भाषा

ENहिગુ
ग्रंथ पाठ

योगयात्रा · अध्याय 24

24.1

पृष्ठतः पूजिता शान्ता शिवा मांसास्थिवर्जिता।
क्रूरशब्दातिदीप्ता च क्रूरकर्मणि पूजिता॥

24.2

पूर्वोदीच्योः शिवा शस्ता शान्ता सर्वत्र पूजिता।
धूमिताभिमुखी हन्ति स्वरदीप्ता दिगीश्वरान्॥

24.3

[राजा कुमारो नेता च दूतः श्रेष्ठी चरो द्विजः।
गजाध्यक्षश् च पूर्वाद्याः क्षत्रियाद्याश् चतुर्दिशम्॥]

24.4

सर्वदिक्ष्व् अशुभा दीप्ता विशेषेणाह्न्यशोभना।
पुरे सैन्ये ऽपसव्या च कष्टा पूर्वोन्मुखा शिवा॥

24.5

याहीत्य् अग्निभयं शास्ति टाटेति मृतिचोदिता\fओओत्नोते{ब्ष् 89.6ब् मृतवेदिका}।
धिग्धिक् दुष्कृतम् आचक्षे सज्वाला देशनाशिनी॥

24.6

नैव दारुणताम् एके स्वज्वालायाः\fओओत्नोते{ब्ष् 89.7ब् सज्वालायाः} प्रचक्षते।
अर्काद्यनलवत् तस्या वक्त्राज् ज्वाला स्वभावतः\fओओत्नोते{ब्ष् 89.7द् वक्त्रं लालास्वभावतः}॥

24.7

अन्यप्रतिरुता याम्या सा बन्दहवधशंसिनी।\fओओत्नोते{ब्ष् 89.8ब् सोद्बन्धमृतशंसिनी}
वारुण्याभिरुता\fओओत्नोते{ब्ष् 89.8च् अनुरुता} सैव संसते सलिले मृतिम्॥

24.8

अक्षोभ्यश्रवणं चेष्टं धनप्राप्तिः प्रियागमः।
क्षोभात् प्रधानभेदश् च वाहनानाम् असम्पदः\fओओत्नोते{ब्ष् 89.9द् च सम्पदः}।

24.9

फलम् आ सप्तमाद् एतद् अग्राह्यं परतो रुते।
याम्यायां तद्विपर्यस्तं फलं षट्पञ्चमाद् रुते\fओओत्नोते{ब्ष् 89.10द् ऋते}॥

24.10

या रोमांचं मनुष्याणां शकृन्मूत्रं च वाजिनाम्।
रावात् त्रासं च जनयेत् सा शिवा न शिवप्रदा॥

24.11

मौनं गता प्रतिरुते नरद्विरदवाजिभिः।
या शिवा सा शिवं सैन्ये पुरे वा संप्रयच्छति॥ए11

मूल पाठ: Yogayātrā · Edition: of Pingree, David (ed.): Brhadyatra, Government of Tamil Nadu, 1972. · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc