भाषा

ENहिગુ
ग्रंथ पाठ

Acintyastava · भाग 14

प्रतीत्यजानां भावानां नैःस्वाभाव्यं जगाद यः ।
तं नमाम्य् असमज्ञानम् अचिन्त्यम् अनिदर्शनम् ॥ नगस्त्_01
यथा त्वया महायाने धर्मनैरात्म्यम् आत्मना ।
विदितं देशितं तद्वद् धीमद्भ्यः करुणावशात् ॥ नगस्त्_02
प्रत्ययेभ्यः समुत्पन्नम् अनुत्पन्नं त्वयोदितम् ।
स्वभावेन न तज् जातम् इति शून्यं प्रकाशितम् ॥ नगस्त्_03
यद्वच् छब्दं प्रतीत्येह प्रतिशब्दसमुद्भवः ।
मायामरीचिवच् चापि तथा भवसमुद्भवः ॥ नगस्त्_04
मायामरीचिगन्धर्वनगरप्रतिबिम्बकाः ।
यद्य् अजाताः सह स्वप्नैर् न स्यात् तद्दर्शनादिकम् ॥ नगस्त्_05
हेतुप्रत्ययसंभूता यथैते कृतकाः स्मृताः ।
तद्वत् प्रत्ययजं विश्वं त्वयोक्तं नाथ सांवृतम् ॥ नगस्त्_06
अस्त्य् एतत् कृतकं सर्वं यत् किंचिद् बाललापनम् ।
रिक्तमुष्टिप्रतीकाशम् अयथार्थप्रकाशितम् ॥ नगस्त्_07
कृतकं वस्तु नो जातं तदा किं वार्तमानिकम् ।
कस्य नाशाद् अतीतं स्याद् उत्पित्सुः किम् अपेक्षते ॥ नगस्त्_08
स्वस्मान् न जायते भावः परस्मान् नोभयाद् अपि ।
न सन् नासन् न सदसन् कुतः कस्योदयस् तदा ॥ नगस्त्_09
अजाते न स्वभावो ऽस्ति कुतः स्वस्मात् समुद्भवः ।
स्वभावाभावसिद्ध्यैव परस्माद् अप्य् असंभवह् ॥ नगस्त्_10
स्वत्वे सति परत्वं स्यात् परत्वे स्वत्वम् इष्यते ।
आपेक्षिकी तयोः सिद्धिः पारावारम् इवोदिता ॥ नगस्त्_11
यदा नापेक्षते किं चित् कुतः किं चित् तदा भवेत् ।
यदा नापेक्षते दीर्घं कुतो ह्रस्वादिकं तदा ॥ नगस्त्_12
अस्तित्वे सति नास्तित्वं दीर्घे ह्रस्वं तथा सति ।
नास्तित्वे सति चास्तित्वं यत् तस्माद् उभयं न सत् ॥ नगस्त्_13
एकत्वं च तथानेकम् अतीतानागतादि च ।
संक्लेशो व्यवदानं च सम्यङ्मिथ्या स्वतः कुतः ॥ नगस्त्_14
स्वत एव हि यो नास्ति भावः सर्वो ऽस्ति कस् तदा ।
पर इत्य् उच्यते यो ऽयं न विना स्वस्वभावतः ॥ नगस्त्_15
न स्वभावो ऽस्ति भावानां परभावो ऽस्ति नो यदा ।
भावग्रहग्रहावेशः परतन्त्रो ऽस्ति कस् तदा ॥ नगस्त्_16
आदाव् एव समं जाताः स्वभावेन च निर्वृताः ।
अनुत्पन्नाश् च तत्त्वेन तस्माद् धर्मास् त्वयोदिताः ॥ नगस्त्_17
निःस्वभावास् त्वया धीमन् रूपाद्याः संप्रकाशिताः ।
फेनबुद्बुदमायाभ्रमरीचिकदलीसमाः ॥ नगस्त्_18
इन्द्रियैर् उपलब्धं यत् तत् तत्त्वेन भवेद् यदि ।
जातास् तत्त्वविदो बालास् तत्त्वज्ञानेन किं तदा ॥ नगस्त्_19
जडत्वम् अप्रमाणत्वम् अथाव्याकृतताम् अपि ।
विपरीतपरिज्ञानम् इन्द्रियानां त्वम् ऊचिवान् ॥ नगस्त्_20

अज्ञानेनावृतो येन यथावन् न प्रपद्यते ।
लोकस् तेन यथाभूतम् इति मत्वा त्वयोदितम् ॥ नगस्त्_21
अस्तीति शाश्वती दृष्तिर् नास्तीत्य् उच्छेददर्शनम् ।
तेनान्तद्वयनिर्मुक्तो धर्मो ऽयं देशितस् त्वया ॥ नगस्त्_22
चतुष्कोटिविनिर्मुक्तास् तेन धर्मास् त्वयोदिताः ।
विज्ञानस्याप्य् अविज्ञेया वाचां किम् उत गोचराः ॥ नगस्त्_23
स्वप्नेन्द्रजालिकोद्भूतं द्विचन्द्रोद्वीक्षणं यथा ।
भूतं तद्वस्तु नो भूतं तथा दृष्टं जगत् त्वया ॥ नगस्त्_24
उत्पन्नश् च स्थितो नष्टः स्वप्ने यद्वत् सुतस् तथा ।
न चोत्पन्नः स्थितो नष्ट उक्तो लोको ऽर्थतस् त्वया ॥ नगस्त्_25
कारणात् संभवो दृष्टो यथा स्वप्ने तथेतरः ।
संभवः सर्वभावानां विभवो ऽपि मतस् तथा ॥ नगस्त्_26
रागादिजं यथा दुःखं संक्लेशसंसृती तथा ।
संभारपूरणान् मुक्तिः स्वप्नवद् भाषिता त्वया ॥ नगस्त्_27
जातं तथैव नो जातम् आगतं गतम् इत्य् अपि ।
बद्धो मुक्तस् तथा ज्ञानी द्वयम् इच्छेन् न तत्त्ववित् ॥ नगस्त्_28
उत्पत्तिर् यस्य नैवास्ति तस्य का निर्वृतिर् भवेत् ।
मायागजप्रकाशत्वाद् आदिशान्तत्वम् अर्थतः ॥ नगस्त्_29
उत्पन्नो ऽपि न चोत्पन्नो यद्वन् मायागजो मतः ।
उत्पन्नं च तथा विश्वम् अनुत्पन्नं च तत्त्वतः ॥ नगस्त्_30
अमेयैर् अप्रमेयानां प्रत्येकं निर्वृतिः कृता ।
लोकनाथैर् हि सत्त्वानां न कश् चिन् मोचितश् च तैः ॥ नगस्त्_31
ते च सत्त्वाश् च नो जाता ये निर्वान्ति न ते स्फुटम् ।
न कश् चिन् मोचितः कैश् चिद् इति प्रोक्तं महामुने ॥ नगस्त्_32
मायाकारकृतं यद्वद् वस्तुशून्यं तथेतरत् ।
वस्तुशून्यं जगत् सर्वं त्वयोक्तं कारकस् तथा ॥ नगस्त्_33
कारको ऽपि कृतो ऽन्येन कृतत्वं नातिवर्तते ।
अथ वा तत्क्रियाकर्तृ कारकस्य प्रसज्यते ॥ नगस्त्_34
नाममात्रं जगत् सर्वम् इत्य् उच्चैर् भाषितं त्वया ।
अभिधानात् पृथग्भूतम् अभिधेयं न विद्यते ॥ नगस्त्_35
कल्पनामात्रम् इत्य् अस्मात् सर्वधर्माः प्रकाशिताः ।
कल्पनाप्य् असती प्रोक्ता यया शून्यं विकल्प्यते ॥ नगस्त्_36
भावाभावद्वयातीतम् अनतीतं च कुत्र चित् ।
न च ज्ञानं न च ज्ञेयं न चास्ति न च नास्ति यत् ॥ नगस्त्_37
यन् न चैकं न चानेकं नोभयं न च नोभयम् ।
अनालयम् अथाव्यक्तम् अचिन्त्यम् अनिदर्शनम् ॥ नगस्त्_38
यन् नोदेति न च व्येति नोच्छेदि न च शाश्वतम् ।
तद् आकाशप्रतीकाशं नाक्षरज्ञानगोचरम् ॥ नगस्त्_39
यः प्रतीत्यसमुत्पादः शून्यता सैव ते मता ।
तथाविधश् च सद्धर्मस् तत्समश् च तथागतः ॥ नगस्त्_40

तत् तत्त्वं परमार्थो ऽपि तथता द्रव्यम् इष्यते ।
भूतं तद् अविसंवादि तद्बोधाद् बुद्ध उच्यते ॥ नगस्त्_41
बुद्धानां सत्त्वधातोश् च तेनाभिन्नत्वम् अर्थतः ।
आत्मनश् च परेषां च समता तेन ते मता ॥ नगस्त्_42
भावेभ्यः शून्यता नान्या न च भावो ऽस्ति तां विना ।
तस्मात् प्रतीत्यजा भावास् त्वया शून्याः प्रकाशिताः ॥ नगस्त्_43
हेतुप्रत्ययसंभूता परतन्त्रा च संवृतिः ।
परतन्त्र इति प्रोक्तः परमार्थस् त्व् अकृत्रिमः ॥ नगस्त्_44
स्वभावः प्रकृतिस् तत्त्वं द्रव्यं वस्तु सद् इत्य् अपि ।
नास्ति वै कपितो भावो परतन्त्रस् तु विद्यते ॥ नगस्त्_45
अस्तीति कल्पिते भावे समारोपस् त्वयोदितः ।
नास्तीति कृतकोच्छेदाद् उच्छेदश् च प्रकाशितः ॥ नगस्त्_46
तत्त्वज्ञानेन नोच्छेदो न च शाश्वतता मता ।
वस्तुशून्यं जगत् सर्वं मरीचिप्रतिमं मतम् ॥ नगस्त्_47
मृगतृष्णाजलं यद्वन् नोच्छेदि न च शाश्वतम् ।
तद्वत् सर्वं जगत् प्रोक्तं नोच्छेदि न च शाश्वतम् ॥ नगस्त्_48
द्रव्यम् उत्पद्यते यस्य तस्योच्छेदादिकं भवेत् ।
अन्तवान् नान्तवांश् चापि लोकस् तस्य प्रसज्यते ॥ नगस्त्_49
ज्ञाने सति यथा ज्ञेयं ज्ञेये ज्ञानं तथा सति ।
यत्रोभयम् अनुत्पन्नम् इति बुद्धं तदास्ति किम् ॥ नगस्त्_50
इति मायादिदृष्तान्तैः स्फुटम् उक्त्वा भिषग्वरः ।
देशयाम् आस सद्धर्मं सर्वदृष्टिचिकित्सकम् ॥ नगस्त्_51
एतत् तत् परमं तत्त्वं निःस्वभावार्थदेशना ।
भावग्रहगृहीतानां चिकित्सेयम् अनुत्तरा ॥ नगस्त्_52
धर्मयाज्ञिक तेनैव धर्मयज्ञो निरुत्तरः ।
अभीक्ष्णम् इष्टस् त्रैलोक्ये निष्कपाटो निरर्गलः ॥ नगस्त्_53
वस्तुग्राहभयोच्छेदी कुतीर्थ्यमृगभीकरः ।
नैरात्म्यसिंहनादो ऽयम् अद्भुतो नदितस् त्वया ॥ नगस्त्_54
शून्यताधर्मगम्भीरा धर्मभेरी पराहता ।
नैःस्वाभाव्यमहानादो धर्मशङ्खः प्रपूरितः ॥ नगस्त्_55
धर्मयौतुकम् आख्यातं बुद्धानां शासनामृतम् ।
नीतार्थम् इति निर्दिष्टं धर्माणां शून्यतैव हि ॥ नगस्त्_56
या तूत्पादनिरोधादिसत्त्वजीवादिदेशना ।
नेयार्था च त्वया नाथ भाषिता संवृतिश् च सा ॥ नगस्त्_57
प्रज्ञापारमिताम्भोधेर् यो ऽत्यन्तम् पारम् आगतः ।
स पुण्यगुणरत्नाढ्यस् त्वद्गुणार्णवपारगः ॥ नगस्त्_58
इति स्तुत्वा जगन्नाथम् अचिन्त्यम् अनिदर्शनम् ।
यद् अवाप्तं मया पुण्यं तेनास्तु त्वत्समं जगत् इत्य् अचिन्त्यस्तवः समाप्तः ॥
%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%

चोप्य्रिघ्त् (च्) 2003 ब्य् छ्र्. लिन्द्त्नेर् - देन्मर्क्
%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%

मूल पाठ: Acintyastava · Data entry Richard Mahoney · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc