भाषा

ENहिગુ
ग्रंथ पाठ

युक्तिषष्टिककारिका · भाग 11

अस्तिनास्तिव्यतिक्रान्ता बुद्धिर् येषां निराश्रया ।
गम्भीरस् तैर् निरालम्बः प्रत्ययार्थो विभाव्यते ॥ नग्य्स्क्_01
...
संसारं चैव निर्वाणं मन्यन्ते ऽतत्त्वदर्शिनः ।
न संसारं न निर्वाणं मन्यन्ते तत्त्वदर्शिनः ॥ नग्य्स्क्_05
निर्वाणं च भवश् चैव द्वयम् एतन् न विद्यते ।
परज्ञानं भवस्यैव निर्वाणम् इति कथ्यते ॥ नग्य्स्क्_06
...
तत् तत् प्राप्य यद् उत्पन्नं नोत्पन्नं तत् स्वभावतः ।
स्वभावेन यन् नोत्पन्नम् उत्पन्नं नाम तत् कथम् ॥ नग्य्स्क्_19
...
सर्वम् अस्तीति वक्तव्यम् आदौ तत्त्वगवेषिणः ।
पश्चाद् अवगतार्थस्य निःसङ्गस्य विविक्तता ॥ नग्य्स्क्_30
...
ममेत्य् अहम् इति प्रोक्तं यथा कार्यवशाज् जिनैः ।
तथा कार्यवशात् प्रोक्ताः स्कन्धायतनधातवः ॥ नग्य्स्क्_33
महाभूतादि विज्ञाने प्रोक्तं समवरुध्यते ।
तज्ज्ञाने वगमं याति ननु मिथ्या विकल्पितम् ॥ नग्य्स्क्_34
...
हेतुतः संभवो यस्य स्थितिर् न प्रत्ययैर् विना ।
विगमः प्रत्ययाभावात् सो ऽस्तीत्य् अवगतः कथम् ॥ नग्य्स्क्_39
...
रागद्वेषोद्भवस् तीव्रदुष्टदृष्टिपरिग्रहः ।
विवादास् तत्समुत्थाश् च भावाभ्युपगमे सति ॥ नग्य्स्क्_46
स हेतुः सर्वदृष्टीनां क्लेशोत्पत्तिर् न तं विना ।
तस्मात् तस्मिन् परिज्ञाते दृष्टिक्लेशपरिक्षयः ॥ नग्य्स्क्_47
परिज्ञा तस्य केनेति प्रतीत्योत्पाददर्शनात् ।
प्रतीत्य जातं चाजातम् आह तत्त्वविदां वरः ॥ नग्य्स्क्_48
...
बालाः सज्जन्ति रूपेषु वैराग्यं यान्ति मध्यमाः ।
स्वभावज्ञा विमुच्यन्ते रूपस्योत्तमबुद्धयः ॥ नग्य्स्क्_55
%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%
चोप्य्रिघ्त् (च्) 2003 ब्य् छ्र्. लिन्द्त्नेर् - देन्मर्क्
%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%%

मूल पाठ: Yuktiṣaṣṭikakārikā-fragments · Data entry Richard Mahoney · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc