भाषा

ENहिગુ
ग्रंथ पाठ

याज्ञवल्क्यस्मृति · अध्याय 1

1.1

योगीश्वरं याज्ञवल्क्यं संपूज्य मुनयो ऽब्रुवन् ।
वर्णाश्रमेतराणां नो ब्रूहि धर्मान् अशेषतः ॥

1.2

मिथिलास्थः स योगीन्द्रः क्षणं ध्यात्वाब्रवीन् मुनीन् ।
यस्मिन् देशे मृगः कृष्णस् तस्मिन् धर्मान् निबोधत ॥

1.3

पुराणन्यायमीमांसा धर्मशास्त्राङ्गमिश्रिताः ।
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥

1.4

मन्वत्रिविष्णुहारीत याज्ञवल्क्योशनो ऽङ्गिराः ।
यमापस्तम्बसंवर्ताः कात्यायनबृहस्पती ॥

1.5

पराशरव्यासशङ्ख लिखिता दक्षगौतमौ ।
शातातपो वसिष्ठश् च धर्मशास्त्रप्रयोजकाः ॥

1.6

देशे काल उपायेन द्रव्यं श्रद्धासमन्वितम् ।
पात्रे प्रदीयते यत् तत् सकलं धर्मलक्षणम् ॥

1.7

श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियम् आत्मनः ।
सम्यक्संकल्पजः कामो धर्ममूलम् इदं स्मृतम् ॥

1.8

इज्याचारदमाहिंसा दानस्वाध्यायकर्मणाम् ।
अयं तु परमो धर्मो यद् योगेनात्मदर्शनम् ॥

1.9

चत्वारो वेदधर्मज्ञाः पर्षत् त्रैविद्यम् एव वा ।
सा ब्रूते यं स धर्मः स्याद् एको वाध्यात्मवित्तमः ॥

1.10

ब्रह्मक्षत्रियविट्शूद्रा वर्णास् त्व् आद्यास् त्रयो द्विजाः ।
निषेकाद्याः श्मशानान्तास् तेषां वै मन्त्रतः क्रियाः ॥

1.11

गर्भाधानम् ऋतौ पुंसः सवनं स्पन्दनात् पुरा ।
षष्ठे ऽष्टमे वा सीमन्तो मास्य् एते जातकर्म च ॥

1.12

अहन्य् एकादशे नाम चतुर्थे मासि निष्क्रमः ।
षष्ठे ऽन्नप्राशनं मासि चूडा कार्या यथाकुलम् ॥

1.13

एवम् एनः शमं याति बीजगर्भसमुद्भवम् ।
तूष्णीम् एताः क्रियाः स्त्रीणां विवाहस् तु समन्त्रकः ॥

1.14

गर्भाष्टमे ऽष्टमे वाब्दे ब्राह्मणस्योपनायनम् ।
राज्ञाम् एकादशे सैके विशाम् एके यथाकुलम् ॥

1.15

उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् ।
वेदम् अध्यापयेद् एनं शौचाचारांश् च शिक्षयेत् ॥

1.16

दिवासंध्यासु कर्णस्थ ब्रह्मसूत्रोदङ्मुखः ।
कुर्यान् मूत्रपुरीषे च रात्रौ चेद् दक्षिणामुखः ॥

1.17

गृहीतशिश्नश् चोत्थाय मृद्भिर् अभ्युद्धृतैर् जलैः ।
गन्धलेपक्षयकरं शौचं कुर्याद् अतन्द्रितः ॥

1.18

अन्तर्जानु शुचौ देश उपविष्ट उदङ्मुखः ।
प्राग् वा ब्राह्मेण तीर्थेन द्विजो नित्यम् उपस्पृशेत् ॥

1.19

कनिष्ठादेशिन्यङ्गुष्ठ मूलान्य् अग्रं करस्य च ।
प्रजापतिपितृब्रह्म देवतीर्थान्य् अनुक्रमात् ॥

1.20

त्रिः प्राश्यापो द्विर् उन्मृज्य खान्य् अद्भिः समुपस्पृशेत् ।
अद्भिस् तु प्रकृतिस्थाभिर् हीनाभिः फेनबुद्बुदैः ॥

1.21

हृत्कण्ठतालुगाभिस् तु यथासंख्यं द्विजातयः ।
शुध्येरन् स्त्री च शूद्रश् च सकृत् स्पृष्टाभिर् अन्ततः ॥

1.22

स्नानम् अब्दैवतैर् मन्त्रैर् मार्जनं प्राणसंयमः ।
सूर्यस्य चाप्य् उपस्थानं गायत्र्याः प्रत्यहं जपः ॥

1.23

गायत्रीं शिरसा सार्धं जपेद् व्याहृतिपूर्विकाम् ।
प्रतिप्रणवसंयुक्तां त्रिर् अयं प्राणसंयमः ॥

1.24

प्राणान् आयम्य संप्रोक्ष्य तृचेनाब्दैवतेन तु ।
जपन्न् आसीत सावित्रीं प्रत्यग् आतारकोदयात् ॥

1.25

संध्यां प्राक् प्रातर् एवं हि तिष्ठेद् आसूर्यदर्शनात् ।
अग्निकार्यं ततः कुर्यात् संध्ययोर् उभयोर् अपि ॥

1.26

ततो ऽभिवादयेद् वृद्धान् असाव् अहम् इति ब्रुवन् ।
गुरुं चैवाप्य् उपासीत स्वाध्यायार्थं समाहितः ॥

1.27

आहूतश् चाप्य् अधीयीत लब्धं चास्मै निवेदयेत् ।
हितं तस्याचरेन् नित्यं मनोवाक्कायकर्मभिः ॥

1.28

कृतज्ञाद्रोहिमेधावि शुचिकल्यानसूयकाः ।
अध्याप्या धर्मतः साधु शक्ताप्तज्ञानवित्तदाः ॥

1.29

दण्डाजिनोपवीतानि मेखलां चैव धारयेत् ।
ब्राह्मणेषु चरेद् भैक्षम् अनिन्द्येष्व् आत्मवृत्तये ॥

1.30

आदिमध्यावसानेषु भवच्छब्दोपलक्षिता ।
ब्राह्मणक्षत्रियविशां भैक्षचर्या यथाक्रमम् ॥

1.31

कृताग्निकार्यो भुञ्जीत वाग्यतो गुर्वनुज्ञया ।
आपोशानक्रियापूर्वं सत्कृत्यान्नम् अकुत्सयन् ॥

1.32

ब्रह्मचर्ये स्थितो नैकम् अन्नम् अद्याद् अनापदि ।
ब्राह्मणः कामम् अश्नीयाच् छ्राद्धे व्रतम् अपीडयन् ॥

1.33

मधुमांसाञ्जनोच्छिष्ट शुक्तस्त्रीप्राणिहिंसनम् ।
भास्करालोकनाश्लील परिवादादि वर्जयेत् ॥

1.34

स गुरुर् यः क्रियाः कृत्वा वेदम् अस्मै प्रयच्छति ।
उपनीय ददद् वेदम् आचार्यः स उदाहृतः ॥

1.35

एकदेशम् उपाध्याय ऋत्विग् यज्ञकृद् उच्यते ।
एते मान्या यथापूर्वम् एभ्यो माता गरीयसी ॥

1.36

प्रतिवेदं ब्रह्मचर्यं द्वादशाब्दानि पञ्च वा ।
ग्रहणान्तिकम् इत्य् एके केशान्तश् चैव षोडशे ॥

1.37

आषोडशाद् आद्वाविंशाच् चतुर्विंशाच् च वत्सरात् ।
ब्रह्मक्षत्रविशां कालौपनायनिकः परः ॥

1.38

अत ऊर्ध्वं पतन्त्य् एते सर्वधर्मबहिष्कृताः ।
सावित्रीपतिता व्रात्या व्रात्यस्तोमाद् ऋते क्रतोः ॥

1.39

मातुर् यद् अग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात् ।
ब्राह्मणक्षत्रियविशस् तस्माद् एते द्विजाः स्मृताः ॥

1.40

यज्ञानां तपसां चैव शुभानां चैव कर्मणाम् ।
वेद एव द्विजातीनां निःश्रेयसकरः परः ॥

1.41

मधुना पयसा चैव स देवांस् तर्पयेद् द्विजः ।
पितॄन् मधुघृताभ्यां च ऋचो ऽधीते च यो ऽन्वहम् ॥

1.42

यजूंषि शक्तितो ऽधीते यो ऽन्वहं स घृतामृतैः ।
प्रीणाति देवान् आज्येन मधुना च पितॄंस् तथा ॥

1.43

स तु सोमघृतैर् देवांस् तर्पयेद् यो ऽन्वहं पठेत् ।
सामानि तृप्तिं कुर्याच् च पितॄणां मधुसर्पिषा ॥

1.44

मेदसा तर्पयेद् देवान् अथर्वाङ्गिरसः पठन् ।
पितॄंश् च मधुसर्पिर्भ्याम् अन्वहं शक्तितो द्विजः ॥

1.45

वाकोवाक्यं पुराणं च नाराशंसीश् च गाथिकाः ।
इतिहासांस् तथा विद्याः शक्त्याधीते हि यो ऽन्वहम् ॥

1.46

मांसक्षीरौदनमधु तर्पणं स दिवौकसाम् ।
करोति तृप्तिं कुर्याच् च पितॄणां मधुसर्पिषा ॥

1.47

ते तृप्तास् तर्पयन्त्य् एनं सर्वकामफलैः शुभैः ।
यं यं क्रतुम् अधीते च तस्य तस्याप्नुयात् फलम् ॥

1.48

त्रिर् वित्तपूर्णपृथिवी दानस्य फलम् अश्नुते ।
तपसश् च परस्येह नित्यं स्वाध्यायवान् द्विजः ॥

1.49

नैष्ठिको ब्रह्मचारी तु वसेद् आचार्यसंनिधौ ।
तदभावे ऽस्य तनये पत्न्यां वैश्वानरे ऽपि वा ॥

1.50

अनेन विधिना देहं सादयन् विजितेन्द्रियः ।
ब्रह्मलोकम् अवाप्नोति न चेहाजायते पुनः ॥

1.51

गुरवे तु वरं दत्त्वा स्नायाद् वा तदनुज्ञया ।
वेदं व्रतानि वा पारं नीत्वा ह्य् उभयम् एव वा ॥

1.52

अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियम् उद्वहेत् ।
अनन्यपूर्विकां कान्ताम् असपिण्डां यवीयसीम् ॥

1.53

अरोगिणीं भ्रातृमतीम् असमानार्षगोत्रजान् ।
पञ्चमात् सप्तमाद् ऊर्ध्वं मातृतः पितृतस् तथा ॥

1.54

दशपूरुषविख्याताच् छ्रोत्रियाणां महाकुलात् ।
स्फीताद् अपि न संचारि रोगदोषसमन्वितात् ॥

1.55

एतैर् एव गुणैर् युक्तः सवर्णः श्रोत्रियो वरः ।
यत्नात् परीक्षितः पुंस्त्वे युवा धीमान् जनप्रियः ॥

1.56

यद् उच्यते द्विजातीनां शूद्राद् दारोपसंग्रहः ।
नैतन् मम मतं यस्मात् तत्रायं जायते स्वयम् ॥

1.57

तिस्रो वर्णानुपूर्व्येण द्वे तथैका यथाक्रमम् ।
ब्राह्मणक्षत्रियविशां भार्या स्वा शूद्रजन्मनः ॥

1.58

ब्राह्मो विवाह आहूय दीयते शक्त्यलंकृता ।
तज्जः पुनात्य् उभयतः पुरुषान् एकविंशतिम् ॥

1.59

यज्ञस्थ ऋत्विजे दैव आदायार्षस् तु गोद्वयम् ।
चतुर्दश प्रथमजः पुनात्य् उत्तरजश् च षट् ॥

1.60

इत्य् उक्त्वा चरतां धर्मं सह या दीयते ऽर्थिने ।
स कायः पावयेत् तज्जः षट् षड्वंश्यान् सहात्मना ॥

1.61

आसुरो द्रविणादानाद् गान्धर्वः समयान् मिथः ।
राक्षसो युद्धहरणात् पैशाचः कन्यकाछलात् ॥

1.62

पाणिर् ग्राह्यः सवर्णासु गृह्णीयात् क्षत्रिया शरम् ।
वैश्या प्रतोदम् आदद्याद् वेदने त्व् अग्रजन्मनः ॥

1.63

पिता पितामहो भ्राता सकुल्यो जननी तथा ।
कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः ॥

1.64

अप्रयच्छन् समाप्नोति भ्रूणहत्याम् ऋताव् ऋतौ ।
गम्यं त्व् अभावे दातॄणां कन्या कुर्यात् स्वयंवरम् ॥

1.65

सकृत् प्रदीयते कन्या हरंस् तां चोरदण्डभाक् ।
दत्ताम् अपि हरेत् पूर्वाच् छ्रेयांश् चेद् वर आव्रजेत् ॥

1.66

अनाख्याय ददद् दोषं दण्ड्य उत्तमसाहसम् ।
अदुष्टां तु त्यजन् दण्ड्यो दूषयंस् तु मृषा शतम् ॥

1.67

अक्षता च क्षता चैव पुनर्भूः संस्कृता पुनः ।
स्वैरिणी या पतिं हित्वा सवर्णं कामतः श्रयेत् ॥

1.68

अपुत्रां गुर्वनुज्ञातो देवरः पुत्रकाम्यया ।
सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋताव् इयात् ॥

1.69

आगर्भसंभवाद् गच्छेत् पतितस् त्व् अन्यथा भवेत् ।
अनेन विधिना जातः क्षेत्रजो ऽस्य भवेत् सुतः ॥

1.70

हृताधिकारां मलिनां पिण्डमात्रोपजीविनाम् ।
परिभूताम् अधःशय्यां वासयेद् व्यभिचारिणीम् ॥

1.71

सोमः शौचं ददाव् आसां गन्धर्वश् च शुभां गिरम् ।
पावकः सर्वमेध्यत्वं मेध्या वै योषितो ह्य् अतः ॥

1.72

व्यभिचाराद् ऋतौ शुद्धिर् गर्भे त्यागो विधीयते ।
गर्भभर्तृवधादौ च तथा महति पातके ॥

1.73

सुरापी व्याधिता धूर्ता वन्ध्यार्थघ्न्य् अप्रियंवदा ।
स्त्रीप्रसूश् चाधिवेत्तव्या पुरुषद्वेषिणी तथा ॥

1.74

अधिविन्ना तु भर्तव्या महद् एनो ऽन्यथा भवेत् ।
यत्रानुकूल्यं दंपत्योस् त्रिवर्गस् तत्र वर्धते ॥

1.75

मृते जीवति वा पत्यौ या नान्यम् उपगच्छति ।
सेह कीर्तिम् अवाप्नोति मोदते चोमया सह ॥

1.76

आज्ञासंपादिनीं दक्षां वीरसूं प्रियवादिनीम् ।
त्यजन् दाप्यस् तृतीयांशम् अद्रव्यो भरणं स्त्रियाः ॥

1.77

स्त्रीभिर् भर्तृवचः कार्यम् एष धर्मः परः स्त्रियाः ।
आशुद्धेः संप्रतीक्ष्यो हि महापातकदूषितः ॥

1.78

लोकानन्त्यं दिवः प्राप्तिः पुत्रपौत्रप्रपौत्रकैः ।
यस्मात् तस्मात् स्त्रियः सेव्याः कर्तव्याश् च सुरक्षिताः ॥

1.79

षोडशर्तुनिशाः स्त्रीणां तस्मिन् युग्मासु संविशेत् ।
ब्रह्मचार्य् एव पर्वाण्य् आद्याश् चतस्रस् तु वर्जयेत् ॥

1.80

एवं गच्छन् स्त्रियं क्षामां मघां मूलं च वर्जयेत् ।
सुस्थ इन्दौ सकृत् पुत्रं लक्षण्यं जनयेत् पुमान् ॥

1.81

यथाकामी भवेद् वापि स्त्रीणां वरम् अनुस्मरन् ।
स्वदारनिरतश् चैव स्त्रियो रक्ष्या यतः स्मृताः ॥

1.82

भर्तृभ्रातृपितृज्ञाति श्वश्रूश्वशुरदेवरैः ।
बन्धुभिश् च स्त्रियः पूज्या भूषणाच्छादनाशनैः ॥

1.83

संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी ।
कुर्याच् छ्वशुरयोः पाद वन्दनं भर्तृतत्परा ॥

1.84

क्रीडां शरीरसंस्कारं समाजोत्सवदर्शनम् ।
हास्यं परगृहे यानं त्यजेत् प्रोषितभर्तृका ॥

1.85

रक्षेत् कन्यां पिता विन्नां पतिः पुत्रास् तु वार्धके ।
अभावे ज्ञातयस् तेषां न स्वातन्त्र्यं क्वचित् स्त्रियाः ॥

1.86

पितृमातृसुतभ्रातृ श्वश्रूश्वशुरमातुलैः ।
हीना न स्याद् विना भर्त्रा गर्हणीयान्यथा भवेत् ॥

1.87

पतिप्रियहिते युक्ता स्वाचारा विजितेन्द्रिया ।
सेह कीर्तिम् अवाप्नोति प्रेत्य चानुत्तमां गतिम् ॥

1.88

सत्याम् अन्यां सवर्णायां धर्मकार्यं न कारयेत् ।
सवर्णासु विधौ धर्म्ये ज्येष्ठया न विनेतरा ॥

1.89

दाहयित्वाग्निहोत्रेण स्त्रियं वृत्तवतीं पतिः ।
आहरेद् विधिवद् दारान् अग्नींश् चैवाविलम्बयन् ॥

1.90

सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः ।
अनिन्द्येषु विवाहेषु पुत्राः संतानवर्धनाः ॥

1.91

विप्रान् मूर्धावसिक्तो हि क्षत्रियायां विशः स्त्रियाम् ।
अम्बष्ठः शूद्र्यां निषादो जातः पारशवो ऽपि वा ॥

1.92

वैश्याशूद्र्योस् तु राजन्यान् माहिष्योग्रौ सुतौ स्मृतौ ।
वैश्यात् तु करणः शूद्र्यां विन्नास्व् एष विधिः स्मृतः ॥

1.93

ब्राह्मण्यां क्षत्रियात् सूतो वैश्याद् वैदेहकस् तथा ।
शूद्राज् जातस् तु चण्डालः सर्वधर्मबहिष्कृतः ॥

1.94

क्षत्रिया मागधं वैश्याच् छूद्रात् क्षत्तारम् एव च ।
शूद्राद् आयोगवं वैश्या जनयामास वै सुतम् ॥

1.95

माहिष्येण करण्यां तु रथकारः प्रजायते ।
असत्सन्तस् तु विज्ञेयाः प्रतिलोमानुलोमजाः ॥

1.96

जात्युत्कर्षो युगे ज्ञेयः सप्तमे पञ्चमे ऽपि वा ।
व्यत्यये कर्मणां साम्यं पूर्ववच् चाधरोत्तरम् ॥

1.97

कर्म स्मार्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही ।
दायकालाहृते वापि श्रौतं वैतानिकाग्निषु ॥

1.98

शरीरचिन्तां निर्वर्त्य कृतशौचविधिर् द्विजः ।
प्रातःसंध्याम् उपासीत दन्तधावनपूर्वकम् ॥

1.99

हुत्वाग्नीन् सूर्यदैवत्यान् जपेन् मन्त्रान् समाहितः ।
वेदार्थान् अधिगच्छेच् च शास्त्राणि विविधानि च ॥

1.100

उपेयाद् ईश्वरं चैव योगक्षेमार्थसिद्धये ।
स्नात्वा देवान् पितॄंश् चैव तर्पयेद् अर्चयेत् तथा ॥

1.101

वेदाथर्वपुराणानि सेतिहासानि शक्तितः ।
जपयज्ञप्रसिद्ध्यर्थं विद्यां चाध्यात्मिकीं जपेत् ॥

1.102

बलिकर्मस्वधाहोम स्वाध्यायातिथिसत्क्रियाः ।
भूतपित्रमरब्रह्म मनुष्याणां महामखाः ॥

1.103

देवेभ्यश् च हुताद् अन्नाच् छेषाद् भूतबलिं हरेत् ।
अन्नं भूमौ श्वचाण्डाल वायसेभ्यश् च निक्षिपेत् ॥

1.104

अन्नं पितृमनुष्येभ्यो देयम् अप्य् अन्वहं जलम् ।
स्वाध्यायं सततं कुर्यान् न पचेद् अन्नम् आत्मने ॥

1.105

बालस्ववासिनीवृद्ध गर्भिण्यातुरकन्यकाः ।
संभोज्यातिथिभृत्यांश् च दंपत्योः शेषभोजनम् ॥

1.106

आपोशनेनोपरिष्टाद् अधस्ताद् अश्नता तथा ।
अनग्नम् अमृतं चैव कार्यम् अन्नं द्विजन्मना ॥

1.107

अतिथित्वेन वर्णानां देयं शक्त्यानुपूर्वशः ।
अप्रणोद्यो ऽतिथिः सायम् अपि वाग्भूतृणोदकैः ॥

1.108

सत्कृत्य भिक्षवे भिक्षा दातव्या सव्रताय च ।
भोजयेच् चागतान् काले सखिसंबन्धिबान्धवान् ॥

1.109

महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत् ।
सत्क्रियान्वासनं स्वादु भोजनं सूनृतं वचः ॥

1.110

प्रतिसंवत्सरं त्व् अर्घ्याः स्नातकाचार्यपार्थिवाः ।
प्रियो विवाह्यश् च तथा यज्ञं प्रत्य् ऋत्विजः पुनः ॥

1.111

अध्वनीनो ऽतिथिर् ज्ञेयः श्रोत्रियो वेदपारगः ।
मान्याव् एतौ गृहस्थस्य ब्रह्मलोकम् अभीप्सतः ॥

1.112

परपाकरुचिर् न स्याद् अनिन्द्यामन्त्रणाद् ऋते ।
वाक्पाणिपादचापल्यं वर्जयेच् चातिभोजनम् ॥

1.113

अतिथिं श्रोत्रियं तृप्तम् आसीमन्तम् अनुव्रजेत् ।
अहःशेषं सहासीत शिष्टैर् इष्टैश् च बन्धुभिः ॥

1.114

उपास्य पश्चिमां संध्यां हुत्वाग्नींस् तान् उपास्य च ।
भृत्यैः परिवृतो भुक्त्वा नातितृप्त्याथ संविशेत् ॥

1.115

ब्राह्मे मुहूर्ते चोत्थाय चिन्तयेद् आत्मनो हितम् ।
धर्मार्थकामान् स्वे काले यथाशक्ति न हापयेत् ॥

1.116

विद्याकर्मवयोबन्धु वित्तैर् मान्या यथाक्रमम् ।
एतैः प्रभूतैः शूद्रो ऽपि वार्धके मानम् अर्हति ॥

1.117

वृद्धभारिनृपस्नात स्त्रीरोगिवरचक्रिणाम् ।
पन्था देयो नृपस् तेषां मान्यः स्नातश् च भूपतेः ॥

1.118

इज्याध्ययनदानानि वैश्यस्य क्षत्रियस्य च ।
प्रतिग्रहो ऽधिको विप्रे याजनाध्यापने तथा ॥

1.119

प्रधानं क्षत्रिये कर्म प्रजानां परिपालनम् ।
कुसीदकृषिवाणिज्य पाशुपाल्यं विशः स्मृतम् ॥

1.120

शूद्रस्य द्विजशुश्रूषा तयाजीवन् वणिग् भवेत् ।
शिल्पैर् वा विविधैर् जीवेद् द्विजातिहितम् आचरन् ॥

1.121

भार्यारतिः शुचिर् भृत्य भर्ता श्राद्धक्रियारतः ।
नमस्कारेण मन्त्रेण पञ्चयज्ञान् न हापयेत् ॥

1.122

अहिंसा सत्यम् अस्तेयं शौचम् इन्द्रियनिग्रहः ।
दानं दमो दया क्षान्तिः सर्वेषां धर्मसाधनम् ॥

1.123

वयोबुद्ध्यर्थवाग्वेष श्रुताभिजनकर्मणाम् ।
आचरेत् सदृशीं वृत्तिम् अजिह्माम् अशठां तथा ॥

1.124

त्रैवार्षिकाधिकान्नो यः स हि सोमं पिबेद् द्विजः ।
प्राक्सौमिकीः क्रियाः कुर्याद् यस्यान्नं वार्षिकं भवेत् ॥

1.125

प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा ।
कर्तव्याग्रयणेष्टिश् च चातुर्मास्यानि चैव हि ॥

1.126

एषाम् असंभवे कुर्याद् इष्टिं वैश्वानरीं द्विजः ।
हीनकल्पं न कुर्वीत सति द्रव्ये फलप्रदम् ॥

1.127

चाण्डालो जायते यज्ञ करणाच् छूद्रभिक्षितात् ।
यज्ञार्थं लब्धम् अददद् भासः काको ऽपि वा भवेत् ॥

1.128

कुशूलकुम्भीधान्यो वा त्र्याहिको ऽश्वस्तनो ऽपि वा ।
जीवेद् वापि शिलोञ्छेन श्रेयान् एषां परः परः ॥

1.129

न स्वाध्यायविरोध्यर्थम् ईहेत न यतस् ततः ।
न विरुद्धप्रसङ्गेन संतोषी च भवेत् सदा ॥

1.130

राजान्तेवासियाज्येभ्यः सीदन्न् इच्छेद् धनं क्षुधा ।
दम्भिहैतुकपाखण्डि बकवृत्तींश् च वर्जयेत् ॥

1.131

शुक्लाम्बरधरो नीच केशश्मश्रुनखः शुचिः ।
न भार्यादर्शने ऽश्नीयान् नैकवासा न संस्थितः ॥

1.132

न संशयं प्रपद्येत नाकस्माद् अप्रियं वदेत् ।
नाहितं नानृतं चैव न स्तेनः स्यान् न वार्धुषी ॥

1.133

दाक्षायणी ब्रह्मसूत्री वेणुमान् सकमण्डलुः ।
कुर्यात् प्रदक्षिणं देव मृद्गोविप्रवनस्पतीन् ॥

1.134

न तु मेहेन् नदीछाया वर्त्मगोष्ठाम्बुभस्मसु ।
न प्रत्यग्न्यर्कगोसोम संध्याम्बुस्त्रीद्विजन्मनः ॥

1.135

नेक्षेतार्कं न नग्नां स्त्रीं न च संसृष्टमैथुनाम् ।
न च मूत्रं पुरीषं वा नाशुची राहुतारकाः ॥

1.136

अयं मे वज्र इत्य् एवं सर्वं मन्त्रम् उदीरयेत् ।
वर्षत्य् अप्रावृतो गच्छेत् स्वपेत् प्रत्यक्शिरा न च ॥

1.137

ष्ठीवनासृक्शकृन्मूत्र रेतांस्य् अप्सु न निक्षिपेत् ।
पादौ प्रतापयेन् नाग्नौ न चैनम् अभिलङ्घयेत् ॥

1.138

जलं पिबेन् नाञ्जलिना न शयानं प्रबोधयेत् ।
नाक्षैः क्रीडेन् न धर्मघ्नैर् व्याधितैर् वा न संविशेत् ॥

1.139

विरुद्धं वर्जयेत् कर्म प्रेतधूमं नदीतरम् ।
केशभस्मतुषाङ्गार कपालेषु च संस्थितिम् ॥

1.140

नाचक्षीत धयन्तीं गां नाद्वारेण विशेत् क्वचित् ।
न राज्ञः प्रतिगृह्णीयाल् लुब्धस्योच्छास्त्रवर्तिनः ॥

1.141

प्रतिग्रहे सूनिचक्रि ध्वजिवेश्यानराधिपाः ।
दुष्टा दशगुणं पूर्वात् पूर्वाद् एते यथाक्रमम् ॥

1.142

अध्यायानाम् उपाकर्म श्रावण्यां श्रवणेन वा ।
हस्तेनौषधिभावे वा पञ्चम्यां श्रावणस्य तु ॥

1.143

पौषमासस्य रोहिण्याम् अष्टकायाम् अथापि वा ।
जलान्ते छन्दसां कुर्याद् उत्सर्गं विधिवद् बहिः ॥

1.144

त्र्यहं प्रेतेष्व् अनध्यायः शिष्यर्त्विग्गुरुबन्धुषु ।
उपाकर्मणि चोत्सर्गे स्वशाखाश्रोत्रिये तथा ॥

1.145

संध्यागर्जितनिर्घात भूकंपोल्कानिपातने ।
समाप्य वेदं द्युनिशम् आरण्यकम् अधीत्य च ॥

1.146

पञ्चदश्यां चतुर्दश्याम् अष्टम्यां राहुसूतके ।
ऋतुसंधिषु भुक्त्वा वा श्राद्धिकं प्रतिगृह्य च ॥

1.147

पशुमण्डूकनकुल श्वाहिमार्जारमूषकैः ।
कृते ऽनन्तरे त्व् अहोरात्रं शक्रपाते तथोच्छ्रये ॥

1.148

श्वक्रोष्टृगर्दभोलूक सामबाणार्तनिःस्वने ।
अमेध्यशवशूद्रान्त्य श्मशानपतितान्तिके ॥

1.149

देशे ऽशुचाव् आत्मनि च विद्युत्स्तनितसंप्लवे ।
भुक्त्वार्द्रपाणिर् अम्भो ऽन्तर् अर्धरात्रे ऽतिमारुते ॥

1.150

पांसुप्रवर्षे दिग्दाहे संध्यानीहारभीतिषु ।
धावतः पूतिगन्धे च शिष्टे च गृहम् आगते ॥

1.151

खरोष्ट्रयानहस्त्यश्व नौवृक्षेरिणरोहणे ।
सप्तत्रिंशदनध्यायान् एतांस् तात्कालिकान् विदुः ॥

1.152

देवर्त्विक्स्नातकाचार्य राज्ञां छायां परस्त्रियाः ।
नाक्रामेद् रक्तविण्मूत्र ष्ठीवनोद्वर्तनादि च ॥

1.153

विप्राहिक्षत्रियात्मानो नावज्ञेयाः कदाचन ।
आमृत्योः श्रियम् आकाङ्क्षेन् न कंचिन् मर्मणि स्पृशेत् ॥

1.154

दूराद् उच्छिष्टविण्मूत्र पादाम्भांसि समुत्सृजेत् ।
श्रुतिस्मृत्युदितं सम्यङ् नित्यम् आचारम् आचरेत् ॥

1.155

गोब्राह्मणानलान्नानि नोच्च्छिष्टो न पदा स्पृशेत् ।
न निन्दाताडने कुर्यात् पुत्रं शिष्यं च ताडयेत् ॥

1.156

कर्मणा मनसा वाचा यत्नाद् धर्मं समाचरेत् ।
अस्वर्ग्यं लोकविद्विष्टं धर्म्यम् अप्य् आचरेन् न तु ॥

1.157

मातृपित्रतिथिभ्रातृ जामिसंबन्धिमातुलैः ।
वृद्धबालातुराचार्य वैद्यसंश्रितबान्धवैः ॥

1.158

ऋत्विक्पुरोहितापत्य भार्यादाससनाभिभिः ।
विवादं वर्जयित्वा तु सर्वांल् लोकाञ् जयेद् गृही ॥

1.159

पञ्च पिण्डान् अनुद्धृत्य न स्नायात् परवारिषु ।
स्नायान् नदीदेवखात ह्रदप्रस्रवणेषु च ॥

1.160

परशय्यासनोद्यान गृहयानानि वर्जयेत् ।
अदत्तान्य् अग्निहीनस्य नान्नम् अद्याद् अनापदि ॥

1.161

कदर्यबद्धचौराणां क्लीबरङ्गावतारिणाम् ।
वैणाभिशस्तवार्धुष्य गणिकागणदीक्षिणाम् ॥

1.162

चिकित्सकातुरक्रुद्ध पुंश्चलीमत्तविद्विषाम् ।
क्रूरोग्रपतितव्रात्य दाम्भिकोच्छिष्टभोजिनाम् ॥

1.163

अवीरास्त्रीस्वर्णकार स्त्रीजितग्रामयाजिनाम् ।
शस्त्रविक्रयिकर्मार तन्तुवायश्ववृत्तिनाम् ॥

1.164

नृशंसराजरजक कृतघ्नवधजीविनाम् ।
चैलधावसुराजीव सहोपपतिवेश्मनाम् ॥

1.165

पिशुनानृतिनोश् चैव तथा चाक्रिकबन्दिनाम् ।
एषाम् अन्नं न भोक्तव्यं सोमविक्रयिणस् तथा ॥

1.166

शूद्रेषु दासगोपाल कुलमित्रार्धसीरिणः ।
भोज्यान्नाः नापितश् चैव यश् चात्मानं निवेदयेत् ॥

1.167

अनर्चितं वृथामांसं केशकीटसमन्वितम् ।
शुक्तं पर्युषितोच्छिष्टं श्वस्पृष्टं पतितेक्षितम् ॥

1.168

उदक्यास्पृष्टसंघुष्टं पर्यायान्नं च वर्जयेत् ।
गोघ्रातं शकुनोच्छिष्टं पदा स्पृष्टं च कामतः ॥

1.169

अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसंस्थितम् ।
अस्नेहा अपि गोधूम यवगोरसविक्रियाः ॥

1.170

संधिन्यनिर्दशावत्सा गोपयः परिवर्जयेत् ।
औष्ट्रम् ऐकशफं स्त्रैणम् आरण्यकम् अथाविकम् ॥

1.171

देवतार्थं हविः शिग्रुं लोहितान् व्रश्चनांस् तथा ।
अनुपाकृतमांसानि विड्जानि कवकानि च ॥

1.172

क्रव्यादपक्षिदात्यूह शुकप्रतुदटिट्टिभान् ।
सारसैकशफान् हंसान् सर्वांश् च ग्रामवासिनः ॥

1.173

कोयष्टिप्लवचक्राह्व बलाकाबकविष्किरान् ।
वृथाकृसरसम्याव पायसापूपशष्कुलीः ॥

1.174

कलविङ्कं सकाकोलं कुररं रज्जुदालकम् ।
जालपादान् खञ्जरीटान् अज्ञातांश् च मृगद्विजान् ॥

1.175

चाषांश् च रक्तपादांश् च सौनं वल्लूरम् एव च ।
मत्स्यांश् च कामतो जग्ध्वा सोपवासस् त्र्यहं वसेत् ॥

1.176

पलाण्डुं विड्वराहं च छत्राकं ग्रामकुक्कुटम् ।
लशुनं गृञ्जनं चैव जग्ध्वा चान्द्रायणं चरेत् ॥

1.177

भक्ष्याः पञ्चनखाः सेधागोधाकच्छपशल्लकाः ।
शशश् च मत्स्येष्व् अपि हि सिंहतुण्डकरोहिताः ॥

1.178

तथा पाठीनराजीव सशल्काश् च द्विजातिभिः ।
अतः शृणुध्वं मांसस्य विधिं भक्षणवर्जने ॥

1.179

प्राणात्यये तथा श्राद्धे प्रोक्षिते द्विजकाम्यया ।
देवान् पितॄन् समभ्यर्च्य खादन् मांसं न दोषभाक् ॥

1.180

वसेत् स नरके घोरे दिनानि पशुरोमभिः ।
सम्मितानि दुराचारो यो हन्त्य् अविधिना पशून् ॥

1.181

सर्वान् कामान् अवाप्नोति हयमेधफलं तथा ।
गृहे ऽपि निवसन् विप्रो मुनिर् मांसविवर्जनात् ॥

1.182

सौवर्णराजताब्जानाम् ऊर्ध्वपात्रग्रहाश्मनाम् ।
शाकरज्जुमूलफल वासोविदलचर्मणाम् ॥

1.183

पात्राणां चमसानां च वारिणा शुद्धिर् इष्यते ।
चरुस्रुक्स्रुवसस्नेह पात्राण्य् उष्णेन वारिणा ॥

1.184

स्फ्यशूर्पाजिनधान्यानां मुसलोलूखलानसाम् ।
प्रोक्षणं संहतानां च बहूनां धान्यवाससाम् ॥

1.185

तक्षणं दारुशृङ्गास्थ्नां गोवालैः फलसंभुवाम् ।
मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि ॥

1.186

सोषरोदकगोमूत्रैः शुध्यत्य् आविककौशिकम् ।
सश्रीफलैर् अंशुपट्टं सारिष्टैः कुतपं तथा ॥

1.187

सगौरसर्षपैः क्षौमं पुनःपाकान् महीमयम् ।
कारुहस्तः शुचिः पण्यं भैक्षं योषिन्मुखं तथा ॥

1.188

भूशुद्धिर् मार्जनाद् दाहात् कालाद् गोक्रमणात् तथा ।
सेकाद् उल्लेखनाल् लेपाद् गृहं मार्जनलेपनात् ॥

1.189

गोघ्राते ऽन्ने तथा केश मक्षिकाकीटदूषिते ।
सलिलं भस्म मृद् वापि प्रक्षेप्तव्यं विशुद्धये ॥

1.190

त्रपुसीसकताम्राणां क्षाराम्लोदकवारिभिः ।
भस्माद्भिः कांस्यलोहानां शुद्धिः प्लावो द्रवस्य च ॥

1.191

अमेध्याक्तस्य मृत्तोयैः शुद्धिर् गन्धादिकर्षणात् ।
वाक्शस्तम् अम्बुनिर्णिक्तम् अज्ञातं च सदा शुचि ॥

1.192

शुचि गोतृप्तिकृत् तोयं प्रकृतिस्थं महीगतम् ।
तथा मांसं श्वचण्डाल क्रव्यादादिनिपातितम् ॥

1.193

रश्मिर् अग्नी रजश्छाया गौर् अश्वो वसुधानिलः ।
विप्रुषो मक्षिकाः स्पर्शे वत्सः प्रस्नवने शुचिः ॥

1.194

अजाश्वयोर् मुखं मेध्यं न गोर् न नरजा मलाः ।
पन्थानश् च विशुध्यन्ति सोमसूर्यांशुमारुतैः ॥

1.195

मुखजा विप्रुषो मेध्यास् तथाचमनबिन्दवः ।
श्मश्रु चास्यगतं दन्त सक्तं त्यक्त्वा ततः शुचिः ॥

1.196

स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्योपसर्पणे ।
आचान्तः पुनर् आचामेद् वासो विपरिधाय च ॥

1.197

रथ्याकर्दमतोयानि स्पृष्टान्य् अन्त्यश्ववायसैः ।
मारुतेनैव शुध्यन्ति पक्वेष्टकचितानि च ॥

1.198

तपस् तप्त्वासृजद् ब्रह्मा ब्राह्मणान् वेदगुप्तये ।
तृप्त्यर्थं पितृदेवानां धर्मसंरक्षणाय च ॥

1.199

सर्वस्य प्रभवो विप्राः श्रुताध्ययनशीलिनः ।
तेभ्यः क्रियापराः श्रेष्ठास् तेभ्यो ऽप्य् अध्यात्मवित्तमाः ॥

1.200

न विद्यया केवलया तपसा वापि पात्रता ।
यत्र वृत्तम् इमे चोभे तद् धि पात्रं प्रकीर्तितम् ॥

1.201

गोभूतिलहिरण्यादि पात्रे दातव्यम् अर्चितम् ।
नापात्रे विदुषा किंचिद् आत्मनः श्रेय इच्छता ॥

1.202

विद्यातपोभ्यां हीनेन न तु ग्राह्यः प्रतिग्रहः ।
गृह्णन् प्रदातारम् अधो नयत्य् आत्मानम् एव च ॥

1.203

दातव्यं प्रत्यहं पात्रे निमित्तेषु विशेषतः ।
याचितेनापि दातव्यं श्रद्धापूतं स्वशक्तितः ॥

1.204

हेमशृङ्गी शफै रौप्यैः सुशीला वस्त्रसंयुता ।
सकांस्यपात्रा दातव्या क्षीरिणी गौः सदक्षिणा ॥

1.205

दातास्याः स्वर्गम् आप्नोति वत्सरान् रोमसम्मितान् ।
कपिला चेत् तारयति भूयश् चासप्तमं कुलम् ॥

1.206

सवत्सारोमतुल्यानि युगान्य् उभयतोमुखीम् ।
दातास्याः स्वर्गम् आप्नोति पूर्वेण विधिना ददत् ॥

1.207

यावद् वत्सस्य पादौ द्वौ मुखं योन्यां च दृश्यते ।
तावद् गौः पृथिवी ज्ञेया यावद् गर्भं न मुञ्चति ॥

1.208

यथाकथंचिद् दत्त्वा गां धेनुं वाधेनुम् एव वा ।
अरोगाम् अपरिक्लिष्टां दाता स्वर्गे महीयते ॥

1.209

श्रान्तसंवाहनं रोगि परिचर्या सुरार्चनम् ।
पादशौचं द्विजोच्छिष्ट मार्जनं गोप्रदानवत् ॥

1.210

भूदीपांश् चान्नवस्त्राम्भस् तिलसर्पिःप्रतिश्रयान् ।
नैवेशिकं स्वर्णधुर्यं दत्त्वा स्वर्गे महीयते ॥

1.211

गृहधान्याभयोपानच् छत्रमाल्यानुलेपनम् ।
यानं वृक्षं प्रियं शय्यां दत्त्वात्यन्तं सुखी भवेत् ॥

1.212

सर्वधर्ममयं ब्रह्म प्रदानेभ्यो ऽधिकं यतः ।
तद् ददत् समवाप्नोति ब्रह्मलोकम् अविच्युतम् ॥

1.213

प्रतिग्रहसमर्थो ऽपि नादत्ते यः प्रतिग्रहम् ।
ये लोका दानशीलानां स तान् आप्नोति पुष्कलान् ॥

1.214

कुशाः शाकं पयो मत्स्या गन्धाः पुष्पं दधि क्षितिः ।
मांसं शय्यासनं धानाः प्रत्याखेयं न वारि च ॥

1.215

अयाचिताहृतं ग्राह्यम् अपि दुष्कृतकर्मणः ।
अन्यत्र कुलटाषण्ढ पतितेभ्यस् तथा द्विषः ॥

1.216

देवातिथिअर्चनकृते गुरुभृत्यार्थम् एव वा ।
सर्वतः प्रतिगृह्णीयाद् आत्मवृत्त्यर्थम् एव च ॥

1.217

अमावास्याष्टका वृद्धिः कृष्णपक्षो ऽयनद्वयम् ।
द्रव्यं ब्राह्मणसंपत्तिर् विषुवत् सूर्यसंक्रमः ॥

1.218

व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः ।
श्राद्धं प्रति रुचिश् चैते श्राद्धकालाः प्रकीर्तिताः ॥

1.219

अग्र्यः सर्वेषु वेदेषु श्रोत्रियो ब्रह्मविद् युवा ।
वेदार्थविज् ज्येष्ठसामा त्रिमधुस् त्रिसुपर्णकः ॥

1.220

स्वस्रीयर्त्विज्जामातृ याज्यश्वशुरमातुलाः ।
त्रिणाचिकेतदौहित्र शिष्यसंबन्धिबान्धवाः ॥

1.221

कर्मनिष्ठास् तपोनिष्ठाः पञ्चाग्निर् ब्रह्मचारिणः ।
पितृमातृपराश् चैव ब्राह्मणाः श्राद्धसंपदः ॥

1.222

रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस् तथा ।
अवकीर्णी कुण्डगोलौ कुनखी श्यावदन्तकः ॥

1.223

भृतकाध्यापकः क्लीबः कन्यादूष्य् अभिशस्तकः ।
मित्रध्रुक् पिशुनः सोम विक्रयी परिविन्दकः ॥

1.224

मातापितृगुरुत्यागी कुण्डाशी वृषलात्मजः ।
परपूर्वापतिः स्तेनः कर्मदुष्टाश् च निन्दिताः ॥

1.225

निमन्त्रयेत पूर्वेद्युर् ब्राह्मणान् आत्मवान् शुचिः ।
तैश् चापि संयतैर् भाव्यं मनोवाक्कायकर्मभिः ॥

1.226

अपराह्णे समभ्यर्च्य स्वागतेनागतांस् तु तान् ।
पवित्रपाणिर् आचान्तान् आसनेषूपवेशयेत् ॥

1.227

युग्मान् दैवे यथाशक्ति पित्र्ये ऽयुग्मांस् तथैव च ।
परिस्तृते शुचौ देशे दक्षिणाप्रवणे तथा ॥

1.228

द्वौ दैवे प्राक् त्रयः पित्र्य उदग् एकैकम् एव वा ।
मातामहानाम् अप्य् एवं तन्त्रं वा वैश्वदेविकम् ॥

1.229

पाणिप्रक्षालनं दत्त्वा विष्टरार्थं कुशान् अपि ।
आवाहयेद् अनुज्ञातो विश्वे देवास इत्य् ऋचा ॥

1.230

यवैर् अन्ववकीर्याथ भाजने सपवित्रके ।
शं नो देव्या पयः क्षिप्त्वा यवो ऽसीति यवांस् तथा ॥

1.231

या दिव्या इति मन्त्रेण हस्तेष्व् अर्घ्यं विनिक्षिपेत् ।
दत्त्वा उदकं गन्धमाल्यं धूपदानं सदीपकम् ॥

1.232

तथाच्छादनदानं च करशौचार्थम् अम्बु च ।
अपसव्यं ततः कृत्वा पितॄणाम् अप्रदक्षिणम् ॥

1.233

द्विगुणांस् तु कुशान् दत्त्वा ह्य् उषन्तस् त्वेत्य् ऋचा पितॄन् ।
आवाह्य तदनुज्ञातो जपेद् आयन्तु नस् ततः ॥

1.234

अपहता इति तिलान् विकीर्य च समन्ततः ।
यवार्थास् तु तिलैः कार्याः कुर्याद् अर्घ्यादि पूर्ववत् ॥

1.235

दत्त्वा अर्घ्यं संस्रवांस् तेषां पात्रे कृत्वा विधानतः ।
पितृभ्यः स्थानम् असीति न्युब्जं पात्रं करोत्य् अधः ॥

1.236

अग्नौ करिष्यन्न् आदाय पृच्छत्य् अन्नं घृतप्लुतम् ।
कुरुष्वेत्य् अभ्यनुज्ञातो हुत्वाग्नौ पितृयज्ञवत् ॥

1.237

हुतशेषं प्रदद्यात् तु भाजनेषु समाहितः ।
यथालाभोपपन्नेषु रौप्येषु च विशेषतः ॥

1.238

दत्त्वान्नं पृथिवीपात्रम् इति पात्राभिमन्त्रणम् ।
कृत्वेदं विष्णुर् इत्य् अन्ने द्विजाङ्गुष्ठं निवेशयेत् ॥

1.239

सव्याहृतिकां गायत्रीं मधु वाता इति त्र्यृचम् ।
जप्त्वा यथासुखं वाच्यं भुञ्जीरंस् ते ऽपि वाग्यताः ॥

1.240

अन्नम् इष्तं हविष्यं च दद्याद् अक्रोधनो ऽत्वरः ।
आतृप्तेस् तु पवित्राणि जप्त्वा पूर्वजपं तथा ॥

1.241

अन्नम् आदाय तृप्ताः स्थ शेषं चैवानुमान्य च ।
तद् अन्नं विकिरेद् भूमौ दद्याच् चापः सकृत् सकृत् ॥

1.242

सर्वम् अन्नम् उपादाय सतिलं दक्षिणामुखः ।
उच्छिष्टसंनिधौ पिण्डान् दद्याद् वै पितृयज्ञवत् ॥

1.243

मातामहानाम् अप्य् एवं दद्याद् आचमनं ततः ।
स्वस्तिवाच्यं ततः कुर्याद् अक्षय्योदकम् एव च ॥

1.244

दत्त्वा तु दक्षिणां शक्त्या स्वधाकारम् उदाहरेत् ।
वाच्यताम् इत्य् अनुज्ञातः प्रकृतेभ्यः स्वधोच्यताम् ॥

1.245

ब्रूयुर् अस्तु स्वधेत्य् उक्ते भूमौ सिञ्चेत् ततो जलम् ।
विश्वे देवाश् च प्रीयन्तां विप्रैश् चोक्त इदं जपेत् ॥

1.246

दातारो नो ऽभिवर्धन्तां वेदाः संततिर् एव च ।
श्रद्धा च नो मा व्यगमद् बहु देयं च नो ऽस्त्व् इति ॥

1.247

इत्य् उक्त्वोक्त्वा प्रिया वाचः प्रणिपत्य विसर्जयेत् ।
वाजे वाज इति प्रीतः पितृपूर्वं विसर्जनम् ॥

1.248

यस्मिंस् तु संस्रवाः पूर्वम् अर्घ्यपात्रे निवेशिताः ।
पितृपात्रं तदुत्तानं कृत्वा विप्रान् विसर्जयेत् ॥

1.249

प्रदक्षिणम् अनुव्रज्य भुञ्जीत पितृसेवितम् ।
ब्रह्मचारी भवेत् तां तु रजनीं ब्राह्मणैः सह ॥

1.250

एवं प्रदक्षिणावृत्को वृद्धौ नान्दीमुखान् पितॄन् ।
यजेत दधि कर्कन्धु मिश्रान् पिण्डान् यवैः क्रियाः ॥

1.251

एकोद्दिष्टं देवहीनम् एकार्घ्यैकपवित्रकम् ।
आवाहनाग्नौकरण रहितं ह्य् अपसव्यवत् ॥

1.252

उपतिष्ठताम् अक्षय्य स्थाने विप्रविसर्जने ।
अभिरम्यताम् इति वदेद् ब्रूयुस् ते ऽभिरताः स्म ह ॥

1.253

गन्धोदकतिलैर् युक्तं कुर्यात् पात्रचतुष्टयम् ।
अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥

1.254

ये समाना इति द्वाभ्यां शेषं पूर्ववद् आचरेत् ।
एतत् सपिण्डीकरणम् एकोद्दिष्टं स्त्रिया अपि ॥

1.255

अर्वाक्सपिण्डीकरणं यस्य संवत्सराद् भवेत् ।
तस्याप्य् अन्नं सोदकुम्भं दद्यात् संवत्सरं द्विजे ॥

1.256

मृते ऽहनि प्रकर्तव्यं प्रतिमासं तु वत्सरम् ।
प्रतिसंवत्सरं चैवम् आद्यम् एकादशे ऽहनि ॥

1.257

पिण्डांस् तु गोऽजविप्रेभ्यो दद्याद् अग्नौ जले ऽपि वा ।
प्रक्षिपेत् सत्सु विप्रेषु द्विजोच्छिष्टं न मार्जयेत् ॥

1.258

हविष्यान्नेन वै मासं पायसेन तु वत्सरम् ।
मात्स्यहारिणकौरभ शाकुनच्छागपार्षतैः ॥

1.259

ऐणरौरववाराह शाशैर् मांसैर् यथाक्रमम् ।
मासवृद्ध्याभितृप्यन्ति दत्तैर् इह पितामहाः ॥

1.260

खड्दामिषं महाशल्कं मधु मुन्यन्नम् एव वा ।
लौहामिषं महाशाकं मांसं वार्ध्रीणसस्य च ॥

1.261

यद् ददाति गयास्थश् च सर्वम् आनन्त्यम् अश्नुते ।
तथा वर्षात्रयोदश्यां मघासु च विशेषतः ॥

1.262

कन्यां कन्यावेदिनश् च पशून् वै सत्सुतान् अपि ।
द्यूतं कृषिं वाणिज्यां च द्विशफैकशफांस् तथा ॥

1.263

ब्रह्मवर्चस्विनः पुत्रान् स्वर्णरूप्ये सकुप्यके ।
ज्ञातिश्रैष्ठ्यं सर्वकामान् आप्नोति श्राद्धदः सदा ॥

1.264

प्रतिपत्प्रभृतिष्व् एकां वर्जयित्वा चतुर्दशीम् ।
शस्त्रेण तु हता ये वै तेभ्यस् तत्र प्रदीयते ॥

1.265

स्वर्गं ह्य् अपत्यम् ओजश् च शौर्यं क्षेत्रं बलं तथा ।
पुत्रं श्रैष्ठ्यं च सौभाग्यं समृद्धिं मुख्यतां शुभम् ॥

1.266

प्रवृत्तचक्रतां चैव वाणिज्यप्रभृतीन् अपि ।
अरोगित्वं यशो वीत शोकतां परमां गतिम् ॥

1.267

धनं वेदान् भिषक्सिद्धिं कुप्यं गा अप्य् अजाविकम् ।
अश्वान् आयुश् च विधिवद् यः श्राद्धं संप्रयच्छति ॥

1.268

कृत्तिकादिभरण्यन्तं स कामान् आप्नुयाद् इमान् ।
आस्तिकः श्रद्दधानश् च व्यपेतमदमत्सरः ॥

1.269

वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः ।
प्रीणयन्ति मनुष्याणां पितॄन् श्राद्धेन तर्पिताः ॥

1.270

आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च ।
प्रयच्छन्ति तथा राज्यं प्रीता नॄणां पितामहाः ॥

1.271

विनायकः कर्मविघ्न सिद्ध्यर्थं विनियोजितः ।
गणानाम् आधिपत्ये च रुद्रेण ब्रह्मणा तथा ॥

1.272

तेनोपसृष्टो यस् तस्य लक्षणानि निबोधत ।
स्वप्ने ऽवगाहते ऽत्यर्थं जलं मुण्डांश् च पश्यति ॥

1.273

काषायवाससश् चैव क्रव्यादांश् चाधिरोहति ।
अन्त्यजैर् गर्दभैर् उष्ट्रैः सहैकत्रावतिष्ठते ॥

1.274

व्रजन्न् अपि तथात्मानं मन्यते ऽनुगतं परैः ।
विमना विफलारम्भः संसीदत्य् अनिमित्ततः ॥

1.275

तेनोपसृष्टो लभते न राज्यं राजनन्दनः ।
कुमारी च न भर्तारम् अपत्यं गर्भम् अङ्गना ॥

1.276

आचार्यत्वं श्रोत्रियश् च न शिष्यो ऽध्ययनं तथा ।
वणिग्लाभं न चाप्नोति कृषिं चापि कृषीवलः ॥

1.277

स्नपनं तस्य कर्तव्यं पुण्ये ऽह्नि विधिपूर्वकम् ।
गौरसर्षपकल्केन साज्येनोत्सादितस्य च ॥

1.278

सर्वाउषधैः सर्वगन्धैर् विलिप्तशिरसस् तथा ।
भद्रासनोपविष्टस्य स्वस्तिवाच्या द्विजाः शुभाः ॥

1.279

अश्वस्थानाद् गजस्थानाद् वल्मीकात् संगमाद् ह्रदात् ।
मृत्तिकां रोचनां गन्धान् गुग्गुलुं चाप्सु निक्षिपेत् ॥

1.280

या आहृता ह्य् एकवर्णैश् चतुर्भिः कलशैर् ह्रदात् ।
चर्मण्य् आनडुहे रक्ते स्थाप्यं भद्रासनं ततः ॥

1.281

सहस्राक्षं शतधारम् ऋषिभिः पावनं कृतम् ।
तेन त्वाम् अभिषिञ्चामि पावमान्यः पुनन्तु ते ॥

1.282

भगं ते वरुणो राजा भगं सूर्यो बृहस्पतिः ।
भगम् इन्द्रश् च वायुश् च भगं सप्तर्षयो ददुः ॥

1.283

यत् ते केशेषु दौर्भाग्यं सीमन्ते यच् च मूर्धनि ।
ललाटे कर्णयोर् अक्ष्णोर् आपस् तद् घ्नन्तु सर्वदा ॥

1.284

स्नातस्य सार्षपं तैलं स्रुवेणौदुम्बरेण तु ।
जुहुयान् मूर्धनि कुशान् सव्येन परिगृह्य च ॥

1.285

मितश् च सम्मितश् चैव तथा शालकटङ्कटौ ।
कूश्माण्डो राजपुत्रश् चेत्य् अन्ते स्वाहासमन्वितैः ॥

1.286

नामभिर् बलिमन्त्रैश् च नमस्कारसमन्वितैः ।
दद्याच् चतुष्पथे शूर्पे कुशान् आस्तीर्य सर्वतः ॥

1.287

कृताकृतांस् तण्डुलांश् च पललौदनम् एव च ।
मत्स्यान् पक्वांस् तथैवामान् मांसम् एतावद् एव तु ॥

1.288

पुष्पं चित्रं सुगन्धं च सुरां च त्रिविधाम् अपि ।
मूलकं पूरिकापूपांस् तथैवोण्डेरकस्रजः ॥

1.289

दध्य् अन्नं पायसं चैव गुडपिष्टं समोदकम् ।
एतान् सर्वान् समाहृत्य भूमौ कृत्वा ततः शिरः ॥

1.290

विनायकस्य जननीम् उपतिष्ठेत् ततो ऽम्बिकाम् ।
दूर्वासर्षपपुष्पाणां दत्त्वार्घ्यं पूर्णम् अञ्जलिम् ॥

1.291

रूपं देहि यशो देहि भगं भवति देहि मे ।
पुत्रान् देहि धनं देहि सर्वकामांश् च देहि मे ॥

1.292

ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः ।
ब्राह्मणान् भोजयेद् दद्याद् वस्त्रयुग्मं गुरोर् अपि ॥

1.293

एवं विनायकं पूज्य ग्रहांश् चैव विधानतः ।
कर्मणां फलम् आप्नोति श्रियं चाप्नोत्य् अनुत्तमाम् ॥

1.294

आदित्यस्य सदा पूजां तिलकं स्वामिनस् तथा ।
महागणपतेश् चैव कुर्वन् सिद्धिम् अवाप्नुयात् ॥

1.295

श्रीकामः शान्तिकामो वा ग्रहयज्ञं समाचरेत् ।
वृष्ट्यायुःपुष्टिकामो वा तथैवाभिचरन्न् अपि ॥

1.296

सूर्यः सोमो महीपुत्रः सोमपुत्रो बृहस्पतिः ।
शुक्रः शनैश्चरो राहुः केतुश् चेति ग्रहाः स्मृताः ॥

1.297

ताम्रकात् स्फटिकाद् रक्त चन्दनात् स्वर्णकाद् उभौ ।
राजताद् अयसः सीसात् कांस्यात् कार्या ग्रहाः क्रमात् ॥

1.298

स्ववर्णैर् वा पटे लेख्या गन्धैर् मण्डलकेषु वा ।
यथावर्णं प्रदेयानि वासांसि कुसुमानि च ॥

1.299

गन्धाश् च बलयश् चैव धूपो देयश् च गुग्गुलुः ।
कर्तव्या मन्त्रवन्तश् च चरवः प्रतिदैवतम् ॥

1.300

आकृष्णेन इमं देवा अग्निर् मूर्धा दिवः ककुत् ।
उद्बुध्यस्वेति च ऋचो यथासंख्यं प्रकीर्तिताः ॥

1.301

बृहस्पते ऽति यद् अर्यस् तथैवान्नात् परिस्रुतः ।
शं नो देवीस् तथा काण्डात् केतुं कृण्वन्न् इमांस् तथा ॥

1.302

अर्कः पलाशः खदिर अपामार्गो ऽथ पिप्पलः ।
उदुम्बरः शमी दूर्वा कुशाश् च समिधः क्रमात् ॥

1.303

एकैकस्य त्व् अष्टशतम् अष्टाविंशतिर् एव वा ।
होतव्या मधुसर्पिर्भ्यां दध्ना क्षीरेण वा युताः ॥

1.304

गुडौदनं पायसं च हविष्यं क्षीरषाष्टिकम् ।
दध्योदनं हविश् चूर्णं मांसं चित्रान्नम् एव च ॥

1.305

दद्याद् ग्रहक्रमाद् एवं द्विजेभ्यो भोजनं बुधः ।
शक्तितो वा यथालाभं सत्कृत्य विधिपूर्वकम् ॥

1.306

धेनुः शङ्खस् तथानड्वान् हेम वासो हयः क्रमात् ।
कृष्णा गौर् आयसं छाग एता वै दक्षिणाः स्मृताः ॥

1.307

यश् च यस्य यदा दुःस्थः स तं यत्नेन पूजयेत् ।
ब्रह्मणैषां वरो दत्तः पूजिताः पूजयिष्यथ ॥

1.308

ग्रहाधीना नरेन्द्राणाम् उच्छ्रायाः पतनानि च ।
भावाभावौ च जगतस् तस्मात् पूज्यतमा ग्रहाः ॥

1.308A

ग्रहाणाम् इदम् आतिथ्यं कुर्यात् संवत्सराद् अपि ।
आरोग्यबलसंपन्नो जीवेत् स शरदः शतम् ॥

1.309

महोत्साहः स्थूललक्षः कृतज्ञो वृद्धसेवकः ।
विनीतः सत्त्वसंपन्नः कुलीनः सत्यवाक् शुचिः ॥

1.310

अदीर्घसूत्रः स्मृतिमान् अक्षुद्रो ऽपरुषस् तथा ।
धार्मिको ऽव्यसनश् चैव प्राज्ञः शूरो रहस्यवित् ॥

1.311

स्वरन्ध्रगोप्तान्वीक्षिक्यां दण्डनीत्यां तथैव च ।
विनीतस् त्व् अथ वार्तायां त्रय्यां चैव नराधिपः ॥

1.312

स मन्त्रिणः प्रकुर्वीत प्राज्ञान् मौलान् स्थिरान् शुचीन् ।
तैः सार्धं चिन्तयेद् राज्यं विप्रेणाथ ततः स्वयम् ॥

1.313

पुरोहितं प्रकुर्वीत दैवज्ञम् उदितोदितम् ।
दण्डनीत्यां च कुशलम् अथर्वाङ्गिरसे तथा ॥

1.314

श्रौतस्मार्तक्रियाहेतोर् वृणुयाद् एव च र्त्विजः ।
यज्ञांश् चैव प्रकुर्वीत विधिवद् भूरिदक्षिणान् ॥

1.315

भोगांश् च दद्याद् विप्रेभ्यो वसूनि विविधानि च ।
अक्षयो ऽयं निधी राज्ञां यद् विप्रेषूपपादितम् ॥

1.316

अस्कन्नम् अव्यथं चैव प्रायश्चित्तैर् अदूषितम् ।
अग्नेः सकाशाद् विप्राग्नौ हुतं श्रेष्ठम् इहोच्यते ॥

1.317

अलब्धम् ईहेद् धर्मेण लब्धं यत्नेन पालयेत् ।
पालितं वर्धयेन् नीत्या वृद्धं पात्रेषु निक्षिपेत् ॥

1.318

दत्त्वा भूमिं निबन्धं वा कृत्वा लेख्यं तु कारयेत् ।
आगामिभद्रनृपति परिज्ञानाय पार्थिवः ॥

1.319

पटे वा ताम्रपट्टे वा स्वमुद्रोपरिचिह्नितम् ।
अभिलेख्यात्मनो वंश्यान् आत्मानं च महीपतिः ॥

1.320

प्रतिग्रहपरीमाणं दानच्छेदोपवर्णनम् ।
स्वहस्तकालसंपन्नं शासनं कारयेत् स्थिरम् ॥

1.321

रम्यं पशव्यम् आजीव्यं जाङ्गलं देशम् आवसेत् ।
तत्र दुर्गाणि कुर्वीत जनकोशात्मगुप्तये ॥

1.322

तत्र तत्र च निष्णातान् अध्यक्षान् कुशलान् शुचीन् ।
प्रकुर्याद् आयकर्मान्त व्ययकर्मसु चोद्यतान् ॥

1.323

नातः परतरो धर्मो नृपाणां यद् रणार्जितम् ।
विप्रेभ्यो दीयते द्रव्यं प्रजाभ्यश् चाभयं सदा ॥

1.324

य आहवेषु वध्यन्ते भूम्यर्थम् अपराङ्मुखाः ।
अकूटैर् आयुधैर् यान्ति ते स्वर्गं योगिनो यथा ॥

1.325

पदानि क्रतुतुल्यानि भग्नेष्व् अविनिवर्तिनाम् ।
राजा सुकृतम् आदत्ते हतानां विपलायिनाम् ॥

1.326

तवाहंवादिनं क्लीबं निर्हेतिं परसंगतम् ।
न हन्याद् विनिवृत्तं च युद्धप्रेक्षणकादिकम् ॥

1.327

कृतरक्षः समुत्थाय पश्येद् आयव्ययौ स्वयम् ।
व्यवहारांस् ततो दृष्ट्वा स्नात्वा भुञ्जीत कामतः ॥

1.328

हिरण्यं व्यापृतानीतं भाण्डागारेषु निक्षिपेत् ।
पश्येच् चारांस् ततो दूतान् प्रेषयेन् मन्त्रिसंगतः ॥

1.329

ततः स्वैरविहारी स्यान् मन्त्रिभिर् वा समागतः ।
बलानां दर्शनं कृत्वा सेनान्या सह चिन्तयेत् ॥

1.330

संध्याम् उपास्य शृणुयाच् चाराणां गूढभाषितम् ।
गीतनृत्यैश् च भुञ्जीत पठेत् स्वाध्यायम् एव च ॥

1.331

संविशेत् तूर्यघोषेण प्रतिबुध्येत् तथैव च ।
शास्त्राणि चिन्तयेद् बुद्ध्या सर्वकर्तव्यतास् तथा ॥

1.332

प्रेषयेच् च ततश् चारान् स्वेष्व् अन्येषु च सादरान् ।
ऋत्विक्पुरोहिताचार्यैर् आशीर्भिर् अभिनन्दितः ॥

1.333

दृष्ट्वा ज्योतिर्विदो वैद्यान् दद्याद् गां काञ्चनं महीम् ।
नैवेशिकानि च ततः श्रोत्रियेभ्यो गृहाणि च ॥

1.334

ब्राह्मणेषु क्षमी स्निग्धेष्व् अजिह्मः क्रोधनो ऽरिषु ।
स्याद् राजा भृत्यवर्गेषु प्रजासु च यथा पिता ॥

1.335

पुण्यात् षड्भागम् आदत्ते न्यायेन परिपालयन् ।
सर्वदानाधिकं यस्मात् प्रजानां परिपालनम् ॥

1.336

चाटतस्करदुर्वृत्त महासाहसिकादिभिः ।
पीड्यमानाः प्रजा रक्षेत् कायस्थैश् च विशेषतः ॥

1.337

अरक्ष्यमाणाः कुर्वन्ति यत्किंचित् किल्बिषं प्रजाः ।
तस्मात् तु नृपतेर् अर्धं यस्माद् गृह्णात्य् असौ करान् ॥

1.338

ये राष्ट्राधिकृतास् तेषां चारैर् ज्ञात्वा विचेष्टितम् ।
साधून् सम्मानयेद् राजा विपरीतांश् च घातयेत् ॥

1.339

उत्कोचजीविनो द्रव्य हीनान् कृत्वा विवासयेत् ।
सद्दानमानसत्कारान् श्रोत्रियान् वासयेत् सदा ॥

1.340

अन्यायेन नृपो राष्ट्रात् स्वकोशं यो ऽभिवर्धयेत् ।
सो ऽचिराद् विगतश्रीको नाशम् एति सबान्धवः ॥

1.341

प्रजापीडनसंतापात् समुद्भूतो हुताशनः ।
राज्ञः कुलं श्रियं प्राणांश् चादग्ध्वा न निवर्तते ॥

1.342

य एव नृपतेर् धर्मः स्वराष्ट्रपरिपालने ।
तम् एव कृत्स्नम् आप्नोति परराष्ट्रं वशं नयन् ॥

1.343

यस्मिन् देशे य आचारो व्यवहारः कुलस्थितिः ।
तथैव परिपाल्यो ऽसौ यदा वशम् उपागतः ॥

1.344

मन्त्रमूलं यतो राज्यं तस्मान् मन्त्रं सुरक्षितम् ।
कुर्याद् यथास्य न विदुः कर्मणाम् आफलोदयात् ॥

1.345

अरिर् मित्रम् उदासीनो ऽनन्तरस् तत्परः परः ।
क्रमशो मण्डलं चिन्त्यं सामादिभिर् उपक्रमैः ॥

1.346

उपायाः साम दानं च भेदो दण्डस् तथैव च ।
सम्यक्प्रयुक्ताः सिध्येयुर् दण्डस् त्व् अगतिका गतिः ॥

1.347

संधिं च विग्रहं यानम् आसनं संश्रयं तथा ।
द्वैधीभावं गुणान् एतान् यथावत् परिकल्पयेत् ॥

1.348

यदा सस्यगुणोपेतं परराष्ट्रं तदा व्रजेत् ।
परश् च हीन आत्मा च हृष्टवाहनपूरुषः ॥

1.349

दैवे पुरुषकारे च कर्मसिद्धिर् व्यवस्थिता ।
तत्र दैवम् अभिव्यक्तं पौरुषं पौर्वदेहिकम् ॥

1.350

केचिद् दैवात् स्वभावाद् वा कालात् पुरुषकारतः ।
संयोगे केचिद् इच्छन्ति फलं कुशलबुद्धयः ॥

1.351

यथा ह्य् एकेन चक्रेण रथस्य न गतिर् भवेत् ।
एवं पुरुषकारेण विना दैवं न सिध्यति ॥

1.352

हिरण्यभूमिलाभेभ्यो मित्रलब्धिर् वरा यतः ।
अतो यतेत तत्प्राप्त्यै रक्षेत् सत्यं समाहितः ॥

1.353

स्वाम्य् अमात्या जनो दुर्गं कोशो दण्डस् तथैव च ।
मित्राण्य् एताः प्रकृतयो राज्यं सप्ताङ्गम् उच्यते ॥

1.354

तद् अवाप्य नृपो दण्डं दुर्वृत्तेषु निपातयेत् ।
धर्मो हि दण्डरूपेण ब्रह्मणा निर्मितः पुरा ॥

1.355

स नेतुं न्यायतो ऽशक्यो लुब्धेनाकृतबुद्धिना ।
सत्यसंधेन शुचिना सुसहायेन धीमता ॥

1.356

यथाशास्त्रं प्रयुक्तः सन् सदेवासुरमानवम् ।
जगद् आनन्दयेत् सर्वम् अन्यथा तत् प्रकोपयेत् ॥

1.357

अधर्मदण्डनं स्वर्ग कीर्तिलोकविनाशनम् ।
सम्यक् तु दण्डनं राज्ञः स्वर्गकीर्तिजयावहम् ॥

1.358

अपि भ्राता सुतो ऽर्घ्यो वा श्वशुरो मातुलो ऽपि वा ।
नादण्ड्यो नाम राज्ञो ऽस्ति धर्माद् विचलितः स्वकात् ॥

1.359

यो दण्ड्यान् दण्डयेद् राजा सम्यग् वध्यांश् च घातयेत् ।
इष्टं स्यात् क्रतुभिस् तेन समाप्तवरदक्षिणैः ॥

1.360

इति संचिन्त्य नृपतिः क्रतुतुल्यफलं पृथक् ।
व्यवहारान् स्वयं पश्येत् सभ्यैः परिवृतो ऽन्वहम् ॥

1.361

कुलानि जातीः श्रेणीश् च गणान् जानपदान् अपि ।
स्वधर्माच् चलितान् राजा विनीय स्थापयेत् पथि ॥

1.362

जालसूर्यमरीचिस्थं त्रसरेणू रजः स्मृतम् ।
ते ऽष्टौ लिक्षा तु तास् तिस्रो राजसर्षप उच्यते ॥

1.363

गौरस् तु ते त्रयः षट् ते यवो मध्यस् तु ते त्रयः ।
कृष्णलः पञ्च ते माषस् ते सुवर्णस् तु षोडश ॥

1.364

पलं सुवर्णाश् चत्वारः पञ्च वापि प्रकीर्तितम् ।
द्वे कृष्णले रूप्यमाषो धरणं षोडशैव ते ॥

1.365

शतमानं तु दशभिर् धरणैः पलम् एव तु ।
निष्कं सुवर्णाश् चत्वारः कार्षिकस् ताम्रिकः पणः ॥

1.366

साशीतिपणसाहस्रो दण्ड उत्तमसाहसः ।
तदर्धं मध्यमः प्रोक्तस् तदर्धम् अधमः स्मृतः ॥

1.367

धिग्दण्डस् त्व् अथ वाग्दण्डो धनदण्डो वधस् तथा ।
योज्या व्यस्ताः समस्ता वा ह्य् अपराधवशाद् इमे ॥

1.368

ज्ञात्वापराधं देशं च कालं बलम् अथापि वा ।
वयः कर्म च वित्तं च दण्डं दण्ड्येषु पातयेत् ॥

मूल पाठ: Yājñavalkyasmṛti · Edition: Narayan Ram Acharya Yajnavalkyasmrti of Yogisvara Yajnavalkya. With the commentary Mitaksara of Vijñanesvara, Notes, Variant readings, etc Bombay Nirnayasagara Press · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc