भाषा

ENहिગુ
ग्रंथ पाठ

अभिधर्मदीप · भाग 120

अभिधर्मदीपः
विभाषाप्रभावृत्तिसहितः ।
प्रथमो ऽध्यायः । प्रथमः पादः ।
यो दुःखहेतुव्युपशान्तिमार्गं प्रदर्शयामास नरामरेभ्यः ।
तं सत्पथज्ञं प्रणिपत्य बुद्धं शास्त्रं करिष्याम्यभिधर्मदीपम् ॥ [1] ॥
सत्त्वाद्यनन्यथाभावे व्यक्ताभावः प्रसज्यते ।
तद्विकाराद्विकारित्वं प्रकृतेस्तदभेदतः ॥ [2] ॥
न कर्म स्वकतोत्सर्गात् ज्ञव्यक्तात्मकता मलाः ।
प्राक्पक्षे मुक्त्यभावश्च द्वितीये ऽन्ये ऽप्युपप्लवाः ॥ [3] ॥
रूपस्कन्धो हि नेत्राद्या दशायतनधातवः ।
धर्मसंज्ञे त्रयस्कन्धाः साविज्ञप्तिर्ध्रुवत्रयाः ॥ [4] ॥
मनःसंज्ञकमन्यो ऽपि सप्तविज्ञानधातवः ।
आयद्वारं ह्यायतनं धातुर्गोत्रं निरुच्यते ॥ [5] ॥
योगरूप्यानुकूल्यादेर्द्वादशायतनीं मुनिः ।
बुद्ध्याद्येकत्वधीहान्यै धातूंश्चाष्टादशोक्तवान् ॥ [6] ॥
षण्णामन्यो न्यतन्त्रत्वात्कारणं यद्धि तन्मनः ।
रूप्यरूपाश्रयास्तित्वात्पञ्चानां रूप्युदाहृतः ॥ [7] ॥
स्कन्धायतनधातूनां स्वात्मना संग्रहः स्मृतः ।
स्वात्मना नित्यमवियोगात् समत्वं चित्तचैतसाम् ॥ [8] ॥
तदाख्या ये ऽन्यसूत्रोक्तास्तेषामेष्वेव संग्रहम् ।
ब्रूयाच्छास्त्रनयाभिज्ञो बुद्ध्यापेक्ष्य स्वलक्ष[णम्] ॥ [9] ॥
अन्योन्यसंग्रहो ज्ञेयः स्कन्धादीनां यथायथम् ।
नाध्वस्वपतनादिभ्यो नित्यानां स्कन्धसंग्रहः ॥ [10] ॥
धर्मस्कन्धसहस्राणामशीतेरपि संग्रहः ।
ज्ञेयो ऽवतरणेष्वेव तैः सन्मार्गावतारणात् ॥ [11] ॥
धर्मस्कन्धप्रमानं (णं) तु सत्यादेरेकशः कथा ।
तत्सतत्त्वं तु केषाञ्चिद्वाङ्नामापीष्यते परैः ॥ [12] ॥
सत्त्वप्रज्ञप्त्युपादानं मौलं षड्धातवो मताः ।
प्रोक्तास्तद्भेदतो यस्मादस्मिन्मारो(स्मिमानो) निवर्तते ॥ [13] ॥
`सत्कायदृष्टिपुष्टत्वात्ऽ
क्लिष्टमेव हि विज्ञानं [द्रष्टव्यं] जन्मणि (नि) श्रयात् ।
खधातुः पृथगाकाशाद्रूपायतनसंग्रहात् । [14] ॥
नभः खलु नभो धातोरासन्नो हेतुरेष तु ।
भूतानां तानि तज्जस्य रूपस्यैतत्तु चेतसः ॥ [15] ॥
प्रत्यक्षवृत्तिर्यत्तत्प्रागप्राप्तग्राह्यतो ऽपि यत् ।
ततो ऽपि यद्दवीयो ऽर्थं पटिष्ठमितरादपि ॥ [16] ॥
अभिधर्मदीपे विमाषाप्रभायां वृत्तौ प्रथमा(मा) ध्यास्य द्वितीयः पादः ॥
प्रथमाध्याये तृतीयपादः ।
सनिदर्शण (न) आद्यार्थः मूर्त्ताः सप्रतिघा दश ।
अन्यत्र रूपशब्दाभ्यां त एवाव्याकृता मताः ॥ [17] ॥

शेषास्त्रिधा इह सर्वे ऽपि रूपधातौ चतुर्दश ।
रसगन्धौ सविज्ञानौ धातू हित्वा त्रयोन्तिमाः ॥ [18] ॥
सास्रवाणा (ना)स्रवा अन्त्यास्त्रयः शेषास्तु सास्रवाः ।
सालम्बप्रथमाः पञ्च सोपचारास्त्रयस्त्रिधा ॥ [19] ॥
निर्विकल्पगुणस्वार्थाः अस्मारादनिरूपणात् ।
मनोभौमी स्मृतिः पूर्वो द्वितीयो घीर्णि(र्नि)रूपिका । [20] ॥
विज्ञानपञ्चकं कामेष्वेकेन सविकल्पकम् ।
तस्मादन्यत् त्रिभिः ध्याने प्रथमे चासमाहितम् ॥ [21] ॥
द्वाभ्यामव्यग्रं एकेन चक्षुःश्रोत्रत्वगाश्रय[म्] ।
द्वाभ्यां तदुपरिव्यग्रं एकेनैव समाहितम् ॥ [22] ॥
उच्छिन्नशुभबीजस्य दर्शणं(नं) सविकल्पकम् ।
कुशलं नास्ति विज्ञानमन्यत्र प्रतिसन्धितः ॥ [23] ॥
कामेभ्यो वीतरागस्य बालस्याहानिधर्मिणः ।
द्विधाप्यकुशलं नास्ति क्लिष्टं चार्यस्य नोत्तमम् ॥ [24] ॥
नाक्लिष्टाव्याकृतं किञ्चिदूर्ध्वभूमिविकल्पकम् ।
क्लिष्टं विकल्पकं चापि नास्त्यधोभूमिगोचरम् ॥ [25] ॥
त्रिधेह द्वयमार्यस्य रागिणः सशुभस्य च ।
न शुभं नापि च क्लिष्टं द्वितीयादिषु दर्शकम् ॥ [26] ॥
प्रयोगादङ्गसान्निध्यात्सभागत्वाच्च सन्ततेः ।
प्राग्विज्ञानानुभूते ऽर्थे चेतस्युत्पद्यते स्मृतिः ॥ [27] ॥
एतद्विपर्ययात् मान्द्यात्क्लेशरोगाभिभूतितः ।
ज्ञातपूर्वेषु विस्मृतिः संप्रजायते ॥ [28] ॥
दृष्टं द्वित्रिचतुःपञ्चप्रकारेणापि चेतसा ।
स्मर्यते सत्तदन्यैश्च नान्यो ऽन्यं व्योघदृक्क्षये ॥ [29] ॥
विज्ञानानां तु पञ्चानां यदेकेनानुभूयते ।
तत्स्मर्यते ऽपि चान्येन तेन खल्वितरैरपि ॥ [30] ॥
द्व्यव्याकृतानुभूतं यच्चित्तं द्वादशकादिह ।
व्यारूप्यरूपणि(नि)वृतेः स्मर्यते ऽष्टाभिरेव तत् ॥ [31] ॥
रूपारूप्याप्तनिवृतशुभाभ्यां तु क्रमेन(ण) यत् ।
कामाप्ताव्याकृते हित्वा स्मर्यते दशकेन तत् ॥ [32] ॥
रूपे त्वनिवृताख्येन दृष्टमव्याकृतेन यत् ।
आरूप्याव्याकृते हित्वा तदन्यैः स्मर्यते पुनः ॥ [33] ॥
आरूप्याव्याकृतज्ञातं यश्चेतो नवकेन तत् ।
कामाप्ताव्याकृते हित्वा रूपाप्तानिवृतं तथा ॥ [34] ॥
चित्ताख्याः सप्त सालम्बा धर्माख्यः संप्रयुक्तकः ।
अमूर्ता ध्वनिना सार्धमनुपात्ताः नव द्विधा ॥ [35] ॥
स्पृश्यं द्विधा सधर्मांशाः सह ता नव भौतिकाः ।
दश सावयवा मूर्ताः त एव दश संचिताः ॥ [36] ॥
रूपगन्धरसस्पर्शाश्च्छेतृच्छेद्यात्मका मताः ।
दाहकास्तोलकाश्चैते दाह्यास्तोल्यास्त एव वा ॥ [37] ॥

पञ्च रूपीन्द्रियात्मानो विपाकोपचयात्मकाः ।
अमूर्त्ता नौपचयिकाः त्रिधा शेषाः ध्वनिर्द्विधा ॥ [38] ॥
चक्षुस्तदुपलब्धिश्च पृथग्वा सह वाप्नुयात् ।
द्वादशाध्यात्मिका ज्ञेयाः बाह्याष्षड्विषयात्मकाः ॥ [39] ॥
त्रयो ऽन्त्यास्त्रिविधाः शेषा भावनापथसंक्षयाः ॥
न रूपमस्ति दृग्धेयं नाक्लिष्टं नाविकल्पकम् ॥ [40] ॥
सभाग एव धर्माख्यः शेषास्तूभयथा स्मृताः ॥
सभागस्तत्सभागत्वे स्वक्रियाभाक्तु तुल्यते ॥ [41] ॥
चक्षुः सधर्मधात्वंशं नवधा दृष्टिरूच्यते ।
पाञ्चविज्ञानकी प्रज्ञा न दृष्टिरणि (ति) तीरणात् ॥ [42] ॥
समेघामेघरात्र्यह्नोर्दृश्यं चक्षुर्यथेक्षते ।
क्लिष्टाक्लिष्टदृशौ तद्वच्छैक्षाशैक्षे च पश्यतः ॥ [43] ॥
अभिधर्मदीपे विभाषाप्रभायां वृत्तौ प्रथमस्याध्यायस्य तृतीयः पादः ॥
प्रथमाध्याये चतुर्थपादः ।
चक्षुः पश्यति विज्ञानं विजानाति स्वगोचरमृ ।
आलोचनोपलब्धित्वाद्विशेषः सुमहांस्तयोः ॥ [44] ॥
एकस्य चक्षुषः कार्यं विज्ञानमथवा द्वयोः ।
अप्राप्यार्थं मनश्चक्षुः श्रोत्रं च त्रीण्यतो ऽन्यथा ॥ [45] ॥
अप्राप्तग्राहिणः सिद्धा दूरासन्नसमग्रहात् ।
प्रदीपादिप्रभावश्चेत् न समं तत्समुद्भवात् ॥ [46] ॥
सर्वग्रहप्रसंगश्चेन्नायस्कान्तादिदर्शणा(ना)त् ।
सर्वगत्वाददोषश्चेन्नायोगात्तिलतैलवत् ॥ [47] ॥
न ह्यू र्ध्वं चक्षुषः कायो न रूपं नाक्षिजं मनः ।
विज्ञानस्य तु नेत्रार्थस्तौ च कायस्य सवंतः ॥ [48] ॥
नोपरिष्टाच्छ्रु तेः कायो न शब्दो न स्वकं मनः ।
विज्ञानस्य तु निह्रादस्तौ च कायस्य सर्वतः ॥ [49] ॥
त्रयाणां(णां) त्रीण्यपि स्वाणि(न) तनोर्विज्ञानमप्यधः ।
मनस्त्वनियतं योगिवैश्वरूप्यं प्रदर्शितम् ॥ [50] ॥
सास्रवानास्राः स्कन्धा ये तूपादानसंज्ञिताः ।
सास्रवा एव ते ज्ञेयास्तत्साचिव्यक्रियादिभिः ॥ [51] ॥
अध्वाद्याः स्कन्धपर्यायाः धर्माद्या वस्तुनः सतः ।
ये तु सास्रवसंज्ञास्ते प्रोक्ता दुःखादिनामभिः ॥ [52] ॥
स्वात्म्यगोचरकार्यानां(णा)मेकत्वादेकधातुना ।
चक्षुरादिद्विभावे ऽपि द्व्युत्पत्तिः कर्मतृ(त्रि)त्वशात् ॥ [53] ॥
[असाधारण]वैशिष्ट्यादैश्वर्यादान्तरङ्गय्तः ।
सत्यप्यणे (ने) कहेतुत्वे विज्ञानं तैर्विशेष्यते ॥ [54] ॥
नित्यत्वात्कुशलत्वाच्च निर्वाणं द्रव्यमञ्जसा ।
सारद्रव्येन तेनैको धर्माख्यो द्रव्यवान्मतः ॥ [55] ॥
प्रथमं निर्मलं चित्तमसाभाग्यात्क्षणः स्मृतः ।
तेनाद्भुतक्षणेनैते क्षणिकाः पश्चिमास्त्रयः ॥ [56] ॥

घ्राणं जिह्वा च कायश्च तुल्यार्थग्राह्यदस्त्रयम् ।
पश्चिमस्याश्रयो ऽतीतः पञ्चानां तैः सहापि च ॥ [57] ॥
निश्रित्य खल्वनागम्यं निश्रयांश्चतुरो ऽथ वा ।
अनास्रवेन (ण) मार्गेंण चक्षुर्धातुर्निरुध्यते ॥ [58] ॥
अनागम्यं तु निश्रित्य गन्धधातुर्णि(र्नि)रुध्यते ।
मनोधातुरणा(ना)गम्यं यदि वा सप्तनिश्रयात् ॥ [59] ॥
अनागम्यं तथैवाद्यं चक्षुर्विज्ञानसंज्ञकः ।
धर्मधातोर्विचित्रत्वाद्यथायोगं विनिर्दिशेत् ॥ [60] ॥
चक्षुर्धातुं हि रूपाप्तं परिजानन् पृथग्जनः ।
कृत्स्नाद्रूपमयाद्धातोर्वैराग्यमधिगच्छति ॥ [61] ॥
तस्मादनुशयान्धातोरेकर्त्रिशज्जहाति च ।
पर्यादत्ते न किञ्चित्तु संयोजनमसौ तदा ॥ [62] ॥
रूपवैराग्यमाप्नोति जहात्यनुशयत्रयम् ।
तदा संयोजनं त्वार्यः पर्यादत्ते न किञ्चना ॥ [63] ॥
चक्षुर्विज्ञानधातुं तु परिजानंस्तमेव च ।
परिजानात्यवश्यं च ब्रह्मलोकाद्विरज्यते ॥ [64] ॥
न तु संयोजनं किञ्चित्पर्यादत्ते तदा ह्यसौ ।
गन्धधातुं रसाख्यं च परिजानन् पृथग्जनः ॥ [65] ॥
कामवैराग्यमाप्नोति ध्रुवं ह्यनुशयानपि ।
तदा जहाति षट्त्रिंशद्वर्तिसंयोजनत्रयम् ॥ [66] ॥
आर्यस्तु कामवैराग्यं करोत्यनुशयानपि ।
चतुरः परिजानाति पर्यादत्ते ऽपि च त्रयम् ॥ [67] ॥
परिजानन्मनोधातुमारूप्येभ्यो विरज्यते ।
जहात्यनुशयांस्त्रींश्च पर्यादत्ते त्रयं तथा ॥ [68] ॥
परिजानन्खलु प्रीतिं तामेव प्रजहात्यसौ ।
आभास्वराच्च वैराग्यं याति हन्ति तु नास्रवान् ॥ [69] ॥
परिजानन्सुखं योगी प्रजहाति तदेह च ।
शुभकृत्स्नाच्च वैराग्यं याति क्लेशान्न हन्ति तु ॥ [70] ॥
द्विविज्ञेयाः गुणाः पञ्च हेतुः सर्वे क्षराक्षराः ।
अन्यत्र धर्मधात्वर्था(धी)च्छड्बाह्या नेन्द्रियात्मकाः ॥ [71] ॥
अभिधर्मदीपे विभाषा [प्रभायां वृत्तौ प्रथमो ऽध्यायः ।]
द्वितीयो ऽध्यायः । प्रथमः पादः ।
द्वाविंशतिप्रकारस्य कृत्स्नस्येन्द्रियपर्वणः ।
संक्षेपेणाभिधास्यन्ते धर्मा णि(नि)र्वचनादयः ॥ [72] ॥
नाम्ना द्वाविंशतिस्तानि द्रव्यतो दश सप्त च ।
यस्मान्नान्यद्द्वयं कार्या(या)त्सुखादिनवकत्रयम् ॥ [73] ॥
नामसल्लक्षणाभावात्तन्नाम्नः सार्थकत्वतः ।
त्रयानां(णां) वर्गवृत्तित्वे ऽप्यर्थमभ्येष्यते परैः ॥ [74] ॥
विशिष्टबुद्धिहेतुत्वादाधिपत्यविशेषतः ।
कायेन्द्रियाद्विशिष्टत्वं द्वयोर्णे(र्ने)त्रेन्द्रियादिवत् ॥ [75] ॥

ऐश्वर्यार्थो विपश्चिद्भिरिन्द्रियार्थो ऽभिधीयते ।
स्वार्थव्यक्तिषु पञ्चानां चतुर्णां त्वर्थयोर्द्वयोः ॥ [76] ॥
स्वगोचरोपलब्ध्यादावीषि (शि)त्वमपरे विदुः ।
स्वार्थविज्ञान एवान्य आहुः पण्डितमानिनः ॥ [77] ॥
क्लेशोत्पत्तौ सुखादीनां श्रद्धादीनां गुणाप्तिषु ।
फलसंक्लेशसंभारविशुद्धित्वादनुक्रमः ॥ [78] ॥
सत्त्वाख्या सत्त्ववैचित्र्य(त्र्यं) धृति(तिः) क्लेशोद्भवश्च यैः ।
मार्गोपायः फलप्राप्तिस्तेषामिन्द्रियता मता ॥ [79] ॥
स्पर्शाश्रयोद्भवाधारसंभोगत्वाच्चतुर्दश ।
स्वर्गापवर्गहेतुत्वात् तदन्यद्वेन्द्रियाष्टकम् ॥ [80] ॥
छन्दं वीर्याङ्गभूतत्वात् स्पर्शो वित्त्यनुबृंहणात् ।
संज्ञा प्रज्ञाभिभूतत्वान्नेन्द्रियं मुनिरभ्यधात् ॥ [81] ॥
श्रद्धादीनां विदां चैव दोषः शुद्धौ मलोदये ।
प्रधानत्वान्मनस्कारो नेन्द्रियं समुदाहृतम् ॥ [82] ॥
संभावनानुकूलत्वादधिमोक्षो ऽपि नेन्द्रियम् ।
कालान्तरफलोत्पादसंदेहाभ्यां न चेतना ॥ [83] ॥
नाप्रमादो ऽप्यसौ वीर्यात्, न ह्रीः प्रागल्भनिग्रहात् ।
नोपेक्षा नापि चालोभो वीर्यश्रद्धाभिभूतितः ॥ [84] ॥
न प्रस्रब्धिर्विदौत्कट्याद्विनिन्द्यत्वाच्च नास्रवाः ।
जात्यादयो न पारार्थ्यात् निष्क्रियत्वान्न निर्वृतिः ॥ [85] ॥
कायस्य बाधनं दुःखं दौर्मनस्यं तु चेतसः ।
सुखं च सुमनस्ता च सातं शारीरमानसम् ॥ [86] ॥
वैशिष्ट्यान्मानसं सातं सुखं क्वचिदुदाहृतम् ॥ [87अब्] ॥
षट्सु भूमिषु विज्ञेयं नीरजस्काद्यमिन्द्रियम् ।
तदन्ये निर्मले त्वक्षे द्रष्टव्ये नवभूमिके ॥ [88] ॥
दौर्मण(न)स्यं द्विहातव्यं मनोवित्तित्रयं त्रिधा ।
नवाभ्यासप्रहेयानि(णि) द्विधा [पञ्च] न तु त्रयम् ॥ [89] ॥
पूर्वं क्रमोद्भवैः कामे विपाको [लभ्य]ते द्वयम् ।
अन्यैः षट् सप्त वाष्टौ वा षड् रूपे अन्त्ये तु जीवितम् ॥ [90] ॥
म्रियमाणै(र्नि)रोध्यन्ते त्रीण्यन्ते अष्टौ तु मध्यमे ।
दशाष्टौ नव चत्वारि कामे पञ्च शुभानि वा ॥ [91] ॥
अभिधर्मदीपे विभाषाप्रभायां वृत्तौ द्वितीयस्याध्यायस्य प्रथमः पादः ॥
द्वितीयाध्याये द्वितीयपादः ।
आद्यन्तलाभो नवभिः सप्ताष्टाभिश्च मध्ययोः ।
एकादशभिराप्तिस्तु फलस्यान्त्य[स्य] हानितः ॥ [92] ॥
स्वस्य धातोः परिज्ञानं स्वविपक्षदृशा पथा ॥ [93अब्] ॥
कामधातुपरिज्ञानं प्रायः सप्तभिरिष्यते ।
समलैर्निर्मलैस्त्वर्थैरष्टाभिरभिधीयते ॥ [94] ॥
रूपधातुपरिज्ञानमिष्टं दशभिरिन्द्रियैः ।
अन्त्यधातुपरिज्ञानमेकादशभिरुच्यते ॥ [95] ॥

सर्वसत्त्वास्त्रिधातुस्था उपेक्षायुर्मणो(नो) ऽन्विताः ।
त्वक्स्त्रीत्वव्यञ्जनैः कामे रूपिणश्चक्षुरादिभिः ॥ [96] ॥
कामिनः खलु दुःखेन तद्रागी दुर्मण(न)स्तया ।
ऊर्ध्वजस्तु सुखेनार्यः शुभाह्वाधरजौ तथा ॥ [97] ॥
प्रतीत्या(प्रीत्या) भाह्वाधरोद्भूतौ शुभैः स शुभमूलकः ।
शैक्षाभ्यां मोक्षमार्गस्थौ [अशैक्षो ऽर्हन्] स्वमार्गगः ॥ [98] ॥
उपेक्षायुर्मणो(नो) युक्तो ऽवश्यं त्रयसमन्वितः ।
चतुर्भिः कायसुखवान् चक्षुष्मानपि पञ्चभिः ॥ [99] ॥
स्त्रीन्द्रियाद्यन्वितो ऽष्टाभिः दुःखी युक्तस्तु सप्तभिः ।
एकादशभिरन्त्याभ्यां सप्त षड्भिस्तदाद्यवान् ॥ [100] ॥
त्रिद्वीपनरकोत्पन्ना मिथ्यात्वनियता अपि ।
[बहुभिः] ह्येकान्नविंशत्या स्वल्पैरष्टाभिरन्विताः ॥ [101] ॥
अन्तराभविकप्रेततिर्यक्श्रद्धानुसारिण [:] ।
त्र्यधिकैर्दशभिर्युक्ता दशभिर्वा नवाधिकैः ॥ [102] ॥
सम्यक्त्वनियता ये तु ये च श्रद्धाधिमुक्तिकाः ।
त एकादशभिर्युक्ता दशभिर्वा नवाधिकैः ॥ [103] ॥
प्रज्ञाविमुक्तनामार्हत् कायसाक्ष्युभयाह्वयाः ।
अक्षैकादशकोपेता यदि वाष्टादशान्विताः ॥ [104] ॥
कामदेवा मृताः स्वल्पैर्दशभिः सप्तकाधिकैः ।
त एवैकोनविंशत्या युक्ता बहुभिरिन्द्रियैः ॥ [105] ॥
[द्विर्ध्यान] जास्तु सर्वाल्पैर्दशभिः पञ्चकाधिकैः ।
दशभिः सचतुष्कैस्तु शुभकृत्स्नाः समन्विताः ॥ [106] ॥
बृहत्फला हि अत्यल्पैस्त्रयोदशभिरन्विताः ।
युक्ताः षोडष(श)भिस्त्वेते सर्वभूरिभिन्द्रियैः ॥ [107] ॥
अष्टाभिर्दशभिः सैकैरारूप्याः स्वल्पभूरिभिः ।
सदेवकौरवाः सत्त्वास्त्रयोदशभिरन्विताः ॥ [108] ॥
अष्टाभिर्निःशुभो युक्तो दशभिर्वा त्रयाधिकैः ।
द्विलिङ्गाः पश्चिमैः स्वल्पैर्विशत्याप्येकया परम् ॥ [109] ॥
सप्तद्रव्याविनिर्भागी परमाणुर्बहिर्गतः ।
कामेष्वेकाधिकः काये द्वय्धिकश्चक्षुरादिषु ॥ [110] ॥
एवं रूपे ऽपि विज्ञेयो हित्वा गन्धरसद्वयम् ।
चित्तं चैतसिकैः सार्धं संस्कृतं तु स्वलक्षणैः ॥ [111] ॥
अभिधर्मदीपे विभाषाप्रभायां वृत्तौ द्वितीयस्य [अध्यायस्य] द्वितीयः पादः ॥
द्वितीयाध्याये तृतीयपादः ।
दशधर्मा महाभौमा वित्संज्ञाचेतनास्मृतिः ।
छन्दः स्पर्शो ऽधिमोक्षश्च धीः समाधिर्मनस्कृतिः ॥ [112] ॥
श्रद्धापेक्षाप्रमादश्च प्रस्रब्धिर्ह्रीरपत्रपा ।
मूलवीर्यमहिंसा च शुभभूका दशस्मृताः ॥ [113] ॥
स्त्यानं प्रमत्तिराश्रद्ध्यमालस्यं मूढिरुद्धति[:] ।
क्लिष्टे षट् अशुभे तु द्वे आह्रीक्यमनपत्रपा ॥ [114] ॥

मायाशाठ्यमदक्रोधविहिंसेर्ष्याप्रदष्टयः ।
सूक्ष्मोपणा(ना)हमात्सर्याण्यल्पक्लेशभुवो दश ॥ [115] ॥
पृथिव्यादि यथा द्रव्यं नीलादिगुणयोगतः ।
तैस्तैर्विशेष्यते शब्दैश्चैत्तयोगान्मनस्तथा ॥ [116] ॥
भूतभौतिकनानात्वं स्वरूपेहाकृतं यथा ।
तथैव चित्तचैत्तानां पृथक्त्वमुपधार्यताम् ॥ [117] ॥
यथा संबन्धिसंबन्धाद्विकारो ऽम्भसि लक्ष्यते ।
तथा संसर्गिसंसर्गाच्चेतोविकृतिरीक्ष्यताम् ॥ [118] ॥
गुणो विशेषणं धर्मो मात्रावृत्तिस्तथाश्रयी ।
इत्येवमादयः शब्दाः प्रधानापेक्षवृत्तयः ॥ [119] ॥
चित्तं प्रधानमेतेषां वस्तु मात्रग्रहादिभिः ।
बीजं चैतत्प्रवृत्तीनां शुद्धिसंकरयोरपि ॥ [120] ॥
अभ्युद्गच्छति कामाप्तं धर्मैर्द्वादशभिः सह ।
अक्लिष्टाव्याकृतं चित्तं रश्मिवानिव रश्मिभिः ॥ [121] ॥
तथाष्टादशभिश्चित्तैर्निवृतं जायते मनः ।
द्वाविंशत्या सहावश्यं शुभं भवति मानसम् ॥ [122] ॥
चेतसोस्सह विंशत्या चित्तमुत्पद्यते ऽशुभम् ।
दृङ्मोहमात्रयुक्तं यत् क्रोधाद्यैस्त्वधिकं वदेत् ॥ [123] ॥
सर्वत्र संभवान्मिद्धं यत्र स्यात्तत्र निर्दिशेत् ।
तद्वदेव च कौकृत्यमधिकं गणयेत्क्वचित् ॥ [124] ॥
साशुभं मिद्धकौकृत्यं रूपधातौ न विद्यते ।
ध्यानान्तरे वितर्कश्च विचारश्चापि नोपरि ॥ [125] ॥
संप्रयुक्तः संस्कारः समता यस्य पञ्चधा ।
विप्रयुक्तश्च बोद्धव्यः समता यस्य नास्त्यसौ ॥ [126] ॥
विशिष्टाणा (ना) मसद्भावात्प्रसंगो नास्ति रूपिणाम् ।
संस्कारग्रहणाच्चैव खादीनां ण(न) प्रसज्यते ॥ [127] ॥
प्राप्त्यादयस्तु संस्कारा विप्रयुक्तास्त्रयोदश ।
आप्तोक्तिस्वक्रियालिङ्गा लिङ्गमेषां गदिष्यते ॥ [128] ॥
प्राप्तिः समन्वितिर्लब्धिर्धर्मवत्ता व्यवस्थितिः ॥ [129अब्] ॥
श्रुतचिन्तामयानां च समापत्तिद्वयस्य च ॥ [130च्द्] ॥
नि[:]क्लेशसंस्कृतापूर्व(र्वं) शुभानां तु रजस्वताम् ।
आदिलाभे सह प्राक्च तदूर्ध्वं वा त्रिधेष्यते ॥ [131] ॥
क्लिष्टाणां कुशलानां च तदन्येषां त्रिधा मता ।
निवृताव्याकृता ज्ञाननिर्माणमनसां तथा ॥ [132] ॥
निर्वाणस्यादितो लाभे नित्यस्यान्यस्य सर्वदा ।
अजा तवर्तमाना च कदाचित्तु त्रिधेष्यते ॥ [133] ॥
एकार्थरुचिहेतुर्यः सत्त्वानां स सभागता ।
आसंज्ञिकं विपाको यच्चित्तोपच्छेद्यसंज्ञिषु ॥ [134] ॥
शुभासंज्ञिसमापत्तिर्ध्याने ऽन्त्ये चित्तरोधिनी ।
निःसृतीच्छाप्रवृत्तित्वात् नार्यस्य आप्या प्रयोगतः ॥ [135] ॥

निरोधाख्या तु विज्ञेया विजिहीर्षोर्भवाग्रजा ॥
शुभार्यंस्य प्रयोगाप्या द्विवेद्यानियता मता ॥ [136] ॥
चेतश्चतुष्टयायोगादागमादुपपत्तितः ।
निर्वेदितमनोभावात्सिद्ध्यतीयमचित्तिका ॥ [137] ॥
गतिप्रज्ञप्त्युपादानमायुश्चित्तोष्मणोः स्थितिः ।
आगमाद्युक्तितश्चैव द्रव्यतस्तत्सदिष्यते ॥ [138] ॥
जातिः स्थितिर्जराणा(ना)शः संस्कृताङ्कचष्टतुयी ।
चत्वारि स्थितिनास्तित्वे हेतुत्वाद्यप्रसिद्धितः ॥ [139] ॥
शक्तिहानेर्जरासिद्धिः नान्यत्वात् परिणामिता ।
एककारित्रनाशाभ्यां शक्तिहानिः प्रसिद्ध्यति ॥ [140] ॥
सति जन्मनि तद्भावाद् द्रव्यकारित्रनाशतः ।
आगमादुपपत्तेश्च विनाशो ऽपि सहेतुकः ॥ [141] ॥
वाक्छब्दाधीनजन्मानः स्वार्थप्रत्यायनक्रियाः ।
संज्ञाद्यपरणा(ना)मानस्त्रयो नामादयः स्मृताः ॥ [142] ॥
अन्ये नामादयः शब्दादप्राप्तार्थप्रकाशनात् ।
अनित्यास्ते तु विज्ञेयाः सापेक्षार्थविभावनात् ॥ [143] ॥
स्वरूपं वेदयंश्च्छब्दो व्यञ्जना दीनि च ध्रुवम् ।
अर्थप्रत्यायकः प्राज्ञर्भक्तिकल्पनयोच्यते ॥ [144] ॥
परमानु(णु)स्वभावत्वाद् घोषैकत्वं न युज्यते ।
तादात्म्यं प्रतिघातित्वात् तत्सिद्धिर्वरणादिभिः ॥ [145] ॥
स्फोटाख्यो नापरो घोषाच्छब्दो नित्यः प्रसिद्ध्यति ।
क्रमवृत्तेर्ण(र्न) शब्देन कश्चिदर्थो ऽभिधीयते ॥ [146] ॥
न श्रुत्या श्रूयते शब्दस्तदन्या च गतिः श्रुतेः ।
यो ब्रूयात्स स्वमात्मानं विद्वद्भिरपहासयेत् ॥ [147] ॥
प्रतिद्योत्यं यथायोगं नियतानियताश्च ते ।
नियतोद्भावनाद् बुद्धः सर्वज्ञ इति गम्यते ॥ [148] ॥
सत्त्वाख्याः कामरूपाप्ता निष्यन्दाव्याकृतास्तथा ।
तथैव च विपाकश्च साभाग्यं[प्राप्तयो द्विधा] ॥ [149] ॥
[अभिधर्मदीपे विभाषाप्रभायां वृत्तौ द्वितीयस्याध्यायस्य तृतीयः पादः ॥]
[द्वितीयो ऽध्यायः समाप्तः ॥]
तृतीयो ऽध्यायः । चतुर्थपादः ।
सत्त्वाख्योपद्रवाभावान्न चतुर्थे ऽस्ति सूत्रतः ।
विमानस्य सम(स)त्वस्य प्रध्वंसान्नित्यता कुतः ॥ [150] ॥
सप्त तेजोभिरेकाद्भिर्गते ऽद्भिः सप्तके पुनः ।
तेजसा सप्तकान्त्यैका वायु[संवर्तनी ततः] ॥ [151] ॥
आग्नेयात्सप्तकादेक[:] पावनीकिमनन्तरम् ।
आयुष्परिग्रहादेवं शुभकृत्स्नायुरेधनम् ॥ [152] ॥
वातादिदोषसाधर्म्या[त्सत्त्वा]णा(नां) [तद्विनाशकाः] ।
आध्यात्मिकेति सारूप्यान्न भूसंवर्तणी(नी) मता ॥ [153] ॥
अभिधर्मदीपे [विभाषाप्रभायां वृत्तौ तृतीयस्याध्यायस्य च]तुर्थः पादः समाप्तः ॥

[तृतीयो ऽध्यायः समाप्तः] ॥
चतुर्थो ऽध्यायः । प्रथमः पादः ।
सत्त्वोपपत्तिहेतूनां [विपत्संप]द्विधायिणा [ना]म् ।
लोकवचित्र्यकर्तॄणां कर्म हेतुरितीष्यते ॥] [154] ॥
कायिकं वाङ्मयं चैव चेतनाख्यं च मानसम् ।
कर्माण्येतानि लोकस्य कारणं नेश्वरादयः । [155] ॥
वैश्वरूप्यात्क्रमोत्पादात्तद्वदन्यत्प्रसङ्गतः ।
नान्यापेक्षा तपोयोगो पक्षहान्यादिदोषतः । [156] ॥
कर्मणां बोध्यते शक्तिर्विधिकालग्रहादिभिः ।
यतो ऽतस्तेषु ताच्छब्द्यं गौन्या(ण्या) वृत्त्या प्रयुज्यते ॥ [157] ॥
पूर्वे विज्ञप्त्यविज्ञप्ती चेतना मानसी क्रिया ॥ [158] ॥
[अभिधर्मदीपे विभाषाप्रभायां वृत्तौ चतुर्थाध्यायस्य प्रथमः पादः]
चतुर्थाध्याये द्वितीयपादः ।
अन्नमत्यग्निणि(नि)र्दग्धं यथा स्थाली च संस्कृता ।
पापदृष्टेस्तथा शीलं शाठ्येर्ष्यादिक्षतात्मनः ॥ [159] ॥
संवृत्सद्दृष्ट्युपेतातो भिक्षुत्वं परमार्थतः ।
एकसम्पत्तु संवृत्या द्वयाभावे द्विधापि न ॥ [160] ॥
विगतावणे ज्ञाने बुद्धोक्तेर्मुख्यकल्पना ।
तदाश्रये फले चापि विज्ञेया गुणकल्पना ॥ [161] ॥
शाश्वतत्वशुभत्वाभ्यां सर्वाण (न)र्थनिवृत्तितः ।
मुख्यकल्पनया तद्वद्धर्मो निर्वाणमुच्यते ॥ [162] ॥
आर्याः शिष्यगुणाः संघस्तथैव परमार्थतः ।
एतान्यो याति शरणं स याति शरणत्रयम् ॥ [163] ॥
मिथ्याचारः सतां गर्ह्यात्परत्राकरणाप्तितः ।
पापिष्ठत्वान्मृषावादो मद्यपाणं(नं) स्मृतिक्षयातू ॥ [164] ॥
सर्वेभ्यो वर्तमानेभ्यो द्विविधेभ्यो ऽपि कामजः ।
त्रिकालेभ्यस्तु मौलेभ्यो लभ्येते भावनामयौ ॥ [165] ॥
सर्वेभ्यः सत्त्वजातिभ्यः संवरो वाङ्गकारणैः ।
सर्वेभ्यो संवराङ्गेभ्यः सत्त्वेभ्यश्च न कारणैः ॥ [166] ॥
क्रियया[ ऽ]संवरप्रप्तिः स हाभ्युपगमेन वा ।
अविज्ञप्तिरतो ऽन्यस्याः क्षेत्राङ्गादिविशेषतः ॥ [167] ॥
कामाप्तसंवरत्यागः शिक्षाणि(नि) क्षेपणादिभिः ।
पतनीयरपीत्येके तन्नेत्यन्ये त्वयोगतः ॥ [168] ॥
अयोगा(गो) नांशुविध्वंसात्पटद्रव्यं विनश्यति ।
सूत्रे ध्वंसोक्तिरन्यार्था यथेर्ष्याशठनादिषु ॥ [169] ॥
सद्धर्मान्तर्द्धितो ऽन्ये ऽन्ये नापूर्वाप्रतिलम्भतः ।
भूसंचारेण हान्या च त्यज्यते ध्यानजं शुभम् ॥ [170] ॥
तथारूप्याप्तमार्यन्तु फलाप्त्यक्षविहानिभिः ।
असंवरो दमप्राप्तिर्जीवितोत्सर्जणा(ना) दिभिः ॥ [171] ॥
चित्तवेगादिविच्छेदैरविज्ञप्तिस्तु मध्यमा ।

कामाप्तं कुशलं नाम त्रिभिर्मूलच्छिदादिभिः ॥ [172] ॥
प्रतिपक्षोदयात्क्लिष्टं त्रिधात्वाप्तं विहीयते ।
सर्वे कामेषु रूपे द्वाधे(वे)को ऽरूपिषु लाभतः ॥ [173] ॥
यदिष्टफलदं कर्म कुशलं तदुदाहृतम् ।
विपर्ययेणाकुशलमव्याकृतमतो ऽन्यथा ॥ [174] ॥
कामाप्तं प्रथमं पुण्यमपुण्यमशुभात्मकम् ।
ऊर्ध्वभूमिकमानेज्यं विपाकं प्रत्यनेजनात् ॥ [175] ॥
सुखवेद्यं शुभ(भं) कर्म ध्यानादर्वाक्तुरीयकात् ।
उपेक्षावेद्यमन्यत्र दुःखवेद्यन्तु पापकम् ॥ [176] ॥
अधो ऽपि मध्यमं कर्म ध्यानेना न्त्येपि निर्वृतेः ।
युगपत्त्रिविपाकेष्टेर्ध्यानान्तरविपाकतः ॥ [177] ॥
पुनश्चतुर्विधं कर्म दृष्टवेद्यादिभेदतः ।
जन्मनस्त्रिभिराक्षेपो दृष्टधर्माह्वयादृते ॥ [178] ॥
चतुर्णामपि चाक्षेपः सर्वत्र नरकादृते ।
न तत्रेष्टफलाभावाच्छुभं यस्माद्विपच्यते ॥ [179] ॥
नोत्पद्यवेद्यकृत्तत्र यद्विरक्तः पृथग्जनः ।
स्थिरो नापरकृच्चार्यश्चलो ऽपि भवमूलयोः ॥ [180] ॥
यदार्त्ररौद्रचित्तेन कर्माभीक्ष्णं निषेव्यते ।
सत्क्षेत्रे क्रियते यच्च फलं तस्य नियम्यते ॥ [181] ॥
क्षेत्राशयविशेषाच्च फलं सद्यो विपच्यते ।
निरोधव्युत्थितादौ च सद्यः कालफलक्रिया ॥ [182] ॥
तद्भूम्यपुनरुत्पत्तेः विपाकनियतं च यत् ।
तच्च दृष्टफलं विद्यात् कर्मादः परिपूरकम् ॥ [183] ॥
कुशलस्याविचारस्य चैतसिक्येव वेदना ।
विपाकः कायिकी त्विष्टा दुःखवेद्यस्य कर्मणः ॥ [184] ॥
सपाकमशुभं कृष्णं सपाकं रूपजं सितम् ।
शुभाशुभं द्विधा काये(मे) निर्मलं तत्प्रहाणकृत् ॥ [185] ॥
चसस्रो दृक्पथा दृष्टौ चेतनाभावनापथात् ।
आनन्तर्यपथाः कामे कर्मैतत्कृष्णनाशकृत् ॥ [186] ॥
नवमे चेतना या तु सा कृष्णाकृष्णया [घा]तिनी ।
अन्तानन्तर्यमार्गस्था ध्याने ध्याने सितस्य तु ॥ [187] ॥
कायाद्यकुशलं कर्म सर्वं दुश्चरितं मतम् ।
अभिध्यादीन्यपि त्रीणि मनोदुश्चरितत्रयम् ॥ [188] ॥
शुभं तत्सानभिध्यादि प्रोक्तं सुचरितत्रयम् ।
द्वयंमौलमदः कर्म मार्गा दश शुभाशुभाः ॥ [189] ॥
[अभिधर्मदीपे विभाषाप्रभायां [वृत्तौ] चतुर्थाध्यायस्य द्वितीयः पादः ।
चतुर्थाध्याये तृतीयपादः ।
कारिताः षडविज्ञप्तिद्वर्यात्मैकस्ते ऽपि षट् कृताः ।
शुभाः सप्त द्विधा ज्ञेया एकवै(धै)ते समाहिताः ॥ [190] ॥
या सामन्तेष्वविज्ञप्तिः पृष्ठेषु तु विपर्ययः ।

प्रयोगस्तु त्रिमूलोत्थः [अभिध्याद्यास्त्रिमूलजाः] ॥ [191] ॥
[कुशलाः प्रयोगपृष्ठाश्च कुशलत्रयमूलजाः] ।
द्वेषेण वधपारुष्यव्यापत्तीनां समापनम् ॥ [192] ॥
स्तेयस्यान्याङ्गनायातेरभिध्यायाश्च लोभतः ।
मिथ्यादृशस्तु मोहेन तदन्येषां त्रिभिर्मतम् ॥ [193] ॥
चतुर्णामप्यधिष्ठानं ज्ञेयमेषां यथाक्रमम् ।
प्राणिनश्चाथ भोगाश्च नामरूपं च नाम च ॥ [194] ॥
प्राणातिपातो धीपूर्वमभ्रान्त्या परमारणम् ।
अत्यक्तान्यधनादानमदत्तादानमुच्यते ॥ [195] ॥
परस्त्रीगमनं काममिथ्याचारो विकल्पवान् ।
अर्थज्ञायान्यथावादो द्रोहबुद्ध्या मृषावचः ॥ [196] ॥
दृष्ट्या श्रुत्यादिभिश्चाक्षैर्मण(न)सा यच्च गृह्यते ।
दृष्टं श्रुतं मतं ज्ञातमित्युक्तं तद्यथाक्रमम् ॥ [197] ॥
पैशुन्यं भेदकृद्वाक्यं पारुष्यं तु यदप्रियम् ।
क्लिष्टं संभिन्नलापित्वमन्ये गीतकथादिवत् ॥ [198] ॥
परस्वासत्स्पृहाभिध्या व्यापा[दः] सत्त्वगोचरः ।
विद्वेषानानन्तदृष्टिस्तु मिथ्यादृष्टि [रहेतुका] ॥ [199] ॥
चेतना न क्रियामार्गस्तैस्तु सत्ता प्रवर्तते ।
युगपद्याव[दष्टा] भिरशुभैश्चेतनैः सह ॥ [200] ॥
[शुभैस्तु] दशभिर्यावत्सार्वं(र्धं) नैकाष्टपञ्चभिः ।
विलापद्वेषपारुष्याण्यु(णि)ष (स)न्ति नरके द्विधा ॥ [201] ॥
तद्वदेव मताभिध्या मिथ्यादृष्टिस्तथैव च ।
अभिध्यादित्रयं तद्वत्कुरौ प्रलपनं द्विधा ॥ [202] ॥
अशुभास्तु दशान्यत्र सर्वत्र कुशलास्त्रयः ।
आरूप्यार्यासंज्ञिनां च रूपिणः सप्त लाभतः ॥ [203] ॥
कुरून्सनरकान्हित्वा सर्वत्रान्यत्र ते द्विधा ।
सर्वे विपाकनिष्यन्दाधिपत्यफलदा दश ॥ [204] ॥
दुःखोपसंहृतेर्दुःखमल्पायुष्ट्वन्तु मारणात् ।
तेजोनाशात्कृशौजस्त्वमिदं तत्त्रिविधं फलम् ॥ [205] ॥
आनन्तर्यपथे कर्म फलवत्पञ्चभिः फलैः ।
चतुर्भिस्त्वमलेनार्यं तद्वदन्यच्छभाशुभम् ॥ [206] ॥
ततो ऽन्यन्निर्मलं ज्ञेयं त्रिभिरव्याकृतं तथा ।
फलं शुभस्य चत्वारि द्वेत्रीणि च शुभादयः ॥ [207] ॥
शुभाद्यास्त्वशुभस्य द्वे त्रीणि चत्वारि च क्रमात् ।
अव्याकृतस्य ते तु द्वे त्रीणि त्रीणि शुभादयः ॥ [208] ॥
सर्वे चत्वार्यतीतस्य मध्यमस्य च भाविनः ।
मध्यमा द्वे स्वकस्यैव त्रीण्यनागामिजन्मनः ॥ [209] ॥
चत्वार्येकभुवो द्वे वा त्रीणि चापरभूमिकाः ।
शैक्षाद्यास्त्रीणि शैक्षस्य त एवाशैक्षकर्मणः ॥ [210] ॥
एकं त्रीणि द्वयं चैव शैक्षाद्याः पश्चिमस्य तु ।

द्वे द्वे पञ्च यथासंख्यं दृग्घेयस्य तु कर्मणः ॥ [211] ॥
त्रीणि चत्वारि चैकं च दृष्टिहेयादयः स्मृताः ।
ते त्वभ्यासप्रहेयस्य द्वे चत्वारि त्रिधा मताः ॥ [212] ॥
क्रमादेकद्विचत्वारि ते त्वहेयस्य कर्मणः ।
एकेनाक्षिप्यते[जन्म] भूरिभिः परिपूर्यते ॥ [213] ॥
कुशलं वाथवा पापं यदतीतं ददत्फलम् ।
स्वं कायवाङ्मनस्कर्म सा कर्मस्वकता मता ॥ [214] ॥
संवृत्या स्कन्धसन्ताने तत्क्रियाफलदर्शणा(ना)त् ।
कर्त्तृता भोक्तृता चोक्ता निषिद्धा शाश्वतस्य तु ॥ [215] ॥
स्यात्कर्मस्वकता नास्ति तस्य चेति चतुष्किका ।
प्रथमा तत्फलस्थस्य विहाणा(ना)त्तस्य कर्मणः ॥ [216] ॥
द्वितीया तत्फलस्थस्य कर्मणा तेन चान्वयात् ।
तृतीयोभययुक्तस्य चतुर्थ्यनुभयस्य तु ॥ [217] ॥
स्यात्कर्मस्वकता नापि तत्फलं वेदयिष्यति ।
तत्फलावस्थितस्याद्या ज्ञेया तच्चरमे फले ॥ [218] ॥
द्वितीया ध्रुवपाकस्य तद्विपाकानवस्थिते ।
तृतीया द्वयसद्भावा चतुर्थी तूभयं विना ॥ [219] ॥
स्यात्कर्मणान्वितश्चैव नो च तत्फलवेदनम् ।
आद्या दत्तविपाकेन निरुद्धानागतादिना ॥ [220] ॥
द्वितीया तु विहीणे(ने)न ध्रुवपाकेन कर्मणा ।
तृतीया द्वयमुक्तस्य चतुर्थी तु द्वयादृते ॥ [221] ॥
अयुक्तविहितं कर्म क्लेशोपक्लेशदूषितम् ।
शिक्षालिङ्गाद्यपेतं च केचिदाहुर्विपश्चितः ॥ [222] ॥
अभिधर्मदीपे विभाषाप्रभायां वृत्तौ चतुर्थस्याध्यायस्य तृतीयः पादः ॥
चतुर्थाध्याये चतुर्थपादः ।
बोधिसत्त्वः कुतो यावदविवर्त्यमना यतः ।
बघ्नाति बोधिसन्नाहमङ्गीकृत्वा जगद्धितम् ॥ [223] ॥
यदा लाक्षणिकं कर्म प्रकरोत्यनपायगः ।
महाकुलः समग्राक्षः स्वपर्षत्संग्रहे रतः ॥ [224] ॥
पुमाञ्जातिस्मरो वाग्मी प्रज्ञावीर्यक्रियान्वितः ।
तदा देवमनुष्याणामभिव्यक्तिं निगच्छति ॥ [225] ॥
स हि त्रिभिरसंख्येयैर्धर्मकायगुणार्णवम् ।
प्रचिनोति तदाधारं कायं कल्पशतेन तु ॥ [226] ॥
द्वात्रिंशल्लक्षणोपेतमशीतिव्यञ्ज नोज्ज्वलम् ।
द्विषतामपि यं दृष्ट्वा मनः सद्यः प्रसीदति ॥ [227] ॥
युगान्तवायुणा(ना) मेरुः वह्निणा(ना) वरुणालयः ।
वज्रेण ध्वस्यते वज्रमविकारि तु तन्मनः ॥ [228] ॥
कामाप्तं षष्ठजं त्रेधा कृपाश्रद्धापरम्परम् ।
बुद्धोत्पादे नरः स्त्री वा तदाद्यं चित्तमश्नुते ॥ [229] ॥
सर्वेभ्यः सर्वदा सर्वं वदतो दानपूरणम् ।

मरणे ऽपि दमात्यागः शीलस्योत्कृष्टिरुच्यते ॥ [230] ॥
वीर्यस्य तिष्यसंस्तुत्या धियो वज्रोपमात्परम् ।
`सर्वासां तु क्षयज्ञाने परिपूरिर्विधीयतेऽ ॥ [231] ॥
त्रिपुण्यकृतिवस्त्वाद्यास्तल्लाभोपायदेशनाः ।
तथा चतुरधिष्ठानं सप्तसद्धर्मशासनम् ॥ [232] ॥
सप्तयोगास्त्रयःस्कन्धा स्त्रिशिक्षाद्याश्च देशिताः ।
तथा पारमिताश्चापि चतस्रो विनयोदिताः ॥ [233] ॥
बोधिपक्ष्याश्च कण्ठोक्ताः सप्तत्रिंशत्स्वयंभुवा ।
हेतवः सर्वबोधिनां त्रिविधा मृदुतादिभिः ॥ [234] ॥
तस्मान्न बोधिमार्गो ऽन्यः सूत्रादिपिटकत्रयात् ।
अतो ऽव्यमिह यो ब्रूयात्स भवेन्मारभाषितः ॥ [235] ॥
कल्पानां महतामेतदसंख्येयत्रयं मतम् ।
स्थानान्तरमसंख्याख्यमदःसंख्योपरि स्थितम् ॥ [236] ॥
अपकर्षे जिनोत्पत्तिर्यावच्छतसमायुषः ।
द्वयोः प्रत्येकबुद्धानामुत्कर्षे चक्रवर्ति णा(ना)म् ॥ [237] ॥
नाधो ऽशीतिसहस्त्रासौ (यो) स्तत्समुत्पत्तिरिष्यते ।
ते हेमरूप्यताम्रायश्चक्राः पुण्यप्रभावतः ॥ [238] ॥
तुल्ये ऽपि साधनोपाये तद्भेदो ऽक्षादिभेदतः ।
भवमोक्षार्थिनोर्मात्रोः प्रदानफलभेदवत् ॥ [239] ॥
करुणाभावनोद्रेकात्स्वसंविच्चित्तयोस्तथा ।
परसंविद्गुरोस्तद्वत्तद्विशेषो विधीयते ॥ [240] ॥
हेतुतत्त्वफलोद्भूतं महत्त्वं शासितुस्त्रिधा ।
विमुक्तावपि तुल्यायां त्रयाणां बोधि लम्भनात् ॥ [241] ॥
बुद्धस्य संमुखीनस्य बौद्धमाक्षिप्यते वपुः ।
सैकपुण्यशतोद्भूतमेकैकं लक्षणं मुनेः ॥ [242] ॥
यथाकर्मपथास्तद्वत्पुण्यादित्रयमिष्यते ।
दानं हि दीयते येन स्वपरार्थाद्यपेक्षया ॥ [243] ॥
कायादिकर्म तत्तत्त्वमविज्ञप्तिः क्वचित्पुनः ।
प्राधान्यान्मुनिना प्रोक्तं महाभोगफलं हि तत् ॥ [244] ॥
स्वान्योभयार्थसिद्ध्यर्थं दानं ददति केचन ।
साधुवृत्त्यनुवृत्यर्थं नोभयार्थाय चापरे ॥ [245] ॥
दातृवस्त्वादिवैशिष्ट्यात्तत्फलातिशयः स्मृतः ।
श्रद्धादिभिर्गुणैर्दाता दत्ते ऽतः सत्क्रियादिभिः ॥ [246] ॥
सत्कारादिगुणोपेतं फलं तस्मादवाप्नुते ।
वस्तु वर्णादिसंपन्नं सौरूप्यादि फलप्रदम् ॥ [247] ॥
गुणदुःखोपकाराख्यर्ंधर्मैः क्षेत्रं विशिष्यते ।
आशयादि मृदुत्वादेर्मृदुत्वादीनि कर्मणः ॥ [248] ॥
धर्मदात्रे ऽपि बालाय पित्रे मात्रे ऽथ रोगिणे ।
अमेयं बोधिसत्त्वाय दानमन्यभवाय च ॥ [249] ॥
बोधिसत्त्वस्य यद्दान्न(न)मन्यस्यापि यदष्टमम् ।

विपश्चिद्भिस्तदाख्यातं श्रेष्ठं यच्चार्हतो ऽर्हते ॥ [250] ॥
संप्रधार्य यदाक्षिप्तं पूरणादिदृढीकृतम् ।
विगतप्रतिपक्षं च तत्कर्मोपचितं मतम् ॥ [251] ॥
स्वस्मात्त्यागगुणापेक्षाश्चैत्ताश्चैत्यार्चतादिषु ।
विना प्रतिगृहीत्रापि फलं मैत्रीविहारवत् ॥ [252] ॥
धर्मदानस्वभावो वाक्तत्त्वनामादिगोचरः ।
अव्याकृतस्वभावत्वान्न नामाद्यन्नदानवत् ॥ [253] ॥
शीलं शुभमयं रूपं व्याख्यातं तत्प्रभेदतः ।
शास्त्रे तु तप्प्रधा नत्वात्प्रोक्तं स्वर्गोपपत्तये ॥ [254] ॥
दौःशील्याशुभमूलाद्यैर्दोषैर्यन्न विदूषितम् ।
तद्विपक्षशमाङ्गं च यत्तच्छद्धमिहोच्यते ॥ [255] ॥
पुण्यं समाहितं त्वत्र भावना चित्तभावनात् ।
प्रधान्यादपवर्गाय तदुक्तं सर्वदर्शिना ॥ [256] ॥
पुण्यनिर्वाणभागीयं निर्वेधानुगुणं तथा ।
शासने ऽस्मिन्समासेन शुभमूलं त्रिधेष्यते ॥ [257] ॥
लिपिमुद्राथ गणना कायवाक्कर्मलक्षणा ।
संख्या खल्वपि विज्ञेया मनस्कर्मस्वभाविका ॥ [258] ॥
अभिधर्मदीपे विभाषाप्रभायां वृत्तौ चतुर्थाध्यायस्समाप्तः ॥
पञ्चमो ऽध्यायः । प्रथमः पादः
अकार्यप्रवणो लोको दुःखभागी च यद्वशात् ।
रागादीन् भवसंबन्धान्क्लेशान्वक्ष्यामि तानहम् ॥ [259] ॥
स्वशक्तिजक्रियोद्भूतैर्विशेषैस्ते तु नामभिः ।
आत्तसामान्यसंज्ञाकाश्चोद्यन्ते ऽनुशयादिभि[:] ॥ [260] ॥
रागप्रतिघसंमोहमानकाङ्क्षाकुदृष्टयः ।
षडेते ऽनुशयाः प्रोक्ताः श्रेयोद्वारविबन्धिनः ॥ [261] ॥
रागद्वेधात् मताः सप्त दृष्टिभेदाद्दश स्मृताः ।
भूयो ऽष्टानवतिर्ज्ञेया धात्वाकारादिभेदतः ॥ [262] ॥
कामरागो भवाख्यश्च द्विधाः रागः प्रभिद्यते ।
प्रायो बहिष्प्रवृत्तत्वादन्तर्वत्त्यादिभेदतः ॥ [263] ॥
सत्कायान्तद्वयग्राहौ मिथ्यादर्शण(न)मेव च ।
दृष्टिशीलव्रतामर्शावित्येताः पञ्च दृष्टयः ॥ [264] ॥
दशेह दुःखदृग्घेयाः सप्त हेत्वीक्षणक्षयाः ।
सप्तापवर्गदृग्घेयाः अष्टौ मार्गेक्षणक्षयाः ॥ [265] ॥
दृष्टिहेयावलम्बित्वात्सदाकारपरिग्रहात् ।
रागादयस्तु चत्वारो ज्ञेया मार्गद्वयक्षयाः ॥ [266] ॥
प्रतिकल्पवशोत्पत्तेर्दृष्टिकाङ्क्षेतु दृक्क्षये ।
रूपेप्येवं तथारूप्ये प्रतिघानुशयादृते ॥ [267] ॥
भवाग्रे क्षान्तिहेया ये दृग्घेया एव ते मताः ।
ज्ञानवध्यास्तु ये तस्मिन्नभ्यासेनैव तत्क्षयः ॥ [268] ॥
अहं ममेति या दृष्टिरसौ सत्कायदृक् स्मृता ।

तदुच्छेदध्रुवग्राहौ यौ सान्तर्ग्राहदृङ्मता ॥ [269] ॥
फलहेत्वपवादो यः सा मिथ्यादृष्टिरुच्यते ।
ज्ञेयो दृष्टिपरामर्शः हीनवस्तूत्तमग्रहः ॥ [270] ॥
अहेतावपथे चैव तद्धि शीलव्रताव्हयः ।
दुःखभ्रान्त्यपथादानात्तदुष्ट्युत्सार्य एव सं ॥ [271] ॥
सत्कायदृष्ट्यवच्छेदो धर्ममात्रेक्षणाद्यतः ।
दुःखाभिसमये तच्च तद्दृग्घेयैव सो ऽप्यतः ॥ [272] ॥
द्वयं दृष्टिपरामार्शादेकः सत्कायदृष्टितः ।
अन्तर्ग्राहार्धमन्यस्तु विपर्यासः प्रकल्प्यते ॥ [273] ॥
नितीरणसमारोपविपरीतप्रवृत्तितः ।
विपर्यासोक्तिरेष्वेव दृग्वषा(शात्) चित्तसंज्ञयोः ॥ [274] ॥
सप्त मानविधास्त्रिभ्यो नव मानविधास्त्रिधा ।
त्रिधात्युन्नमनादिभ्यः स्वोत्कर्षाद्यस्ति नास्तिता ॥ [275] ॥
व धादिपर्यवस्थानं कौकृत्यमशुभं विधाः ।
विभवेच्छा च नार्यस्य जायन्ते हेत्वभावतः ॥ [276] ॥
दुःखात्समुदयाच्चैव सर्वगानां व्यवस्थितिः ।
तद्दृष्टिहेयजातिनां सर्वासां द्विपदस्थितेः ॥ [277] ॥
काङ्क्षा पञ्च दृशो ऽविद्या तद्व्यामिश्राथ केवलाः ।
सप्त सर्वत्रगा दुःखद्धेनोरेभ्यश्चतुष्टयम् ॥ [278] ॥
द्रव्यतो दश चैकश्च नाम्ना सप्त तु ते मताः ।
रागप्रतिघमानास्तु परिच्छेदप्रवर्तिणः (नः) ॥ [279] ॥
प्रकारान्तरवर्तित्वात्सकृत्सर्वस्वभूगतिः ।
धात्वन्तरावलम्बित्वात्पूर्वोक्ता एव सर्वगाः ॥ [280] ॥
नवोर्ध्वधातुकास्तेषामाद्या दृष्टिद्वयादृते ।
तेषां सहभुवो धर्माः प्राप्तिवर्ज्याश्च सर्वगाः ॥ [281] ॥
काङ्क्षामिथ्यादृगाभ्यां च मिश्राविद्याथ केवला ।
निरोधमार्गदृग्घेयाः षडेते निर्मलेक्षिणः ॥ [282] ॥
स्वभूमेरेव निर्वाणं मार्गस्थ (र्गः ष)न्न(ण्ण)वभूमिकः ।
तद्दृश्यविश(ष)यो ऽन्यो ऽन्यो हेतुत्वाद्धेतुभावतः ॥ [283] ॥
न रागः शक्त्यहेतुत्वान्न द्वेषो[ ऽ]नपराधतः ।
नमानो ऽतिप्रशान्तत्वान्न भावत्वाद् दृशो ऽपराः ॥ [284] ॥
सर्वगो ऽनुशयः कृत्स्नामनुशेते स्वधातुगः ।
स्वामालम्बनतो भूमिं स्वनिकायं त्वसर्वगः ॥ [285] ॥
अस्वीकाराद्विपक्षत्वान्नोर्ध्वभूमार्गगोचरः ।
संप्रयोगिनि(णि) तु स्वस्मिन्नहीने संप्रयोगतः ॥ [286] ॥
धात्रीवस्त्रमलन्यायैः खचराम्बुचरक्रमैः ।
एते ऽनुशेरते यस्मात्तस्मादनुशयाः स्मृताः ॥ [287] ॥
स्वैरिष्टादिभिना (रा)कारैः परमाणुक्षणेष्वपि ।
यतो ऽनुशेरते चैति(ते) ततश्चानुशया मताः ॥ [288] ॥
अभिधर्मदीपे विभाषाप्रभायां वृत्तौ पञ्चमस्याध्यायस्य प्रथमः पादः ॥

पञ्चमाध्याये द्वितीयपादः ।
आद्यं दृष्टिद्वयं कामे निवृताव्याकृतं मतम् ।
धातुद्वये तु सर्वे ऽपि निवृताव्याकृता मलाः ॥ [289] ॥
कामेष्वकुशलाः शेषाः रागद्वेषतमांस्यतः ।
त्रीण्येवाशुभमूलानि पञ्चकारणयोगतः ॥ [290] ॥
अव्याकृतद्वयस्यापि त्रीणि मूलानि तत्समाः ।
अविद्या धीश्च तृष्णा च न काङ्क्षामानदृष्टयः ॥ [291] ॥
चलत्वादूर्ध्ववृत्तित्वादव्यापित्वाद्यथाक्रमम् ।
सूत्रस्यार्थापरिज्ञानादहेतुर्ध्यायिवोदनात् ॥ [292] ॥
प्रश्नव्याकरणान्याख्यच्चत्वारि वदतां वरः ।
शिष्यानां(णां) वादशिक्षार्थ स्थितीनां च चतुष्टयीम् ॥ [293] ॥
एकांशाख्यं विभज्याख्यं पृच्छाख्यं स्थाप्यमेव च ।
मरणप्रसवोत्कर्षजीवद्रव्यान्यतादिवत् ॥ [294] ॥
स्थानवादित्वसंज्ञैका परिकल्पाव्हया परा ।
अन्या प्रतिपदाख्यान्या ज्ञानवादित्वसंज्ञिता ॥ [295] ॥
मानप्रतिघसंरागैर्वर्तमानो ऽज्झितक्रियैः ।
जाता यत्राप्रहीणाश्च संयुक्तस्तत्र वस्तुनि ॥ [296] ॥
अजातैर्माण(न)सैरेतैः सर्वत्रान्यैः स्वकाध्विकैः ।
सर्वत्राजैस्तथा शेषैः संयुक्ता स्कन्धसन्ततिः ॥ [297] ॥
द्वयमेवात्र निष्पन्नं तृतीयं तूपचारतः ।
सदसद्धेतुनो(ता) यस्मान्मध्यस्थैश्च परिग्रहात् ॥ [298] ॥
सर्वमस्ति प्रदेशो ऽस्ति सर्वं नास्तीति चापरः ।
अव्याकृतास्तिवादीति चत्वारो वादिनः स्मृताः ॥ [299] ॥
एभ्यो यः प्रथमो वादी भजते साधुतामलौ ।
तर्काभिमानिनस्त्वन्ये युक्त्यागमबहिष्कृताः ॥ [300] ॥
इच्छत्यध्वत्रयं यस्मा[त्] कृत्यतश्च ध्रुवत्रयम् ।
सर्वास्तिवाद इत्युक्तस्तस्मादाद्यश्चतुर्विधः ॥ [301] ॥
भा[वाङ्का]न्यथिकाख्यौ द्वाव[व]स्थान्यथिको परः ।
अन्यथान्यथिकश्चान्यः तृतीयो युक्तिवाद्यतः ॥ [302] ॥
कारित्रेणाध्वनामेप व्यवस्थामभिवाञ्छति ।
तत्कुर्वन्वर्तमानो ऽध्वा कृते ऽतीतो ऽकृते परः ॥ [303] ॥
बुद्ध्या यस्येक्ष्यते चिन्हं तत्संज्ञेयं चतुर्विधम् ।
परमार्थेन संवृत्त्या द्वयेनापेक्षयापि च ॥ [304] ॥
सदतीतासमुत्पन्नं बुद्धोक्तेर्वर्तमानवत् ।
धीनामगोचरत्वच्च तत्सत्त्वं वर्तमानबत् ॥ [305] ॥
नासदालम्बना बुद्धिरागमादुपपत्तितः ।
अन्यापेक्ष्ये ऽथ संबन्धप्रतिषेधो ऽश्वशृङ्गयोः ॥ [306] ॥
रूपादौ वस्तुनि क्षीणे सत्येवोत्पद्यते मतिः ।
सा ज्ञानस्यासनाकारा शास्तुस्तथान्यचित्तवत् ॥ [307] ॥
हर्षोत्पादभयोद्वेगस्मृत्युत्पत्य(त्त्य)ङ्गभावतः ।

साङ्गस्य शक्त्यभिव्यक्तेः सदीपघटरूपवत् ॥ [308] ॥
जनीहाकर्तु साध्वत्वात्पञ्चभावविकारवत् ।
सतः कृ(क्रि)याङ्गतादृष्टेर्विकार्य प्राप्यकर्मवत् ॥ [309] ॥
द्वितीयं जन्म जातस्य वस्तुनो नोपपद्यते ॥
मुख्यसत्ता गुणाभावाद्गौनी(णी)सत्ता न विद्यते ॥ [310] ॥
साधर्म्ये सति तद्वृत्तेर्व्याहारं मधुरोक्तिवत् ।
आविष्टलिङ्गमुख्यस्य जन्मेष्टं दारकादिवत् । [311] ॥
स्यात्खपुष्पैः खमुत्फुल्लं स्याञ्जटालश्च दर्दुरः ।
स्वभावो यदि भावनां प्रागभूत्वा समुद्भवेत् ॥ [312] ॥
स्थितिशक्तिपरित्यक्तान्धर्मान्नाशान्वितोदयान् ।
वद सोम्य कथं याति प्रतीत्या वस्तु वस्तुताम् ॥ [313] ॥
लोके दृष्टः सतोरेव परस्परमनुग्रहः ।
तद्वदेवोपघातो ऽपि नाश्वशृङ्गाहिवा(पा)दयोः ॥ [314] ॥
यत्प्रतीत्यसमुत्पन्नं तत्स्वभावान्न विद्यते ।
न विद्यते स्वभावाद्यद्विद्यते तत्ततो ऽन्यथा ॥ [315] ॥
प्रकुर्वन्ति दशामात्रं हेतवो वस्तुनः सतः ।
राजत्वं राजपुत्रस्य सात्मकस्यैव मन्त्रिणः ॥ [316] ॥
धर्माणां सति सामग्र्ये सामर्थ्यमुपजायते ।
चितानां परमानू(णू) नां यद्वदात्मोपलम्भने ॥ [317] ॥
कर्मातीतमसद्यस्य फलं भावि करोत्यसत् ।
व्यक्तं वन्ध्यासुतस्तस्य जायते व्यन्तरात्मजात् ॥ [318] ॥
नामसल्लक्षणाभावाद् द्रव्यसत्याङ्कसिद्धितः ।
अनागताभ्यतीतस्य नास्ति प्रज्ञप्तिसत्यता ॥ [319] ॥
को विघ्नः अङ्गवैकल्यम् न तत्सर्वास्तिता सदा ।
तत्कथं श्रूयतां सद्भ्यः दुर्बोधा खलु धर्मता ॥ [320] ॥
वर्तमानाध्वसंपातात् सामग्र्याङ्गपरिग्रहात् ।
लब्धशक्तेः फलाक्षेपः कारित्रमभिधीयते ॥ [321] ॥
न वर्तमानता रूपमतीताजान(त)ता न च ।
यतो ऽतो नाध्वसंचाराद् रूपात्मान्यथतेष्यते ॥ [322] ॥
अवस्था जायते काचिद्विद्यमानस्य वस्तुनः ।
तथा शक्तिस्तथा वेला तथा सत्ता तथा क्रिया ॥ [323] ॥
परिकल्पैर्जगद्व्याप्तं मूर्खचित्तानुरञ्जिभिः ।
यस्तु द्विद्वन्मनोग्राही परिकल्पः स दुर्लभः ॥ [324] ॥
अन्यसर्वत्रगैर्बद्धः प्रहीणे दुःखदृक्क्षये ।
प्रहीणे प्राक्प्रकारे ऽपि शेषैस्तदवलम्बिभिः ॥ [325] ॥
षोडाष(श) विज्ञेयाः प्रत्येकं त्रिभवात्मकाः ।
धर्माः पञ्चधा निर्मलाश्चैव विज्ञानानि तथैव च ॥ [326] ॥
धात्वायतनसत्येषु प्रकारेषु च लक्षयेत् ।
धर्मसंग्रहविज्ञानज्ञानानुशयचोदितः ॥ [327] ॥
सदुःखहेतुदृग्घेयाः कामाप्ता भावनाक्षयाः ।

स्वकत्रयैकरूपाप्तिविरजाश्चित्तगोचराः ॥ [328] ॥
अत्मीयाधस्त्रयैकोर्ध्वनिर्मलानां तु रूपजाः ।
आरूप्याप्तास्त्रिधात्वाप्तत्रिकनिर्मलगोचराः ॥ [329] ॥
सर्वे स्वाधिकविज्ञेयाः समनिर्याणदृक्क्षयाः ।
निक्लेशास्त्रिभवाप्तान्त्यत्रयनिर्मलगोचराः ॥ [330] ॥
कामाप्त(प्तं) पञ्चविषयो रूपाप्तं त्वष्टगोचरः ।
आरुप्याप्तं दशानां तु दशानामेव चामलम् ॥ [331] ॥
कामाप्तमूर्ध्वधर्मार्थे विज्ञाने स्वभुवस्त्रयः ।
रूपाप्ता भावनाहेयाः सर्वगाश्चानुशेरते ॥ [332] ॥
चत्वारः परिवृत्ते स्वे रूपाप्ताः खल्वपि त्रयः ।
आरूप्यावचराः सार्धं सर्वगैर्भावनाक्षयाः ॥ [333] ॥
तद्वदेव द्वितीये ऽपि पञ्चमे ऽपि तथैव च ।
सास्रवालम्बनाः स्वे च तृतीये ऽप्यनुशेरते ॥ [334] ॥
परिवृत्ते तु कामाप्ताः संस्कृतार्थावलम्बिनः ।
शेषं पूर्ववदाख्येयम् चतुर्थे ऽपि तृतीयवत् ॥ [335] ॥
परिवृत्ते तु कामाप्ताश्चत्वारो ऽन्यत्र पूर्ववत् ।
रूपाप्ते प्रथमे ऽधस्तात् त्रयः स्वे खल्वपि त्रयः ॥ [336] ॥
आरूप्याः सर्वगाः सार्धं भावनापथसंक्षयै[:]
परिवृत्ते त्रयो ऽधस्तात् चत्वारश्च स्वधातुतः ॥ [337] ॥
आरूप्याप्ताश्च चत्वारो णि(नि)काया अनुशेरते ।
तद्वदेव द्वितीये ऽपि पञ्चमे ऽपि तथैव च ॥ [338] ॥
सास्रवालम्बनाः स्वे च तृतीये ऽप्यनु[शेर]ते ।
परिवृते तु रूपाप्ताः संस्कृतार्थावलम्बिनः ॥ [339] ॥
अन्यत्तु पूर्ववज्ज्ञेयं चतुर्थे ऽपि तृतीयवत् ।
तृतीयवत्परावृत्ते आरूप्याद्ये निबोधये[त्] ॥ [340] ॥
स्वे त्रयः कामधात्वाप्ता रूपाप्ताश्च त्रयस्त्रयः ।
रूपाप्तवत्परावृत्ते द्वीतीये पञ्चमे तथा ॥ [341] ॥
तृतीये खल्वपि स्वे च सास्रवार्थावलम्बिनः ।
परावृत्ते स्वधात्वाप्ताः संस्कृतार्थावलम्बिनः ॥ [342] ॥
अन्यत्त्वाद्यवदाख्येयं चतुर्थे ऽपि तृतीयवत् ।
आद्यवत्तु परावृत्ते विज्ञाने निर्दिशेद् बुधः ॥ [343] ॥
भावनापथहातव्यो निकायः सर्वगैः सह ।
अनुशेते द्विधात्वाप्तो व्यारूप्याश्चक्षुरिन्द्रिये ॥ [344] ॥
निकायाः कामरूपाप्ताश्चक्षुरिन्द्रियगोचरे ।
दुःखहेतुदृगभ्यासप्रहातव्यास्त्रयस्त्रयः ॥ [345] ॥
आरूप्या भावनाहेयाः सर्वगाश्चानुशेरते ।
परिवृत्ते तु चत्वारः समदृक्क्षयवर्जिताः ॥ [346] ॥
दुःखेन्द्रिये तु कामाप्तः स्वैरेव सह सर्वगैः ।
तद्गोचरे तु विज्ञाने निकाया अनुशेरते ॥ [347] ॥
कामापन्नास्त्रयो रूपा[:] सर्वगाभ्याससंक्षयाः ।

परवृत्ते तु चत्वारः कामाप्ता अनुशेरते ॥ [348] ॥
त्रयो रूपभवादन्त्याद्भावनाहेयसर्वगाः ।
सकला द्विष्परावृत्तेश्चत्वारश्चानुशेरते ॥ [349] ॥
सुखेन्द्रिये तदालम्बे चित्ते तद्गोचरे ऽपि च ।
कामाद्याप्ताः यथायोगं सर्वगाश्चानुशेरते ॥ [350] ॥
त्रिधातुसंगृहीतास्तु सकला मनैन्द्रिये ।
तदालम्बिनि विज्ञाने सर्वसंस्कृतगोचराः ॥ [351] ॥
संस्कृतालम्बना एव परिवृत्ते ऽनुशेरते ।
विशेषो द्विःपरावृत्तौ विद्यते ऽत्र न कश्चन ॥ [352] ॥
दुःखं दर्शनहेयादेश्चित्ताच्चित्तानि कामिनः ।
भवत्यनन्तरं षड् वा तस्योदर्ध्वं पञ्च पञ्च वा ॥ [353] ॥
रूपधातूपपन्नस्य चित्तानि तु विनिर्दिशेत् ।
एकं वा पञ्च वा षड् वा सप्त वा यदि वा दश ॥ [354] ॥
आरूप्यधातुजातस्य चित्तानीमानि लक्षयेत् ।
स्वधातुकानि पञ्चैव च्युतिकाले दशान्यतः ॥ [355] ॥
साचिव्यादनुशायित्वाच्चित्तं सानुशयं मतम् ।
द्विधा वा क्लिष्टमक्लिष्टमेकधैवापदिश्यते ॥ [356] ॥
मोहात्सत्कायदृक्तस्या अन्तग्राहेक्षणं ततः ।
काङ्क्षामिथ्येक्षणं तस्याः शीलामर्शस्ततो दृशः ॥ [357] ॥
रागः सु(स्व)दृशि मानश्व द्वेषो ऽन्यत्र प्रतायते ।
ज्ञेयः प्रवृत्तिबाहुल्यादेवमेषामनुक्रमः ॥ [358] ॥
सदसन्मित्रयोगात्तु तद्वृत्त्यनियमो मतः ।
क्लेश उत्पद्यते कश्चित्संपूर्णैः कारणैस्त्रिभिः ॥ [359] ॥
अभिधर्मदीपे विभाषाप्रभायां वृत्तौ पञ्चमस्याध्यायस्य द्वितीयः पादः ॥
पञ्चमाध्याये तृतीयपादः ।
व्यविद्याः सकलाः क्लेशाः कामे कामास्रवो मतः ।
स्त्यानौद्धत्ये च हित्वोर्ध्वं समानत्वाद्भवास्त्रवः ॥ [360] ॥
अविद्या ख्यस्तु मूलत्वादविद्या सार्वधातुकी ।
तथौघयोगा दृग्वर्ज्ज तत्पृथक्त्वन्तु पाटवात् ॥ [361] ॥
साविद्या द्वे उपादाने यथाक्तो(क्तौ) द्वे तु दृङ्मये ।
चतस्रो ऽप्येकमन्त्यैकं कुमार्गादिसमाश्रयात् ॥ [362] ॥
शेषास्त्रैधातुकास्त्वन्त्ये सात्मभावप्रवृत्तितः ।
संयोजनादिभिः शब्दैर्दर्शिताः पञ्चधा पुनः ॥ [363] ॥
नव संयोजनान्यस्मिन्नीर्ष्यामात्सर्यमेव च ।
द्रव्यामर्षणसामान्याद् दृशः संयोजनद्वयम् ॥ [364] ॥
शेषान्य(ण्य)नुशयाः पञ्च पञ्चधा पञ्चधा पुनः ।
जगादावरभागीयमूर्ध्वभागीयमेव च ॥ [365] ॥
आद्यन्त्ये द्वे दृशौ कांक्षा(काङ्क्षा)कामच्छन्दो द्विरेव यः ।
द्वाभ्यां कामानतिक्रान्तिः पुनराण(न)यनं त्रिभिः ॥ [366] ॥
द्व्येकदृग्घेयकार्योक्तेर्दृष्टिहेयमुखग्रहात् ।

सर्वदृग्घेयभाक्त्वे ऽपि त्रयमेतदुदाहृतम् ॥ [367] ॥
सर्वानर्थनिदानत्वान्मार्गप्रत्यर्थिभावतः ।
तथ्योहाविधुरत्वाच्च त्रिसंयोजनदेशना ॥ [368] ॥
द्वौ रूपारूपजौ रागौ मानमोहोद्धवास्त्रयः ।
त्रिवेदनानुशायित्वाद् दृढत्वाद्बन्धनत्रयम् ॥ [369] ॥
द्विपक्षग्रन्थनाद् ग्रन्थाश्चत्वारः समुदाहृताः ।
अभिध्याख्यास्तथा द्वेषः परामर्शद्वयं तथा ॥ [370] ॥
उपक्लेशास्तु विज्ञेयाः संरम्भाद्या यथोदिताः ।
सर्वे वा चैतसाः क्लिष्टाः संस्कारस्कन्धसंज्ञिताः ॥ [371] ॥
मूलक्लेशमलास्त्वन्ये षडुपक्लेशसंज्ञिताः ॥
शाठ्योपनाहप्रदाशमायामदविहेठनाः ॥ [372] ॥
म्रर्क्ष्येर्ष्याह्र्यनपत्राप्यस्त्यानमिद्धोद्धवक्रुधः ।
मात्सर्य कुकृतत्वं च दशधा पर्यवस्थितिः ॥ [373] ॥
एभ्यो ऽनुनननिष्यन्दा आह्रीक्यौद्धततादयः ।
म्रक्षानपत्रपास्त्यानमिद्धाद्य मोहसंभवाः ॥ [374] ॥
कौकृत्यं विचिकित्सोत्थं क्रोधाद्या द्वेषसम्भवाः ।
प्र[मा]दस्तम्भमार्द्व (?)क्ष्य मायाशाठ्यविजृम्भिकाः ॥ [375] ॥
कायदुष्ठूलताद्याश्च ज्ञेया व्यामिश्रसम्भवाः ॥
प्रदाशो दृक्परामर्शनिष्यन्दः शठता दृशः ॥ [376] ॥
सौमनस्येन रागस्य संप्रयोगः सुखेन च ।
द्वेषस्य दौर्मण(न)स्येन दुःखेन च निगद्यते ॥ [377] ॥
सर्वैर्मोहस्य वित्तिभ्यां चैतसीभ्यामसद्दृशः ।
काङ्क्षा च दौर्मण(न)स्येन शेषाणां सुमनस्तया ॥ [378] ॥
उपेक्षया तु सर्वेषाम् कामाप्तानामयं विधिः ।
इतो ऽन्यधातुजानां तु प्रतिभूम्यन्तरं स्वकैः ॥ [379] ॥
ईर्ष्याया दौर्मण(न)स्येण(न) कौकृत्यस्य तथा क्रुधः ।
प्रदष्टेश्चोपनद्धेश्च विहिंसायास्तथैव च ॥ [380] ॥
मात्सर्य दौर्मण(न)स्येन सौमनस्येन कस्यचित् ।
द्वाभ्यां माया तथा शाठ्यं म्रक्षो मिद्धं तथैव च ॥ [381] ॥
मदस्तु सुमन[:]स्कन्धसुखाभ्यां संप्रयुज्यते ।
आह्रीक्यमनपत्राप्य(प्यं) स्त्यानौद्धत्ये च पञ्चभिः ॥ [382] ॥
आह्रीक्यमनपत्राप्यं स्त्यानमिद्धं तथोद्धवः ॥ [383] ॥
..........[अभिधर्मदीपे विभाषाप्रभायां वृत्तौ पञ्चमाध्यायस्य तृतीयः पादः ॥
] ..........[पञ्चमोध्यायः समाप्तः ॥]
...
[fओर् 384-597 सेए अल्तेर्नतिवे ग्रेतिल् वेर्सिओन्]

मूल पाठ: Abhidharmadīpa 1-383 · Edition: P.S. Jaini: Abhidharmadīpa with Vibhāṣāprabhāvṛtti, Patna 1959 (Tibetan Sanskrit Works Series, 4). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc