दिशे भ्किषुसंघे निर्यातयेत् यो वा तथागतस्यार्हतः सम्यकसंबुद्धस्य परिनिर्वृत्तस्य मृत्पिण्डाद् आमलकफलप्रमाणं स्तूपं प्रतिष्ठापयेत् सूचीमात्रां यष्टिम् आरोपयेद् बदरीपत्रमात्रं च्छत्त्रम् यवफलप्रमाणं प्रतिमां कारयेत् सर्षफलप्रमाणं धातुं प्रतिष्ठापयेत् इदम् एवानन्द ततः बहुतरं पुण्यं वदामि.
[5] तिष्ठत्व् आनन्द जम्बूद्वीपो द्वीपः. अस्त्य् आनन्दावरगोदानीयो नाम द्वीपो नवयोजनसहस्राण्य् आयामविस्तारेण समन्तात् पूर्णचन्द्राकारपरिणामितः. तम् एनं कश्चिच् छ्राद्धः कुलपुत्रो वा कुलदुहिता वा सप्तरत्नमयं कृत्वा यावच् चातुर्दिशे भ्किषुसंघे निर्यातयेद् यो वा तथागतस्यार्हतः सम्यकसंबुद्धस्य परिनिर्वृत्तस्य मृत्पिण्डाद् आमलकफलप्रमाणं स्तूपं प्रतिष्ठापयेत् सूचीमात्रां यष्टिम् आरोपयेद् बदरीपत्रमात्रं च्छत्त्रम् यवफलप्रमाणं प्रतिमां कारयेत् सर्षफलप्रमाणं धातुं प्रतिष्ठापयेत् इदम् एवानन्द ततः प्रभूततरं पुण्यं वदामि.
[6] तिष्ठत्व् आनन्द जम्बूद्वीपो द्वीपः. तिष्ठतु पूर्वविदेहो द्वीपः. तिष्ठत्व् अवरगोदानीयो द्वीपः. अस्त्य् आनन्द उत्तरकुरुर् नाम द्वीपः दशयोजनसहस्राण्य् आयामविस्तारेण समन्तात् समन्तचतुरस्रः. तम् एनं कश्चिच् छ्राद्धः कुलपुत्रो वा कुलदुहिता वा सप्तरत्नमयं कृत्वा यावच् चातुर्दिशे भ्किषुसंघे निर्यातयेद् यो वा तथागतस्यार्हतः सम्यकसंबुद्धस्य परिनिर्वृत्तस्य मृत्पिण्डाद् आमलकफलप्रमाणं स्तूपं प्रतिष्ठापयेत् सूचीमात्रां यष्टिम् आरोपयेद् बदरीपत्रमात्रं च्छत्त्रम् यवफलप्रमाणं प्रतिमां कारयेत् सर्षफलप्रमाणं धातुं प्रतिष्ठापयेत् ततः प्रभूततरं पुण्यं वदामि.
[7] तिष्ठत्व् आनन्द जम्बूद्वीपो द्वीपस्. तिष्ठतु पूर्वविदेहो द्वीपः. तिष्ठत्व् अवरगोदानीयो द्वीपः. तिष्ठतूत्तरकुरु द्वीपः. अस्त्य् आनन्द शक्रस्य देवानाम् इन्द्रस्य वैजयन्तो नाम प्रासादः. तम् एनं कश्चिच् छ्राद्धः कुलपुत्रो वा कुलदुहिता वा सप्तरत्नमयं कृत्वा यावच् चातुर्दिशे भ्किषुसंघे निर्यातयेद् यो वा तथागतस्यार्हतः सम्यकसंबुद्धस्य परिनिर्वृत्तस्य मृत्पिण्डाद् आमलकफलप्रमाणं स्तूपं प्रतिष्ठापयेत् सूचीमात्रां यष्टिम् आरोपयेद् बदरीपत्रमात्रं च्छत्त्रम् यवफलप्रमाणं प्रतिमां कारयेत् सर्षफलप्रमाणं धातुं प्रतिष्ठापयेत् इदम् एवानन्द ततः प्रभूततरं पुण्यं वदामि.
[8] तिष्ठत्व् आनन्द जम्बूद्वीपो द्वीपः. तिष्ठतु पूर्वविदेहो द्वीपः. तिष्ठत्व् अवरगोदानीयो द्वीपः. तिष्ठतूत्तरकुरु द्वीपः. तिष्ठतु शक्रस्य देवानाम् इन्द्रस्य वैजयन्तः प्रासादः. अस्त्य् आनन्द त्रिसाहर्समहासाहस्रो लोकधातुः. तम् एनं कश्चिच् छ्राद्धः कुलपुत्रो वा कुलदुहिता वा सप्तरत्नमयं कृत्वा स्रोतापन्नेभ्यः सकृदागामिभ्यो ऽनागामिभ्यो ऽर्हद्भ्यः प्रत्येकबुद्धेभ्यश् यावच् चातुर्दिशे वा भ्किषुसंघे निर्यातयेद् यो वा तथागतस्यार्हतः सम्यकसंबुद्धस्य परिनिर्वृत्तस्य मृत्पिण्डाद् आमलकफलप्रमाणं स्तूपं प्रतिष्ठापयेत् सूचीमात्रां यष्टिम् आरोपयेद् बदरीपत्रमात्रं च्छत्त्रम् यवफलप्रमाणं प्रतिमां कारयेत् सर्षफलप्रमाणं धातुं प्रतिष्ठापयेत् इदम् एवानन्द ततः प्रभूततरं पुण्यं वदामि.

[9] तत् कस्य हेतोः. अप्रमेयो ह्य् आनन्द तथागतो दानेनाप्रमेयः शीलेनाप्रमेयः क्षान्त्याप्रमेयो वीर्येणाप्रमेयो त्यागेनाप्रमेयो मैत्र्याप्रमेयः करुणयाप्रमेयो मुदितयाप्रमेय उपेक्षया चतुर्भिर् वैशारद्यैस् दशभिस् तथागतबलैश् अष्टादशभिर् आवेणिकैर् बुद्धधर्मैर् अप्रमेयाप्रमेयगुणसमन्वागतो ह्य् आनन्द तथागतो ऽर्हन् सम्यक्संबुद्धः.
[10] एवम् उक्तो आयुष्मान् आनन्दो भगवन्तम् इदम् अवोचत्: आश्चर्यं भगवन्न् आश्चर्यं सुगत यावद् अयं धर्मपर्यायः. को नामायं धर्मपर्यायः. कथं चैनं धारयामि. तस्मात् तर्हि त्वम् आनन्द इमं धर्मपर्यायम् अद्भुतम् अद्भुतधर्मपर्यायं इति धारय. इदम् अवोचद् भगवान् आत्तमनास् ते भिक्षव आयुष्मांश् चानन्दो भगवतो भाषितम् अभ्यनन्दन्.

मूल पाठ: Adbhutadharmaparyāya · Edition: Yael Bentor, "The Redactions of the Adbhutadharmaparyāya from Gilgit", Journal of the International Association of Buddhist Studies 11.2 (1988), pp. 21-52. [Nach drei teilweise unvollständigen Hss. aus Gilgit (Hs. A: GBM 1507.8, 1576-1581.4; Hs. B: 1588-1592.4; Hs. C: 1691.2ff.)] · Data entry Jens-Uwe Hartmann · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc