व्याकरणमहाभाष्य · भाग 701720
(प्_5,1.57-58.1) क_इइ,352.18-354.6 रो_इव्,43-46 {60।73} तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् .
(प्_5,1.57-58.1) क_इइ,352.18-354.6 रो_इव्,43-46 {61।73} न कर्तव्यम् .
(प्_5,1.57-58.1) क_इइ,352.18-354.6 रो_इव्,43-46 {62।73} कालात् इति एव सिद्धम् .
(प्_5,1.57-58.1) क_इइ,352.18-354.6 रो_इव्,43-46 {63।73} ननु च उक्तम् न इमे कालशब्दाः .
(प्_5,1.57-58.1) क_इइ,352.18-354.6 रो_इव्,43-46 {64।73} किम् तर्हि .
(प्_5,1.57-58.1) क_इइ,352.18-354.6 रो_इव्,43-46 {65।73} सङ्ख्याशब्दाः इति .
(प्_5,1.57-58.1) क_इइ,352.18-354.6 रो_इव्,43-46 {66।73} ननु च उक्तम् इमे अपि कालशब्दाः .
(प्_5,1.57-58.1) क_इइ,352.18-354.6 रो_इव्,43-46 {67।73} कथम् .
(प्_5,1.57-58.1) क_इइ,352.18-354.6 रो_इव्,43-46 {68।73} सङ्ख्या सङ्ख्येये वर्तते .
(प्_5,1.57-58.1) क_इइ,352.18-354.6 रो_इव्,43-46 {69।73} ननु च उक्तम् यदि तर्हि यः यः काले वर्तते सः सः कालशब्दः रमणीयादिषु अत्रिप्रसङ्गः भवति इति .
(प्_5,1.57-58.1) क_इइ,352.18-354.6 रो_इव्,43-46 {70।73} उक्तम् वा .
(प्_5,1.57-58.1) क_इइ,352.18-354.6 रो_इव्,43-46 {71।73} किम् उक्तम् .
(प्_5,1.57-58.1) क_इइ,352.18-354.6 रो_इव्,43-46 {72।73} अनभिधानात् इति .
(प्_5,1.57-58.1) क_इइ,352.18-354.6 रो_इव्,43-46 {73।73} अनभिधानात् रमणीयादिषु उत्पत्तिः न भविष्यति .
(प्_5,1.57-58.2) क_इइ,354.7-9 रो_इव्,46 {1।6} स्तोमे डविधिः पञ्चदशाद्यर्थः .
(प्_5,1.57-58.2) क_इइ,354.7-9 रो_इव्,46 {2।6} स्तोमे डः विधेयः .
(प्_5,1.57-58.2) क_इइ,354.7-9 रो_इव्,46 {3।6} किम् प्रयोजनम् .
(प्_5,1.57-58.2) क_इइ,354.7-9 रो_इव्,46 {4।6} पञ्चदशाद्यर्थः .
(प्_5,1.57-58.2) क_इइ,354.7-9 रो_इव्,46 {5।6} पञ्चदशः स्तोमः .
(प्_5,1.57-58.2) क_इइ,354.7-9 रो_इव्,46 {6।6} सप्तदशः स्तोमः इति .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {1।116} इमे विंशत्यादयः सप्रकृतिकाः सप्रत्ययकाः निपात्यन्ते .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {2।116} तत्र न ज्ञायते का प्रकृतिः कः प्रत्ययः कः प्रत्ययार्थः इति .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {3।116} तत्र वक्तव्यम् इयम् प्रकृतिः अयम् प्रत्ययः अयम् प्रत्ययार्थः इति .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {4।116} इमे ब्रूमः द्विशब्दात् अयम् दशदर्थाभिदाहिनः स्वार्थे शतिच्प्रत्ययः निपात्यते विन्भावः च .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {5।116} द्वौ दशतौ विंशतिः .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {6।116} विंशत्यादयः दशात् चेत् समासवचनानुपपत्तिः .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {7।116} विंशत्यादयः दशात् चेत् समासः न उपपद्यते .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {8।116} विंशतिगवम् इति .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {9।116} किम् कारणम् .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {10।116} द्रव्यम् अनभिहितम् .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {11।116} तस्य अनभिहितत्वात् षष्ठी प्राप्नोति .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {12।116} षष्ठ्यन्तम् च समासे पूर्वम् निपतति .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {13।116} तत्र गोविंशतिः इति प्राप्नोति .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {14।116} न च एवम् भवितव्यम् .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {15।116} भवितव्यम् च विंशतिगवम् तु न सिध्यति .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {16।116} इह च त्रिंशत्पूली चत्वारिंशत्पूली समानाधिकरणलक्षणः समासः न प्राप्नोति .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {17।116} वचनम् च विधेयम् .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {18।116} विंशतिः .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {19।116} द्वित्वात् दशतोः द्वयोः द्विवचनम् इति द्विवचनम् प्राप्नोति .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {20।116} एवम् तर्हि परिमाणिनि विंशत्यादयः भविष्यन्ति .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {21।116} परिमाणिनि चेत् पुनः स्वार्थे प्रत्ययविधानम् .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {22।116} परिमाणिनि चेत् पुनः स्वार्थे प्रत्ययः विधेयः .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {23।116} विंशकः सङ्घः .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {24।116} षष्ठीवचनविधिः च .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {25।116} षष्ठी च विधेया .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {26।116} गवाम् विंशतिः .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {27।116} द्रव्यम् अभिहितम् .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {28।116} तस्य अभिहितत्वात् षष्ठी न प्राप्नोति .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {29।116} एकवचनम् च विधेयम् .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {30।116} विंशतिः गावः .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {31।116} गोभिः सामानाधिकरण्यात् बहुषु बहुवचनम् इति बहुवचनम् प्राप्नोति .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {32।116} अनारम्भः वा प्रातिपदिकविज्ञानात् यथा सहस्रादिषु .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {33।116} अनारम्भः वा पुनः विंशत्यादीनाम् न्याय्यः .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {34।116} कथम् सिध्यति .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {35।116} प्रातिपदिकविज्ञानात् .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {36।116} कथम् प्रातिपदिकविज्ञानम् .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {37।116} विंशत्यादयः अव्युत्पन्नानि प्रातिपदिकानि यथा सहस्रादिषु .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {38।116} तत् यथा सहस्रम् अयुतम् अर्बुदम् इति न च अनुगमः क्रियते भवति च अभिधानम् .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {39।116} यथा सहस्रादिषु इति उच्यते .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {40।116} अथ सहस्रादिषु अपि कथम् भवितव्यम् .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {41।116} सहस्रम् गवाम् .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {42।116} सहस्रम् गावः .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {43।116} सहस्रगवम् .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {44।116} गोसहस्रम् इति .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {45।116} यावता अत्र अपि सन्देहः न असूया कर्तव्या यत्र अनुगमः क्रियते .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {46।116} ननु च उक्तम् विंशत्यादयः दशात् चेत् समासवचनानुपपत्तिः .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {47।116} परिमाणिनि चेत् पुनः स्वार्थे प्रत्ययविधानम् .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {48।116} षष्ठीवचनविधिः च इति .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {49।116} न एषः दोषः .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {50।116} समुदाये विंशत्यादयः भविष्यन्ति .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {51।116} किम् वक्तव्यम् एतत् .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {52।116} न हि .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {53।116} कथम् अनुच्यमानम् गंस्यते .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {54।116} सङ्घः इति वर्तते .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {55।116} सङ्घः समूहः समुदायः इति अनर्थान्तरम् .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {56।116} ते एते विंशत्यादयः समुदाये सन्तः भाववचनाः भवन्ति भाववचनाः सन्तः गुणवचनाः भवन्ति गुणवचनाः सन्तः अविशिष्टाः भवन्ति अन्यैः गुणवचनैः .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {57।116} अन्येषु च गुणवचनेषु कदा चित् गुणः गुणिविशेषकः भवति .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {58।116} तत् यथा शुक्लः पटः इति .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {59।116} कदा चित् गुणिना गुणः व्यपदिश्यते : पटस्य शुक्लः इति .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {60।116} तत् यदा तावत् उच्यते विंशत्यादयः दशात् चेत् समासवचनानुपपत्तिः इति सामानाधिकरण्यम् तदा गुणगुणिनोः .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {61।116} वचनपरिहारः तिष्ठतु तावत् .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {62।116} परिमाणिनि चेत् पुनः स्वार्थे प्रत्ययविधानम् इति संहनने वृत्तः संहनने वर्तिष्यते .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {63।116} सङ्ख्यासंहनने वृत्तः द्रव्यसंहनने वर्तिष्यते .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {64।116} अथ षष्ठी तदा गुणिना गुणः विशेष्यते .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {65।116} वचनपरिहारः उभयोः अपि .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {66।116} यदि तर्हि इमे विंशत्यादयः गुणवचनाः स्युः सधर्मभिः अन्यैः गुणवचनैः भवितव्यम् .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {67।116} अन्ये च गुणवचनाः द्रव्यस्य लिङ्गसङ्ख्ये अनुवर्तन्ते .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {68।116} तत् यथा .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {69।116} शुक्लम् वस्त्रम् .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {70।116} शुक्ला शाटी .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {71।116} शुक्लः कम्बलः .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {72।116} शुक्लौ कम्बलौ .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {73।116} शुक्लाः कम्बलाः इति .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {74।116} यत् असौ द्रव्यम् श्रितः गुणः तस्य यत् लिङ्गम् वचनम् च तत् गुणस्य अपि भवति .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {75।116} विंशत्यादयः पुनः न अनुवर्तन्ते .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {76।116} अन्ये अपि वै गुणवचनाः न अवश्यम् द्रव्यस्य लिङ्गसङ्ख्ये अनुवर्तन्ते .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {77।116} तत् यथा .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {78।116} गावः धनम् .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {79।116} पुत्रा अपत्यम् .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {80।116} इन्द्राग्नी देवता .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {81।116} विश्वेदेवाः देवता .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {82।116} यावन्तः ते वाशिताम् अनुयन्ति सर्वे ते दक्षिणा समृद्ध्यै इति .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {83।116} अथ अत्र अननुवृत्तौ हेतुः शक्यः वक्तुम् .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {84।116} बाढम् शक्यः वक्तुम् .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {85।116} कामम् तर्हि उच्यताम् .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {86।116} इह कदा चित् गुणः प्राधान्येन विवक्षितः भवति .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {87।116} तत् यथा : पञ्च उडुपशतानि तीर्णानि .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {88।116} पञ्च फलकशतानि तीर्णानि .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {89।116} अश्वैः युद्धम् .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {90।116} असिभिः युद्धम् इति .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {91।116} न च असयः युध्यन्ते .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {92।116} असिगुणाः पुरुषाः युध्यन्ते गुणः तु खलु प्राधान्येन विवक्षितः .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {93।116} इह तावत् गावः धनम् इति धिनोतेः धनम् एकः गुणः .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {94।116} सः प्राधान्येन विवक्षितः .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {95।116} पुत्राः अपत्यम् इति अपतनात् अपत्यम् एकः गुणः .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {96।116} सः प्राधान्येन विवक्षितः .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {97।116} इन्द्राग्नी देवता .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {98।116} विश्वेदेवाः देवता इति दिवेः ऐश्वर्यकर्मणः देवः .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {99।116} तस्मात् स्वार्थे तल् .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {100।116} एकः गुणः .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {101।116} सः प्राधान्येन विवक्षितः .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {102।116} यावन्तः ते वाशिताम् अनुयन्ति सर्वे ते दक्षिणा समृद्ध्या इति दक्षेः वृद्धिकर्मणः दक्षिणा एकः गुणः .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {103।116} सः प्राधान्येन विवक्षितः .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {104।116} तस्य एकत्वात् एकवचनम् भविष्यति .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {105।116} विंशत्यादिषु च अपि एकः गुणः .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {106।116} सः प्राधान्येन विवक्षितः .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {107।116} तस्य एकत्वात् एकवचनम् भविष्यति .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {108।116} अयम् तर्हि विंशत्यादिषु भाववचनेषु दोषः .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {109।116} गोविंशतिः आनीयताम् इति भावानयने चोदिते द्रव्याननम् न प्राप्नोति .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {110।116} न एषः दोषः .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {111।116} इदम् तावत् अयम् प्रष्टव्यः : अथ इह गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति कथम् आकृतौ चोदितायाम् द्रव्ये आरम्भणलम्भनप्रोक्षणविशसनादीनि क्रियन्ते इति .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {112।116} असम्भवात् .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {113।116} आकृतौ आरम्भणादीनाम् सम्भवः न अस्ति इति कृत्वा आकृतिसहचरिते द्रव्ये आरम्भणादीनि क्रियन्ते .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {114।116} इदम् अपि एवञ्जातीयकम् एव .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {115।116} असम्भवात् भावानयनस्य द्रव्यानयनम् भविष्यति .
(प्_5,1.59) क_इइ,355.2-357.8 रो_इव्,46-56 {116।116} अथ वा अव्यतिरेकात् .
(प्_5,1.64, 76) क_इइ,357.11-20 रो_इव्,56-58 {1।20} छेदादिपथिभ्यः विग्रहदर्शनात् नित्यग्रहणानर्थक्यम् .
(प्_5,1.64, 76) क_इइ,357.11-20 रो_इव्,56-58 {2।20} छेदादिपथिभ्यः नित्यग्रहणम् अनर्थकम् .
(प्_5,1.64, 76) क_इइ,357.11-20 रो_इव्,56-58 {3।20} किम् कारणम् .
(प्_5,1.64, 76) क_इइ,357.11-20 रो_इव्,56-58 {4।20} विग्रहदर्शनात् .
(प्_5,1.64, 76) क_इइ,357.11-20 रो_इव्,56-58 {5।20} विग्रहः दृश्यते .
(प्_5,1.64, 76) क_इइ,357.11-20 रो_इव्,56-58 {6।20} छेदम् अर्हति .
(प्_5,1.64, 76) क_इइ,357.11-20 रो_इव्,56-58 {7।20} पन्थानम् गच्छति इति .
(प्_5,1.64, 76) क_इइ,357.11-20 रो_इव्,56-58 {8।20} विकारार्थम् तर्हि इदम् नित्यग्रहणम् क्रियते .
(प्_5,1.64, 76) क_इइ,357.11-20 रो_इव्,56-58 {9।20} विकारेण विग्रहः मा भूत् इति .
(प्_5,1.64, 76) क_इइ,357.11-20 रो_इव्,56-58 {10।20} विरागविरङ्गम् च .
(प्_5,1.64, 76) क_इइ,357.11-20 रो_इव्,56-58 {11।20} पन्थः ण नित्यम् इति .
(प्_5,1.64, 76) क_इइ,357.11-20 रो_इव्,56-58 {12।20} विकारार्थम् इति चेत् अकङादिभिः तुल्यम् .
(प्_5,1.64, 76) क_इइ,357.11-20 रो_इव्,56-58 {13।20} विकारार्थम् इति चेत् अकङादिभिः तुल्यम् एतत् .
(प्_5,1.64, 76) क_इइ,357.11-20 रो_इव्,56-58 {14।20} यथा अकङादिभिः विकारैः विग्रहः न भवति एवम् आभ्याम् अपि न भविष्यति .
(प्_5,1.64, 76) क_इइ,357.11-20 रो_इव्,56-58 {15।20} किम् पुनः इह अकर्तव्यम् नित्यग्रहणम् क्रियते आहोस्वित् अन्यत्र कर्तव्यम् न क्रियते .
(प्_5,1.64, 76) क_इइ,357.11-20 रो_इव्,56-58 {16।20} इह अकर्तव्यम् क्रियते .
(प्_5,1.64, 76) क_इइ,357.11-20 रो_इव्,56-58 {17।20} एषः एव न्यायः यत् उत सन्नियोगशिष्टानाम् अन्यतरापाये उभयोः अपि अभावः .
(प्_5,1.64, 76) क_इइ,357.11-20 रो_इव्,56-58 {18।20} तत् यथा .
(प्_5,1.64, 76) क_इइ,357.11-20 रो_इव्,56-58 {19।20} देवदत्तयज्ञदत्ताभ्याम् इदम् कर्तव्यम् इति .
(प्_5,1.64, 76) क_इइ,357.11-20 रो_इव्,56-58 {20।20} देवदत्तापाये यज्ञदत्तः अपि न करोति .
(प्_5,1.71) क_इइ,357.22-24 रो_इव्,58 {1।3} यज्ञर्त्विग्भ्याम्तत् कर्म अर्हति इति उपसङ्ख्यानम् . यज्ञर्त्विग्भ्याम्तत् कर्म अर्हति इति उपसङ्ख्यानम् कर्तव्यम् .
(प्_5,1.71) क_इइ,357.22-24 रो_इव्,58 {2।3} य्जञकर्म अर्हति यज्ञियः देशः .
(प्_5,1.71) क_इइ,357.22-24 रो_इव्,58 {3।3} ऋत्विक्कर्म अर्हति आर्त्विजीनम् ब्राह्मणकुलम् इति .
(प्_5,1.72) क_इइ,358.2-10 रो_इव्,58-59 {1।17} तत् वर्तयति इति अनिर्देशः तत्र अदर्शनात् .
(प्_5,1.72) क_इइ,358.2-10 रो_इव्,58-59 {2।17} तत् वर्तयति इति अनिर्देशः .
(प्_5,1.72) क_इइ,358.2-10 रो_इव्,58-59 {3।17} अगमकः निर्देशः अनिर्देशः .
(प्_5,1.72) क_इइ,358.2-10 रो_इव्,58-59 {4।17} पारायणम् कः वर्तयति .
(प्_5,1.72) क_इइ,358.2-10 रो_इव्,58-59 {5।17} यः परस्य करोति .
(प्_5,1.72) क_इइ,358.2-10 रो_इव्,58-59 {6।17} तुरायणम् कः वर्तयति .
(प्_5,1.72) क_इइ,358.2-10 रो_इव्,58-59 {7।17} यः चरुपुरोडाशान् निर्वपति .
(प्_5,1.72) क_इइ,358.2-10 रो_इव्,58-59 {8।17} तत्र अदर्शनात् .
(प्_5,1.72) क_इइ,358.2-10 रो_इव्,58-59 {9।17} न च तत्र प्रत्ययः दृश्यते .
(प्_5,1.72) क_इइ,358.2-10 रो_इव्,58-59 {10।17} इङ्यज्योः च दर्शनात् .
(प्_5,1.72) क_इइ,358.2-10 रो_इव्,58-59 {11।17} इङ्यज्योः च प्रत्ययः दृश्यते .
(प्_5,1.72) क_इइ,358.2-10 रो_इव्,58-59 {12।17} यः पारायणम् अधीते सः पारायणिकः इति उच्यते .
(प्_5,1.72) क_इइ,358.2-10 रो_इव्,58-59 {13।17} यः तुरायणेन यजते सः तौरायणिकः इति उच्यते .
(प्_5,1.72) क_इइ,358.2-10 रो_इव्,58-59 {14।17} यः च एव अधीते यः परस्य करोति उभौ तौ वर्तयतः .
(प्_5,1.72) क_इइ,358.2-10 रो_इव्,58-59 {15।17} यः च यजते यः च यः चरुपुरोडाशान् निर्वपति उभौ तौ वर्तयतः .
(प्_5,1.72) क_इइ,358.2-10 रो_इव्,58-59 {16।17} उभयत्र कस्मात् न भवति .
(प्_5,1.72) क_इइ,358.2-10 रो_इव्,58-59 {17।17} अनभिधानात् .
(प्_5,1.74) क_इइ,358.12-18 रो_इव्,59 {1।8} योजनम् गच्छति इति क्रोशशतयोजनशतयोः उपसङ्ख्यानम् .
(प्_5,1.74) क_इइ,358.12-18 रो_इव्,59 {2।8} योजनम् गच्छति इति क्रोशशतयोजनशतयोः उपसङ्ख्यानम् कर्तव्यम् .
(प्_5,1.74) क_इइ,358.12-18 रो_इव्,59 {3।8} क्रोशशतम् गच्छति इति क्रौशशतिकः .
(प्_5,1.74) क_इइ,358.12-18 रो_इव्,59 {4।8} योजनशतम् गच्छति इति यौजनशतिकः इति .
(प्_5,1.74) क_इइ,358.12-18 रो_इव्,59 {5।8} ततः अभिगमनम् अर्हति इति च .
(प्_5,1.74) क_इइ,358.12-18 रो_इव्,59 {6।8} ततः अभिगमनम् अर्हति इति च क्रोशशतयोजनशतयोः उपसङ्ख्यानम् कर्तव्यम् .
(प्_5,1.74) क_इइ,358.12-18 रो_इव्,59 {7।8} क्रोशशतात् अभिगमनम् अर्हति क्रौशशतिकः भिक्षुः .
(प्_5,1.74) क_इइ,358.12-18 रो_इव्,59 {8।8} योजनशतात् अभिगमनम् अर्हति यौजनशतिकः गुरुः .
(प्_5,1.77) क_इइ,358.20-359.10 रो_इव्,60 {1।25} आहृतप्रकरणे वारिजङ्गलस्थलकान्तारपूर्वपदात् उपसङ्ख्यानम् .
(प्_5,1.77) क_इइ,358.20-359.10 रो_इव्,60 {2।25} आहृतप्रकरणे वारिजङ्गलस्थलकान्तारपूर्वपदात् उपसङ्ख्यानम् कर्तव्यम् .
(प्_5,1.77) क_इइ,358.20-359.10 रो_इव्,60 {3।25} वारिपथेन गच्छति वारिपथिकः .
(प्_5,1.77) क_इइ,358.20-359.10 रो_इव्,60 {4।25} वारिपथेन आहृतम् वारिपथिकम् .
(प्_5,1.77) क_इइ,358.20-359.10 रो_इव्,60 {5।25} वारि .
(प्_5,1.77) क_इइ,358.20-359.10 रो_इव्,60 {6।25} जङ्गल .
(प्_5,1.77) क_इइ,358.20-359.10 रो_इव्,60 {7।25} जङ्गलपथेन गच्छति जाङ्गलपथिकः .
(प्_5,1.77) क_इइ,358.20-359.10 रो_इव्,60 {8।25} जङ्गलपथेन आहृतम् जाङ्गलपथिकम् .
(प्_5,1.77) क_इइ,358.20-359.10 रो_इव्,60 {9।25} जङ्गल .
(प्_5,1.77) क_इइ,358.20-359.10 रो_इव्,60 {10।25} स्थल .
(प्_5,1.77) क_इइ,358.20-359.10 रो_इव्,60 {11।25} स्थलपथेन गच्छति स्थालपथिकः .
(प्_5,1.77) क_इइ,358.20-359.10 रो_इव्,60 {12।25} स्थलपथेन आहृतम् स्थालपथिकम् .
(प्_5,1.77) क_इइ,358.20-359.10 रो_इव्,60 {13।25} स्थल .
(प्_5,1.77) क_इइ,358.20-359.10 रो_इव्,60 {14।25} कान्तार .
(प्_5,1.77) क_इइ,358.20-359.10 रो_इव्,60 {15।25} कान्तारपथेन गच्छति कान्तारपथिकः .
(प्_5,1.77) क_इइ,358.20-359.10 रो_इव्,60 {16।25} कान्तारपथेन आहृतम् कान्तारपथिकम् .
(प्_5,1.77) क_इइ,358.20-359.10 रो_इव्,60 {17।25} अजपथशङ्कुपथाभ्याम् च .
(प्_5,1.77) क_इइ,358.20-359.10 रो_इव्,60 {18।25} अजपथशङ्कुपथाभ्याम् च इति वक्तव्यम् .
(प्_5,1.77) क_इइ,358.20-359.10 रो_इव्,60 {19।25} अजपथेन गच्छति आजपथिकः .
(प्_5,1.77) क_इइ,358.20-359.10 रो_इव्,60 {20।25} अजपथेन आहृतम् आजपथिकम्. शङ्कुपथेन गच्छति शाङ्कुपथिकः .
(प्_5,1.77) क_इइ,358.20-359.10 रो_इव्,60 {21।25} शङ्कुपथेन आहृतम् शाङ्कुपथिकम् .
(प्_5,1.77) क_इइ,358.20-359.10 रो_इव्,60 {22।25} मधुकमरिचयोः अण् स्थलात् .
(प्_5,1.77) क_इइ,358.20-359.10 रो_इव्,60 {23।25} मधुकमरिचयोः अण् स्थलात् वक्तव्यः .
(प्_5,1.77) क_इइ,358.20-359.10 रो_इव्,60 {24।25} स्थालपथम् मधुकम् .
(प्_5,1.77) क_इइ,358.20-359.10 रो_इव्,60 {25।25} स्थालपथम् मरिचम् .
(प्_5,1.80) क_इइ,12-18 रो_इव्,60-61 {1।16} अधीष्टभृतयोः द्वितीयानिर्देशः अनर्थकः तत्र अदर्शनात् .
(प्_5,1.80) क_इइ,12-18 रो_इव्,60-61 {2।16} अधीष्टभृतयोः द्वितीयानिर्देशः अनर्थकः .
(प्_5,1.80) क_इइ,12-18 रो_इव्,60-61 {3।16} किम् कारणम् .
(प्_5,1.80) क_इइ,12-18 रो_इव्,60-61 {4।16} तत्र अदर्शनात् .
(प्_5,1.80) क_इइ,12-18 रो_इव्,60-61 {5।16} न हि असौ मासम् अधीष्यते .
(प्_5,1.80) क_इइ,12-18 रो_इव्,60-61 {6।16} किम् तर्हि मुहूर्तम् अधीष्टः मासम् तत् कर्म करोति .
(प्_5,1.80) क_इइ,12-18 रो_इव्,60-61 {7।16} सिद्धम् तु चतुर्थीनिर्देशात् .
(प्_5,1.80) क_इइ,12-18 रो_इव्,60-61 {8।16} सिद्धम् एतत् .
(प्_5,1.80) क_इइ,12-18 रो_इव्,60-61 {9।16} कथम् .
(प्_5,1.80) क_इइ,12-18 रो_इव्,60-61 {10।16} चतुर्थीनिर्देशात् .
(प्_5,1.80) क_इइ,12-18 रो_इव्,60-61 {11।16} चतुर्थीनिर्देशः कर्तव्यः .
(प्_5,1.80) क_इइ,12-18 रो_इव्,60-61 {12।16} तस्मै अधीष्टः इति .
(प्_5,1.80) क_इइ,12-18 रो_इव्,60-61 {13।16} सः तर्हि चतुर्थीनिर्देशः कर्तव्यः .
(प्_5,1.80) क_इइ,12-18 रो_इव्,60-61 {14।16} न कर्तव्यः .
(प्_5,1.80) क_इइ,12-18 रो_इव्,60-61 {15।16} तादर्थ्यात् ताच्छब्द्यम् भविष्यति .
(प्_5,1.80) क_इइ,12-18 रो_इव्,60-61 {16।16} मासार्थः मुहूर्तः मासः .
(प्_5,1.84) क_इइ,359.20-22 रो_इव्,61-62 {1।4} अवयसि ठन् च इति अनन्तरस्य अनुकर्षः .
(प्_5,1.84) क_इइ,359.20-22 रो_इव्,61-62 {2।4} अवयसि ठन् च इति अनन्तरस्य अनुकर्षः द्रष्टव्यः .
(प्_5,1.84) क_इइ,359.20-22 रो_इव्,61-62 {3।4} द्वेष्यम् विजानीयात् : यप् अपि अनुवर्तते इति .
(प्_5,1.84) क_इइ,359.20-22 रो_इव्,61-62 {4।4} तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे : अवयसि ठन् च इति अनन्तरस्य अनुकर्षः इति .
(प्_5,1.90) क_इइ,360.2-6 रो_इव्,62 {1।7} षष्टिके सञ्ज्ञाग्रहणम् .
(प्_5,1.90) क_इइ,360.2-6 रो_इव्,62 {2।7} षष्टिके सञ्ज्ञाग्रहणम् कर्तव्यम् .
(प्_5,1.90) क_इइ,360.2-6 रो_इव्,62 {3।7} मुद्गाः अपि हि षष्टिरात्रेणे पच्यन्ते .
(प्_5,1.90) क_इइ,360.2-6 रो_इव्,62 {4।7} तत्र मा भूत् इति .
(प्_5,1.90) क_इइ,360.2-6 रो_इव्,62 {5।7} उक्तम् वा .
(प्_5,1.90) क_इइ,360.2-6 रो_इव्,62 {6।7} किम् उक्तम् .
(प्_5,1.90) क_इइ,360.2-6 रो_इव्,62 {7।7} अनभिधानात् इति .
(प्_5,1.94) क_इइ,360.8-361.5 रो_इव्,62-64) {1।33} तत् अस्य ब्रह्मचर्यम् इति महानाम्न्यादिभ्यः उपसङ्ख्यानम् .
(प्_5,1.94) क_इइ,360.8-361.5 रो_इव्,62-64) {2।33} तत् अस्य ब्रह्मचर्यम् इति महानाम्न्यादिभ्यः उपसङ्ख्यानम् कर्तव्यम् .
(प्_5,1.94) क_इइ,360.8-361.5 रो_इव्,62-64) {3।33} महानाम्नीनाम् ब्रह्मचर्यम् माहानाम्निकम् .
(प्_5,1.94) क_इइ,360.8-361.5 रो_इव्,62-64) {4।33} आदित्यव्रतिकम् .
(प्_5,1.94) क_इइ,360.8-361.5 रो_इव्,62-64) {5।33} तत् चरति इति च .
(प्_5,1.94) क_इइ,360.8-361.5 रो_इव्,62-64) {6।33} तत् चरति इति च महानाम्न्यादिभ्यः उपसङ्ख्यानम् कर्तव्यम् .
(प्_5,1.94) क_इइ,360.8-361.5 रो_इव्,62-64) {7।33} महानाम्नीः चरति माहानाम्निकः .
(प्_5,1.94) क_इइ,360.8-361.5 रो_इव्,62-64) {8।33} आदित्यव्रतिकः .
(प्_5,1.94) क_इइ,360.8-361.5 रो_इव्,62-64) {9।33} न एषः युक्तः निर्देशः तत् चरति इति .
(प्_5,1.94) क_इइ,360.8-361.5 रो_इव्,62-64) {10।33} महानाम्न्यः नाम ऋचः .
(प्_5,1.94) क_इइ,360.8-361.5 रो_इव्,62-64) {11।33} न च ताः चर्यन्ते .
(प्_5,1.94) क_इइ,360.8-361.5 रो_इव्,62-64) {12।33} व्रतम् तासाम् चर्यते .
(प्_5,1.94) क_इइ,360.8-361.5 रो_इव्,62-64) {13।33} न एषः दोषः .
(प्_5,1.94) क_इइ,360.8-361.5 रो_इव्,62-64) {14।33} साहचर्यात् ताच्छब्यम् भविष्यति .
(प्_5,1.94) क_इइ,360.8-361.5 रो_इव्,62-64) {15।33} महानाम्नीसहचरितम् व्रतम् महानाम्न्यः व्रतम् इति .
(प्_5,1.94) क_इइ,360.8-361.5 रो_इव्,62-64) {16।33} अवान्तरदीक्षादिभ्यः डिनिः .
(प्_5,1.94) क_इइ,360.8-361.5 रो_इव्,62-64) {17।33} अवान्तरदीक्षादिभ्यः डिनिः वक्तव्यः .
(प्_5,1.94) क_इइ,360.8-361.5 रो_इव्,62-64) {18।33} अवान्तरदीक्षी .
(प्_5,1.94) क_इइ,360.8-361.5 रो_इव्,62-64) {19।33} तिलव्रती .
(प्_5,1.94) क_इइ,360.8-361.5 रो_इव्,62-64) {20।33} अष्टाचत्वारिंशतः ड्वुन् च .
(प्_5,1.94) क_इइ,360.8-361.5 रो_इव्,62-64) {21।33} अष्टाचत्वारिंशतः ड्वुन् च डिनिः च वक्तव्यः .
(प्_5,1.94) क_इइ,360.8-361.5 रो_इव्,62-64) {22।33} अष्टाचत्वारिंशकः .
(प्_5,1.94) क_इइ,360.8-361.5 रो_इव्,62-64) {23।33} अष्टाचत्वारिंशी .
(प्_5,1.94) क_इइ,360.8-361.5 रो_इव्,62-64) {24।33} चातुर्मास्यानाम् यलोपः च .
(प्_5,1.94) क_इइ,360.8-361.5 रो_इव्,62-64) {25।33} चातुर्मास्यानाम् यलोपः च ड्वुन् च डिनिः च वक्तव्यः .
(प्_5,1.94) क_इइ,360.8-361.5 रो_इव्,62-64) {26।33} चातुर्मासिकः .
(प्_5,1.94) क_इइ,360.8-361.5 रो_इव्,62-64) {27।33} चातुर्मासी .
(प्_5,1.94) क_इइ,360.8-361.5 रो_इव्,62-64) {28।33} अथ किम् इदम् चातुर्मास्यानाम् इति .
(प्_5,1.94) क_इइ,360.8-361.5 रो_इव्,62-64) {29।33} चतुर्मासात् ण्यः यज्ञे तत्र भवे .
(प्_5,1.94) क_इइ,360.8-361.5 रो_इव्,62-64) {30।33} चतुर्मासात् ण्यः वक्तव्यः यज्ञे तत्र भवे इति एतस्मिन् अर्थे .
(प्_5,1.94) क_इइ,360.8-361.5 रो_इव्,62-64) {31।33} चतुर्षु मासेषु भवानि चातुर्मास्यानि यज्ञाः .
(प्_5,1.94) क_इइ,360.8-361.5 रो_इव्,62-64) {32।33} सञ्ज्ञायाम् अण् . सञ्ज्ञायाम् अण् वक्तव्यः .
(प्_5,1.94) क_इइ,360.8-361.5 रो_इव्,62-64) {33।33} चतुर्षु मासेषु भवा चातुर्मासी पौणमासी
(प्_5,1.95) क_इइ,361.7-12 रो_इव्,64 {1।12} आख्याग्रहणम् किमर्थम्. तस्य दक्षिणा यज्ञेभ्यः इति इयति उच्यमाने ये एते सञ्ज्ञीभूतकाः यज्ञाः ततः उतपत्तिः स्यात् .
(प्_5,1.95) क_इइ,361.7-12 रो_इव्,64 {2।12} अग्निष्टोमिक्यः .
(प्_5,1.95) क_इइ,361.7-12 रो_इव्,64 {3।12} राजसूयिकः .
(प्_5,1.95) क_इइ,361.7-12 रो_इव्,64 {4।12} वाजपेयिक्यः .
(प्_5,1.95) क_इइ,361.7-12 रो_इव्,64 {5।12} यत्र वा यज्ञशब्दः अस्ति .
(प्_5,1.95) क_इइ,361.7-12 रो_इव्,64 {6।12} नावयज्ञिक्यः .
(प्_5,1.95) क_इइ,361.7-12 रो_इव्,64 {7।12} पाकयज्ञिक्यः .
(प्_5,1.95) क_इइ,361.7-12 रो_इव्,64 {8।12} इह न स्यात् .
(प्_5,1.95) क_इइ,361.7-12 रो_इव्,64 {9।12} पाञ्चौदनिक्यः .
(प्_5,1.95) क_इइ,361.7-12 रो_इव्,64 {10।12} दाशौदनिक्यः .
(प्_5,1.95) क_इइ,361.7-12 रो_इव्,64 {11।12} आख्याग्रहणे पुनः क्रियमाणे न दोषः भवति .
(प्_5,1.95) क_इइ,361.7-12 रो_इव्,64 {12।12} ये च सञ्ज्ञीभूतकाः यत्र च यज्ञशब्दः अस्ति यत्र च न अस्ति तदाख्यामात्रात् सिच्छम् भवति .
(प्_5,1.96) क_इइ,361.14-22 रो_इव्,65-66 {1।16} कार्यग्रहणम् अनर्थकम् तत्रभवेन कृतत्वात् . कार्यग्रहणम् अनर्थकम् .
(प्_5,1.96) क_इइ,361.14-22 रो_इव्,65-66 {2।16} किम् कारणम् .
(प्_5,1.96) क_इइ,361.14-22 रो_इव्,65-66 {3।16} तत्रभवेन कृतत्वात् .
(प्_5,1.96) क_इइ,361.14-22 रो_इव्,65-66 {4।16} यत् हि मासे कार्यम् मासे भवम् तत् भवति .
(प्_5,1.96) क_इइ,361.14-22 रो_इव्,65-66 {5।16} तत्र तत्र भवः इति एव सिद्धम् .
(प्_5,1.96) क_इइ,361.14-22 रो_इव्,65-66 {6।16} किम् इदम् भवान् कार्यग्रहणम् एव प्रत्याचष्टे न पुनः दीयतेग्रहणम् अपि .
(प्_5,1.96) क_इइ,361.14-22 रो_इव्,65-66 {7।16} यथा एव हि यत् मासे कार्यम् तत् मासे भवम् भवति एवम् यत् अपि मासे दीयते तत् अपि मासे भवम् भवति .
(प्_5,1.96) क_इइ,361.14-22 रो_इव्,65-66 {8।16} तत्र तत्र भवः इति एव सिद्धम् .
(प्_5,1.96) क_इइ,361.14-22 रो_इव्,65-66 {9।16} न सिध्यति .
(प्_5,1.96) क_इइ,361.14-22 रो_इव्,65-66 {10।16} न तत् मासे दीयते .
(प्_5,1.96) क_इइ,361.14-22 रो_इव्,65-66 {11।16} किम् तर्हि मासे गते .
(प्_5,1.96) क_इइ,361.14-22 रो_इव्,65-66 {12।16} एवम् तर्हि औपश्लेषिकम् अधिकरणम् विज्ञास्यते .
(प्_5,1.96) क_इइ,361.14-22 रो_इव्,65-66 {13।16} एवम् तर्हि योगविभागोत्तरकालम् इदम् पठितव्यम् .
(प्_5,1.96) क_इइ,361.14-22 रो_इव्,65-66 {14।16} तस्य दक्षिणा यज्ञाख्येभ्यः .
(प्_5,1.96) क_इइ,361.14-22 रो_इव्,65-66 {15।16} तत्र च दीयते .
(प्_5,1.96) क_इइ,361.14-22 रो_इव्,65-66 {16।16} ततः कार्यम् भववत् कालात् इति .
(प्_5,1.97) क_इइ,362.2-11 रो_इव्,66 {1।22} अण्प्रकरणे अग्निपदादिभ्यः उपसङ्ख्यानम् .
(प्_5,1.97) क_इइ,362.2-11 रो_इव्,66 {2।22} अण्प्रकरणे अग्निपदादिभ्यः उपसङ्ख्यानम् कर्तव्यम् .
(प्_5,1.97) क_इइ,362.2-11 रो_इव्,66 {3।22} त्रीणि इमानि अण्ग्रहणानि .
(प्_5,1.97) क_इइ,362.2-11 रो_इव्,66 {4।22} व्युष्टादिभ्यः अण् .
(प्_5,1.97) क_इइ,362.2-11 रो_इव्,66 {5।22} समयः तत् अस्य प्राप्तम् .
(प्_5,1.97) क_इइ,362.2-11 रो_इव्,66 {6।22} ऋतोः अण् .
(प्_5,1.97) क_इइ,362.2-11 रो_इव्,66 {7।22} प्रयोजनम् .
(प्_5,1.97) क_इइ,362.2-11 रो_इव्,66 {8।22} विशाखाषाढात् अण् मन्थदण्डयोः इति .
(प्_5,1.97) क_इइ,362.2-11 रो_इव्,66 {9।22} तत्र न ज्ञायते कतरस्मिन् अण्प्रकरणे अग्निपदादिभ्यः उपसङ्ख्यानम् .
(प्_5,1.97) क_इइ,362.2-11 रो_इव्,66 {10।22} अविशेषात् सर्वत्र .
(प्_5,1.97) क_इइ,362.2-11 रो_इव्,66 {11।22} व्युष्टादिभ्यः अण् भवति इति उक्त्वा अग्निपदादिभ्यः च इति वक्तव्यम् .
(प्_5,1.97) क_इइ,362.2-11 रो_इव्,66 {12।22} अग्निपदे दीयते कार्यम् वा आग्निपदम् .
(प्_5,1.97) क_इइ,362.2-11 रो_इव्,66 {13।22} पैलुमूलम् .
(प्_5,1.97) क_इइ,362.2-11 रो_इव्,66 {14।22} समयः तत् अस्य प्राप्तम् .
(प्_5,1.97) क_इइ,362.2-11 रो_इव्,66 {15।22} ऋतोः अण् .
(प्_5,1.97) क_इइ,362.2-11 रो_इव्,66 {16।22} अग्निपदादिभ्यः च इति वक्तव्यम् .
(प्_5,1.97) क_इइ,362.2-11 रो_इव्,66 {17।22} उपवस्ता प्राप्तः अस्य औपवस्त्रम् .
(प्_5,1.97) क_इइ,362.2-11 रो_इव्,66 {18।22} प्राशिता प्राप्तः अस्य प्राशित्रम् .
(प्_5,1.97) क_इइ,362.2-11 रो_इव्,66 {19।22} प्रयोजनम् .
(प्_5,1.97) क_इइ,362.2-11 रो_इव्,66 {20।22} विशाखाषाढात् अण् मन्थदण्डयोः .अग्निपदादिभ्यः च इति वक्तव्यम् .
(प्_5,1.97) क_इइ,362.2-11 रो_इव्,66 {21।22} चूडा प्रयोजनम् अस्य चौडम् .
(प्_5,1.97) क_इइ,362.2-11 रो_इव्,66 {22।22} श्रद्धा प्रयोजनम् अस्य श्राद्धम् .
(प्_5,1.111) क_इइ,362.13-21 रो_इव्,66-67 {1।21} छप्रकरणे विशिपूरिपदिरुहिप्रकृतेः अनात् सपूर्वपदात् उपसङ्ख्यानम् .
(प्_5,1.111) क_इइ,362.13-21 रो_इव्,66-67 {2।21} छप्रकरणे विशिपूरिपदिरुहिप्रकृतेः अनात् सपूर्र्वपदात् उपसङ्ख्यानम् कर्तव्यम् .
(प्_5,1.111) क_इइ,362.13-21 रो_इव्,66-67 {3।21} विशि .
(प्_5,1.111) क_इइ,362.13-21 रो_इव्,66-67 {4।21} गेहानुप्रवेशनीयम् .
(प्_5,1.111) क_इइ,362.13-21 रो_इव्,66-67 {5।21} पूरि .
(प्_5,1.111) क_इइ,362.13-21 रो_इव्,66-67 {6।21} प्रपापूरणीयम् .
(प्_5,1.111) क_इइ,362.13-21 रो_इव्,66-67 {7।21} पदि .
(प्_5,1.111) क_इइ,362.13-21 रो_इव्,66-67 {8।21} गोप्रपदनीयम् .
(प्_5,1.111) क_इइ,362.13-21 रो_इव्,66-67 {9।21} अश्वप्रपदनीयम् .
(प्_5,1.111) क_इइ,362.13-21 रो_इव्,66-67 {10।21} रुहि .
(प्_5,1.111) क_इइ,362.13-21 रो_इव्,66-67 {11।21} प्राशादारोहणीयम् .
(प्_5,1.111) क_इइ,362.13-21 रो_इव्,66-67 {12।21} स्वर्गादिभ्यः यत् ष्वर्गादिभ्यः यत् प्रत्ययः भवति .
(प्_5,1.111) क_इइ,362.13-21 रो_इव्,66-67 {13।21} स्वर्ग्यम् .
(प्_5,1.111) क_इइ,362.13-21 रो_इव्,66-67 {14।21} धन्यम् .
(प्_5,1.111) क_इइ,362.13-21 रो_इव्,66-67 {15।21} यशस्यम् .
(प्_5,1.111) क_इइ,362.13-21 रो_इव्,66-67 {16।21} आयुष्यम् .
(प्_5,1.111) क_इइ,362.13-21 रो_इव्,66-67 {17।21} पुण्याहवाचनादिभ्यः लुक् .
(प्_5,1.111) क_इइ,362.13-21 रो_इव्,66-67 {18।21} पुण्याहवाचनादिभ्यः लुक् वक्तव्यः .
(प्_5,1.111) क_इइ,362.13-21 रो_इव्,66-67 {19।21} पुण्याहवाचनम् .
(प्_5,1.111) क_इइ,362.13-21 रो_इव्,66-67 {20।21} शान्तिवाचनम् .
(प्_5,1.111) क_इइ,362.13-21 रो_इव्,66-67 {21।21} स्वस्तिवाचनम् .
(प्_5,1.113) क_इइ,362.23-363.2 रो_इव्,67 {1।11} एकागारात् निपातनानर्थक्यम् ठञ्प्रकरणात् .
(प्_5,1.113) क_इइ,362.23-363.2 रो_इव्,67 {2।11} एकागारात् निपातनम् अनर्थकम् .
(प्_5,1.113) क_इइ,362.23-363.2 रो_इव्,67 {3।11} किम् कारणम् .
(प्_5,1.113) क_इइ,362.23-363.2 रो_इव्,67 {4।11} ठञ्प्रकरणात् .
(प्_5,1.113) क_इइ,362.23-363.2 रो_इव्,67 {5।11} ठञ् प्रकृतः .
(प्_5,1.113) क_इइ,362.23-363.2 रो_इव्,67 {6।11} सः अनुवर्तिष्यते .
(प्_5,1.113) क_इइ,362.23-363.2 रो_इव्,67 {7।11} इदम् तर्हि प्रयोजनम् .
(प्_5,1.113) क_इइ,362.23-363.2 रो_इव्,67 {8।11} चौरे इति वक्ष्यामि इति .
(प्_5,1.113) क_इइ,362.23-363.2 रो_इव्,67 {9।11} इह मा भूत् .
(प्_5,1.113) क_इइ,362.23-363.2 रो_इव्,67 {10।11} एकागारम् प्रयोजनम् अस्य भिक्षोः इति .
(प्_5,1.113) क_इइ,362.23-363.2 रो_इव्,67 {11।11} यदि एतावत् प्रयोजनम् स्यात् एकागारात् चौरे इति एव ब्रूयात् .
(प्_5,1.114) क_इइ,363.4-9 रो_इव्,68-69 {1।12} आकालात् निपातनानर्थक्यम् ठञ्प्रकरणात् .
(प्_5,1.114) क_इइ,363.4-9 रो_इव्,68-69 {2।12} आकालात् निपातनम् नर्थकम् .
(प्_5,1.114) क_इइ,363.4-9 रो_इव्,68-69 {3।12} किम् कारणम् .
(प्_5,1.114) क_इइ,363.4-9 रो_इव्,68-69 {4।12} ठञ्प्रकरणात् .
(प्_5,1.114) क_इइ,363.4-9 रो_इव्,68-69 {5।12} ठञ् प्रकृतः .
(प्_5,1.114) क_इइ,363.4-9 रो_इव्,68-69 {6।12} सः अनुवर्तिष्यते .
(प्_5,1.114) क_इइ,363.4-9 रो_इव्,68-69 {7।12} इदम् तर्हि प्रयोजनम् .
(प्_5,1.114) क_इइ,363.4-9 रो_इव्,68-69 {8।12} एतस्मिन् विशेषे निपातनम् करिष्यामि समानकालस्य आद्यन्तविवक्षायाम् इति .
(प्_5,1.114) क_इइ,363.4-9 रो_इव्,68-69 {9।12} आकालात् ठन् च .
(प्_5,1.114) क_इइ,363.4-9 रो_इव्,68-69 {10।12} आकालात् ठन् च वक्तव्यः .
(प्_5,1.114) क_इइ,363.4-9 रो_इव्,68-69 {11।12} आकालिकी .
(प्_5,1.114) क_इइ,363.4-9 रो_इव्,68-69 {12।12} आकालिका .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {1।46} इदम् अयुक्तम् वर्तते .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {2।46} किम् अत्र अयुक्तम् .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {3।46} यत् तत् तृतीयासमर्थम् क्रिया चेत् सा भवति इति उच्यते .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {4।46} कथम् च तृतीयासमर्थम् नाम क्रिया स्यात् .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {5।46} न एषः दोषः .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {6।46} सर्वे एते शब्दाः गुणसमुदायेषु वर्तन्ते .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {7।46} ब्राह्मणः क्षत्रियः .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {8।46} वैश्यः शूद्रः इति .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {9।46} आतः च गुणसमुदाये एवम् हि आह .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {10।46} तपः श्रुतम् च योनिः च इति एतद् ब्राह्मणकारकम् .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {11।46} तपःश्त्रुताभ्याम् यः हीनः जातिब्राह्मणः एव सः .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {12।46} तथा गौरः शुच्याचारः पिङ्गलः कपिलकेशः इति एतान् अपि अभ्यन्तरान् ब्राह्मणे गुणन् कुर्वन्ति .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {13।46} समुदायेषु च शब्दाः वृत्ताः अवयवेषु अपि वर्तन्ते .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {14।46} तत् यथा : पूर्वे पञ्चालाः , उत्तरे पञ्चालाः , तैलम् भुक्तम् , घृतम् भुक्तम् , शुक्लः , नीलः , कृष्णः इति .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {15।46} एवम् अयम् ब्राह्मणशब्दय समुदाये वृत्तः अवयवेषु अपि वर्तते .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {16।46} यदि तर्हि तृतीयासमर्थम् विशेष्यते प्रत्ययार्थः अविशेषितः भवति .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {17।46} तत्र कः दोषः .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {18।46} तृतीयासमर्थात् क्रियावाचिनः गुणतुल्ये अपि प्रत्ययः स्यात् .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {19।46} पुत्रेण तुल्यः स्थूलः .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {20।46} पुत्रेण तुल्यः पिङ्गलः .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {21।46} अस्तु तर्हि प्रत्ययार्थविशेषणम् .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {22।46} यत् तत् तुल्यम् क्रिया चेत् सा भवति इति .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {23।46} एवम् अपि तृतीयासमर्थम् अविशेषितम् भवति .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {24।46} तत्र कः दोषः .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {25।46} तृतीयासमर्थात् अक्रियावाचिनः क्रियातुल्ये अपि प्रत्ययः प्राप्नोति .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {26।46} न एषः दोषः .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {27।46} यत् तत् तुल्यम् क्रिया चेत् सा भवति इति उच्यते .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {28।46} तुलया च सम्मितम् तुल्यम् .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {29।46} यदि च तृतीयासमर्थम् अपि क्रिया प्रत्ययार्थः अपि क्रिया ततः तुलयम् भवति .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {30।46} अथ वा पुनः अस्तु यत् तत् तृतीयासमर्थम् क्रिया चेत् सा भवति इति एव .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {31।46} ननु च उक्तम् प्रत्ययार्थः अविशेषितः इति .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {32।46} तत्र कः दोषः .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {33।46} तृतीयासमर्थात् क्रियावाचिनः गुणतुल्ये अपि प्रत्ययः स्यात् .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {34।46} पुत्रेण तुल्यः स्थूलः .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {35।46} पुत्रेण तुल्यः पिङ्गलः इति .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {36।46} न एषः दोषः .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {37।46} यत् तत् तृतीयासमर्थम् क्रिया चेत् सा भवति इति उच्यते .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {38।46} तुलया च सम्मितम् तुल्यम् .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {39।46} यदि च तृतीयासमर्थम् अपि क्रिया प्रत्ययार्थः अपि क्रिया ततः तुलयम् भवति .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {40।46} किम् पुनः अत्र ज्यायः .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {41।46} प्रत्ययार्थविशेषणम् एव ज्यायः .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {42।46} कुतः एतत् .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {43।46} एवम् च एव कृत्वा आचार्येण सूत्रम् पठितम् .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {44।46} वतिना सामानाधिकरण्यम् कृतम् .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {45।46} अपि च वतेः अव्ययेषु पाठः न कर्तव्यः भवति .
(प्_5,1.115) क_इइ,363.11-364.10 रो_इव्,69-75 {46।46} क्रियायाम् अयम् भवन् लिङ्गसङ्ख्याभ्यम् न योक्ष्यते .
(प्_5,1.116) क_इइ,365.12-17 रो_इव्,75-77 {1।10} किमर्थम् इदम् उच्यते न तेन तुल्यम् क्रिया चेत् वतिः इति एव सिद्धम् .
(प्_5,1.116) क_इइ,365.12-17 रो_इव्,75-77 {2।10} न सिध्यति .
(प्_5,1.116) क_इइ,365.12-17 रो_इव्,75-77 {3।10} तृतीयासमर्थात् तत्र प्रत्ययः यदा अन्येन कर्तव्याम् क्रियाम् अन्यः करोति तदा प्रत्ययः उत्पाद्यते .
(प्_5,1.116) क_इइ,365.12-17 रो_इव्,75-77 {4।10} न च का चिद् इवशब्देन योगे तृतीया विधीयते .
(प्_5,1.116) क_इइ,365.12-17 रो_इव्,75-77 {5।10} ननु च सपतमी अपि न विधीयते .
(प्_5,1.116) क_इइ,365.12-17 रो_इव्,75-77 {6।10} एवम् तर्हि सिद्धे सति यत् इवशब्देन योगे सप्तमीसमर्थात् वतिम् शास्ति तत् ज्ञापयति आचार्यः भवति इवशब्देन योगे सप्तमी इति .
(प्_5,1.116) क_इइ,365.12-17 रो_इव्,75-77 {7।10} किम् एतस्य ज्ञापने प्रयोजनम् .
(प्_5,1.116) क_इइ,365.12-17 रो_इव्,75-77 {8।10} देवेषु इव नाम .
(प्_5,1.116) क_इइ,365.12-17 रो_इव्,75-77 {9।10} ब्राह्मणेषु इव नाम .
(प्_5,1.116) क_इइ,365.12-17 रो_इव्,75-77 {10।10} एषः प्रयोगः उपपन्नः भवति .
(प्_5,1.117) क_इइ,364.19-22 रो_इव्,77-79 {1।6} किमर्थम् इदम् उच्यते न तेन तुल्यम् क्रिया चेत् वतिः इति एव सिद्धम् .
(प्_5,1.117) क_इइ,364.19-22 रो_इव्,77-79 {2।6} न सिध्यति .
(प्_5,1.117) क_इइ,364.19-22 रो_इव्,77-79 {3।6} तृतीयासमर्थात् तत्र प्रत्ययः यदा अन्येन कर्तव्याम् क्रियाम् अन्यः करोति तदा प्रत्ययः उत्पाद्यते .
(प्_5,1.117) क_इइ,364.19-22 रो_इव्,77-79 {4।6} इह पुनः द्वितीयासमर्थात् आत्मार्हायाम् क्रियायाम् अर्हतिकर्तरि निश्चितबलाधाने प्रत्ययः उत्पाद्यते .
(प्_5,1.117) क_इइ,364.19-22 रो_इव्,77-79 {5।6} ब्राह्मणवत् भवान् वर्तते .
(प्_5,1.117) क_इइ,364.19-22 रो_इव्,77-79 {6।6} एतत् वृत्तम् ब्राह्मणः अर्हति इति .
(प्_5,1.118.1) क_इइ,365.2-6 रो_इव्,79 {1।15} अर्थग्रहणम् किमर्थम् .
(प्_5,1.118.1) क_इइ,365.2-6 रो_इव्,79 {2।15} न उपसर्गात् छन्दसि धातवु इति एव उच्येत .
(प्_5,1.118.1) क_इइ,365.2-6 रो_इव्,79 {3।15} धातुः वै शब्दः .
(प्_5,1.118.1) क_इइ,365.2-6 रो_इव्,79 {4।15} शब्दे कार्यस्य असम्भवात् अर्थे कार्यम् विज्ञास्यते .
(प्_5,1.118.1) क_इइ,365.2-6 रो_इव्,79 {5।15} कः पुनः धात्वर्थः .
(प्_5,1.118.1) क_इइ,365.2-6 रो_इव्,79 {6।15} क्रिया .
(प्_5,1.118.1) क_इइ,365.2-6 रो_इव्,79 {7।15} इदम् तर्हि प्रयोजनम् .
(प्_5,1.118.1) क_इइ,365.2-6 रो_इव्,79 {8।15} उत्तरपदलोपः यथा विज्ञायेत .
(प्_5,1.118.1) क_इइ,365.2-6 रो_इव्,79 {9।15} धातुकृतः अर्थः धात्वर्थः इति .
(प्_5,1.118.1) क_इइ,365.2-6 रो_इव्,79 {10।15} कः पुनः धातुकृतः अर्थः .
(प्_5,1.118.1) क_इइ,365.2-6 रो_इव्,79 {11।15} साधनम् .
(प्_5,1.118.1) क_इइ,365.2-6 रो_इव्,79 {12।15} किम् प्रयोजनम् .
(प्_5,1.118.1) क_इइ,365.2-6 रो_इव्,79 {13।15} साधने अयम् भवन् लिङ्गसङ्ख्याभ्यम् योक्ष्यते .
(प्_5,1.118.1) क_इइ,365.2-6 रो_इव्,79 {14।15} उद्गतानि उद्वतः .
(प्_5,1.118.1) क_इइ,365.2-6 रो_इव्,79 {15।15} निगतानि निवतः इति .
(प्_5,1.118.2) क_इइ,365.7-12 रो_इव्,80 {1।11} स्त्रीपुंसाभ्याम् वत्युपसङ्ख्यानम् .
(प्_5,1.118.2) क_इइ,365.7-12 रो_इव्,80 {2।11} स्त्रीपुंसाभ्याम् वत्युपसङ्ख्यानम् कर्तव्यम् .
(प्_5,1.118.2) क_इइ,365.7-12 रो_इव्,80 {3।11} स्त्रीवत् .
(प्_5,1.118.2) क_इइ,365.7-12 रो_इव्,80 {4।11} पुंवत् इति .
(प्_5,1.118.2) क_इइ,365.7-12 रो_इव्,80 {5।11} किम् पुनः कारणम् न सिध्यति .
(प्_5,1.118.2) क_इइ,365.7-12 रो_इव्,80 {6।11} इमौ नञ्स्नञौ प्राक् भवनात् इति उच्येते .
(प्_5,1.118.2) क_इइ,365.7-12 रो_इव्,80 {7।11} तौ विशेषविहितौ सामान्यविहितम् वतिम् बाधेयाताम् .
(प्_5,1.118.2) क_इइ,365.7-12 रो_इव्,80 {8।11} न एषः दोषः .
(प्_5,1.118.2) क_इइ,365.7-12 रो_इव्,80 {9।11} आचार्यप्रवृत्तिः ज्ञापयति न वत्यर्थे नञ्स्नञौ भवतः इति यत् अयम् स्त्रियाः पुंवत् इति निर्देशम् करोति .
(प्_5,1.118.2) क_इइ,365.7-12 रो_इव्,80 {10।11} एवम् अपि स्त्रीवत् इति न सिध्यति .
(प्_5,1.118.2) क_इइ,365.7-12 रो_इव्,80 {11।11} योपापेक्षम् ज्ञापकम् .
(प्_5,1.119.1) क_इइ,365.14-366.6 रो_इव्,81-82 {1।25} स्त्रीपुंसाभ्याम् त्वतलोः उपसङ्ख्यानम् .
(प्_5,1.119.1) क_इइ,365.14-366.6 रो_इव्,81-82 {2।25} स्त्रीपुंसाभ्याम् त्वतलोः उपसङ्ख्यानम् कर्तव्यम् .
(प्_5,1.119.1) क_इइ,365.14-366.6 रो_इव्,81-82 {3।25} स्त्रीभावः स्त्रीत्वम् स्त्रीता .
(प्_5,1.119.1) क_इइ,365.14-366.6 रो_इव्,81-82 {4।25} किम् पुनः कारणम् न सिध्यति .
(प्_5,1.119.1) क_इइ,365.14-366.6 रो_इव्,81-82 {5।25} इमौ नञ्स्नञौ प्राक् भवनात् इति उच्येते .
(प्_5,1.119.1) क_इइ,365.14-366.6 रो_इव्,81-82 {6।25} तौ विशेषविहितौ सामान्यविहितम् वतिम् बाधेयाताम् .
(प्_5,1.119.1) क_इइ,365.14-366.6 रो_इव्,81-82 {7।25} वावचनम् च .
(प्_5,1.119.1) क_इइ,365.14-366.6 रो_इव्,81-82 {8।25} वावचनम् च कर्तव्यम् .
(प्_5,1.119.1) क_इइ,365.14-366.6 रो_इव्,81-82 {9।25} किम् प्रयोजनम् .
(प्_5,1.119.1) क_इइ,365.14-366.6 रो_इव्,81-82 {10।25} नञ्स्नञौ अपि यथा स्याताम् .
(प्_5,1.119.1) क_इइ,365.14-366.6 रो_इव्,81-82 {11।25} स्त्रीभावः स्त्रैणम् .
(प्_5,1.119.1) क_इइ,365.14-366.6 रो_इव्,81-82 {12।25} पुम्म्भावः पौंस्नम् इति .
(प्_5,1.119.1) क_इइ,365.14-366.6 रो_इव्,81-82 {13।25} अपवादसमावेशात् वा सिद्धम् .
(प्_5,1.119.1) क_इइ,365.14-366.6 रो_इव्,81-82 {14।25} अपवादसमावेशात् वा सिद्धम् एतत् .
(प्_5,1.119.1) क_इइ,365.14-366.6 रो_इव्,81-82 {15।25} तत् यथा इमनिच्प्रभृतिभिः अपवादैः समावेशः भवति एवम् आभ्याम् अपि भविष्यति .
(प्_5,1.119.1) क_इइ,365.14-366.6 रो_इव्,81-82 {16।25} न एव ईश्वरः आज्ञापपयति न अपि धर्मसूत्रकाराः पठन्ति इमनिच्प्रभृतिभिः अपवादैः समावेशः भवति इति .
(प्_5,1.119.1) क_इइ,365.14-366.6 रो_इव्,81-82 {17।25} किम् तर्हि आ च त्वात् इति एतस्मात् यत्नात् इमनिच्प्रभृतिभिः अपवादैः समावेशः भवति .
(प्_5,1.119.1) क_इइ,365.14-366.6 रो_इव्,81-82 {18।25} न च एतौ अत्र अभ्यन्तरौ .
(प्_5,1.119.1) क_इइ,365.14-366.6 रो_इव्,81-82 {19।25} एतौ अपि अत्र अभ्यन्तरौ .
(प्_5,1.119.1) क_इइ,365.14-366.6 रो_इव्,81-82 {20।25} कथम् .
(प्_5,1.119.1) क_इइ,365.14-366.6 रो_इव्,81-82 {21।25} अपवादसदेशाः अपवादाः भवन्ति इति .
(प्_5,1.119.1) क_इइ,365.14-366.6 रो_इव्,81-82 {22।25} एतत् च एव न जानीमः अपवादसदेशाः अपवादाः भवन्ति इति .
(प्_5,1.119.1) क_इइ,365.14-366.6 रो_इव्,81-82 {23।25} अपि च कुतः एतत् एतौ अपि अत्र अभ्यन्तरौ न पुनः पूर्वौ वा स्याताम् परौ वा .
(प्_5,1.119.1) क_इइ,365.14-366.6 रो_इव्,81-82 {24।25} एवम् तर्हि वक्ष्यति आ च त्वात् इति अत्र चकारकरणस्य प्रयोजनम् .
(प्_5,1.119.1) क_इइ,365.14-366.6 रो_इव्,81-82 {25।25} नञ्स्नञ्भ्याम् अपि समावेशः भवति इति .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {1।100} तस्य भावः इति अभिप्रायादिषु अतिप्रसङ्गः .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {2।100} तस्य भावः इति अभिप्रायादिषु अतिप्रसङ्गः भवति .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {3।100} इह अपि प्राप्नोति .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {4।100} अभिप्रायः देवदत्तस्य मोदकेषु भोजने .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {5।100} ये नः भावाः ते नः भावाः पुत्राः पुत्रैः चेष्टन्ते इति .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {6।100} सिद्धम् तु यस्य गुणस्य भावात् द्रव्ये शब्दनिवेशः तदभिधाने त्वतलौ .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {7।100} सिद्धम् एतत् .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {8।100} कथम् .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {9।100} यस्य गुणस्य भावात् द्रव्ये शब्दनिवेशः तदभिधाने तस्मिन् गुणे वक्तव्ये प्रत्ययेन भवितव्यम् .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {10।100} न च अभिप्रायादीनाम् भावात् द्रव्ये देवदत्तशब्दः वर्तते .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {11।100} किम् पुनः द्रव्यम् के पुनः गुणाः .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {12।100} शब्दस्पर्शरूपरसगन्धाः गुणाः .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {13।100} ततः अन्यत् द्रव्यम् .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {14।100} किम् पुनः अन्यत् शब्दादिभ्यः द्रव्यम् आहोस्वित् अनन्यत् .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {15।100} गुणस्य अयम् भावात् द्रव्ये शब्दनिवेशम् कुर्वन् ख्यापयति अन्यत् शब्दादिभ्यः द्रव्यम् इति .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {16।100} अनन्यत् शब्दादिभ्यः द्रव्यम् .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {17।100} न हि अन्यत् उपलभ्यते .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {18।100} पशोः खलु अपि विशसितस्य पर्णशते न्यस्तस्य न अन्यत् शब्दादिभ्यः उपलभ्यते .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {19।100} अन्यत् शब्दादिभ्यः द्रव्यम् तत् तु अनुमानगम्यम् .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {20।100} तत् यथा ओषधिवनस्पतीनाम् वृद्धिह्रासौ .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {21।100} ज्योतिषाम् गतिः इति .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {22।100} कः असौ अनुमानः .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {23।100} इह समाने वर्ष्मणि परिणाहे च अन्यत् तुलाग्रम् भवति लोहस्य अन्यत् कार्पासानाम् .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {24।100} यत्कृतः विशेषः तत् द्रव्यम् .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {25।100} तथा कः चित् स्पृशन् एव छिनत्ति कः चित् लम्बमानः अपि न छिनत्ति .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {26।100} यत्कृतः विशेषः तत् द्रव्यम् .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {27।100} कः चित् एकेन एव प्रहारेण व्यपवर्गम् करोति कः चित् द्वाभ्याम् अपि अन् करोति .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {28।100} यत्कृतः विशेषः तत् द्रव्यम् .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {29।100} अथ वा यस्य गुणान्तरेषु अपि प्रादुर्भावत्सु तत्त्वम् न विहन्यते तत् द्रव्यम् .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {30।100} किम् पुनः तत्त्वम् .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {31।100} तद्भावः तत्त्वम् .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {32।100} तत् यथा आमलकादीनाम् फलानाम् रक्तादयः पीतादयः च गुणाः प्रादुः भवन्ति .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {33।100} आमलकम् बदरम् इति एव भवति .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {34।100} अन्वर्थम् खलु अपि निर्वचनम् .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {35।100} गुणसन्द्रावः द्रव्यम् इति .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {36।100} यदि तर्हि षष्ठीसमर्थात् गुणे प्रत्ययाः उतप्द्यन्ते किम् इयता सूत्रेण .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {37।100} एतावत् वक्तव्यम् : षष्ठीसमर्थात् गुणे इति .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {38।100} षष्ठीसमर्थात् गुणे इति इयति उच्यमाने द्विगुणा रज्जुः त्रिगुणा रज्जुः अत्र अपि प्राप्नोति .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {39।100} न एषः दोषः .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {40।100} गुणशब्दः अयम् बह्वर्थः .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {41।100} अस्ति एव समेषु अवयवेषु वर्तते .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {42।100} तत् यथा द्विगुणा रज्जुः त्रिगुणा रज्जुः इति .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {43।100} अस्ति द्रव्यपदार्थकः .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {44।100} तत् यथा गुणवान् अयम् देशः इति उच्यते यस्मिन् गावः सस्यानि च वर्तन्ते .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {45।100} अस्ति अप्राधान्ये वर्तते .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {46।100} तत् यथा यः यत्र अप्रधानम् भवति सः आह गुणभूताः वयम् अत्र इति .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {47।100} अस्ति आचारे वर्तते .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {48।100} तत् यथा गुणवान् अयम् ब्राह्मणः इति उच्यते यः सम्यक् आचारम् करोति .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {49।100} अस्ति संस्कारे वर्तते .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {50।100} तत् यथा संस्कृतम् अन्नम् गुणवत् इति उच्यते .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {51।100} अथ वा सर्वत्र एव अयम् गुणशब्दः समेषु अवयवेषु वर्तते .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {52।100} तत् यथा द्विगुणम् अध्ययनम् त्रिगुणम् अध्ययनम् इति उच्यते .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {53।100} चर्चागुणान् क्रमगुणान् च अपेक्ष्य भवति न संहितागुणान् चर्चागुणान् च .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {54।100} यदि एवम् गुणवत् अन्नम् इति गुणशब्दः न उपपद्यते .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {55।100} न हि अन्नस्य सूपादयः गुणाः समाः भवन्ति .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {56।100} न अवश्यम् वर्ष्मतः परिमाणतः एव वा साम्यम् भवति .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {57।100} किम् तर्हि युक्तितः अपि .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {58।100} आतः च युक्तितः .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {59।100} यः हि मुद्गप्रस्थे लवणप्रस्थम् प्रक्षिपेत् न अदः युक्तम् स्यात् .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {60।100} यदि तावत् अदेः अन्नम् न अदः अत्तव्यम् स्यात् .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {61।100} अथ अनितेः अन्नम् न अदः जग्द्व्हा प्राण्यात् .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {62।100} शुक्लादिषु तर्हि वर्त्यभावात् वृत्तिः न प्राप्नोति .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {63।100} शुक्लत्वम् .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {64।100} शुक्लता इति .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {65।100} किम् पुनः कारणम् शुक्लादयः एव उदाह्रियन्ते न पुनः वृक्षादयः अपि .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {66।100} वृक्षत्वम् वृक्षता इति .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {67।100} अस्ति अत्र विशेषः .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {68।100} उभयवचनाः हि एते द्रव्यम् च आहुः गुणम् च .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {69।100} यतः द्रव्यवचनाः ततः वृत्तिः भविष्यति .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {70।100} इमे अपि तर्हि उभयवचनाः .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {71।100} कथम् .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {72।100} आरभ्यते मतुब्लोपः गुणवचनेभ्यः मतुपः लुक् भवति इति .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {73।100} यतः द्रव्यवचनाः ततः वृत्तिः भविष्यति .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {74।100} डित्थादिषु तर्हि वर्त्यभावात् वृत्तिः न प्राप्नोति .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {75।100} डित्थत्वम् .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {76।100} डित्थता .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {77।100} डाम्भिट्टत्वम् इति .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {78।100} अत्र अपि कः चित् प्राथमकल्पिकः डित्थः डाम्भिट्टः च .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {79।100} तेन कृताम् क्रियाम् गुणम् वा यः कः चित् करोति सः उच्यते डित्थत्वम् ते एतत् डाम्भिट्टत्वम् ते एतत् .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {80।100} एवम् डित्थाः कुर्वन्ति .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {81।100} एवम् डाम्भिट्टाः कुर्वन्ति .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {82।100} यः तर्हि प्राथमकल्पिकः डित्थः डाम्भिट्टः च तस्य वर्त्यभावात् वृत्तिः न प्राप्नोति .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {83।100} न एषः दोषः .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {84।100} यथा एव तस्य काथञ्चित्कः प्रयोगः एवम् वृत्तिः अपि भविष्यति .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {85।100} यत् वा सर्वे भावाः स्वेन भावेन भवन्ति सः तेषाम् भावः तदभिधाने .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {86।100} किम् एभिः त्रिभिः भावग्रहणैः क्रियते .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {87।100} एकेन शब्दः प्रतिनिर्दिश्यते द्वाभ्याम् अर्थः .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {88।100} यत् वा सर्वे शब्दाः स्वेन अर्थेन भवन्ति .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {89।100} सः तेषाम् अर्थः इति तदभिधाने वा त्वतलौ भवतः इति वक्तव्यम् .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {90।100} न एवम् अन्यत्र भवति .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {91।100} न हि तेन रक्तम् रागात् इति अत्र शब्देन रक्ते प्रत्ययाः उत्पद्यन्ते .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {92।100} शब्दे असम्भवात् अर्थेन रक्ते प्रत्ययाः भविष्यन्ति .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {93।100} तत् तर्हि अन्यतरत् कर्तव्यम् .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {94।100} सूत्रम् च भिद्यते .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {95।100} यथान्यासम् एव अस्तु .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {96।100} ननु च उक्तम् तस्य भावः इति अभिप्रायादिषु अतिप्रसङ्गः इति .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {97।100} उक्तम् वा .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {98।100} किम् उक्तम् .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {99।100} अनभिधानात् इति .
(प्_5,1.119.2) क_इइ,366.4-368.4 रो_इव्,83-93 {100।100} अनभिधानात् अभिप्रायादिषु उतपत्तिः न भविष्यति .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {1।59} त्वतल्भ्याम् नञ्समासः पूर्वविप्रतिषिद्धम् त्वतलोः स्वरसिद्ध्यर्थम् .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {2।59} त्वतल्भ्याम् नञ्समासः भवति पूर्वविप्रतिष्धेन .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {3।59} किम् प्रयोजनम् .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {4।59} त्वतलोः स्वरसिद्ध्यर्थम् .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {5।59} त्वतलोः स्वरसिद्धिः यथा स्यात् .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {6।59} त्वतलोः अवकाशः भावस्य वचनम् प्रतिषेधस्य अवचनम् .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {7।59} ब्राह्मणत्वम् .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {8।59} ब्राह्म्णता .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {9।59} नञ्समासस्य अवकाशः प्रतिषेधस्य वचनम् भावस्य अवचनम् .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {10।59} अब्राह्मणः .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {11।59} अवृषलः .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {12।59} उभयवचने उभयम् प्राप्नोति .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {13।59} अब्राह्मणत्वम् .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {14।59} अब्राह्मणता .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {15।59} नञ्समासः भवति पूर्वविप्रतिष्धेन .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {16।59} सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {17।59} न वक्तव्यः .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {18।59} न अत्र त्वतलौ प्राप्नुतः .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {19।59} किम् कारणम् .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {20।59} असामर्थ्यात् .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {21।59} कथम् असामर्थ्यम् .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {22।59} सापेक्षम् असमर्थम् भवति इति .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {23।59} यावता ब्राह्मणशब्दः प्रतिषेधम् अपेक्षते .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {24।59} नञ्समासः अपि तर्हि न प्राप्नोति .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {25।59} किम् कारणम् .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {26।59} असामर्थ्यात् एव .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {27।59} कथम् असामर्थ्यम् .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {28।59} सापेक्षम् असमर्थम् भवति इति .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {29।59} यावता ब्राह्मणशब्दः भावम् अपेक्षते .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {30।59} प्रधानम् तदा ब्राह्मणशब्दः .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {31।59} भवति च प्रधानस्य सापेक्षस्य अपि समासः .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {32।59} इदम् तर्हि प्रयोजनम् .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {33।59} नञ्समादात् अन्यः भाववचनः स्वरोत्तरपदवृद्ध्यर्थम् इति वक्ष्यति .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {34।59} तत्र व्यवस्थार्थम् इदम् वक्तव्यम् .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {35।59} वा छन्दसि .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {36।59} वा छन्दसि नञ्समासः वक्तव्यः .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {37।59} निर्वीर्यताम् वै यजमानः आशास्ते अपशुताम् .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {38।59} अयोनित्वाय .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {39।59} अशिथिलत्वाय .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {40।59} अगोताम् अनपत्यताम् .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {41।59} भवेत् इदम् युक्तम् उदाहरणम् .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {42।59} अयोनित्वाय .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {43।59} अशिथिलत्वाय इति .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {44।59} इदम् तु अयुक्तम् अपशुताम् इति .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {45।59} न हि असौ समासभावम् आशास्ते .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {46।59} किम् तर्हि .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {47।59} उत्तरपदाभावम् आशास्ते .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {48।59} न पशोः भावः इति .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {49।59} नञ्समासात् अन्यः भाववचनः .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {50।59} नञ्समासात् अन्यः भाववचनः भवति विप्रतिषेधेन .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {51।59} किम् प्रयोजनम् .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {52।59} स्वरोत्तरपदवृद्ध्यर्थम् .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {53।59} स्वरार्थम् उत्तरपदवृद्ध्यर्थम् च .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {54।59} स्वरार्थम् तावत् .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {55।59} अप्रथिमा .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {56।59} अम्रदिमा .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {57।59} उत्तरपदवृद्ध्यर्थम् .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {58।59} अशौक्ल्यम् .
(प्_5,1.119.3) क_इइ,368.5-369.2 रो_इव्,93-95 {59।59} अकार्ष्ण्यम् .
(प्_5,1.120) क_इइ,369.4-16 रो_इव्,95-97 {1।24} किमर्थः चकारः .
(प्_5,1.120) क_इइ,369.4-16 रो_इव्,95-97 {2।24} अनुकर्षणार्थः .
(प्_5,1.120) क_इइ,369.4-16 रो_इव्,95-97 {3।24} त्वतलौ अनुकृष्येते .
(प्_5,1.120) क_इइ,369.4-16 रो_इव्,95-97 {4।24} न एतत् अस्ति प्रयोजनम् .
(प्_5,1.120) क_इइ,369.4-16 रो_इव्,95-97 {5।24} प्रकृतौ त्वतलौ अनुवर्तिष्येते .
(प्_5,1.120) क_इइ,369.4-16 रो_इव्,95-97 {6।24} अतः उत्तरम् पठति .
(प्_5,1.120) क_इइ,369.4-16 रो_इव्,95-97 {7।24} आ च त्वात् इति चकारकरणम् अपवादसमावेशार्थम् .
(प्_5,1.120) क_इइ,369.4-16 रो_इव्,95-97 {8।24} आ च त्वात् इति चकारकरणम् क्रियते अपवादसमावेशार्थम् .
(प्_5,1.120) क_इइ,369.4-16 रो_इव्,95-97 {9।24} इमनिच्प्रभृतिभिः अपवादैः समावेशः यथा स्यात् .
(प्_5,1.120) क_इइ,369.4-16 रो_इव्,95-97 {10।24} न एतत् अस्ति प्रयोजनम् .
(प्_5,1.120) क_इइ,369.4-16 रो_इव्,95-97 {11।24} आ त्वात् इति एवम् इमनिच्प्रभृतिभिः अपवादैः समावेशः भविष्यति .
(प्_5,1.120) क_इइ,369.4-16 रो_इव्,95-97 {12।24} इदम् तर्हि प्रयोजनम् .
(प्_5,1.120) क_इइ,369.4-16 रो_इव्,95-97 {13।24} आ त्वात् याः प्रकृतयः ताभ्यः च त्वतलौ यथा स्याताम् यतः च उच्येते .
(प्_5,1.120) क_इइ,369.4-16 रो_इव्,95-97 {14।24} एतत् अपि न अस्ति प्रयोजनम् .
(प्_5,1.120) क_इइ,369.4-16 रो_इव्,95-97 {15।24} आ त्वात् इति एव याः प्रकृतयः ताभ्यः त्वतलौ भविष्यतः यतः च उच्येते .
(प्_5,1.120) क_इइ,369.4-16 रो_इव्,95-97 {16।24} इदम् तर्हि प्रयोजनम् .
(प्_5,1.120) क_इइ,369.4-16 रो_इव्,95-97 {17।24} आ त्वात् ये अर्थाः तत्र त्वतलौ यथा स्याताम् यत्र च उच्येते .
(प्_5,1.120) क_इइ,369.4-16 रो_इव्,95-97 {18।24} एतत् अपि न अस्ति प्रयोजनम् .
(प्_5,1.120) क_इइ,369.4-16 रो_इव्,95-97 {19।24} आ त्वात् इति एव आ त्वात् ये अर्थाः तत्र त्वतलौ भविष्यतः यत्र च उच्येते .
(प्_5,1.120) क_इइ,369.4-16 रो_इव्,95-97 {20।24} इदम् तर्हि प्रयोजनम् .
(प्_5,1.120) क_इइ,369.4-16 रो_इव्,95-97 {21।24} आ त्वात् याः प्रकृतयः ताभ्यः च त्वतलौ यथा स्याताम् यस्याः च प्रकृतेः अतस्मिन् विशेषे अन्यः प्रत्ययः उत्पद्यते .
(प्_5,1.120) क_इइ,369.4-16 रो_इव्,95-97 {22।24} किम् कृतम् भवति .
(प्_5,1.120) क_इइ,369.4-16 रो_इव्,95-97 {23।24} स्त्रीपुंसाभ्याम् त्वतलोः उपसङ्ख्यानम् चोदितम् .
(प्_5,1.120) क_इइ,369.4-16 रो_इव्,95-97 {24।24} तत् न वक्तव्यम् भवति .
(प्_5,1.121) क_इइ,369.19-370.12 रो_इव्,97-100 {1।27} कस्य अयम् प्रतिषेधः .
(प्_5,1.121) क_इइ,369.19-370.12 रो_इव्,97-100 {2।27} त्वतलोः इति आह .
(प्_5,1.121) क_इइ,369.19-370.12 रो_इव्,97-100 {3।27} न एतत् असि प्रयोजनम् .
(प्_5,1.121) क_इइ,369.19-370.12 रो_इव्,97-100 {4।27} इष्येते नञ्पूर्वात् तत्पुरुषात् त्वतलौ : अब्राह्मणत्वम् अब्राह्मणता इति .
(प्_5,1.121) क_इइ,369.19-370.12 रो_इव्,97-100 {5।27} अतः उत्तरम् पठति .
(प्_5,1.121) क_इइ,369.19-370.12 रो_इव्,97-100 {6।27} न नञ्पूर्वात् इति उत्तरस्य प्रतिषेधः .
(प्_5,1.121) क_इइ,369.19-370.12 रो_इव्,97-100 {7।27} न नञ्पूर्वात् इति उत्तरस्य भावप्रत्ययस्य प्रतिषेधः क्रियते .
(प्_5,1.121) क_इइ,369.19-370.12 रो_इव्,97-100 {8।27} न एतत् अस्ति प्रयोजनम् .
(प्_5,1.121) क_इइ,369.19-370.12 रो_इव्,97-100 {9।27} परिगणिताभ्यः प्रकृतिभ्यः उत्तरः भावप्रत्ययः विधीयते .
(प्_5,1.121) क_इइ,369.19-370.12 रो_इव्,97-100 {10।27} न च तत्र का चित् नञ्पूर्वा प्रकृतिः गृह्यते .
(प्_5,1.121) क_इइ,369.19-370.12 रो_इव्,97-100 {11।27} तदन्तविधिना प्राप्नोति .
(प्_5,1.121) क_इइ,369.19-370.12 रो_इव्,97-100 {12।27} ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते .
(प्_5,1.121) क_इइ,369.19-370.12 रो_इव्,97-100 {13।27} यत्र तर्हि तदन्तविधिः अस्ति .
(प्_5,1.121) क_इइ,369.19-370.12 रो_इव्,97-100 {14।27} पत्यन्तपुरोहितादिभ्यः यक् इति .
(प्_5,1.121) क_इइ,369.19-370.12 रो_इव्,97-100 {15।27} यदि एतावत् प्रयोजनम् स्यात् तत्र एव अयम् ब्रूयात् अपत्यन्तात् यक् भवति नञ्पूर्वात् तत्पुरुषात् इति .
(प्_5,1.121) क_इइ,369.19-370.12 रो_इव्,97-100 {16।27} एवम् तर्हि ज्ञापयति आचारयः उत्तरः भावप्रत्ययः नञ्पूर्वात् बहुव्रीहेः भवति इति .
(प्_5,1.121) क_इइ,369.19-370.12 रो_इव्,97-100 {17।27} न इष्यते .
(प्_5,1.121) क_इइ,369.19-370.12 रो_इव्,97-100 {18।27} त्वतलौ एव इष्येते : अविद्यमानाः पृथवः अस्य अपृथुः , अपृथोः भावः अपृथुत्वम् अपृथुता इति .
(प्_5,1.121) क_इइ,369.19-370.12 रो_इव्,97-100 {19।27} एवम् तर्हि ज्ञापयति आचारयः उत्तरः भावप्रत्ययः अन्यपूर्वात् तत्पुरुषात् भवति इति .
(प्_5,1.121) क_इइ,369.19-370.12 रो_इव्,97-100 {20।27} न इष्यते .
(प्_5,1.121) क_इइ,369.19-370.12 रो_इव्,97-100 {21।27} त्वतलौ एव इष्येते : परमः पृथुः परमपृथुः , परमपृथोः भावः परमपृथुत्वम् परमपृथुता .
(प्_5,1.121) क_इइ,369.19-370.12 रो_इव्,97-100 {22।27} एवम् तर्हि ज्ञापयति आचारयः उत्तरः भावप्रत्ययः सापेक्षात् भवति इति .
(प्_5,1.121) क_इइ,369.19-370.12 रो_इव्,97-100 {23।27} किम् एतस्य ज्ञापने प्रयोजनम् .
(प्_5,1.121) क_इइ,369.19-370.12 रो_इव्,97-100 {24।27} नञ्समासात् अन्यः भाववचनः स्वरोत्तरपदवृद्ध्यर्थम् इति उक्तम् .
(प्_5,1.121) क_इइ,369.19-370.12 रो_इव्,97-100 {25।27} तत् उपपन्नम् भवति .
(प्_5,1.121) क_इइ,369.19-370.12 रो_इव्,97-100 {26।27} एतत् अपि न अस्ति प्रयोजनम् .
(प्_5,1.121) क_इइ,369.19-370.12 रो_इव्,97-100 {27।27} आचार्यप्रवृत्तिः ज्ञापयति सर्वे एते तद्धिताः सापेक्षात् भवन्ति इति यत् अयम् नञः गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थाः तद्धिताः इति आह .
(प्_5,1.122) क_इइ,370.14-19 रो_इव्,100-101 {1।14} वावचनम् किमर्थम् .
(प्_5,1.122) क_इइ,370.14-19 रो_इव्,100-101 {2।14} वाक्यम् अपि यथा स्यात् .
(प्_5,1.122) क_इइ,370.14-19 रो_इव्,100-101 {3।14} न एतत् अस्ति प्रयोजनम् .
(प्_5,1.122) क_इइ,370.14-19 रो_इव्,100-101 {4।14} प्रकृटा महाविभाषा .
(प्_5,1.122) क_इइ,370.14-19 रो_इव्,100-101 {5।14} तया वाक्यम् अपि भविष्यति .
(प्_5,1.122) क_इइ,370.14-19 रो_इव्,100-101 {6।14} इदम् तर्हि प्रयोजनम् .
(प्_5,1.122) क_इइ,370.14-19 रो_इव्,100-101 {7।14} त्वतलौ अपि यथा स्याताम् .
(प्_5,1.122) क_इइ,370.14-19 रो_इव्,100-101 {8।14} एतत् अपि न अस्ति प्रयोजनम् .
(प्_5,1.122) क_इइ,370.14-19 रो_इव्,100-101 {9।14} आ च त्वात् इति एतस्मात् यत्नात् त्वतलौ अपि भविष्यतः .
(प्_5,1.122) क_इइ,370.14-19 रो_इव्,100-101 {10।14} अतः उत्तरम् पठति .
(प्_5,1.122) क_इइ,370.14-19 रो_इव्,100-101 {11।14} पृथ्वादिभ्यः वावचनम् अण्समावेशार्थम् .
(प्_5,1.122) क_इइ,370.14-19 रो_इव्,100-101 {12।14} पृथ्वादिभ्यः वावचनम् क्रियते अण्समावेशः यथा स्यात् .
(प्_5,1.122) क_इइ,370.14-19 रो_इव्,100-101 {13।14} पार्थवम् .
(प्_5,1.122) क_इइ,370.14-19 रो_इव्,100-101 {14।14} प्रथिमा .
(प्_5,1.124) क_इइ,370.21-371.2 रो_इव्,101 {1।1} ब्राह्मणादिषु चातुर्वर्ण्यादीनाम् उपसङ्ख्यानम् . ब्राह्मणादिषु चातुर्वर्ण्यादीनाम् उपसङ्ख्यानम् कर्तव्यम् . चातुर्वर्ण्यम् . चातुर्वैद्यम् . चातुराश्रम्यम् . अर्हतः नुम् च . अर्हतः नुम् च ष्यञ् च वक्तव्यः . अर्हतः भावः आर्हन्त्यम् आर्हती .
(प्_5,1.125) क_इइ,371.4-6 रो_इव्,101102 {1।7} किम् इदम् नलोपे वर्णग्रहणम् आहोस्वित् सङ्घातग्रहणम् .
(प्_5,1.125) क_इइ,371.4-6 रो_इव्,101102 {2।7} किम् च अतः .
(प्_5,1.125) क_इइ,371.4-6 रो_इव्,101102 {3।7} यदि वर्णग्रहणम् स्तेयम् .
(प्_5,1.125) क_इइ,371.4-6 रो_इव्,101102 {4।7} नलोपे कृते अयादेशः प्राप्नोति .
(प्_5,1.125) क_इइ,371.4-6 रो_इव्,101102 {5।7} अथ सङ्घातग्रहणम् अन्त्यस्य लोपः कस्मात् न भवति .
(प्_5,1.125) क_इइ,371.4-6 रो_इव्,101102 {6।7} सिद्धः अन्त्यस्य लोपः यस्य इति एव .
(प्_5,1.125) क_इइ,371.4-6 रो_इव्,101102 {7।7} तत्र आरम्भसामर्थ्यात् सर्वस्य भविष्यति .
(प्_5,1.130) क_इइ,371.8-10 रो_इव्,102 {1।3} अण्प्रकरणे श्रोत्रियस्य .
(प्_5,1.130) क_इइ,371.8-10 रो_इव्,102 {2।3} अण्प्रकरणे श्रोत्रियस्य उपसङ्ख्यानम् कर्तव्यम् घलोपः च .
(प्_5,1.130) क_इइ,371.8-10 रो_इव्,102 {3।3} श्रोत्रियस्य भावः श्रौत्रम् .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {1।43} तिलादिभ्यः खञ् च .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {2।43} तिलादिभ्यः खञ् च इति वक्तव्यम् .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {3।43} तिल्यम् .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {4।43} तैलीनम् .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {5।43} किमर्थम् इदम् उच्यते न यता मुक्ते धान्यानाम् भवने क्षेत्रे खञ् इति एव सिद्धम् .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {6।43} न सिध्यति .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {7।43} किम् कारणम् .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {8।43} उमाभङ्गयोः अधान्यत्वात् .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {9।43} धान्यानाम् भवने क्षेत्रे खञ् इति उच्यते .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {10।43} न च उमाभङ्गे धान्ये .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {11।43} चमेषु यत् पठ्यते तत् धान्यम् .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {12।43} न च एते तत्र पठ्येते .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {13।43} तत् तर्हि खञ्ग्रहणम् कर्तव्यम् .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {14।43} न कर्तव्यम् .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {15।43} प्रकृतम् अनुवर्तते .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {16।43} क्व प्रकृतम् .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {17।43} धान्यानाम् भवने क्षेत्रे खञ् इति .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {18।43} यदि तत् अनुवर्तते व्रीहिशालयोः ढक् यवयवकषष्टिकात् यत् इति खञ् च इति खञ् अपि प्राप्नोति .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {19।43} सम्बन्धम् अनुवर्तिष्यते .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {20।43} धान्यानाम् भवने क्षेत्रे खञ् .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {21।43} व्रीहिशालयोः ढक् भवति .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {22।43} धान्यानाम् भवने क्षेत्रे खञ् .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {23।43} यवयवकषष्टिकात् यत् भवति .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {24।43} धान्यानाम् भवने क्षेत्रे खञ् भवति .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {25।43} विभाषा तिलमाषोमाभङ्गणुभ्यः .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {26।43} भवनेक्षेत्रेग्रहणम् अनुवर्तते .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {27।43} धान्यानाम् इति निवृत्तम् .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {28।43} अथ वा मण्डूकप्लुतयः अधिकाराः .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {29।43} यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वत् अधिकाराः .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {30।43} अथ वा अन्यवचनात् चकाराकरणात् प्रकृतापवादः विज्ञायते यथा उत्सर्गेण प्रसक्तस्य अपवादः .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {31।43} अन्यस्य प्रत्ययस्य वचनात् चकारस्य च अनुकर्षणार्थस्य अकरणात् प्रकृतस्य खञः ढग्यतौ बाधकौ भविष्यतः यथा उत्सर्गेण प्रसक्तस्य अपवादः बाधकः भवति .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {32।43} अथ वा एतत् ज्ञापयति अनुवर्तन्ते च नाम विधयः न च अनुवर्तनात् एव भवन्ति .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {33।43} किम् तर्हि .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {34।43} यत्नात् भवन्ति .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {35।43} अथ वा यता मुक्ते धान्यानाम् भवने क्षेत्रे खञ् इति एव सिद्धम् .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {36।43} ननु च उक्तम् .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {37।43} न सिध्यति .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {38।43} किम् कारणम् .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {39।43} उमाभङ्गयोः अधान्यत्वात् इति .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {40।43} न एषः दोषः .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {41।43} धिनोतेः धान्यम् .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {42।43} एते च अपि धिनुतः .
(प्_5,2.4) क_इइ,372.2-21 रो_इव्,103-105 {43।43} अथ वा शणसप्तदशानि धान्यानि .
(प्_5,2.6) क_इइ,372.23-373.2 रो_इव्,105 {1।4} सम्मुख इति किम् निपात्यते .
(प्_5,2.6) क_इइ,372.23-373.2 रो_इव्,105 {2।4} सम्मुख इति समस्य अन्तलोपः .
(प्_5,2.6) क_इइ,372.23-373.2 रो_इव्,105 {3।4} सम्मुख इति समस्य अन्तलोपः निपात्यते .
(प्_5,2.6) क_इइ,372.23-373.2 रो_इव्,105 {4।4} सममुखस्य दर्शनः सम्मुखीनः .
(प्_5,2.9) क_इइ,373.4-6 रो_इव्,105-106 {1।6} अयानयम् नेयः इति उच्यते .
(प्_5,2.9) क_इइ,373.4-6 रो_इव्,105-106 {2।6} तत्र न ज्ञायते कः अयः कः अनयः इति .
(प्_5,2.9) क_इइ,373.4-6 रो_इव्,105-106 {3।6} अयः प्रदक्षिणम् .
(प्_5,2.9) क_इइ,373.4-6 रो_इव्,105-106 {4।6} अनयः प्रसव्यम् .
(प्_5,2.9) क_इइ,373.4-6 रो_इव्,105-106 {5।6} प्रदक्षिणप्रसव्यगमिनाम् शाराणाम् यस्मिन् परैः पदानाम् असमावेशः सः अयानयः .
(प्_5,2.9) क_इइ,373.4-6 रो_इव्,105-106 {6।6} अयानयम् नेयः अयानयीनः शारः .
(प्_5,2.10) क_इइ,373.8-15 रो_इव्,106-107 {1।12} परोवर इति किम् निपात्यते .
(प्_5,2.10) क_इइ,373.8-15 रो_इव्,106-107 {2।12} परोवर इति परसोत्ववचनम् .
(प्_5,2.10) क_इइ,373.8-15 रो_इव्,106-107 {3।12} परोवर इति परस्य ओत्वम् निपात्यते .
(प्_5,2.10) क_इइ,373.8-15 रो_इव्,106-107 {4।12} यदि एवम् परस्यौत्ववचनम् इति प्राप्नोति .
(प्_5,2.10) क_इइ,373.8-15 रो_इव्,106-107 {5।12} शकन्धुन्यायेन निर्देशः .
(प्_5,2.10) क_इइ,373.8-15 रो_इव्,106-107 {6।12} अथ वा न एवम् विज्ञायते परस्य ओत्वम् निपात्यते इति .
(प्_5,2.10) क_इइ,373.8-15 रो_इव्,106-107 {7।12} कथम् तर्हि .
(प्_5,2.10) क_इइ,373.8-15 रो_इव्,106-107 {8।12} परस्य शब्दरूपस्य आदेः उत्वम् निपात्यते इति .
(प्_5,2.10) क_इइ,373.8-15 रो_इव्,106-107 {9।12} परान् च अवरान् च अनुभवति परोवरीणः .
(प्_5,2.10) क_इइ,373.8-15 रो_इव्,106-107 {10।12} अथ परम्पर इति किम् निपात्यते .
(प्_5,2.10) क_इइ,373.8-15 रो_इव्,106-107 {11।12} परपरतराणाम् परम्परभावः . परपरतराणाम् परम्परभावः निपात्यते .
(प्_5,2.10) क_इइ,373.8-15 रो_इव्,106-107 {12।12} परान् च परतरान् च अनुभवति परम्परीणः .
(प्_5,2.12) क_इइ,373.17-374.9 रो_इव्,107-108 {1।14} इह समांसमीना गौः सुपः धातुप्रातिपदिकयोः इति सुब्लुक् प्राप्नोति .
(प्_5,2.12) क_इइ,373.17-374.9 रो_इव्,107-108 {2।14} समाम् समाम् विजायते इति यलोपवचनात् अलुग्विज्ञानम् .
(प्_5,2.12) क_इइ,373.17-374.9 रो_इव्,107-108 {3।14} समाम् समाम् विजायते इति यलोपवचनात् अलुग्विज्ञानम् भविष्यति .
(प्_5,2.12) क_इइ,373.17-374.9 रो_इव्,107-108 {4।14} यत् अयम् यलोपम् शास्ति तत् ज्ञापयति आचार्यः न अत्र लुक् भवति इति .
(प्_5,2.12) क_इइ,373.17-374.9 रो_इव्,107-108 {5।14} समाम् समाम् विजायते इति यलोपवचनात् अलुग्विज्ञानम् इति चेत् उत्तरपदस्य लुग्वचनम् .
(प्_5,2.12) क_इइ,373.17-374.9 रो_इव्,107-108 {6।14} समाम् समाम् विजायते इति यलोपवचनात् अलुग्विज्ञानम् इति चेत् उत्तरपदस्य लुक् वक्तव्यः .
(प्_5,2.12) क_इइ,373.17-374.9 रो_इव्,107-108 {7।14} सिद्धम् तु पूर्वपदस्य यलोपवचनात् .
(प्_5,2.12) क_इइ,373.17-374.9 रो_इव्,107-108 {8।14} सिद्धम् एतत् .
(प्_5,2.12) क_इइ,373.17-374.9 रो_इव्,107-108 {9।14} कथम् .
(प्_5,2.12) क_इइ,373.17-374.9 रो_इव्,107-108 {10।14} पूर्वपदस्य यलोपः वक्तव्यः .
(प्_5,2.12) क_इइ,373.17-374.9 रो_इव्,107-108 {11।14} अनुत्पत्तौ उत्तरपदस्य च वावचनम् .
(प्_5,2.12) क_इइ,373.17-374.9 रो_इव्,107-108 {12।14} अनुत्पत्तौ पूर्वपदस्य उत्तरपदस्य च यलोपः वा वक्तव्यः .
(प्_5,2.12) क_इइ,373.17-374.9 रो_इव्,107-108 {13।14} समाम् समाम् विजायते .
(प्_5,2.12) क_इइ,373.17-374.9 रो_इव्,107-108 {14।14} समायाम् समायाम् विजायते इति .
(प्_5,2.14) क_इइ,374.11-14 रो_इव्,108 {1।4} आगवीनः इति किम् निपात्यते .
(प्_5,2.14) क_इइ,374.11-14 रो_इव्,108 {2।4} गोः आङ्पूर्वात् अ तस्य गोः प्रतिदानात् कारिणि खः .
(प्_5,2.14) क_इइ,374.11-14 रो_इव्,108 {3।4} गोः आङ्पूर्वात् अ तस्य गोः प्रतिदानात् कारिणि खः निपात्यते .
(प्_5,2.14) क_इइ,374.11-14 रो_इव्,108 {4।4} अ तस्य गोः प्रतिदानात् कर्मकारी आगवीनः कर्मकरः .
(प्_5,2.20) क_इइ,374.16-18 रो_इव्,109 {1।5} किम् यः शालायाम् अधृष्टः सः शालीनः कूपे वा यत् अकार्यम् तत् कौपीनम् .
(प्_5,2.20) क_इइ,374.16-18 रो_इव्,109 {2।5} न इति आह .
(प्_5,2.20) क_इइ,374.16-18 रो_इव्,109 {3।5} उत्तरपदलोपः अत्र द्रष्टव्यः .
(प्_5,2.20) क_इइ,374.16-18 रो_इव्,109 {4।5} शालाप्रवेशनम् अर्हति अधृष्टः सः शालीनः .
(प्_5,2.20) क_इइ,374.16-18 रो_इव्,109 {5।5} कूपावतरणम् अर्हति अकार्यम् तत् कौपीनम् .
(प्_5,2.21) क_इइ,374.20-21 रो_इव्,109-110 {1।5} व्रातेन जीवति इति उच्यते .
मूल पाठ: Vyākaraṇamahābhāṣya · Edition: Franz Kielhorn (Bombay 1880-1885), revised by K.V. Abhyankar (Poona 1972-1996). · Data entry George Cardona · GRETIL (Göttingen) · CC BY-NC-SA 4.0