व्याकरणमहाभाष्य · भाग 741760
(प्_5,2.97) क_इइ,395.6-396.5 रो_इव्,163-165 {4।33} लच् च मतुप् च .
(प्_5,2.97) क_इइ,395.6-396.5 रो_इव्,163-165 {5।33} कथम् पुनः एतत् ज्ञायते लच् अन्यतरस्याम् इति समुच्चयः अयम् न विभाषा इति .
(प्_5,2.97) क_इइ,395.6-396.5 रो_इव्,163-165 {6।33} पिच्छादिभ्यः तुन्दादीनाम् नानायोगकरणम् ज्ञापकम् असमावेशस्य .
(प्_5,2.97) क_इइ,395.6-396.5 रो_इव्,163-165 {7।33} यत् अयम् पिच्छादिभ्यः तुन्दादीनाम् नानायोगम् करोति तत् ज्ञापयति आचार्यः समुच्चयः अयम् न विभाषा इति .
(प्_5,2.97) क_इइ,395.6-396.5 रो_इव्,163-165 {8।33} यदि विभाषा स्यात् नानायोगकरणम् अनर्थकम् स्यात् .
(प्_5,2.97) क_इइ,395.6-396.5 रो_इव्,163-165 {9।33} तुन्दादीनि अपि पिच्छादिषु एव पठेत् .
(प्_5,2.97) क_इइ,395.6-396.5 रो_इव्,163-165 {10।33} न एतत् अस्ति ज्ञापकम् .
(प्_5,2.97) क_इइ,395.6-396.5 रो_इव्,163-165 {11।33} अस्ति हि अन्यत् नानायोगकरणे प्रयोजनम् .
(प्_5,2.97) क_इइ,395.6-396.5 रो_इव्,163-165 {12।33} किम् .
(प्_5,2.97) क_इइ,395.6-396.5 रो_इव्,163-165 {13।33} तुन्दादिषु यानि अनकारान्तानि तेभ्यः इनिठनौ यथा स्याताम् .
(प्_5,2.97) क_इइ,395.6-396.5 रो_इव्,163-165 {14।33} यानि तर्हि अकारान्तानि तेषाम् पाठः किमर्थः .
(प्_5,2.97) क_इइ,395.6-396.5 रो_इव्,163-165 {15।33} ज्ञापकार्थः एव .
(प्_5,2.97) क_इइ,395.6-396.5 रो_इव्,163-165 {16।33} अपरः आह : पिच्छादिभ्यः तुन्दादीनाम् नानायोगकरणम् ज्ञापकम् असमावेशस्य .
(प्_5,2.97) क_इइ,395.6-396.5 रो_इव्,163-165 {17।33} यत् अयम् तुन्दादिभ्यः पिच्छादीनाम् नानायोगम् करोति तत् ज्ञापयति आचार्यः समुच्चयः अयम् न विभाषा इति .
(प्_5,2.97) क_इइ,395.6-396.5 रो_इव्,163-165 {18।33} यदि विभाषा स्यात् नानायोगकरणम् अनर्थकम् स्यात् .
(प्_5,2.97) क_इइ,395.6-396.5 रो_इव्,163-165 {19।33} पिच्छादीनि अपि तुन्दादिषु एव पठेत् .
(प्_5,2.97) क_इइ,395.6-396.5 रो_इव्,163-165 {20।33} न एतत् अस्ति ज्ञापकम् .
(प्_5,2.97) क_इइ,395.6-396.5 रो_इव्,163-165 {21।33} अस्ति हि अन्यत् नानायोगकरणे प्रयोजनम् .
(प्_5,2.97) क_इइ,395.6-396.5 रो_इव्,163-165 {22।33} किम् .
(प्_5,2.97) क_इइ,395.6-396.5 रो_इव्,163-165 {23।33} पिच्छादिषु यानि अनकारान्तानि तेभ्यः इनिठनौ यथा स्याताम् .
(प्_5,2.97) क_इइ,395.6-396.5 रो_इव्,163-165 {24।33} यानि तर्हि अकारान्तानि तेषाम् पाठः किमर्थः .
(प्_5,2.97) क_इइ,395.6-396.5 रो_इव्,163-165 {25।33} ज्ञापकार्थः एव .
(प्_5,2.97) क_इइ,395.6-396.5 रो_इव्,163-165 {26।33} वस्य च पुनर्वचनम् सर्वविभाषार्थम् .
(प्_5,2.97) क_इइ,395.6-396.5 रो_इव्,163-165 {27।33} वस्य खलु अपि पुनर्वचनम् क्रियते सर्वविभाषार्थम् .
(प्_5,2.97) क_इइ,395.6-396.5 रो_इव्,163-165 {28।33} केशात् वः अन्यतरस्याम् इति .
(प्_5,2.97) क_इइ,395.6-396.5 रो_इव्,163-165 {29।33} एतत् एव ज्ञापयति आचार्यः समुच्चयः अयम् न विभाषा इति .
(प्_5,2.97) क_इइ,395.6-396.5 रो_इव्,163-165 {30।33} द्युद्रुभ्याम् नित्यार्थम् एके अन्यतरस्याङ्ग्रहणम् इच्छन्ति .
(प्_5,2.97) क_इइ,395.6-396.5 रो_इव्,163-165 {31।33} कथम् .
(प्_5,2.97) क_इइ,395.6-396.5 रो_इव्,163-165 {32।33} विभाषामध्ये अयम् योगः क्रियते .
(प्_5,2.97) क_इइ,395.6-396.5 रो_इव्,163-165 {33।33} विभाषामध्ये ये विधयः नित्याः ते भवन्ति इति .
(प्_5,2.100) क_इइ,396.7-13 रो_इव्,165 {1।9} नप्रकरणे दद्र्वाः ह्रस्वत्वम् च .
(प्_5,2.100) क_इइ,396.7-13 रो_इव्,165 {2।9} नप्रकरणे दद्र्वाः उपसङ्ख्यानम् कर्तव्यम् ह्रस्वत्वम् च नप्रकरणे दद्र्वाः ह्रस्वत्वम् च वक्तव्यम् .
(प्_5,2.100) क_इइ,396.7-13 रो_इव्,165 {3।9} दद्रुणः .
(प्_5,2.100) क_इइ,396.7-13 रो_इव्,165 {4।9} अत्यल्पम् इदम् उच्यते .
(प्_5,2.100) क_इइ,396.7-13 रो_इव्,165 {5।9} शाकीपलालीदद्रूणाम् ह्रस्वत्वम् च इति वक्तव्यम् .
(प्_5,2.100) क_इइ,396.7-13 रो_इव्,165 {6।9} शाकिनम् , पलालिनम् , दद्रुणम् .
(प्_5,2.100) क_इइ,396.7-13 रो_इव्,165 {7।9} विष्वक् इति उत्तरपदलोपः च अकृतसन्धेः .
(प्_5,2.100) क_इइ,396.7-13 रो_इव्,165 {8।9} विष्वक् इति उपसङ्ख्यानम् कर्तव्यम् उत्तरपदलोपः च अकृतसन्धेः वक्तव्यः .
(प्_5,2.100) क_इइ,396.7-13 रो_इव्,165 {9।9} विष्वक् गतानि अस्य विषुणः .
(प्_5,2.101) क_इइ,396.15-16 रो_इव्,166 {1।3} वृत्तेः च .
(प्_5,2.101) क_इइ,396.15-16 रो_इव्,166 {2।3} वृत्तेः च इति वक्तव्यम् .
(प्_5,2.101) क_इइ,396.15-16 रो_इव्,166 {3।3} वार्त्तम् .
(प्_5,2.102-103.1) क_इइ,396.19-22 रो_इव्,166 {1।5} किमर्थम् तपःशब्दात् विन् विधीयते न असन्तात् इति एव सिद्धम् .
(प्_5,2.102-103.1) क_इइ,396.19-22 रो_इव्,166 {2।5} त् अपसः विन्वचनम् अण्विधानात् .
(प्_5,2.102-103.1) क_इइ,396.19-22 रो_इव्,166 {3।5} तपसः विन्वचनम् क्रियते .
(प्_5,2.102-103.1) क_इइ,396.19-22 रो_इव्,166 {4।5} तपःशब्दात् अन् विधीयते .
(प्_5,2.102-103.1) क_इइ,396.19-22 रो_इव्,166 {5।5} सः विशेषविहितः सामान्य्विहितम् विनम् बाधेत .
(प्_5,2.102-103.2) क_इइ,397.1-3 रो_इव्,167 {1।7} अण्प्रकरणे ज्योत्स्नादिभ्यः उपसङ्ख्यानम् .
(प्_5,2.102-103.2) क_इइ,397.1-3 रो_इव्,167 {2।7} अण्प्रकरणे ज्योत्स्नादिभ्यः उपसङ्ख्यानम् कर्तव्यम् .
(प्_5,2.102-103.2) क_इइ,397.1-3 रो_इव्,167 {3।7} ज्यौत्स्नः .
(प्_5,2.102-103.2) क_इइ,397.1-3 रो_इव्,167 {4।7} तामिस्रः .
(प्_5,2.102-103.2) क_इइ,397.1-3 रो_इव्,167 {5।7} कौण्डलः .
(प्_5,2.102-103.2) क_इइ,397.1-3 रो_इव्,167 {6।7} कौतपः .
(प्_5,2.102-103.2) क_इइ,397.1-3 रो_इव्,167 {7।7} वैपादिकः .
(प्_5,2.107.1) क_इइ,397.5-7 रो_इव्,167 {1।6} अयम् मधुशब्दः अस्ति एव द्रव्यपदार्थकः अस्ति रसवाची .
(प्_5,2.107.1) क_इइ,397.5-7 रो_इव्,167 {2।6} आतः च रसवाची अपि .
(प्_5,2.107.1) क_इइ,397.5-7 रो_इव्,167 {3।6} मधुनि एव हि मधु इदम् मधुरम् इति प्रसज्यते .
(प्_5,2.107.1) क_इइ,397.5-7 रो_इव्,167 {4।6} तत् यः रसवाची तस्य इदम् ग्रहणम् .
(प्_5,2.107.1) क_इइ,397.5-7 रो_इव्,167 {5।6} यदि हि द्रव्यपदार्थकस्य ग्रहणम् स्यात् इह अपि प्रसज्येत .
(प्_5,2.107.1) क_इइ,397.5-7 रो_इव्,167 {6।6} मधु अस्मिन् घटे अस्ति .
(प्_5,2.107.2) क_इइ,397.8-10 रो_इव्,167-168 {1।6} रप्रकरणे खमुख्कुञ्जेभ्यः उपसङ्ख्यानम् .
(प्_5,2.107.2) क_इइ,397.8-10 रो_इव्,167-168 {2।6} खरः .
(प्_5,2.107.2) क_इइ,397.8-10 रो_इव्,167-168 {3।6} मुखरः .
(प्_5,2.107.2) क_इइ,397.8-10 रो_इव्,167-168 {4।6} कुञ्जरः .
(प्_5,2.107.2) क_इइ,397.8-10 रो_इव्,167-168 {5।6} नगात् च इति वक्तव्यम् .
(प्_5,2.107.2) क_इइ,397.8-10 रो_इव्,167-168 {6।6} नगरम् .
(प्_5,2.109) क_इइ,397.12-20 रो_इव्,168-169 {1।18} वप्रकरणे मणिहिरण्याभ्याम् उपसङ्ख्यानम् .
(प्_5,2.109) क_इइ,397.12-20 रो_इव्,168-169 {2।18} वप्रकरणे मणिहिरण्याभ्याम् उपसङ्ख्यानम् वक्तव्यम् .
(प्_5,2.109) क_इइ,397.12-20 रो_इव्,168-169 {3।18} मणिवः .
(प्_5,2.109) क_इइ,397.12-20 रो_इव्,168-169 {4।18} हिरण्यवः .
(प्_5,2.109) क_इइ,397.12-20 रो_इव्,168-169 {5।18} छन्दसि ईवनिपौ च .
(प्_5,2.109) क_इइ,397.12-20 रो_इव्,168-169 {6।18} छन्दसि ईवनिपौ च वक्तव्यौ वः च मतुप् च .
(प्_5,2.109) क_इइ,397.12-20 रो_इव्,168-169 {7।18} रथीः अभूत् मुद्गलनी गविष्टौ .
(प्_5,2.109) क_इइ,397.12-20 रो_इव्,168-169 {8।18} सुमङ्गलीः इयम् वधुः .
(प्_5,2.109) क_इइ,397.12-20 रो_इव्,168-169 {9।18} ऋतवानम् .
(प्_5,2.109) क_इइ,397.12-20 रो_इव्,168-169 {10।18} मघवानम् ईमहे .
(प्_5,2.109) क_इइ,397.12-20 रो_इव्,168-169 {11।18} उत् वा च उद्वती च .
(प्_5,2.109) क_इइ,397.12-20 रो_इव्,168-169 {12।18} मेधारथाभ्याम् इरनिरचौ .
(प्_5,2.109) क_इइ,397.12-20 रो_इव्,168-169 {13।18} मेधारथाभ्याम् इरनिरचौ वक्तव्यौ .
(प्_5,2.109) क_इइ,397.12-20 रो_इव्,168-169 {14।18} मेधिरः .
(प्_5,2.109) क_इइ,397.12-20 रो_इव्,168-169 {15।18} रथिरः .
(प्_5,2.109) क_इइ,397.12-20 रो_इव्,168-169 {16।18} अपरः आह : वाप्रकरणे अन्येभ्यः अपि दृश्यते इति वक्तव्यम् .
(प्_5,2.109) क_इइ,397.12-20 रो_इव्,168-169 {17।18} बिम्बावम् .
(प्_5,2.109) क_इइ,397.12-20 रो_इव्,168-169 {18।18} कुररावम् इष्टकावम् .
(प्_5,2.112) क_इइ,397.22-24 रो_इव्,169 {1।5} वलच्प्रकरणे अन्येभ्यः अपि ड्र्श्यते .
(प्_5,2.112) क_इइ,397.22-24 रो_इव्,169 {2।5} वलच्प्रकरणे अन्येभ्यः अपि ड्र्श्यते इति वक्तव्यम् .
(प्_5,2.112) क_इइ,397.22-24 रो_इव्,169 {3।5} भ्रातृवलः .
(प्_5,2.112) क_इइ,397.22-24 रो_इव्,169 {4।5} पुत्रवलः .
(प्_5,2.112) क_इइ,397.22-24 रो_इव्,169 {5।5} उत्सङ्गवलः .
(प्_5,2.115) क_इइ,398.2-11 रो_इव्,169-170 {1।19} इनिठनोः एकाक्षरात् प्रतिषेधः .
(प्_5,2.115) क_इइ,398.2-11 रो_इव्,169-170 {2।19} इनिठनोः एकाक्षरात् प्रतिषेधः वक्तव्यः : स्ववान् , खवान् .
(प्_5,2.115) क_इइ,398.2-11 रो_इव्,169-170 {3।19} अत्यल्पम् इदम् उच्यते .
(प्_5,2.115) क_इइ,398.2-11 रो_इव्,169-170 {4।19} एकाक्षरात् कृतः जातेः सप्तम्याम् च न तौ स्मृतौ .
(प्_5,2.115) क_इइ,398.2-11 रो_इव्,169-170 {5।19} एकाक्षरात् : स्ववान् , खवान् .
(प्_5,2.115) क_इइ,398.2-11 रो_इव्,169-170 {6।19} कृतः : कारकवान् , हारकवान् .
(प्_5,2.115) क_इइ,398.2-11 रो_इव्,169-170 {7।19} जातेः : वृक्षवान् , प्लक्षवान् , व्याघ्रवान् , सिंहवान् .
(प्_5,2.115) क_इइ,398.2-11 रो_इव्,169-170 {8।19} सप्तम्याम् च न तौ .
(प्_5,2.115) क_इइ,398.2-11 रो_इव्,169-170 {9।19} दण्डाः अस्याम् शालायाम् सन्ति इति .
(प्_5,2.115) क_इइ,398.2-11 रो_इव्,169-170 {10।19} यदि कृतः न इति उच्यते कार्यी कार्यिकः इति न सिध्यति .
(प्_5,2.115) क_इइ,398.2-11 रो_इव्,169-170 {11।19} तथा च यदि जातेः न इति उच्यते तुण्डली तुण्डलिकः इति न सिध्यति .
(प्_5,2.115) क_इइ,398.2-11 रो_इव्,169-170 {12।19} एवम् तर्हि न अयम् समुच्चयः कृतः च जातेः च इति .
(प्_5,2.115) क_इइ,398.2-11 रो_इव्,169-170 {13।19} किम् तर्हि .
(प्_5,2.115) क_इइ,398.2-11 रो_इव्,169-170 {14।19} जातिविशेषणम् कृद्ग्रहणम् : कृत् या जातिः इति .
(प्_5,2.115) क_इइ,398.2-11 रो_इव्,169-170 {15।19} कथम् कारकवान् , हारकवान् .
(प्_5,2.115) क_इइ,398.2-11 रो_इव्,169-170 {16।19} अनभिधानात् न भविष्यति .
(प्_5,2.115) क_इइ,398.2-11 रो_इव्,169-170 {17।19} यदि एवम् न अर्थः अनेन .
(प्_5,2.115) क_इइ,398.2-11 रो_इव्,169-170 {18।19} कथम् स्ववान् , वृक्षवान् , सिंहवान् , व्याघ्रवान् दण्डाः अस्याम् शालायाम् सन्ति इति .
(प्_5,2.115) क_इइ,398.2-11 रो_इव्,169-170 {19।19} अनभिधानात् न भविष्यति .
(प्_5,2.116) क_इइ,398.13-17 रो_इव्,170 {1।10} शिखादिभ्यः इनिः वक्तव्यः इकन् यवखदादिषु .
(प्_5,2.116) क_इइ,398.13-17 रो_इव्,170 {2।10} किम् प्रयोजनम् .
(प्_5,2.116) क_इइ,398.13-17 रो_इव्,170 {3।10} नियमार्थम् .
(प्_5,2.116) क_इइ,398.13-17 रो_इव्,170 {4।10} इनिः एव शिखादिभ्यः इकन् एव यव्खदादिभ्यः .
(प्_5,2.116) क_इइ,398.13-17 रो_इव्,170 {5।10} शिखायवखदादिभ्यः नियमस्य अवचनम् निवर्तकत्वात् .
(प्_5,2.116) क_इइ,398.13-17 रो_इव्,170 {6।10} शिखायवखदादिभ्यः नियमस्य अवचनम् .
(प्_5,2.116) क_इइ,398.13-17 रो_इव्,170 {7।10} किम् कारणम् .
(प्_5,2.116) क_इइ,398.13-17 रो_इव्,170 {8।10} निवर्तकत्वात् .
(प्_5,2.116) क_इइ,398.13-17 रो_इव्,170 {9।10} किम् निवर्तकम् .
(प्_5,2.116) क_इइ,398.13-17 रो_इव्,170 {10।10} अनभिधानम् .
(प्_5,2.118) क_इइ,398.19-399.2 रो_इव्,170-171 {1।15} नित्यग्रहणम् किमर्थम् .
(प्_5,2.118) क_इइ,398.19-399.2 रो_इव्,170-171 {2।15} विभाषा मा भूत् .
(प्_5,2.118) क_इइ,398.19-399.2 रो_इव्,170-171 {3।15} न एतत् अस्ति प्रयोजनम् .
(प्_5,2.118) क_इइ,398.19-399.2 रो_इव्,170-171 {4।15} पूर्वस्मिन् एव योगे विभाषाग्रहणम् निवृत्तम् .
(प्_5,2.118) क_इइ,398.19-399.2 रो_इव्,170-171 {5।15} एवम् तर्हि सिद्धे सति यत् नित्यग्रहणम् करोति तत् ज्ञापयति आचार्यः प्राक् एतस्मात् योगात् विभाषा इति अनुवर्तते .
(प्_5,2.118) क_इइ,398.19-399.2 रो_इव्,170-171 {6।15} अथ अतः इति अनुवर्तते उताहो न .
(प्_5,2.118) क_इइ,398.19-399.2 रो_इव्,170-171 {7।15} किम् च अतः .
(प्_5,2.118) क_इइ,398.19-399.2 रो_इव्,170-171 {8।15} यदि अनुवर्तते एकगविकः न सिध्यति .
(प्_5,2.118) क_इइ,398.19-399.2 रो_इव्,170-171 {9।15} समासान्ते कृते भविष्यति .
(प्_5,2.118) क_इइ,398.19-399.2 रो_इव्,170-171 {10।15} एवम् अपि गौशकटिकः न सिध्यति .
(प्_5,2.118) क_इइ,398.19-399.2 रो_इव्,170-171 {11।15} अथ निवृत्तम् इह अपि प्राप्नोति .
(प्_5,2.118) क_इइ,398.19-399.2 रो_इव्,170-171 {12।15} गोविंशतिः अस्य अस्ति इति .
(प्_5,2.118) क_इइ,398.19-399.2 रो_इव्,170-171 {13।15} निवृत्तम् .
(प्_5,2.118) क_इइ,398.19-399.2 रो_इव्,170-171 {14।15} कस्मात् न भवति : गोविंशतिः अस्य अस्ति इति .
(प्_5,2.118) क_इइ,398.19-399.2 रो_इव्,170-171 {15।15} अनभिधानात् न भविष्यति .
(प्_5,2.120) क_इइ,399.4 रो_इव्,171 {1।3} यप्प्रकरणे अन्येभ्यः अपि दृश्यते .
(प्_5,2.120) क_इइ,399.4 रो_इव्,171 {2।3} यप्प्रकरणे अन्येभ्यः अपि दृश्यते इति वक्तव्यम्. हिम्याः पर्वताः .
(प्_5,2.120) क_इइ,399.4 रो_इव्,171 {3।3} गुण्याः ब्राह्मणाः .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {1।48} छन्दोविन्प्रकरणे अष्टृआमेखलाद्वयोभयरुजाहृदयानाम् दीर्घः च .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {2।48} छन्दोविन्प्रकरणे अष्टृआमेखलाद्वयोभयरुजाहृदयानाम् दीर्घः च इति वक्तव्यम् .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {3।48} अष्ट्रावी .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {4।48} मेखलावी .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {5।48} द्वयावी .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {6।48} उभयावी .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {7।48} रुजावी .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {8।48} हृदयावी .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {9।48} मर्मणः च इति वक्तव्यम् .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {10।48} ममावी .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {11।48} सर्वत्र आमयस्य .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {12।48} सर्वत्र आमयस्य उपसङ्ख्यानम् कर्तव्यम् .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {13।48} आमयावी .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {14।48} शृङ्गवृन्दाभ्याम् आरकन् .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {15।48} शृङ्गवृन्दाभ्याम् आरकन् वक्तव्यः .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {16।48} शृङ्गारकः .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {17।48} वृदारकः .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {18।48} फलबर्हाभ्याम् इनच् .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {19।48} फलबर्हाभ्याम् इनच् वक्तव्यः .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {20।48} फलिनः .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {21।48} बर्हिणः .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {22।48} हृदयात् चालुः अन्यतरस्याम् .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {23।48} हृदयात् चालुः वक्तव्यः अन्यतरस्याम् .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {24।48} हृदयालुः .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {25।48} हृदयी .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {26।48} हृदयिकः .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {27।48} हृदयवान् .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {28।48} शीतोष्णतृप्रेभ्यः तत् न सहते .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {29।48} शीतोष्णतृप्रेभ्यः तत् न सहते इति चालुः वक्तव्यः .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {30।48} शीतालुः .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {31।48} उष्णालुः .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {32।48} तृप्रालुः .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {33।48} हिमात् चेलुः .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {34।48} हिमात् चेलुः वक्तव्यः तत् न सहते इति एतस्मिन् अर्थे .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {35।48} हिमेलुः .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {36।48} बलात् च ऊलः .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {37।48} बलात् च ऊलः वक्तव्यः तत् न सहते इति एतस्मिन् अर्थे .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {38।48} बलूलः .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {39।48} वातात् समूहे च .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {40।48} वातात् समूहे च तत् न सहते इति एतस्मिन् अर्थे ऊलः वक्तव्यः .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {41।48} वातूलः .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {42।48} पर्वमरुद्भ्याम् तप् .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {43।48} पर्वमरुद्भ्याम् तप् वक्तव्यः .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {44।48} पर्वतः .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {45।48} मरुत्तः .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {46।48} ददातिवृत्तम् वा .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {47।48} ददातिवृत्तम् वा पुनः एतत् भविष्यति .
(प्_5,2.122) क_इइ,399.7-400.8 रो_इव्,171-172 {48।48} मरुद्भिः दत्तः मरुत्तः .
(प्_5,2.125) क_इइ,400.10-11 रो_इव्,173 {1।5} कुत्सिते इति वक्तव्यम् .
(प्_5,2.125) क_इइ,400.10-11 रो_इव्,173 {2।5} यः हि सम्यक् बहु भाषते वाग्मी इति एव सः भवति .
(प्_5,2.125) क_इइ,400.10-11 रो_इव्,173 {3।5} तत् तर्हि वक्तव्यम् .
(प्_5,2.125) क_इइ,400.10-11 रो_इव्,173 {4।5} न वक्तव्यम् .
(प्_5,2.125) क_इइ,400.10-11 रो_इव्,173 {5।5} नानायोगकरणसामर्थ्यात् न भविष्यति .
(प्_5,2.126) क_इइ,400.13-14 रो_इव्,173 {1।6} इह कस्मात् न भवति .
(प्_5,2.126) क_इइ,400.13-14 रो_इव्,173 {2।6} स्वम् अस्य अस्ति इति .
(प्_5,2.126) क_इइ,400.13-14 रो_इव्,173 {3।6} न एषः दोषः .
(प्_5,2.126) क_इइ,400.13-14 रो_इव्,173 {4।6} न अयम् प्रत्ययार्थः .
(प्_5,2.126) क_इइ,400.13-14 रो_इव्,173 {5।6} किम् तर्हि प्रकृतिविशेषणम् एतत् .
(प्_5,2.126) क_इइ,400.13-14 रो_इव्,173 {6।6} स्वामिन् ऐश्वर्ये निपात्यते इति .
(प्_5,2.129) क_इइ,400.16 रो_इव्,174 {1।2} पिशाचात् च इति वक्तव्यम् .
(प्_5,2.129) क_इइ,400.16 रो_इव्,174 {2।2} पिशाचकी वैश्रवणः .
(प्_5,2.135) क_इइ,400.18-401.10 रो_इव्,174-176 {1।32} इनिप्रकरणे बलात् बाहूरुपूर्वपदात् उपसङ्ख्यानम् .
(प्_5,2.135) क_इइ,400.18-401.10 रो_इव्,174-176 {2।32} इनिप्रकरणे बलात् बाहूरुपूर्वपदात् उपसङ्ख्यानम् कर्तव्यम् .
(प्_5,2.135) क_इइ,400.18-401.10 रो_इव्,174-176 {3।32} बाहुबली .
(प्_5,2.135) क_इइ,400.18-401.10 रो_इव्,174-176 {4।32} ऊरुबली .
(प्_5,2.135) क_इइ,400.18-401.10 रो_इव्,174-176 {5।32} सर्वादेः च .
(प्_5,2.135) क_इइ,400.18-401.10 रो_इव्,174-176 {6।32} सर्वादेः च इनिः वक्तव्यः .
(प्_5,2.135) क_इइ,400.18-401.10 रो_इव्,174-176 {7।32} सर्वधनी .
(प्_5,2.135) क_इइ,400.18-401.10 रो_इव्,174-176 {8।32} सर्वबीजी .
(प्_5,2.135) क_इइ,400.18-401.10 रो_इव्,174-176 {9।32} सर्वकेशी .
(प्_5,2.135) क_इइ,400.18-401.10 रो_इव्,174-176 {10।32} अर्थात् च असन्निहिते .
(प्_5,2.135) क_इइ,400.18-401.10 रो_इव्,174-176 {11।32} अर्थात् च असन्निहिते इनिः वक्तव्यः .
(प्_5,2.135) क_इइ,400.18-401.10 रो_इव्,174-176 {12।32} अर्थी .
(प्_5,2.135) क_इइ,400.18-401.10 रो_इव्,174-176 {13।32} असन्निहिते इति किमर्थम् .
(प्_5,2.135) क_इइ,400.18-401.10 रो_इव्,174-176 {14।32} अर्थवान् .
(प्_5,2.135) क_इइ,400.18-401.10 रो_इव्,174-176 {15।32} तदन्तात् च .
(प्_5,2.135) क_इइ,400.18-401.10 रो_इव्,174-176 {16।32} तदन्तात् च इति वक्तव्यम् .
(प्_5,2.135) क_इइ,400.18-401.10 रो_इव्,174-176 {17।32} धान्यार्थी .
(प्_5,2.135) क_इइ,400.18-401.10 रो_इव्,174-176 {18।32} हिरण्यार्थी .
(प्_5,2.135) क_इइ,400.18-401.10 रो_इव्,174-176 {19।32} किमर्थम् तदन्तात् इति उच्यते न तदन्तविधिना सिद्धम् .
(प्_5,2.135) क_इइ,400.18-401.10 रो_इव्,174-176 {20।32} ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते .
(प्_5,2.135) क_इइ,400.18-401.10 रो_इव्,174-176 {21।32} एवर्म् तर्हि इनन्तेन सह समासः भविष्यति .
(प्_5,2.135) क_इइ,400.18-401.10 रो_इव्,174-176 {22।32} धान्येन अर्थी धान्यार्थी .
(प्_5,2.135) क_इइ,400.18-401.10 रो_इव्,174-176 {23।32} सः हि समासः न प्राप्नोति .
(प्_5,2.135) क_इइ,400.18-401.10 रो_इव्,174-176 {24।32} यदि पुनः अयम् अर्थयतेः णिनिः स्यात् .
(प्_5,2.135) क_इइ,400.18-401.10 रो_इव्,174-176 {25।32} एवम् अपि क्रियाम् एव कुर्वाणे स्यात् .
(प्_5,2.135) क_इइ,400.18-401.10 रो_इव्,174-176 {26।32} तूष्णीम् अपि आसीनः यः तत्समर्थानि आचरति सः अभिप्रायेण गम्यते अर्थ्यम् अनेन इति .
(प्_5,2.135) क_इइ,400.18-401.10 रो_इव्,174-176 {27।32} एवम् तर्हि अयम् अर्थशब्दः अस्ति एव द्रव्यपदार्थकः .
(प्_5,2.135) क_इइ,400.18-401.10 रो_इव्,174-176 {28।32} तत् यथा अर्थवान् अयम् देशः इति उच्यते यस्मिन् गावः सस्यानि च वर्तन्ते .
(प्_5,2.135) क_इइ,400.18-401.10 रो_इव्,174-176 {29।32} अस्ति क्रियापदार्थकः भावसाधनः .
(प्_5,2.135) क_इइ,400.18-401.10 रो_इव्,174-176 {30।32} अर्थनम् अर्थः इति .
(प्_5,2.135) क_इइ,400.18-401.10 रो_इव्,174-176 {31।32} तत् यः क्रियापदार्थकः तस्य इदम् ग्रहणम् .
(प्_5,2.135) क_इइ,400.18-401.10 रो_इव्,174-176 {32।32} एवम् च कृत्वा अर्थिकप्रत्यर्थिकौ अपि सिद्धौ भवतः .
(प्_5,3.1) क_इइ,402.2-13 रो_इव्,177-178 {1।19} विभक्तित्वे किम् प्रयोजनम् .
(प्_5,3.1) क_इइ,402.2-13 रो_इव्,177-178 {2।19} विभक्तित्वे प्रयोजनम् इत्प्रतिषेधः .
(प्_5,3.1) क_इइ,402.2-13 रो_इव्,177-178 {3।19} इदानीम् .
(प्_5,3.1) क_इइ,402.2-13 रो_इव्,177-178 {4।19} न विभक्तौ तुस्माः इति इत्प्रतिषेधः सिद्धः भवति .
(प्_5,3.1) क_इइ,402.2-13 रो_इव्,177-178 {5।19} यदि एवम् किमः अत् क्व प्रेप्स्यन् दीप्यसे क्व अर्धमासाः .
(प्_5,3.1) क_इइ,402.2-13 रो_इव्,177-178 {6।19} अत्र अपि प्राप्नोति .
(प्_5,3.1) क_इइ,402.2-13 रो_इव्,177-178 {7।19} तौ च उक्तम् .
(प्_5,3.1) क_इइ,402.2-13 रो_इव्,177-178 {8।19} किम् उक्तम् .
(प्_5,3.1) क_इइ,402.2-13 रो_इव्,177-178 {9।19} विभक्तौ तवर्गप्रतिषेधः अतद्धिते इति .
(प्_5,3.1) क_इइ,402.2-13 रो_इव्,177-178 {10।19} इदमः विभक्तिस्वरः च .
(प्_5,3.1) क_इइ,402.2-13 रो_इव्,177-178 {11।19} इदमः विभक्तिस्वरः च प्रयोजनम् .
(प्_5,3.1) क_इइ,402.2-13 रो_इव्,177-178 {12।19} इतः .
(प्_5,3.1) क_इइ,402.2-13 रो_इव्,177-178 {13।19} इह .
(प्_5,3.1) क_इइ,402.2-13 रो_इव्,177-178 {14।19} इदमः तृतीयादिः विभक्तिः उदात्ता भवति इति एषः स्वरः भवति .
(प्_5,3.1) क_इइ,402.2-13 रो_इव्,177-178 {15।19} त्यदादिविधयः च .
(प्_5,3.1) क_इइ,402.2-13 रो_इव्,177-178 {16।19} त्यदादिविधयः च प्रयोजनम् .
(प्_5,3.1) क_इइ,402.2-13 रो_इव्,177-178 {17।19} यतः .
(प्_5,3.1) क_इइ,402.2-13 रो_इव्,177-178 {18।19} यत्र .
(प्_5,3.1) क_इइ,402.2-13 रो_इव्,177-178 {19।19} विभक्तौ इति त्यदादिविधयः सिद्धाः भवन्ति .
(प्_5,3.2) क_इइ,402.15-20 रो_इव्,178 {1।9} बहुग्रहणे सङ्ख्याग्रहणम् .
(प्_5,3.2) क_इइ,402.15-20 रो_इव्,178 {2।9} बहुग्रहणे सङ्ख्याग्रहणम् कर्तव्यम् .
(प्_5,3.2) क_इइ,402.15-20 रो_इव्,178 {3।9} इह मा भूत् .
(प्_5,3.2) क_इइ,402.15-20 रो_इव्,178 {4।9} बहौ .
(प्_5,3.2) क_इइ,402.15-20 रो_इव्,178 {5।9} बहोः इति .
(प्_5,3.2) क_इइ,402.15-20 रो_इव्,178 {6।9} अथ किमर्थम् किमः उपसङ्ख्यानम् क्रियते न सर्वनाम्नः इति एव सिद्धम् .
(प्_5,3.2) क_इइ,402.15-20 रो_इव्,178 {7।9} द्व्यातिप्रतिषेधात् किमः उपसङ्ख्यानम् .
(प्_5,3.2) क_इइ,402.15-20 रो_इव्,178 {8।9} द्व्यातिप्रतिषेधात् किमः उपसङ्ख्यानम् क्रियते .
(प्_5,3.2) क_इइ,402.15-20 रो_इव्,178 {9।9} अद्व्यादिभ्यः इति प्रतिषेधे प्राप्ते किमः उपसङ्ख्यानम् क्रियते .
(प्_5,3.5.1) क_इइ,403.2-15 रो_इव्,178-179 {1।28} क्व अयम् नकारः श्रूयते .
(प्_5,3.5.1) क_इइ,403.2-15 रो_इव्,178-179 {2।28} न क्व चित् श्रूयते .
(प्_5,3.5.1) क_इइ,403.2-15 रो_इव्,178-179 {3।28} लोपः अस्य भवति नलोपः प्रातिपदिकान्तस्य इति .
(प्_5,3.5.1) क_इइ,403.2-15 रो_इव्,178-179 {4।28} यदि न क्व चित् श्रूयते किमर्थम् उच्चार्यते .
(प्_5,3.5.1) क_इइ,403.2-15 रो_इव्,178-179 {5।28} अनेकाल्शित् सर्वस्य इति सर्वादेशः यथा स्यात् .
(प्_5,3.5.1) क_इइ,403.2-15 रो_इव्,178-179 {6।28} क्रियमाणे अपि नकारे सर्वादेशः न प्राप्नोति .
(प्_5,3.5.1) क_इइ,403.2-15 रो_इव्,178-179 {7।28} किम् कारणम् .
(प्_5,3.5.1) क_इइ,403.2-15 रो_इव्,178-179 {8।28} नलोपे कृते एकाल्त्वात् .
(प्_5,3.5.1) क_इइ,403.2-15 रो_इव्,178-179 {9।28} इदम् इह सम्प्रधार्यम् .
(प्_5,3.5.1) क_इइ,403.2-15 रो_इव्,178-179 {10।28} नलोपः क्रियताम् सर्वादेशः इति .
(प्_5,3.5.1) क_इइ,403.2-15 रो_इव्,178-179 {11।28} किम् अत्र कर्तव्यम् .
(प्_5,3.5.1) क_इइ,403.2-15 रो_इव्,178-179 {12।28} परत्वात् नलोपः .
(प्_5,3.5.1) क_इइ,403.2-15 रो_इव्,178-179 {13।28} असिद्धः नलोपः .
(प्_5,3.5.1) क_इइ,403.2-15 रो_इव्,178-179 {14।28} तस्य असिद्धत्वात् सर्वादेशः भवति .
(प्_5,3.5.1) क_इइ,403.2-15 रो_इव्,178-179 {15।28} परिगणितेषु कार्येषु नलोपः असिद्धः न च इदम् तत्र परिगण्यते .
(प्_5,3.5.1) क_इइ,403.2-15 रो_इव्,178-179 {16।28} एवम् तर्हि आनुपूर्व्या सिद्धम् एतत् .
(प्_5,3.5.1) क_इइ,403.2-15 रो_इव्,178-179 {17।28} न अकृते सर्वादेशे प्रातिपदिकसञ्ज्ञा प्राप्नोति न च अकृतायाम् प्रातिपदिकसञ्ज्ञायाम् नलोपः प्राप्नोति .
(प्_5,3.5.1) क_इइ,403.2-15 रो_इव्,178-179 {18।28} तत् आनुपूर्व्या सिद्धम् .
(प्_5,3.5.1) क_इइ,403.2-15 रो_इव्,178-179 {19।28} न एतत् अस्ति प्रयोजनम् .
(प्_5,3.5.1) क_इइ,403.2-15 रो_इव्,178-179 {20।28} अलः अन्त्यस्य विधयः भवन्ति इति अकारस्य अकारवचने प्रयोजनम् न अस्ति इति कृत्वा अन्तरेण नकारम् सर्वादेशः भविष्यति .
(प्_5,3.5.1) क_इइ,403.2-15 रो_इव्,178-179 {21।28} अस्ति अन्यत् अकारस्य अकारवचने प्रयोजनम् .
(प्_5,3.5.1) क_इइ,403.2-15 रो_इव्,178-179 {22।28} किम् .
(प्_5,3.5.1) क_इइ,403.2-15 रो_इव्,178-179 {23।28} ये अन्ये अकारादेशाः प्राप्नुवन्ति तद्बाधनार्थम् .
(प्_5,3.5.1) क_इइ,403.2-15 रो_इव्,178-179 {24।28} तत् यथा मः राजि समः क्वौ इति मकारस्य मकारवचनसामर्थ्यात् अनुस्वारादयः न भवन्ति .
(प्_5,3.5.1) क_इइ,403.2-15 रो_इव्,178-179 {25।28} तस्मात् नकारः कर्तव्यः .
(प्_5,3.5.1) क_इइ,403.2-15 रो_इव्,178-179 {26।28} न कर्तव्यः .
(प्_5,3.5.1) क_इइ,403.2-15 रो_इव्,178-179 {27।28} क्रियते न्यासे एव .प्रश्लिष्टनिर्देशः अयम् अ अ अ इति .
(प्_5,3.5.1) क_इइ,403.2-15 रो_इव्,178-179 {28।28} सः अनेकाल्शित् सर्वस्य इति सर्वादेशः भविष्यति .
(प्_5,3.5.2) क_इइ,403.16-24 रो_इव्,180 {1।15} एतदः इति योगविभागः .
(प्_5,3.5.2) क_इइ,403.16-24 रो_इव्,180 {2।15} एतदः इति योगविभागः कर्तव्यः .
(प्_5,3.5.2) क_इइ,403.16-24 रो_इव्,180 {3।15} एतदः एत इत् इति एतौ आदेशौ भवतः ततः अन् .
(प्_5,3.5.2) क_इइ,403.16-24 रो_इव्,180 {4।15} अन् च भवति एतदः इति .
(प्_5,3.5.2) क_इइ,403.16-24 रो_इव्,180 {5।15} केन विहितेन थकारे एतदः आदेशः उच्यते .
(प्_5,3.5.2) क_इइ,403.16-24 रो_इव्,180 {6।15} एतदः च थमः उपसङ्ख्यानम् .
(प्_5,3.5.2) क_इइ,403.16-24 रो_इव्,180 {7।15} एतदः च थमः उपसङ्ख्यानम् कर्तव्यम् .
(प्_5,3.5.2) क_इइ,403.16-24 रो_इव्,180 {8।15} एतत्प्रकारम् इत्थम् .
(प्_5,3.5.2) क_इइ,403.16-24 रो_इव्,180 {9।15} तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् .
(प्_5,3.5.2) क_इइ,403.16-24 रो_इव्,180 {10।15} न कर्तव्यम् .
(प्_5,3.5.2) क_इइ,403.16-24 रो_इव्,180 {11।15} एतत् ज्ञापयति भवति अत्र थमुः इति यत् अयम् थकारादौ आदेशम् शास्ति .
(प्_5,3.5.2) क_इइ,403.16-24 रो_इव्,180 {12।15} कुतः नु खलु एतज्ज्ञापकात् अत्र थमुः भविष्यति .
(प्_5,3.5.2) क_इइ,403.16-24 रो_इव्,180 {13।15} न पुनः यः एव असौ अविशेषविहितः थकारादिः तस्मिन् आदेशः स्यात् .
(प्_5,3.5.2) क_इइ,403.16-24 रो_इव्,180 {14।15} इदमा थकारादिम् विशेषयिष्यामः .
(प्_5,3.5.2) क_इइ,403.16-24 रो_इव्,180 {15।15} इदमः यः थकारादिः इति .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {1।59} इदम् विचार्यते : इमे तसिलादयः विभक्त्यादेशः वा स्युः परे वा इति .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {2।59} कथम् च आदेशः स्युः कथम् वा परे .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {3।59} यदि पञ्चम्याः सप्तम्याः इति षष्ठी तदा आदेशाः .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {4।59} अथ पञ्चमी ततः परे .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {5।59} कुतः सन्देहः .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {6।59} समानः निर्देशः .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {7।59} कः च अत्र विशेषः .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {8।59} तसिलादयः विभक्त्यादेशाः चेत् सुब्लुक्स्वरगुणदीर्घैत्त्वौत्त्वस्मायादिविधिप्रतिषेधः .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {9।59} तसिलादयः विभक्त्यादेशाः चेत् सुब्लुक्स्वरगुणदीर्घैत्त्वौत्त्वस्मायादिविधिप्रतिषेधः वक्तव्यः .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {10।59} सुब्लुक् .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {11।59} ततस्त्यः .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {12।59} यतस्त्यः .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {13।59} तत्रत्यः .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {14।59} यत्रत्यः .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {15।59} सुपः धातुप्रातिपदिकयोः इति सुब्लुक् प्राप्नोति .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {16।59} सुब्लुक् .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {17।59} स्वर .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {18।59} यदा .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {19।59} तदा .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {20।59} अनुदात्तौ सुप्पितौ इति एषः स्वरः प्राप्नोति .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {21।59} स्वर .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {22।59} गुण .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {23।59} कस्मात् .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {24।59} कुतः .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {25।59} घेः ङिति इति गुणः प्राप्नोति .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {26।59} गुण .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {27।59} दीर्घ .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {28।59} तस्मिन् .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {29।59} तर्हि .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {30।59} अतः दीर्घः यञि सुपि च इति दीर्घत्वम् प्राप्नोति .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {31।59} दीर्घ .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {32।59} एत्त्व. तेषु .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {33।59} तत्र .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {34।59} बहुवचने झलि एत् इति एत्त्वम् प्राप्नोति .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {35।59} एत्त्व .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {36।59} औत्त्व .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {37।59} कस्मिन् .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {38।59} कुत्र .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {39।59} इदुद्भ्याम् औत् अत् च घेः इति औत्त्वम् प्राप्नोति .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {40।59} औत्त्व .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {41।59} स्मायादिविधिः .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {42।59} तस्मात् .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {43।59} ततः .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {44।59} तस्मिन् .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {45।59} तत्र .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {46।59} ङसिङ्योः स्मात्स्मिनौ इत् स्मादयः प्राप्नुवन्ति .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {47।59} पञ्चमीनिर्देशात् सिद्धम् .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {48।59} सन्तु परे .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {49।59} यदि परे समानशब्दानाम् प्रतिषेधः वक्तव्यः .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {50।59} तस्मात् तस्यति .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {51।59} यस्मात् तस्यति .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {52।59} पञ्चम्यन्तस्य तसेः तसिल् भवति इति तसिल् प्राप्नोति .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {53।59} अनादेशे स्वार्थविज्ञानात् समानशब्दाप्रतिषेधः .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {54।59} अनादेशे स्वार्थविज्ञानात् समानशब्दाप्रतिषेधः .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {55।59} अनर्थकः प्रतिषेधः अप्रतिषेधः .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {56।59} तसिल् कस्मात् न भवति .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {57।59} स्वार्थविज्ञानात् .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {58।59} पञ्चम्यन्तात् परस्य तसेः स्वार्थे वर्तमानस्य तसिला भवितव्यम् .
(प्_5,3.7, 10) क_इइ,404.3-23 रो_इव्,180-182 {59।59} न च अत्र पञ्चम्यन्तात् परः तसिः स्वार्थे वर्तते .
(प्_5,3.8) क_इइ,405.2-8 रो_इव्,182-183 {1।18} किमर्थम् तसेः तसिल् उच्यते .
(प्_5,3.8) क_इइ,405.2-8 रो_इव्,182-183 {2।18} तसेः तसिल्वचनम् स्वरार्थम् .
(प्_5,3.8) क_इइ,405.2-8 रो_इव्,182-183 {3।18} तसेः तसिल्वचनम् क्रियते स्वरार्थम् .
(प्_5,3.8) क_इइ,405.2-8 रो_इव्,182-183 {4।18} लिति प्रत्ययात् पूर्वम् उदात्तम् भवति इति एषः स्वरः यथा स्यात् .
(प्_5,3.8) क_इइ,405.2-8 रो_इव्,182-183 {5।18} ननु च अयम् तसिल् तसिम् बाधिष्यते .
(प्_5,3.8) क_इइ,405.2-8 रो_इव्,182-183 {6।18} न सिध्यति .
(प्_5,3.8) क_इइ,405.2-8 रो_इव्,182-183 {7।18} परत्वात् तसिः प्राप्नोति .
(प्_5,3.8) क_इइ,405.2-8 रो_इव्,182-183 {8।18} तसिलः अवकाशः .
(प्_5,3.8) क_इइ,405.2-8 रो_इव्,182-183 {9।18} ततः हीयते .
(प्_5,3.8) क_इइ,405.2-8 रो_इव्,182-183 {10।18} ततः अवरोहति .
(प्_5,3.8) क_इइ,405.2-8 रो_इव्,182-183 {11।18} तसेः अवकाशः .
(प्_5,3.8) क_इइ,405.2-8 रो_इव्,182-183 {12।18} ग्रामतः आगच्छति .
(प्_5,3.8) क_इइ,405.2-8 रो_इव्,182-183 {13।18} नगरतः आगच्छति .
(प्_5,3.8) क_इइ,405.2-8 रो_इव्,182-183 {14।18} इह उभयम् प्राप्नोति .
(प्_5,3.8) क_इइ,405.2-8 रो_इव्,182-183 {15।18} ततः आगच्छति .
(प्_5,3.8) क_इइ,405.2-8 रो_इव्,182-183 {16।18} यतः आगच्छति .
(प्_5,3.8) क_इइ,405.2-8 रो_इव्,182-183 {17।18} परत्वात् तसिः प्राप्नोति .
(प्_5,3.8) क_इइ,405.2-8 रो_इव्,182-183 {18।18} तस्मात् सुष्थु उच्यते तसेः तसिल्वचनम् स्वरार्थम् इति .
(प्_5,3.9) क_इइ,405.10-12 रो_इव्,183 {1।3} पर्यभिभ्याम् च इति यत् उच्यते तत् सर्वोभयार्थे द्रष्टव्यम् .
(प्_5,3.9) क_इइ,405.10-12 रो_इव्,183 {2।3} यावत् सर्वतः तावत् परितः .
(प्_5,3.9) क_इइ,405.10-12 रो_इव्,183 {3।3} यावत् उभयतः तावत् अभितः .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {1।45} इह कस्मात् न भवति .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {2।45} सः .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {3।45} तौ .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {4।45} ते .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {5।45} भवदादिभिः योगे इति वक्तव्यम् .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {6।45} के पुनः भवदादयः .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {7।45} भवान् .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {8।45} दीर्घायुः .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {9।45} देवानाम्प्रियः .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {10।45} आयुष्मान् इति .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {11।45} सः भवान् .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {12।45} तत्र भवान् .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {13।45} ततः भवान् .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {14।45} तम् भवन्तम् .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {15।45} तत्र भवन्तम् .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {16।45} ततः भवन्तम् .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {17।45} तेन भवता .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {18।45} तत्र भवता ततः भवता .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {19।45} तस्मै भवते .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {20।45} तत्र भवते .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {21।45} ततः भवते .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {22।45} तस्मात् भवतः .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {23।45} तत्र भवतः .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {24।45} ततः भवतः .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {25।45} तस्मिन् भवति .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {26।45} तत्र भवति .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {27।45} ततः भवति .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {28।45} सः दीर्घायुः .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {29।45} तत्र दीर्घायुः .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {30।45} ततः दीर्घायुः .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {31।45} तम् दीर्घायुषम् .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {32।45} तत्र दीर्घायुषम् .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {33।45} ततः दीर्घायुषम् .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {34।45} सः देवानाम्प्रियः .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {35।45} तत्र देवानाम्प्रियः .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {36।45} ततः देवानाम्प्रियः .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {37।45} तम् देवानाम्प्रियम् .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {38।45} तत्र देवानाम्प्रियम् .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {39।45} ततः देवानाम्प्रियम् .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {40।45} सः आयुष्मान् .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {41।45} तत्र आयुष्मान् .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {42।45} ततः आयुष्मान् .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {43।45} तम् आयुष्मन्तम् .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {44।45} तत्र आयुष्मन्तम् .
(प्_5,3.14) क_इइ,405.14-22 रो_इव्,183 {45।45} ततः आयुष्मन्तम्
(प्_5,3.17) क_इइ,406.2-3 रो_इव्,184 {1।3} अधुना इति किम् निपात्यते .
(प्_5,3.17) क_इइ,406.2-3 रो_इव्,184 {2।3} इदमः अश्भावः धुना च प्रत्ययः इदमः वा लोपः अधुना च प्रत्ययः .
(प्_5,3.17) क_इइ,406.2-3 रो_इव्,184 {3।3} अस्मिन् काले अधुन .
(प्_5,3.18) क_इइ,406.5-10 रो_इव्,184 {1।9} इदानीम् .
(प्_5,3.18) क_इइ,406.5-10 रो_इव्,184 {2।9} इदमः तृतीयादिविभक्तिः उदात्ता भवति इति एषः स्वरः प्राप्नोति .
(प्_5,3.18) क_इइ,406.5-10 रो_इव्,184 {3।9} दानीम् इति निपातनात् स्वरसिद्धिः .
(प्_5,3.18) क_इइ,406.5-10 रो_इव्,184 {4।9} दानीम् इति निपातनात् स्वरसिद्धिः भविष्यति .
(प्_5,3.18) क_इइ,406.5-10 रो_इव्,184 {5।9} आद्युदात्तनिपातनम् करिष्यते .
(प्_5,3.18) क_इइ,406.5-10 रो_इव्,184 {6।9} सः निपातनस्वरः विभक्तिस्वरस्य बाधकः भविष्यति .
(प्_5,3.18) क_इइ,406.5-10 रो_इव्,184 {7।9} उक्तम् वा .
(प्_5,3.18) क_इइ,406.5-10 रो_इव्,184 {8।9} किम् उक्तम् .
(प्_5,3.18) क_इइ,406.5-10 रो_इव्,184 {9।9} आदौ सिद्धम् इति .
(प्_5,3.19) क_इइ,406.12-14 रो_इव्,184 {1।5} तदः दावचनम् अनर्थकम् विहितत्वात् .
(प्_5,3.19) क_इइ,406.12-14 रो_इव्,184 {2।5} तदः दावचनम् अनर्थकम् .
(प्_5,3.19) क_इइ,406.12-14 रो_इव्,184 {3।5} किम् कारणम् .
(प्_5,3.19) क_इइ,406.12-14 रो_इव्,184 {4।5} विहितत्वात् .
(प्_5,3.19) क_इइ,406.12-14 रो_इव्,184 {5।5} विहितः अत्र प्रत्ययः सर्वैकान्यकिंयत्तदः काले दा इति .
(प्_5,3.20) क_इइ,406.16-18 रो_इव्,184 {1।4} तयोः इति प्रातिपदिकनिर्देशः .
(प्_5,3.20) क_इइ,406.16-18 रो_इव्,184 {2।4} तयोः इति प्रातिपदिकनिर्देशः द्रष्टव्यः .
(प्_5,3.20) क_इइ,406.16-18 रो_इव्,184 {3।4} द्वेष्यम् विजानीयात् :योगयोः वा प्रत्यययोः वा इति .
(प्_5,3.20) क_इइ,406.16-18 रो_इव्,184 {4।4} तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे : तयोः इति प्रातिपदिकनिर्देशः इति .
(प्_5,3.22) क_इइ,407.2-408.2 रो_इव्,185-186 {1।34} सद्यः इति किम् निपात्यते .
(प्_5,3.22) क_इइ,407.2-408.2 रो_इव्,185-186 {2।34} समानस्य सभावः द्यः च अहनि .
(प्_5,3.22) क_इइ,407.2-408.2 रो_इव्,185-186 {3।34} समानस्य सभावः निपात्यते द्यः च प्रत्ययः अहनि अभिधेये .
(प्_5,3.22) क_इइ,407.2-408.2 रो_इव्,185-186 {4।34} समाने अहनि सद्यः .
(प्_5,3.22) क_इइ,407.2-408.2 रो_इव्,185-186 {5।34} परुत् परारि इति किम् निपात्यते .
(प्_5,3.22) क_इइ,407.2-408.2 रो_इव्,185-186 {6।34} पूर्वपूर्वतयोः परभावः उदारी च संवत्सरे .
(प्_5,3.22) क_इइ,407.2-408.2 रो_इव्,185-186 {7।34} पूर्वपूर्वतयोः परभावः निपात्यते उदारी च प्रत्ययौ संवत्सरे अभिधेये .
(प्_5,3.22) क_इइ,407.2-408.2 रो_इव्,185-186 {8।34} पूर्वस्मिन् संवत्सरे परुत् .
(प्_5,3.22) क_इइ,407.2-408.2 रो_इव्,185-186 {9।34} पूर्वतरे संवत्सरे परारि .
(प्_5,3.22) क_इइ,407.2-408.2 रो_इव्,185-186 {10।34} ऐषमः इति किम् निपात्यते .
(प्_5,3.22) क_इइ,407.2-408.2 रो_इव्,185-186 {11।34} इदमः समसण् .
(प्_5,3.22) क_इइ,407.2-408.2 रो_इव्,185-186 {12।34} इदमः समसण् प्रत्ययः निपात्यते संवत्सरे अभिधेये .
(प्_5,3.22) क_इइ,407.2-408.2 रो_इव्,185-186 {13।34} अस्मिन् संवत्सरे ऐषमः .
(प्_5,3.22) क_इइ,407.2-408.2 रो_इव्,185-186 {14।34} परेद्यवि इति किम् निपात्यते .
(प्_5,3.22) क_इइ,407.2-408.2 रो_इव्,185-186 {15।34} परस्मात् एद्यवि अहनि .
(प्_5,3.22) क_इइ,407.2-408.2 रो_इव्,185-186 {16।34} परस्मात् एद्यवि प्रत्ययः निपात्यते अहनि अभिधेये .
(प्_5,3.22) क_इइ,407.2-408.2 रो_इव्,185-186 {17।34} परस्मिन् अहनि परेद्यवि .
(प्_5,3.22) क_इइ,407.2-408.2 रो_इव्,185-186 {18।34} अद्य इति किम् निपात्यते .
(प्_5,3.22) क_इइ,407.2-408.2 रो_इव्,185-186 {19।34} इदमः अश्भावः द्यः च .
(प्_5,3.22) क_इइ,407.2-408.2 रो_इव्,185-186 {20।34} इदमः अश्भावः निपात्यते द्यः च प्रत्ययः अहनि अभिधेये .
(प्_5,3.22) क_इइ,407.2-408.2 रो_इव्,185-186 {21।34} अस्मिन् अहनि अद्य .
(प्_5,3.22) क_इइ,407.2-408.2 रो_इव्,185-186 {22।34} पूर्वेद्युः अन्येद्युः अन्यतरेद्युः इतरेद्युः अपरेद्युः अधरेद्युः उभयेद्युः उत्तरेद्युः इति किम् निपात्यते .
(प्_5,3.22) क_इइ,407.2-408.2 रो_इव्,185-186 {23।34} पूर्वान्यान्यतरेरापराधरोभयोत्तरेभ्यः एद्युसुच् .
(प्_5,3.22) क_इइ,407.2-408.2 रो_इव्,185-186 {24।34} पूर्वान्यान्यतरेरापराधरोभयोत्तरेभ्यः एद्युसुच् प्रत्ययः निपात्यते अहनि अभिधेये .
(प्_5,3.22) क_इइ,407.2-408.2 रो_इव्,185-186 {25।34} पूर्वस्मिन् अहनि पूर्वेद्युः .
(प्_5,3.22) क_इइ,407.2-408.2 रो_इव्,185-186 {26।34} अन्यस्मिन् अहनि अन्येद्युः .
(प्_5,3.22) क_इइ,407.2-408.2 रो_इव्,185-186 {27।34} अन्यतरस्मिन् अहनि अन्यतरेद्युः .
(प्_5,3.22) क_इइ,407.2-408.2 रो_इव्,185-186 {28।34} इतरस्मिन् अहनि इतरेद्युः .
(प्_5,3.22) क_इइ,407.2-408.2 रो_इव्,185-186 {29।34} अपरस्मिन् अहनि अपरेद्युः .
(प्_5,3.22) क_इइ,407.2-408.2 रो_इव्,185-186 {30।34} अधरस्मिन् अहनि अधरेद्युः .
(प्_5,3.22) क_इइ,407.2-408.2 रो_इव्,185-186 {31।34} उभयोः अह्नोः उभयेद्युः .
(प्_5,3.22) क_इइ,407.2-408.2 रो_इव्,185-186 {32।34} उत्तरस्मिन् अहनि उत्तरेद्युः .
(प्_5,3.22) क_इइ,407.2-408.2 रो_इव्,185-186 {33।34} द्युः च उभयात् . उभयशब्दात् द्युः च वक्तव्यः .
(प्_5,3.22) क_इइ,407.2-408.2 रो_इव्,185-186 {34।34} तस्मात् मनुष्येभ्यः उभयद्युः .
(प्_5,3.27) क_इइ,408.5 रो_इव्,187 {1।4} इह कस्मात् न भवति .
(प्_5,3.27) क_इइ,408.5 रो_इव्,187 {2।4} पूर्वस्मिन् देशे वसति इति .
(प्_5,3.27) क_इइ,408.5 रो_इव्,187 {3।4} न एषः देशः .
(प्_5,3.27) क_इइ,408.5 रो_इव्,187 {4।4} देशविशेषणम् एतत् .
(प्_5,3.28) क_इइ,408.7-22 रो_इव्,188-190 {1।35} किमर्थम् अतसुच् क्रियते न तसुच् एव क्रियते .
(प्_5,3.28) क_इइ,408.7-22 रो_इव्,188-190 {2।35} तत्र अयम् अपि अर्थः .
(प्_5,3.28) क_इइ,408.7-22 रो_इव्,188-190 {3।35} स्वरार्थः चकारः न कर्तव्यः भवति .
(प्_5,3.28) क_इइ,408.7-22 रो_इव्,188-190 {4।35} प्रत्ययस्वरेण एव सिद्धम् .
(प्_5,3.28) क_इइ,408.7-22 रो_इव्,188-190 {5।35} का रूपसिद्धिः : दक्षिणतः ग्रामस्य .
(प्_5,3.28) क_इइ,408.7-22 रो_इव्,188-190 {6।35} उत्तरतः ग्रामस्य .
(प्_5,3.28) क_इइ,408.7-22 रो_इव्,188-190 {7।35} दक्षिणोत्तरशब्दौ अकारान्तौ .
(प्_5,3.28) क_इइ,408.7-22 रो_इव्,188-190 {8।35} तसुशब्दः प्रत्ययः .
(प्_5,3.28) क_इइ,408.7-22 रो_इव्,188-190 {9।35} भवेत् सिद्धम् यदा अकारान्तौ .
(प्_5,3.28) क_इइ,408.7-22 रो_इव्,188-190 {10।35} यतु तु खलु आकारान्तौ तदा न सिध्यति .
(प्_5,3.28) क_इइ,408.7-22 रो_इव्,188-190 {11।35} तदा अपि सिद्धम् .
(प्_5,3.28) क_इइ,408.7-22 रो_इव्,188-190 {12।35} कथम् .
(प्_5,3.28) क_इइ,408.7-22 रो_इव्,188-190 {13।35} पुंवद्भावेन .
(प्_5,3.28) क_इइ,408.7-22 रो_इव्,188-190 {14।35} कथम् पुंवद्भावः .
(प्_5,3.28) क_इइ,408.7-22 रो_इव्,188-190 {15।35} तसिलादिषु आ कृत्वसुचः इति .
(प्_5,3.28) क_इइ,408.7-22 रो_इव्,188-190 {16।35} न सिध्यति .
(प्_5,3.28) क_इइ,408.7-22 रो_इव्,188-190 {17।35} भाषितपुंस्कस्य पुंवद्भावः न च एतौ भाषितपुंस्कौ .
(प्_5,3.28) क_इइ,408.7-22 रो_इव्,188-190 {18।35} ननु च भो दक्षिणशब्दः उत्तरशब्दः च पुंसि भाष्येते .
(प्_5,3.28) क_इइ,408.7-22 रो_इव्,188-190 {19।35} समानायाम् आकृतौ यत् भाषितपुंस्कम् इति उच्यते आकृत्यन्तरे च एतौ भाषितपुंस्कौ .
(प्_5,3.28) क_इइ,408.7-22 रो_इव्,188-190 {20।35} दक्षिणा उत्तरा इति दिक्शब्दौ .
(प्_5,3.28) क_इइ,408.7-22 रो_इव्,188-190 {21।35} दक्षिणः उत्तरः इति व्यवस्थाशब्दौ .
(प्_5,3.28) क_इइ,408.7-22 रो_इव्,188-190 {22।35} यदि पुनः दिक्शब्दाः अपि व्यवस्थाशब्दाः स्युः .
(प्_5,3.28) क_इइ,408.7-22 रो_इव्,188-190 {23।35} कथम् यानि दिगपदिष्टानि कार्याणि .
(प्_5,3.28) क_इइ,408.7-22 रो_इव्,188-190 {24।35} दिशः यदा व्यवस्थाम् वक्ष्यन्ति .
(प्_5,3.28) क_इइ,408.7-22 रो_इव्,188-190 {25।35} यदि तरि यः यः दिशि वर्तते सः सः दिक्शब्दः रमणीयादिषु अतिप्रसङ्गः भवति .
(प्_5,3.28) क_इइ,408.7-22 रो_इव्,188-190 {26।35} रमणीया दिक् शोभना दिक् इति .
(प्_5,3.28) क_इइ,408.7-22 रो_इव्,188-190 {27।35} अथ मतम् एतत् दिशि दृष्टः दिग्दृष्टः दिग्दृष्टः शब्दः दिक्शब्दः दिशम् यः न व्यभिचरति इति रमणीयादिषु अतिप्रसङ्गः न भवति .
(प्_5,3.28) क_इइ,408.7-22 रो_इव्,188-190 {28।35} पुंवद्भावः तु प्राप्नोति .
(प्_5,3.28) क_इइ,408.7-22 रो_इव्,188-190 {29।35} एवम् तर्हि सर्वनाम्नः वृत्तिमात्रे पुंवद्भावः वक्तव्यः दक्षिणोत्तरपूर्वाणाम् इति एवमर्थम् .
(प्_5,3.28) क_इइ,408.7-22 रो_इव्,188-190 {30।35} विशेषणार्थम् तर्हि .
(प्_5,3.28) क_इइ,408.7-22 रो_इव्,188-190 {31।35} क्व विशेषणार्थेन अर्थः .
(प्_5,3.28) क_इइ,408.7-22 रो_इव्,188-190 {32।35} षष्ठी अतसर्थप्रत्ययेन इति .
(प्_5,3.28) क_इइ,408.7-22 रो_इव्,188-190 {33।35} षष्ठी तसर्थप्रत्ययेने इति उच्यमाने इह अपि स्यात् .
(प्_5,3.28) क_इइ,408.7-22 रो_इव्,188-190 {34।35} ततः ग्रामात् .
(प्_5,3.28) क_इइ,408.7-22 रो_इव्,188-190 {35।35} यतः ग्रामात् इति .
(प्_5,3.31) क_इइ,409.2-4 रो_इव्,191 {1।4} उपरि उपरिष्टात् इति किम् निपात्यते .
(प्_5,3.31) क_इइ,409.2-4 रो_इव्,191 {2।4} ऊर्ध्वस्य उपभावः रिलिष्टातिलौ च .
(प्_5,3.31) क_इइ,409.2-4 रो_इव्,191 {3।4} ऊर्ध्वस्य उपभावः रिलिष्टातिलौ च प्रत्ययौ निपात्येते .
(प्_5,3.31) क_इइ,409.2-4 रो_इव्,191 {4।4} उपरि उपरिष्तात् .
(प्_5,3.32) क_इइ,409.6-16 रो_इव्,191 {1।15} पश्चात् इति किम् निपात्यते .
(प्_5,3.32) क_इइ,409.6-16 रो_इव्,191 {2।15} अपरस्य पश्चभावः आतिः च प्रतययः .
(प्_5,3.32) क_इइ,409.6-16 रो_इव्,191 {3।15} अपरस्य पश्चभावः निपात्यते आतिः च प्रतययः .
(प्_5,3.32) क_इइ,409.6-16 रो_इव्,191 {4।15} पश्चात् .
(प्_5,3.32) क_इइ,409.6-16 रो_इव्,191 {5।15} दिक्पूर्वपदस्य च .
(प्_5,3.32) क_इइ,409.6-16 रो_इव्,191 {6।15} दिक्पूर्वपदस्य च अपरस्य पश्चभावः वक्तव्यः आतिः च प्रतययः .
(प्_5,3.32) क_इइ,409.6-16 रो_इव्,191 {7।15} दक्षिणपश्चात् .
(प्_5,3.32) क_इइ,409.6-16 रो_इव्,191 {8।15} उत्तरपश्चात् .
(प्_5,3.32) क_इइ,409.6-16 रो_इव्,191 {9।15} अर्धोत्तरपदस्य च समासे .
(प्_5,3.32) क_इइ,409.6-16 रो_इव्,191 {10।15} अर्धोत्तरपदस्य च समासे अपरस्य पश्चभावः वक्तव्यः .
(प्_5,3.32) क_इइ,409.6-16 रो_इव्,191 {11।15} दक्षिणपश्चार्धः .
(प्_5,3.32) क_इइ,409.6-16 रो_इव्,191 {12।15} उत्तरपश्चार्धः .
(प्_5,3.32) क_इइ,409.6-16 रो_इव्,191 {13।15} अर्धे च .
(प्_5,3.32) क_इइ,409.6-16 रो_इव्,191 {14।15} अर्धे च परतः अपरस्य पश्चभावः वक्तव्यः .
(प्_5,3.32) क_इइ,409.6-16 रो_इव्,191 {15।15} पश्चार्धः .
(प्_5,3.35) क_इइ,409.18-20 रो_इव्,191 {1।4} अपञ्चम्याः इति प्राक् असः .
(प्_5,3.35) क_इइ,409.18-20 रो_इव्,191 {2।4} अपञ्चम्याः इति यत् उच्यते प्राक् असः तत् द्रष्टव्यम् .
(प्_5,3.35) क_इइ,409.18-20 रो_इव्,191 {3।4} द्वेष्यम् विजानीयात् : अविशेषेण उत्तरम् अपञ्चम्याः इति .
(प्_5,3.35) क_इइ,409.18-20 रो_इव्,191 {4।4} तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे : अपञ्चम्याः इति प्राक् असः इति .
(प्_5,3.36) क_इइ,410.2-5 रो_इव्,191 {1।10} किमर्थः चकारः .
(प्_5,3.36) क_इइ,410.2-5 रो_इव्,191 {2।10} स्वरार्थः .
(प्_5,3.36) क_इइ,410.2-5 रो_इव्,191 {3।10} चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् .
(प्_5,3.36) क_इइ,410.2-5 रो_इव्,191 {4।10} न एतत् अस्ति प्रयोजनम् .
(प्_5,3.36) क_इइ,410.2-5 रो_इव्,191 {5।10} एकाच् अयम् .
(प्_5,3.36) क_इइ,410.2-5 रो_इव्,191 {6।10} तत्र न अर्थः स्वरार्थेन चकारेण अनुबन्धेन .
(प्_5,3.36) क_इइ,410.2-5 रो_इव्,191 {7।10} प्रत्ययस्वरेण एव सिद्धम् .
(प्_5,3.36) क_इइ,410.2-5 रो_इव्,191 {8।10} विशेषणार्थः तर्हि .
(प्_5,3.36) क_इइ,410.2-5 रो_इव्,191 {9।10} क्व विशेषणार्थेन अर्थः .
(प्_5,3.36) क_इइ,410.2-5 रो_इव्,191 {10।10} अन्यारादितरर्तेदिक्शब्दाञ्चूऊत्तरपदाजाहियुक्ते .
(प्_5,3.42) क_इइ,410.7-15 रो_इव्,192-193 {1।26} विधार्थे इति उच्यते .
(प्_5,3.42) क_इइ,410.7-15 रो_इव्,192-193 {2।26} कः विधार्थः नाम .
(प्_5,3.42) क_इइ,410.7-15 रो_इव्,192-193 {3।26} विधायाः अर्थः विधार्थः .
(प्_5,3.42) क_इइ,410.7-15 रो_इव्,192-193 {4।26} यदि एवम् एका गोविधा .
(प्_5,3.42) क_इइ,410.7-15 रो_इव्,192-193 {5।26} एका हस्तिविधा .
(प्_5,3.42) क_इइ,410.7-15 रो_इव्,192-193 {6।26} अत्र अपि प्राप्नोति .
(प्_5,3.42) क_इइ,410.7-15 रो_इव्,192-193 {7।26} एवम् तर्हि धाविधानम् धात्वर्थपृथग्भावे .
(प्_5,3.42) क_इइ,410.7-15 रो_इव्,192-193 {8।26} धाविधानम् धात्वर्थपृथग्भावे इति वक्तव्यम् .
(प्_5,3.42) क_इइ,410.7-15 रो_इव्,192-193 {9।26} कः पुनः धात्वर्थपृथग्भावः .
(प्_5,3.42) क_इइ,410.7-15 रो_इव्,192-193 {10।26} किम् यत् तत् देवदत्तः कंसपात्र्याम् पाणिना ओदनम् भुङ्क्ते इति .
(प्_5,3.42) क_इइ,410.7-15 रो_इव्,192-193 {11।26} न इति आह .
(प्_5,3.42) क_इइ,410.7-15 रो_इव्,192-193 {12।26} कारकपृथक्त्वम् एतत् .
(प्_5,3.42) क_इइ,410.7-15 रो_इव्,192-193 {13।26} यत् तर्हि तत् काल्ये भुङ्के सायम् भुङ्क्ते इति .
(प्_5,3.42) क_इइ,410.7-15 रो_इव्,192-193 {14।26} न इति आह .
(प्_5,3.42) क_इइ,410.7-15 रो_इव्,192-193 {15।26} कालपृथक्त्वम् एतत् .
(प्_5,3.42) क_इइ,410.7-15 रो_इव्,192-193 {16।26} यत् तर्हि शीतम् भुङ्क्ते उष्णम् भुङ्क्ते इति .
(प्_5,3.42) क_इइ,410.7-15 रो_इव्,192-193 {17।26} न इति आह .
(प्_5,3.42) क_इइ,410.7-15 रो_इव्,192-193 {18।26} गुणपृथक्त्वम् एतत् .
(प्_5,3.42) क_इइ,410.7-15 रो_इव्,192-193 {19।26} कः तर्हि धात्वर्थपृथग्भावः .
(प्_5,3.42) क_इइ,410.7-15 रो_इव्,192-193 {20।26} कारकाणाम् प्रवृत्तिविशेषः क्रिया .
(प्_5,3.42) क_इइ,410.7-15 रो_इव्,192-193 {21।26} यदि एवम् क्रियाप्रकारे अयम् भवति .
(प्_5,3.42) क_इइ,410.7-15 रो_इव्,192-193 {22।26} विधयुक्तगताः च प्रकारे भवन्ति .
(प्_5,3.42) क_इइ,410.7-15 रो_इव्,192-193 {23।26} एवंविधम् .
(प्_5,3.42) क_इइ,410.7-15 रो_इव्,192-193 {24।26} एवंयुक्तम् .
(प्_5,3.42) क_इइ,410.7-15 रो_इव्,192-193 {25।26} एवङ्गतम् .
(प्_5,3.42) क_इइ,410.7-15 रो_इव्,192-193 {26।26} एवम्प्रकारम् इति .
(प्_5,3.44) क_इइ,410.17-20 रो_इव्,194 {1।7} सहभावे ध्यमुञ् .
(प्_5,3.44) क_इइ,410.17-20 रो_इव्,194 {2।7} सहभावे ध्यमुञ् वक्तव्यः .
(प्_5,3.44) क_इइ,410.17-20 रो_इव्,194 {3।7} एइकध्यम् राशिम् कुरु .
(प्_5,3.44) क_इइ,410.17-20 रो_इव्,194 {4।7} सः तर्हि वक्तव्यः .
(प्_5,3.44) क_इइ,410.17-20 रो_इव्,194 {5।7} न वक्तव्यः .
(प्_5,3.44) क_इइ,410.17-20 रो_इव्,194 {6।7} अधिकरणविचाले इति उच्यते न च सः एव अधिकरणविचालः यत् एकम् अनेकम् क्रियते .
(प्_5,3.44) क_इइ,410.17-20 रो_इव्,194 {7।7} यत् अपि अनेकम् एकम् क्रियते सः अपि अधिकरणविचालः .
(प्_5,3.45) क_इइ,411.2-3 रो_इव्,194-195 {1।4} धमुञन्तात् स्वार्थे डदर्शनम् .
(प्_5,3.45) क_इइ,411.2-3 रो_इव्,194-195 {2।4} धमुञन्तात् स्वार्थे डः दृश्यते सः च विधेयः .
(प्_5,3.45) क_इइ,411.2-3 रो_इव्,194-195 {3।4} पथि द्वैधानि .
(प्_5,3.45) क_इइ,411.2-3 रो_इव्,194-195 {4।4} संशये द्वैधानि .
(प्_5,3.47) क_इइ,411.5-10 रो_इव्,195 {1।10} पाशपि कुत्सितग्रहणम् .
(प्_5,3.47) क_इइ,411.5-10 रो_इव्,195 {2।10} पाशपि कुत्सितग्रहणम् कर्तव्यम् .
(प्_5,3.47) क_इइ,411.5-10 रो_इव्,195 {3।10} वैयाकरणपाशः .
(प्_5,3.47) क_इइ,411.5-10 रो_इव्,195 {4।10} याज्ञिकपाशः .
(प्_5,3.47) क_इइ,411.5-10 रो_इव्,195 {5।10} यः हि यापयितव्यः याप्यः तत्र मा भूत् इति .
(प्_5,3.47) क_इइ,411.5-10 रो_इव्,195 {6।10} अथ वैयाकरणः शरीरेण कृशः व्याकरणेन च शोभनः कर्तव्यः वैयाकरणपाशः इति .
(प्_5,3.47) क_इइ,411.5-10 रो_इव्,195 {7।10} न कर्तव्यः .
(प्_5,3.47) क_इइ,411.5-10 रो_इव्,195 {8।10} कथम् .
(प्_5,3.47) क_इइ,411.5-10 रो_इव्,195 {9।10} यस्य भावात् द्रव्ये शब्दनिवेशः तदभिधाने तद्गुणे वक्तव्ये प्रत्ययेन भवितव्यम् .
(प्_5,3.47) क_इइ,411.5-10 रो_इव्,195 {10।10} न च कार्श्यस्य भावात् द्रव्ये वैयाकरणशब्दः .
(प्_5,3.48) क_इइ,411.12-15 रो_इव्,195 {1।6} पूरणग्रहणम् शक्यम् अकर्तुम् .
(प्_5,3.48) क_इइ,411.12-15 रो_इव्,195 {2।6} न हि अपूरणः तीयशब्दः अस्ति यत्र दोषः स्यात् .
(प्_5,3.48) क_इइ,411.12-15 रो_इव्,195 {3।6} ननु च अयम् अस्ति मुखतीयः पार्श्वतीयः इति .
(प्_5,3.48) क_इइ,411.12-15 रो_इव्,195 {4।6} अर्थवद्ग्रहणे न अनर्थकस्य इति एवम् अस्य न भविष्यति .
(प्_5,3.48) क_इइ,411.12-15 रो_इव्,195 {5।6} उत्तरार्थम् तर्हि पूरणग्रहणम् कर्तव्यम् .
(प्_5,3.48) क_इइ,411.12-15 रो_इव्,195 {6।6} प्राक् एकादशभ्यः अच्छन्दसि इति पूरणात् यथा स्यात् .
(प्_5,3.52) क_इइ,411.17-412.10 रो_इव्,19196-197 {1।31} एकात् आकिनिचि द्विबह्वर्थे प्रत्ययविधानम् .
(प्_5,3.52) क_इइ,411.17-412.10 रो_इव्,19196-197 {2।31} एकात् आकिनिचि द्विबह्वर्थे प्रत्ययः विधेयः .
(प्_5,3.52) क_इइ,411.17-412.10 रो_इव्,19196-197 {3।31} एकाकिनौ .
(प्_5,3.52) क_इइ,411.17-412.10 रो_इव्,19196-197 {4।31} एकाकिनः इति .
(प्_5,3.52) क_इइ,411.17-412.10 रो_इव्,19196-197 {5।31} किम् पुनः कारणम् न सिध्यति .
(प्_5,3.52) क_इइ,411.17-412.10 रो_इव्,19196-197 {6।31} एकशब्दः अयम् सङ्ख्यापदम् सङ्ख्यायाः च सङ्ख्येयम् अर्थः .
(प्_5,3.52) क_इइ,411.17-412.10 रो_इव्,19196-197 {7।31} सिद्धम् तु सङ्ख्यादेशवचनात् .
(प्_5,3.52) क_इइ,411.17-412.10 रो_इव्,19196-197 {8।31} सिद्धम् एतत् .
(प्_5,3.52) क_इइ,411.17-412.10 रो_इव्,19196-197 {9।31} कथम् .
(प्_5,3.52) क_इइ,411.17-412.10 रो_इव्,19196-197 {10।31} द्विबह्वर्थायाः सङ्ख्यायाः एकशब्दः आदेशः वक्तव्यः .
(प्_5,3.52) क_इइ,411.17-412.10 रो_इव्,19196-197 {11।31} असहायस्य वा .
(प्_5,3.52) क_इइ,411.17-412.10 रो_इव्,19196-197 {12।31} असहायस्य वा एकशब्दः आदेशः वक्तव्यः .
(प्_5,3.52) क_इइ,411.17-412.10 रो_इव्,19196-197 {13।31} असहायः एकाकी .
(प्_5,3.52) क_इइ,411.17-412.10 रो_इव्,19196-197 {14।31} असहायौ एकाकिनौ .
(प्_5,3.52) क_इइ,411.17-412.10 रो_इव्,19196-197 {15।31} असहायाः एकाकिनः .
(प्_5,3.52) क_इइ,411.17-412.10 रो_इव्,19196-197 {16।31} सिध्यति .
(प्_5,3.52) क_इइ,411.17-412.10 रो_इव्,19196-197 {17।31} सूत्रम् तर्हि भिद्यते .
(प्_5,3.52) क_इइ,411.17-412.10 रो_इव्,19196-197 {18।31} यथान्यासम् एव अस्तु .
(प्_5,3.52) क_इइ,411.17-412.10 रो_इव्,19196-197 {19।31} ननु च उक्तम् एकात् आकिनिचि द्विबह्वर्थे प्रत्ययविधानम् इति .
(प्_5,3.52) क_इइ,411.17-412.10 रो_इव्,19196-197 {20।31} न एषः दोषः .
(प्_5,3.52) क_इइ,411.17-412.10 रो_इव्,19196-197 {21।31} अयम् एकशब्दः अस्ति एव सङ्ख्यापदम् .
(प्_5,3.52) क_इइ,411.17-412.10 रो_इव्,19196-197 {22।31} तत् यथा एकः द्वौ बहवः इति .
(प्_5,3.52) क_इइ,411.17-412.10 रो_इव्,19196-197 {23।31} अस्ति अन्यार्थे वर्तते .
(प्_5,3.52) क_इइ,411.17-412.10 रो_इव्,19196-197 {24।31} तत् यथा सधमादः द्युम्नः एकाः ताः .
(प्_5,3.52) क_इइ,411.17-412.10 रो_इव्,19196-197 {25।31} अन्याः इति अर्थः .
(प्_5,3.52) क_इइ,411.17-412.10 रो_इव्,19196-197 {26।31} अस्ति असहायवाची .
(प्_5,3.52) क_इइ,411.17-412.10 रो_इव्,19196-197 {27।31} तत् यथा .
(प्_5,3.52) क_इइ,411.17-412.10 रो_इव्,19196-197 {28।31} एकाग्नयः .
(प्_5,3.52) क_इइ,411.17-412.10 रो_इव्,19196-197 {29।31} एकहलानि .
(प्_5,3.52) क_इइ,411.17-412.10 रो_इव्,19196-197 {30।31} एकाकिभिः क्षुद्रकैः जितम् इति .
(प्_5,3.52) क_इइ,411.17-412.10 रो_इव्,19196-197 {31।31} तत् यः असहायवाची तस्य एषः प्रयोगः .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {1।88} अतिशायने इति उच्यते .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {2।88} किम् इदम् अतिशायने इति .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {3।88} देश्याः सूत्रनिबन्धाः क्रियन्ते .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {4।88} यावत् ब्रूयात् प्रकर्षे अतिशये इति तावत् अतिशायने इति .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {5।88} कस्य पुनः प्रकर्षे प्रत्ययः उत्पद्यते .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {6।88} ङ्याप्प्रातिपदिकात् इति वर्तते .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {7।88} ङ्याप्प्रातिपदिकस्य प्रकर्षे .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {8।88} ङ्याप्प्रातिपदिकम् वै शब्दः न च शब्दस्य प्रकर्षापकर्षौ स्तः .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {9।88} शब्दे असम्भवात् अर्थे कार्यम् विज्ञास्यते .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {10।88} कः पुनः ङ्याप्प्रातिपदिकार्थः .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {11।88} द्रव्यम् .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {12।88} न वै द्रव्यसय प्रकर्षे इष्यते .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {13।88} एवम् तर्हि गुणः .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {14।88} एवम् अपि गुणग्रहणम् कर्तव्यम् .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {15।88} द्रव्यम् अपि ङ्याप्प्रातिपदिकार्थः गुणः अपि .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {16।88} तत्र कुतः एतत् गुणस्य प्रकर्षे भविष्यति न पुनः द्रव्यस्य प्रकर्षे इति .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {17।88} क्रियमाणे च अपि गुणग्रहणे समानगुणग्रहणम् कर्तव्यम् शुक्लात् कृष्णे मा भूत् इति .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {18।88} न तर्हि इदानीम् इदम् भवति : अध्वर्युः वै श्रेयान् .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {19।88} पापीयान् प्रतिप्रस्थाता .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {20।88} अन्धानाम् काणतमः इति .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {21।88} समानगुणे एषा स्पर्धा भवति .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {22।88} अध्वर्युः वै श्रेयान् अन्येभ्यः प्रशस्येभ्यः .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {23।88} पापीयान् प्रतिप्रस्थाता अन्येभ्यः पापेभ्यः .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {24।88} अन्धानाम् काणतमः इति कणिः अयम् सौक्ष्म्ये वर्तते .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {25।88} सर्वे इमे किम् चित् पश्यन्ति .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {26।88} अयम् एषाम् काणतमः इति .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {27।88} अदूरविप्रकर्षे इति वक्तव्यम् .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {28।88} इह मा भूत् .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {29।88} महान् सर्षपः .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {30।88} महान् हिमवान् इति .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {31।88} जातेः न इति वक्तव्यम् .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {32।88} इह मा भूत् : वृक्षः अयम् प्लक्षः अयम् इति .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {33।88} न तर्हि इदानीम् इदम् भवति : गोतरः .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {34।88} गोतरा .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {35।88} अश्वतरः इति .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {36।88} न एषः जातेः प्रकर्षः .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {37।88} कस्य तर्हि .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {38।88} गुणस्य .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {39।88} गौः अयम् शकटम् वहति .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {40।88} गोतरर्ः अयम् यः शकटम् वहति सीरम् च .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {41।88} गौः इयम् या समाम् समाम् विजायते .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {42।88} गोतरा इयम् या समाम् समाम् विजायते स्त्रीवत्सा च .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {43।88} अश्वः अयम् यः चत्वारि योजनानि गच्छति .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {44।88} अश्वतरः अयम् यः अष्टौ योजनानि गच्छति .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {45।88} तथा तिङः च इति अत्र क्रियाग्रहणम् कर्तव्यम् साधनप्रकर्षे मा भूत् .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {46।88} न एषः दोषः .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {47।88} यत् तावत् उच्यते गुणग्रहणम् कर्तव्यम् इति .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {48।88} न कर्तव्यम् .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {49।88} यस्य प्रकर्षः अस्ति तस्य प्रकर्षे भविष्यति .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {50।88} गुणस्य च एव प्रकर्षः न द्रव्यस्य .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {51।88} कथम् ज्ञायते .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {52।88} एवम् हि दृश्यते लोके .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {53।88} इह समाने आयामे विस्तारे पटस्य अन्यः अर्घः भवति काशिकस्य अन्यः माथुरस्य .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {54।88} गुणान्तरम् खलु अपि शिल्पिनः उत्पादयमानाः द्रव्यान्तरेण प्रक्षालयन्ति .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {55।88} अन्येन शुद्धम् धौतकम् कुर्वन्ति अन्येन शैफालिकम् अन्येन माध्यमिकम् .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {56।88} यत् अपि उच्यते क्रियमाणे च अपि गुणग्रहणे समानगुणग्रहणम् कर्तव्यम् शुक्लात् कृष्णे मा भूत् इति .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {57।88} न कर्तव्यम् .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {58।88} समानगुणे एव स्पर्धा भवति .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {59।88} नहि आढ्याभिरूपौ स्पर्धेते .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {60।88} वाचकेन खलु अपि उत्पत्तव्यम् न च शुक्लात् कृष्णे प्रत्ययः उत्पद्यमानः वाचकः स्यात् .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {61।88} यत् अपि उच्यते अदूरविप्रकर्षे इति वक्तव्यम् इति .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {62।88} न वक्तव्यम् .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {63।88} अदूरविप्रकर्षे एव स्पर्धा भवति .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {64।88} न हि निष्कधनः शतनिष्कधनेन स्पर्धते .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {65।88} यत् अपि उच्यते जातेः न इति वक्तव्यम् इति .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {66।88} न वक्तव्यम् .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {67।88} जननेन या प्राप्यते सा जातिः न च एतस्य अर्थस्य प्रकर्षापकर्षौ स्तः .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {68।88} यत् अपि उच्यते तिङः च इति अत्र क्रियाग्रहणम् कर्तव्यम् साधनप्रकर्षे मा भूत् इति .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {69।88} न कर्तव्यम् .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {70।88} साधनम् वै द्रव्यम् न च द्रव्यस्य प्रकर्षापकर्षौ स्तः .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {71।88} किम् पुनः एकम् शौक्ल्यम् आहोस्वित् नाना .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {72।88} किम् च अतः .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {73।88} यदि एकम् प्रकर्षः न उपपद्यते .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {74।88} न हि तेन एव तस्य प्रकर्षः भवति .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {75।88} अथ नाना समानगुणग्रहणम् कर्तव्यम् शुक्लात् कृष्णे मा भूत् इति .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {76।88} अस्ति एकम् शौक्ल्यम् तत् तु विशेषवत् .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {77।88} किङ्कृतः विशेषः .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {78।88} अल्पत्वमहत्त्वकृतः .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {79।88} अथ वा पुनः अस्तु एकम् निर्विशेषम् च .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {80।88} ननु च उक्तम् प्रकर्षः न उपपद्यते .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {81।88} न हि तेन एव तस्य प्रकर्षः भवति इति .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {82।88} गुणान्तरेण प्रच्छादात् प्रकर्षः भविष्यति .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {83।88} अथ वा पुनः अस्तु नाना .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {84।88} ननु च उक्तम् समानगुणग्रहणम् कर्तव्यम् शुक्लात् कृष्णे मा भूत् इति .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {85।88} न कर्तव्यम् .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {86।88} समानगुणे एव स्पर्धा भवति .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {87।88} नहि आढ्याभिरूपौ स्पर्धेते .
(प्_5,3.55.1) क_इइ,413.2-414.14 रो_इव्,197-205 {88।88} वाचकेन खलु अपि उत्पत्तव्यम् न च शुक्लात् कृष्णे प्रत्ययः उत्पद्यमानः वाचकः स्यात् .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {1।56} किमन्तात् पुनः उत्पत्त्या भवितव्यम् .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {2।56} द्वितीयान्तात् अतिशय्यमानात् .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {3।56} शुक्लम् अतिशेते शुक्लतरः .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {4।56} कृष्णम् अतिशेते कृष्णतरः .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {5।56} यदि द्वितीयान्तात् अतिशय्यमानात् कालः अतिशेते कालीम् कालितरः इति प्राप्नोति कालतरः इति च इष्यते .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {6।56} तथा काली अतिशेते कालम् कालतरः इति प्राप्नोति कालितरा इति च इष्यते .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {7।56} तथा गार्ग्यः अतिशेते गर्गान् गर्गतरः इति प्राप्नोति गार्ग्यतरः इति च इष्यते .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {8।56} तथा गर्गाः अतिशेरते गार्ग्यम् गार्ग्यतराः इति प्राप्नोति गर्गतराः इति च इष्यते .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {9।56} एवम् तर्हि प्रथमान्तात् स्वार्थिकः भविष्यति .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {10।56} कालः अतिशेते कालतरः .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {11।56} काली अतिशेते कालितरा .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {12।56} गार्ग्यः अतिशेते गार्ग्यतरः .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {13।56} गर्गाः अतिशेरते गर्गतराः .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {14।56} यदि प्रथमान्तात् स्वार्थिकः कुमारितरा किशोरितरा अव्यतिरिक्तम् वयः इति कृत्वा वयसि प्रथमे इति ङीप् प्राप्नोति .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {15।56} तरपा उक्तत्वात् स्त्रीप्रत्ययः न भविष्यति .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {16।56} टाप् अपि तर्हि न प्राप्नोति .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {17।56} उक्ते अपि हि भवन्ति एते टाबादयः .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {18।56} उक्तम् एतत् स्वार्थिकाः टाबादयः इति .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {19।56} ङीप् अपि तर्हि प्राप्नोति .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {20।56} एवम् तर्हि गुणः अभिधीयते .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {21।56} एवम् अपि लिङ्गवचनानि न सिध्यन्ति .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {22।56} शुक्लतरम् .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {23।56} शुक्लतरा .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {24।56} शुक्लतरः .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {25।56} शुक्लतरौ .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {26।56} शुक्लतराः इति .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {27।56} आश्रयतः लिङ्गवचनानि भविष्यन्ति .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {28।56} गुणवचनानाम् हि शब्दानाम् आश्रयत लिङ्गवचनानि भवन्ति .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {29।56} शुक्लम् वस्त्रम् , शुक्ला शाटी शुक्लः कम्बलः , शुक्लौ कम्बलौ शुक्लाः कम्बलाः इति .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {30।56} यत् असौ द्रव्यम् श्रितः भवति गुणः तस्य यत् लिङ्गम् वचनम् च तत् गु अस्य अपि भविष्यति .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {31।56} अथ वा क्रिया अभिधीयते .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {32।56} एवम् अपि लिङ्गवचनानि न सिध्यन्ति .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {33।56} आश्रयतः लिङ्गवचनानि भविष्यन्ति .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {34।56} एवम् अपि द्विवचनम् प्राप्नोति .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {35।56} यः च अतिशेते यः च अतिशय्यते उभौ तौ तस्य आश्रयौ भवतः .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {36।56} न एषः दोषः .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {37।56} कथम् .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {38।56} शेतिः अकर्मकः .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {39।56} अकर्मकाः अपि धातवः सोपसर्गाः सकर्मकाः भवन्ति .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {40।56} कर्मापदिष्टाः विधयः कर्मस्थभावकानाम् कर्मस्थक्रियाणम् वा भवन्ति कर्तृस्थभावकः च शेतिः .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {41।56} अथ यदि एव द्वितीयान्तात् उत्पत्तिः प्रथमान्तात् वा स्वार्थिकः अथ अपि गुणः अभिधीयते अथ अपि क्रिया किम् गतम् एतत् इयता सूत्रेण आहोस्वित् अन्यतरस्मिन् पक्षे भूयः सूत्रम् कर्तव्यम् .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {42।56} गतम् इति आह .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {43।56} कथम् .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {44।56} यदा तावत् द्वितीयान्तात् उत्पत्तिः प्रथमान्तात् वा स्वार्थिकः तदा कृत्यल्युटः बहुलम् इति एवम् अत्र ल्युट् भविष्यति .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {45।56} यदा गुणः अभिधीयते तदा न्यायसिद्धम् एव .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {46।56} यदा लपि क्रिया तदा अपि न्यायसिद्धम् एव .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {47।56} अथ वा अतिशाययति इति अतिशायनम् .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {48।56} कः प्रयोज्यार्थः .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {49।56} गुणाः गुणिनम् प्रयोजयन्ति गुणी वा गुणान् प्रयोजयति .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {50।56} कः पुनः इह शेत्यर्थः .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {51।56} इह यः यत्र भवति शेते असौ तत्र .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {52।56} गुणाः च गुणिनि शेरते .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {53।56} शेत्यर्थः कारितार्थः वा निर्देशः अयम् समीक्षितः .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {54।56} शेत्यर्थे न अस्ति वक्तव्यम् .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {55।56} कारितार्थे ब्रवीमि ते .
(प्_5,3.55.2) क_इइ,414.15-415.17 रो_इव्,205-209 {56।56} गुणी वा गुणसंयोगात् गुणः वा गुणिना यदि अभिव्यज्येत संयोगात् कारितार्थः भविष्यति .
(प्_5,3.55.3) क_इइ,415.18-416.15 रो_इव्,209-211 {1।33} इह अस्य अपि सूक्ष्माणि वस्त्राणि अस्य अपि सूक्ष्माणि वस्त्राणि इति परत्वात् आतिशायिकः प्राप्नोति .
(प्_5,3.55.3) क_इइ,415.18-416.15 रो_इव्,209-211 {2।33} अतिशायने बहुव्रीहौ उक्तम् .
(प्_5,3.55.3) क_इइ,415.18-416.15 रो_इव्,209-211 {3।33} किम् उक्तम् .
(प्_5,3.55.3) क_इइ,415.18-416.15 रो_इव्,209-211 {4।33} पूर्व्पदातिशये आतिशायिकात् बहुव्रीहिः सूक्ष्मवस्त्रतराद्यर्थः .
(प्_5,3.55.3) क_इइ,415.18-416.15 रो_इव्,209-211 {5।33} उत्तरपदातिशये आतिशायिकः बहुव्रीहेः बह्वाढ्यतराद्यर्थः इति .
(प्_5,3.55.3) क_इइ,415.18-416.15 रो_इव्,209-211 {6।33} इह त्रीणि शुक्लानि वस्त्राणि प्रकर्षापकर्षयुक्तानि .
(प्_5,3.55.3) क_इइ,415.18-416.15 रो_इव्,209-211 {7।33} तत्र पूर्वम् अपेक्ष्य उत्तरे द्वे तरबन्ते .
(प्_5,3.55.3) क_इइ,415.18-416.15 रो_इव्,209-211 {8।33} तत्र द्वयोः तरबन्तयोः एकस्मात् प्रकर्षयुक्तात् शुक्लतरशब्दात् उत्पत्तिः प्राप्नोति शुक्लशब्दात् एव च इष्यते .
(प्_5,3.55.3) क_इइ,415.18-416.15 रो_इव्,209-211 {9।33} शुक्लतरस्य शुक्लभावात् प्रकृतेः प्रत्ययविज्ञानम् .
(प्_5,3.55.3) क_इइ,415.18-416.15 रो_इव्,209-211 {10।33} शुक्लतरशब्दे शुक्लशब्दः अस्ति .
(प्_5,3.55.3) क_इइ,415.18-416.15 रो_इव्,209-211 {11।33} तस्मात् उत्पत्तिः भविष्यति .
(प्_5,3.55.3) क_इइ,415.18-416.15 रो_इव्,209-211 {12।33} न एतत् विवदामहे शुक्लतरशब्दे शुक्लशब्दः अस्ति न अस्ति इति .
(प्_5,3.55.3) क_इइ,415.18-416.15 रो_इव्,209-211 {13।33} किम् तर्हि .
(प्_5,3.55.3) क_इइ,415.18-416.15 रो_इव्,209-211 {14।33} शुक्लतरशब्दः अपि अस्ति .
(प्_5,3.55.3) क_इइ,415.18-416.15 रो_इव्,209-211 {15।33} ततः उत्पत्तिः प्राप्नोति .
(प्_5,3.55.3) क_इइ,415.18-416.15 रो_इव्,209-211 {16।33} तदन्तात् च स्वार्थे छन्दसि दर्शनम् श्रेष्ठमाय इति .
(प्_5,3.55.3) क_इइ,415.18-416.15 रो_इव्,209-211 {17।33} तदन्तात् आतिशायिकान्तात् च स्वार्थे छन्दसि आतिशायिकः दृश्यते .
(प्_5,3.55.3) क_इइ,415.18-416.15 रो_इव्,209-211 {18।33} देवो वः सवित प्रर्पयतु श्रेष्ठमाय कर्मणे .
(प्_5,3.55.3) क_इइ,415.18-416.15 रो_इव्,209-211 {19।33} एवम् तर्हि मध्यमात् शुक्लशब्दात् पूर्वपरापेक्षात् उत्पत्तिः वक्तव्या .
(प्_5,3.55.3) क_इइ,415.18-416.15 रो_इव्,209-211 {20।33} मध्यमः च शुक्लशब्दः पूर्वम् अपेक्ष्य प्रकृष्टः परम् अपेक्ष्य न्यूनः न च न्यूनः प्रवर्तते .
मूल पाठ: Vyākaraṇamahābhāṣya · Edition: Franz Kielhorn (Bombay 1880-1885), revised by K.V. Abhyankar (Poona 1972-1996). · Data entry George Cardona · GRETIL (Göttingen) · CC BY-NC-SA 4.0