ग्रंथ पाठ
योगयात्रा · अध्याय 26
26.1
नृहयातपवारणेभशस्त्रध्वजदेहान् अवमूत्रयन् जयाय।
सभयो विचरन् विना निमित्तं न शुभश् चाभिमुखो भषन् लिखन् गाम्॥
26.2
उच्चैर् भषणं समागतानां दीनं वाभिरुतं रविं निरीक्ष्य।
संघरदनजृम्भणे च नेष्टे प्रस्थानेषु तथा विधूननं च॥
26.3
पूर्णास्यत्वं घ्रायकत्वं च यातुः प्रादक्षिण्यं मैथुनं चानुलोमम्।
यात्राकाले सारमेयस्य शस्तं पद्भ्यां मूर्धनः स्वस्य कण्डूयनं च॥ए3
मूल पाठ: Yogayātrā · Edition: of Pingree, David (ed.): Brhadyatra, Government of Tamil Nadu, 1972. · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0