भाषा

ENहिગુ
ग्रंथ पाठ

व्याकरणमहाभाष्य · भाग 581600

(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {66।117} एवम् अपि कुतः एतत् अपवादः विभाषा भविष्यति न पुनः उत्सर्गः इति .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {67।117} न च एव अस्ति विशेषः यत् अपवादः विभाषा स्यात् उत्सर्गः वा .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {68।117} अपि च सापेक्षः अयम् निर्देशः क्रियते वा असरूपः इति .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {69।117} न च उत्सर्गवेलायाम् किम् चित् अपेक्ष्यम् अस्ति .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {70।117} अपवादवेलायाम् पुनः उत्सर्गः अपेक्ष्यते .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {71।117} तेन यः रूपवान् अन्यपूर्वकः बाधकः प्राप्नोति सः वा बाधकः भविष्यति .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {72।117} कः पुनः असौ .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {73।117} अपवादः .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {74।117} यदि यः रूपवान् अन्यपूर्वकः बाधकः प्राप्नोति सः वा बाधकः भवति इति उच्यते क्विबादिषु समावेशः न प्राप्नोति .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {75।117} ग्रामणीः ग्रामणायः इति .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {76।117} न हि एते रूपवन्तः .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {77।117} एते अपि रूपवन्तः .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {78।117} कस्याम् अवस्थायाम् .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {79।117} उपदेशावस्थायाम् .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {80।117} यदि एवम् अनुबन्धभिन्नेषु विभाषाप्रसङ्गः .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {81।117} अनुबन्धभिन्नेषु विभाषा प्राप्नोति .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {82।117} कर्मणि अण् आतः अनुपसर्गे कः इति कविषये अण् अपि प्राप्नोति .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {83।117} सिद्धम् अनुबन्धस्य अनेकान्तत्वात् .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {84।117} सिद्धम् एतत् .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {85।117} कथम् .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {86।117} अनुबन्धस्य अनेकान्तत्वात् .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {87।117} अनेकान्ताः अनुबन्धाः .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {88।117} अथ वा प्रयोगे असरूपाणाम् वाविधिः न्याय्यः .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {89।117} प्रयोगे चेत् लादेशेषु प्रतिषेधः .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {90।117} प्रयोगे चेत् लादेशेषु प्रतिषेधः वक्तव्यः .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {91।117} ह्यः अपचत् इति अत्र लुङ् अपि प्राप्नोति .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {92।117} श्वः पक्ता इति अत्र लृट् अपि प्राप्नोति .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {93।117} न एषः दोषः .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {94।117} आचार्यप्रवृत्तिः ज्ञापयति न लादेशेषु वा असरूपः भवति इति यत् अयम् हशश्वतोः लङ् च इति आह .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {95।117} अथ वा प्रयोगे असरूपाणाम् वाविधौ न सर्वम् इष्टम् सङ्गृहीतम् इति कृत्वा द्वितीयः प्रयोगः उपास्यते .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {96।117} कः असौ .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {97।117} उपदेशः नाम .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {98।117} उपदेशे च एते सरूपाः .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {99।117} ननु च उक्तम् अनुबन्धभिन्नेषु विभाषाप्रसङ्गः इति .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {100।117} परिहृतम् एतत् .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {101।117} कथम् .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {102।117} सिद्धम् अनुबन्धस्य अनेकान्तत्वात् .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {103।117} अथ एकान्ते दोषः एव .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {104।117} एकान्ते च न दोषः .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {105।117} आचार्यप्रवृत्तिः ज्ञापयति न अनुबन्धकृतम् असारूप्यम् भवति इति यत् अयम् ददादिदधात्योः विभाषा शम् शास्ति .

(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {106।117} अथ वा असरूपः बाधकः वा बाधकः भवति इति उच्यते .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {107।117} अपवादः नाम अनुबन्धभिन्नः वा भवति रूपान्यत्वेन वा .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {108।117} तेन अनेन अवश्यम् किम् चित् त्याज्यम् किम् चित् तु सङ्ग्रहीतव्यम् .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {109।117} तत् यत् अनुबन्धकृतम् असारूप्यम् तत् न आश्रयिष्यामः यत् तु रूपान्यत्वेन असारूप्यम् तत् आश्रयिष्यामः .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {110।117} अथ वा असरूपः बाधकः वा बाधकः भवति इति उच्यते सर्वः च असरूपः .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {111।117} तत्र प्रकर्षगतिः विज्ञास्यते : साधीयः यः असरूपः इति .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {112।117} कः च साधीयः .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {113।117} यः प्रयोगे च प्राक् च प्रयोगात् .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {114।117} अथ वा असरूपः बाधकः वा बाधकः भवति इति उच्यते .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {115।117} न च एवम् कः चित् अपि सरूपः .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {116।117} ते एवम् विज्ञास्यामः : क्वत् चित् ये असरूपाः .
(प्_3,1.94.2) क_इइ,78.8-80.14 रो_इइइ,193-198 {117।117} अनुबन्धभिन्नाः च प्रयोगे सरूपाः .
(प्_3,1.94.3) क_इइ,80.15-26 रो_इइइ,199-200 {1।25} अथ कथम् इदम् विज्ञायते अस्त्रियाम् इति .
(प्_3,1.94.3) क_इइ,80.15-26 रो_इइइ,199-200 {2।25} किम् स्त्रियाम् न भवति आहोस्वित् प्राक् स्त्रियाः भवति इति .
(प्_3,1.94.3) क_इइ,80.15-26 रो_इइइ,199-200 {3।25} कः च अत्र विशेषः .
(प्_3,1.94.3) क_इइ,80.15-26 रो_इइइ,199-200 {4।25} स्त्रियाम् प्रतिषेधे क्तल्युट्तुमुन्खलर्थेषु विभाषाप्रसङ्गः .
(प्_3,1.94.3) क_इइ,80.15-26 रो_इइइ,199-200 {5।25} स्त्रियाम् प्रतिषेधे क्तल्युट्तुमुन्खलर्थेषु विभाषा प्राप्नोति .
(प्_3,1.94.3) क_इइ,80.15-26 रो_इइइ,199-200 {6।25} क्त .
(प्_3,1.94.3) क_इइ,80.15-26 रो_इइइ,199-200 {7।25} हसितम् छात्रस्य्स् शोभनम् .
(प्_3,1.94.3) क_इइ,80.15-26 रो_इइइ,199-200 {8।25} घञ् अपि प्राप्नोति .
(प्_3,1.94.3) क_इइ,80.15-26 रो_इइइ,199-200 {9।25} ल्युट् .
(प्_3,1.94.3) क_इइ,80.15-26 रो_इइइ,199-200 {10।25} हसनम् छात्रस्य्स् शोभनम् .
(प्_3,1.94.3) क_इइ,80.15-26 रो_इइइ,199-200 {11।25} घञ् अपि प्राप्नोति .
(प्_3,1.94.3) क_इइ,80.15-26 रो_इइइ,199-200 {12।25} तुमुन् .
(प्_3,1.94.3) क_इइ,80.15-26 रो_इइइ,199-200 {13।25} इच्छति भोक्तुम् .
(प्_3,1.94.3) क_इइ,80.15-26 रो_इइइ,199-200 {14।25} लिङ्लोटौ अपि प्राप्नुतः .
(प्_3,1.94.3) क_इइ,80.15-26 रो_इइइ,199-200 {15।25} खलर्थः .
(प्_3,1.94.3) क_इइ,80.15-26 रो_इइइ,199-200 {16।25} ईषत्पानः सोमः भवता .
(प्_3,1.94.3) क_इइ,80.15-26 रो_इइइ,199-200 {17।25} खल् अपि प्राप्नोति .
(प्_3,1.94.3) क_इइ,80.15-26 रो_इइइ,199-200 {18।25} एवम् तर्हि स्त्रियाः प्राक् इति वक्ष्यामि .
(प्_3,1.94.3) क_इइ,80.15-26 रो_इइइ,199-200 {19।25} स्त्रियाः प्राक् इति चेत् क्त्वायाम् वावचनम् . स्त्रियाः प्राक् इति चेत् क्त्वायाम् वावचनम् कर्तव्यम् .
(प्_3,1.94.3) क_इइ,80.15-26 रो_इइइ,199-200 {20।25} आसित्वा भुङ्क्ते .
(प्_3,1.94.3) क_इइ,80.15-26 रो_इइइ,199-200 {21।25} आस्यते भोक्तुम् इति अपि यथा स्यात् .
(प्_3,1.94.3) क_इइ,80.15-26 रो_इइइ,199-200 {22।25} कालादिषु तुमुनि .
(प्_3,1.94.3) क_इइ,80.15-26 रो_इइइ,199-200 {23।25} कालादिषु तुमुनि वावचनम् कर्तव्यम् .
(प्_3,1.94.3) क_इइ,80.15-26 रो_इइइ,199-200 {24।25} कालः भोक्तुम् .
(प्_3,1.94.3) क_इइ,80.15-26 रो_इइइ,199-200 {25।25} कालः भोजनस्य इति अपि यथा स्यात्
(प्_3,1.94.4) क_इइ,81.1-6 रो_इइइ,200 {1।11} अर्हे तृज्विधानम् .
(प्_3,1.94.4) क_इइ,81.1-6 रो_इइइ,200 {2।11} अर्हे तृच् विधेयः .
(प्_3,1.94.4) क_इइ,81.1-6 रो_इइइ,200 {3।11} इमे अर्हे कृत्याः विधीयन्ते .

(प्_3,1.94.4) क_इइ,81.1-6 रो_इइइ,200 {4।11} ते विशेषविहिताः सामान्यविहितम् तृचम् बाधेरन् .
(प्_3,1.94.4) क_इइ,81.1-6 रो_इइइ,200 {5।11} न एषः दोषः .
(प्_3,1.94.4) क_इइ,81.1-6 रो_इइइ,200 {6।11} भावकर्मणोः कृत्याः विधीयन्ते कर्तरि तृच् .
(प्_3,1.94.4) क_इइ,81.1-6 रो_इइइ,200 {7।11} कः प्रसङ्गः यत् भावकर्मणोः कृत्याः कर्तरि तृचम् बाधेरन् .
(प्_3,1.94.4) क_इइ,81.1-6 रो_इइइ,200 {8।11} एवम् तर्हि अर्हे कृत्यतृज्विधानम् .
(प्_3,1.94.4) क_इइ,81.1-6 रो_इइइ,200 {9।11} अर्हे कृत्यतृचः विधेयाः .
(प्_3,1.94.4) क_इइ,81.1-6 रो_इइइ,200 {10।11} अयम् अर्हे लिङ् विधीयते .
(प्_3,1.94.4) क_इइ,81.1-6 रो_इइइ,200 {11।11} सः विशेषविहितः सामान्यविहितान् कृत्यतृचः बाधेत .
(प्_3,1.95) क_इइ,81.8-14 रो_इइइ,200 {1।8} कृत्यसञ्ज्ञायाम् प्राङ्ण्वुल्वचनम् .
(प्_3,1.95) क_इइ,81.8-14 रो_इइइ,200 {2।8} कृत्यसञ्ज्ञायाम् प्राक् ण्वुलः इति वक्तव्यम् .
(प्_3,1.95) क_इइ,81.8-14 रो_इइइ,200 {3।8} किम् प्रयोजनम् .
(प्_3,1.95) क_इइ,81.8-14 रो_इइइ,200 {4।8} ण्वुलः कृत्यसञ्ज्ञा मा भूत् .
(प्_3,1.95) क_इइ,81.8-14 रो_इइइ,200 {5।8} अर्हे कृत्यत्र्ज्वचनम् तु ज्ञापकम् प्राङ्ण्वुलवनानर्थ्यस्य .
(प्_3,1.95) क_इइ,81.8-14 रो_इइइ,200 {6।8} यत् अयम् अर्हे कृत्यतृचः च इति तृज्ग्रहणम् करोति तत् ज्ञापयति आचार्यः प्राक् ण्वुलः कृत्यसञ्ज्ञा भवति इति .
(प्_3,1.95) क_इइ,81.8-14 रो_इइइ,200 {7।8} एवम् अपि ण्वुलः कृत्यसञ्ज्ञा प्राप्नोति .
(प्_3,1.95) क_इइ,81.8-14 रो_इइइ,200 {8।8} योगापेक्षम् ज्ञापकम् .
(प्_3,1.96) क_इइ,81.16-22 रो_इइइ,201 {1।12} केलिमरः उपसङ्ख्यानम् .
(प्_3,1.96) क_इइ,81.16-22 रो_इइइ,201 {2।12} केलिमरः उपसङ्ख्यानम् कर्तव्यम् .
(प्_3,1.96) क_इइ,81.16-22 रो_इइइ,201 {3।12} पचेलिमाः माषाः .
(प्_3,1.96) क_इइ,81.16-22 रो_इइइ,201 {4।12} पक्तव्याः .
(प्_3,1.96) क_इइ,81.16-22 रो_इइइ,201 {5।12} भिदेलिमाः सरलाः .
(प्_3,1.96) क_इइ,81.16-22 रो_इइइ,201 {6।12} भेत्तव्याः .
(प्_3,1.96) क_इइ,81.16-22 रो_इइइ,201 {7।12} वसेः तव्यत् कर्तरि णित् च .
(प्_3,1.96) क_इइ,81.16-22 रो_इइइ,201 {8।12} वसेः तव्यत् कर्तरि वक्तव्यः .
(प्_3,1.96) क_इइ,81.16-22 रो_इइइ,201 {9।12} णित् च असौ भवति इति वक्तव्यम् .
(प्_3,1.96) क_इइ,81.16-22 रो_इइइ,201 {10।12} वसति इति वास्तव्यः .
(प्_3,1.96) क_इइ,81.16-22 रो_इइइ,201 {11।12} तद्धितः वा . तद्धितः वा पुनः एषः भविष्यति .
(प्_3,1.96) क_इइ,81.16-22 रो_इइइ,201 {12।12} वास्तुनि भवः वास्तव्यः .
(प्_3,1.97.1) क_इइ,82.2-10 रो_इइइ,202-203 {1।20} अज्ग्रहणम् किमर्थम् .
(प्_3,1.97.1) क_इइ,82.2-10 रो_इइइ,202-203 {2।20} अजन्तात् यथा स्यात् .
(प्_3,1.97.1) क_इइ,82.2-10 रो_इइइ,202-203 {3।20} हलन्तात् मा भूत् इति .
(प्_3,1.97.1) क_इइ,82.2-10 रो_इइइ,202-203 {4।20} न एतत् अस्ति प्रयोजनम् .
(प्_3,1.97.1) क_इइ,82.2-10 रो_इइइ,202-203 {5।20} हलन्तात् ण्यत् विधीयते .
(प्_3,1.97.1) क_इइ,82.2-10 रो_इइइ,202-203 {6।20} सः बाधकः भविष्यति .
(प्_3,1.97.1) क_इइ,82.2-10 रो_इइइ,202-203 {7।20} यथा एव तर्हि ण्यत् यतम् बाधते एवम् तव्यादीन् अपि बाधेत .
(प्_3,1.97.1) क_इइ,82.2-10 रो_इइइ,202-203 {8।20} अज्ग्रहणे पुनः क्रियमाणे अजन्तात् यत् विधीयते हलन्तात् ण्यत् .
(प्_3,1.97.1) क_इइ,82.2-10 रो_इइइ,202-203 {9।20} एतावन्तः च धातवः यत् उत अजन्ताः हलन्ताः च .
(प्_3,1.97.1) क_इइ,82.2-10 रो_इइइ,202-203 {10।20} उच्यन्ते च तव्यादयः .
(प्_3,1.97.1) क_इइ,82.2-10 रो_इइइ,202-203 {11।20} ते वचनात् भविष्यन्ति .
(प्_3,1.97.1) क_इइ,82.2-10 रो_इइइ,202-203 {12।20} न एतत् अस्ति प्रयोजनम् .

(प्_3,1.97.1) क_इइ,82.2-10 रो_इइइ,202-203 {13।20} वासरूपेण तव्यादयः भविष्यन्ति .
(प्_3,1.97.1) क_इइ,82.2-10 रो_इइइ,202-203 {14।20} इदम् तर्हि प्रयोजनम् .
(प्_3,1.97.1) क_इइ,82.2-10 रो_इइइ,202-203 {15।20} अजन्तभूतपूर्वमात्रात् अपि यथा स्यात् .
(प्_3,1.97.1) क_इइ,82.2-10 रो_इइइ,202-203 {16।20} लव्यम् पव्यम् .
(प्_3,1.97.1) क_इइ,82.2-10 रो_इइइ,202-203 {17।20} आर्धधातुकसामान्ये गुणे कृते यि प्रत्ययसामान्ये च वान्तादेशे कृते हलन्तात् इति ण्यत् प्राप्नोति .
(प्_3,1.97.1) क_इइ,82.2-10 रो_इइइ,202-203 {18।20} तथा दित्स्यम् धित्स्यम् .
(प्_3,1.97.1) क_इइ,82.2-10 रो_इइइ,202-203 {19।20} आर्धधातुकसामान्ये अकारलोपे कृते हलन्तात् इति ण्यत् प्राप्नोति .
(प्_3,1.97.1) क_इइ,82.2-10 रो_इइइ,202-203 {20।20} अज्ग्रहणसामर्थ्यात् यत् एव भवति .
(प्_3,1.97.2) क_इइ,82.11-22 रो_इइइ,202-203 {1।21} यति जातेः उपसङ्ख्यानम् .
(प्_3,1.97.2) क_इइ,82.11-22 रो_इइइ,202-203 {2।21} यति जातेः उपसङ्ख्यानम् कर्तव्यम् .
(प्_3,1.97.2) क_इइ,82.11-22 रो_इइइ,202-203 {3।21} जन्यम् वत्सेन .
(प्_3,1.97.2) क_इइ,82.11-22 रो_इइइ,202-203 {4।21} अत्यल्पम् इदम् उच्यते .
(प्_3,1.97.2) क_इइ,82.11-22 रो_इइइ,202-203 {5।21} तकिशसिचतियतिजनीनाम् उपसङ्ख्यानम् इति वक्तव्यम् .
(प्_3,1.97.2) क_इइ,82.11-22 रो_इइइ,202-203 {6।21} तकि तक्यम् : शसि शस्यम् .
(प्_3,1.97.2) क_इइ,82.11-22 रो_इइइ,202-203 {7।21} यति यत्यम् : जनि : जन्यम् .
(प्_3,1.97.2) क_इइ,82.11-22 रो_इइइ,202-203 {8।21} हनः वा वध च .
(प्_3,1.97.2) क_इइ,82.11-22 रो_इइइ,202-203 {9।21} हनः वा यत् वक्तव्यः वध इति अयम् च आदेशः वक्तव्यः .
(प्_3,1.97.2) क_इइ,82.11-22 रो_इइइ,202-203 {10।21} वध्यः घात्यः .
(प्_3,1.97.2) क_इइ,82.11-22 रो_इइइ,202-203 {11।21} तद्धितः वा .
(प्_3,1.97.2) क_इइ,82.11-22 रो_इइइ,202-203 {12।21} तद्धितः वा पुनः एषः भविष्यति .
(प्_3,1.97.2) क_इइ,82.11-22 रो_इइइ,202-203 {13।21} वधम् अर्हति वध्यः .
(प्_3,1.97.2) क_इइ,82.11-22 रो_इइइ,202-203 {14।21} यदि तद्धितः समासः न प्राप्नोति : असिवध्यः , मुसलवध्यः इति .
(प्_3,1.97.2) क_इइ,82.11-22 रो_इइइ,202-203 {15।21} यदि पुनः सति साधनम् कृता इति वा पादहारकाद्यर्थम् इति समासः सिद्धः भवति .
(प्_3,1.97.2) क_इइ,82.11-22 रो_इइइ,202-203 {16।21} यदि पुनः असिवधशब्दात् उत्पत्तिः स्यात् .
(प्_3,1.97.2) क_इइ,82.11-22 रो_इइइ,202-203 {17।21} असिवधम् अर्हति इति .
(प्_3,1.97.2) क_इइ,82.11-22 रो_इइइ,202-203 {18।21} न एवम् शक्यम् .
(प्_3,1.97.2) क_इइ,82.11-22 रो_इइइ,202-203 {19।21} स्वरे हि दोषः स्यात् .
(प्_3,1.97.2) क_इइ,82.11-22 रो_इइइ,202-203 {20।21} असिवध्यः एवम् स्वरः प्रसज्येत .
(प्_3,1.97.2) क_इइ,82.11-22 रो_इइइ,202-203 {21।21} असिवध्यः इति च इष्यते .
(प्_3,1.100) क_इइ,83.2-4 रो_इइइ,203 {1।5} अनुपसर्गात् चरेः आङि च अगुरौ .
(प्_3,1.100) क_इइ,83.2-4 रो_इइइ,203 {2।5} अनुपसर्गात् चरेः इति अत्र आङि च अगुरौ इति वक्तव्यम् .
(प्_3,1.100) क_इइ,83.2-4 रो_इइइ,203 {3।5} आचर्यः देशः .
(प्_3,1.100) क_इइ,83.2-4 रो_इइइ,203 {4।5} अगुरौ इति किमर्थम् .
(प्_3,1.100) क_इइ,83.2-4 रो_इइइ,203 {5।5} आचार्यः उपनयमानः .
(प्_3,1.103) क_इइ,83.6-7 रो_इइइ,203 {1।3} स्वामिनि अन्तोदात्तत्वम् च .
(प्_3,1.103) क_इइ,83.6-7 रो_इइइ,203 {2।3} स्वामिनि अन्तोदात्तत्वम् च वक्तव्यम् .
(प्_3,1.103) क_इइ,83.6-7 रो_इइइ,203 {3।3} आर्यः स्वामी .
(प्_3,1.105) क_इइ,83.9-16 रो_इइइ,204-205 {1।19} सङ्गतम् इति किम् प्रत्युदाह्रियते .
(प्_3,1.105) क_इइ,83.9-16 रो_इइइ,204-205 {2।19} अजरः कम्बलः .
(प्_3,1.105) क_इइ,83.9-16 रो_इइइ,204-205 {3।19} अजरिता कम्बलः इति .

(प्_3,1.105) क_इइ,83.9-16 रो_इइइ,204-205 {4।19} किम् पुनः कारणम् कर्तृसाधनः प्रत्युदाह्रियते .
(प्_3,1.105) क_इइ,83.9-16 रो_इइइ,204-205 {5।19} न भावसाधनः प्रत्युदाहार्यः .
(प्_3,1.105) क_इइ,83.9-16 रो_इइइ,204-205 {6।19} एवम् तर्हि अजर्यम् कर्तरि .
(प्_3,1.105) क_इइ,83.9-16 रो_इइइ,204-205 {7।19} अजर्यम् कर्तरि इति वक्तव्यम् .
(प्_3,1.105) क_इइ,83.9-16 रो_इइइ,204-205 {8।19} तत् तर्हि वक्तव्यम् .
(प्_3,1.105) क_इइ,83.9-16 रो_इइइ,204-205 {9।19} न वक्तव्यम् .
(प्_3,1.105) क_इइ,83.9-16 रो_इइइ,204-205 {10।19} गत्यर्थानाम् क्तः कर्तरि विधीयते .
(प्_3,1.105) क_इइ,83.9-16 रो_इइइ,204-205 {11।19} तेन योगात् अजर्यम् कर्तरि भविष्यति .
(प्_3,1.105) क_इइ,83.9-16 रो_इइइ,204-205 {12।19} गत्यर्थानाम् वै क्तः कर्मणि अपि विधीयते .
(प्_3,1.105) क_इइ,83.9-16 रो_इइइ,204-205 {13।19} तेन योगात् अजर्यम् कर्मणि अपि प्राप्नोति .
(प्_3,1.105) क_इइ,83.9-16 रो_इइइ,204-205 {14।19} जीर्यतिः अकर्मकः .
(प्_3,1.105) क_इइ,83.9-16 रो_इइइ,204-205 {15।19} भावे तर्हि प्राप्नोति .
(प्_3,1.105) क_इइ,83.9-16 रो_इइइ,204-205 {16।19} सङ्गतग्रहणम् इदानीम् किमर्थम् स्यात् .
(प्_3,1.105) क_इइ,83.9-16 रो_इइइ,204-205 {17।19} कर्तृविशेषणम् सङ्गतग्रहणम् .
(प्_3,1.105) क_इइ,83.9-16 रो_इइइ,204-205 {18।19} सङ्गतम् चेत् कर्तृ भवति इति .
(प्_3,1.105) क_इइ,83.9-16 रो_इइइ,204-205 {19।19} तत् यथा हृषेः लोमसु इति लोमानि चेत् कर्तॄणि भवन्ति .
(प्_3,1.106) क_इइ,83.18-84.2 {1।10} वदः सुपि अनुपसर्गग्रहणम् .
(प्_3,1.106) क_इइ,83.18-84.2 {2।10} वदः सुपि अनुपसर्गग्रहणम् कर्तव्यम् .
(प्_3,1.106) क_इइ,83.18-84.2 {3।10} इह मा भूत् .
(प्_3,1.106) क_इइ,83.18-84.2 {4।10} प्रवाद्यम् अपवाद्यम् इति .
(प्_3,1.106) क_इइ,83.18-84.2 {5।10} तत् तर्हि वक्तव्यम् .
(प्_3,1.106) क_इइ,83.18-84.2 {6।10} न वक्तव्यम् .
(प्_3,1.106) क_इइ,83.18-84.2 {7।10} अनुपसर्गे इति वर्तते .
(प्_3,1.106) क_इइ,83.18-84.2 {8।10} एवम् तर्हि अन्वाचष्टे अनुपसर्गे इति वर्तते .
(प्_3,1.106) क_इइ,83.18-84.2 {9।10} न एतत् अन्वाख्येयम् अधिकाराः अनुवर्तन्ते इति .
(प्_3,1.106) क_इइ,83.18-84.2 {10।10} एषः एव न्यायः यत् उत अधिकाराः अनुवर्तेरन् इति .
(प्_3,1.107) क_इइ,84.4-8 रो_इइइ,205-206 {1।13} भावग्रहणम् किमर्थम् .
(प्_3,1.107) क_इइ,84.4-8 रो_इइइ,205-206 {2।13} कर्मणि मा भूत् इति .
(प्_3,1.107) क_इइ,84.4-8 रो_इइइ,205-206 {3।13} न एतत् अस्ति प्रयोजनम् .
(प्_3,1.107) क_इइ,84.4-8 रो_इइइ,205-206 {4।13} भवतिः अयम् अकर्मः .
(प्_3,1.107) क_इइ,84.4-8 रो_इइइ,205-206 {5।13} अकर्मकाः अपि वै धातवः सोपसर्गाः सकर्मकाः भवन्ति .
(प्_3,1.107) क_इइ,84.4-8 रो_इइइ,205-206 {6।13} तेन अनुभव्यम् आमन्त्रणम् इति अत्र अपि प्राप्नोति .
(प्_3,1.107) क_इइ,84.4-8 रो_इइइ,205-206 {7।13} एतत् अपि न अस्ति प्रयोजनम् .
(प्_3,1.107) क_इइ,84.4-8 रो_इइइ,205-206 {8।13} अनुपसर्गे इति वर्तते .
(प्_3,1.107) क_इइ,84.4-8 रो_इइइ,205-206 {9।13} उत्तरार्थम् तर्हि भावग्रहणम् कर्तव्यम् .
(प्_3,1.107) क_इइ,84.4-8 रो_इइइ,205-206 {10।13} हनः त च भावे यथा स्यात् .
(प्_3,1.107) क_इइ,84.4-8 रो_इइइ,205-206 {11।13} श्वहत्या वर्तते .
(प्_3,1.107) क_इइ,84.4-8 रो_इइइ,205-206 {12।13} क्व मा भूत् .
(प्_3,1.107) क_इइ,84.4-8 रो_इइइ,205-206 {13।13} श्वघात्यः वृषालः इति
(प्_3,1.108) क_इइ,84.10-13 रो_इइइ,206 {1।8} हनः तः चित् स्त्रियाम् छन्दसि .

(प्_3,1.108) क_इइ,84.10-13 रो_इइइ,206 {2।8} हनः तः च इति अत्र चित् स्त्रियाम् छन्दसि वक्तव्यः .
(प्_3,1.108) क_इइ,84.10-13 रो_इइइ,206 {3।8} ताम् भ्रूणहत्याम् निगृह्य अनुचरणम् .
(प्_3,1.108) क_इइ,84.10-13 रो_इइइ,206 {4।8} अस्यै त्वाम् भ्रूणहत्यायै चतुर्थम् प्रतिगृहाण .
(प्_3,1.108) क_इइ,84.10-13 रो_इइइ,206 {5।8} स्त्रियाम् इति किमर्थम् .
(प्_3,1.108) क_इइ,84.10-13 रो_इइइ,206 {6।8} आघ्नते दस्युहत्याय .
(प्_3,1.108) क_इइ,84.10-13 रो_इइइ,206 {7।8} छन्दसि इति किमर्थम् .
(प्_3,1.108) क_इइ,84.10-13 रो_इइइ,206 {8।8} दस्युहत्या श्वहत्या वर्तते .
(प्_3,1.109) क_इइ,84.15-85.5 रो_इइइ,206-207 {1।25} क्यप् इति वर्तमाने पुनः क्यब्ग्रहणम् किमर्थम् .
(प्_3,1.109) क_इइ,84.15-85.5 रो_इइइ,206-207 {2।25} क्यप् एव यथा स्यात् .
(प्_3,1.109) क_इइ,84.15-85.5 रो_इइइ,206-207 {3।25} अन्यत् यत् प्राप्नोति तत् मा भूत् इति .
(प्_3,1.109) क_इइ,84.15-85.5 रो_इइइ,206-207 {4।25} किम् च अन्यत् प्राप्नोति .
(प्_3,1.109) क_इइ,84.15-85.5 रो_इइइ,206-207 {5।25} ण्यत् .
(प्_3,1.109) क_इइ,84.15-85.5 रो_इइइ,206-207 {6।25} ओः आवश्यके ण्यतः स्तोतेः क्यप् पूर्वविप्रतिषिद्धम् इति वक्ष्यति .
(प्_3,1.109) क_इइ,84.15-85.5 रो_इइइ,206-207 {7।25} सः पूर्वविप्रतिषेधः न पठितव्यः भवति .
(प्_3,1.109) क_इइ,84.15-85.5 रो_इइइ,206-207 {8।25} अथ वा हनः तः चित् स्त्रियाम् छन्दसि चोदितः .
(प्_3,1.109) क_इइ,84.15-85.5 रो_इइइ,206-207 {9।25} सः न वक्तव्यः भवति .
(प्_3,1.109) क_इइ,84.15-85.5 रो_इइइ,206-207 {10।25} क्यब्विधौ वृञ्ग्रहणम् . क्यब्विधौ वृञ्ग्रहणम् कर्तव्यम् .
(प्_3,1.109) क_इइ,84.15-85.5 रो_इइइ,206-207 {11।25} इह मा भूत् .
(प्_3,1.109) क_इइ,84.15-85.5 रो_इइइ,206-207 {12।25} वार्याः ऋत्विजः इति .
(प्_3,1.109) क_इइ,84.15-85.5 रो_इइइ,206-207 {13।25} अञ्जेः च उपसङ्ख्यानम् सञ्ज्ञायाम् .
(प्_3,1.109) क_इइ,84.15-85.5 रो_इइइ,206-207 {14।25} सञ्ज्ञायाम् अञ्जेः च उपसङ्ख्यानम् कर्तव्यम् .
(प्_3,1.109) क_इइ,84.15-85.5 रो_इइइ,206-207 {15।25} आज्यम् .
(प्_3,1.109) क_इइ,84.15-85.5 रो_इइइ,206-207 {16।25} यदि क्यप् वृद्धिः न प्राप्नोति .
(प्_3,1.109) क_इइ,84.15-85.5 रो_इइइ,206-207 {17।25} तस्मात् ण्यत् एषः .
(प्_3,1.109) क_इइ,84.15-85.5 रो_इइइ,206-207 {18।25} यदि ण्यत् उपधालोपः न प्राप्नोति .
(प्_3,1.109) क_इइ,84.15-85.5 रो_इइइ,206-207 {19।25} तस्मात् क्यप् एषः .
(प्_3,1.109) क_इइ,84.15-85.5 रो_इइइ,206-207 {20।25} ननु च उक्तम् वृद्धिः न प्राप्नोति इति .
(प्_3,1.109) क_इइ,84.15-85.5 रो_इइइ,206-207 {21।25} आङ्पूर्वस्य एषः प्रयोगः भविष्यति .
(प्_3,1.109) क_इइ,84.15-85.5 रो_इइइ,206-207 {22।25} यदि एवम् अवग्रहः प्राप्नोति .
(प्_3,1.109) क_इइ,84.15-85.5 रो_इइइ,206-207 {23।25} न लक्षणेन पदकाराः अनुवर्त्याः .
(प्_3,1.109) क_इइ,84.15-85.5 रो_इइइ,206-207 {24।25} पद्कारैः नाम लक्षणम् अनुवर्त्यम् .
(प्_3,1.109) क_इइ,84.15-85.5 रो_इइइ,206-207 {25।25} यथालक्षणम् पदम् कर्तव्यम् .
(प्_3,1.111) क_इइ,85.7-10 रो_इइइ,207-208 {1।9} दीर्घोच्चारणम् किमर्थम् न इ च खनः इति एव उच्येत .
(प्_3,1.111) क_इइ,85.7-10 रो_इइइ,207-208 {2।9} का रूपसिद्धिः : खेयम् .
(प्_3,1.111) क_इइ,85.7-10 रो_इइइ,207-208 {3।9} आद्गुणेन सिद्धम् .
(प्_3,1.111) क_इइ,85.7-10 रो_इइइ,207-208 {4।9} न सिध्यति .
(प्_3,1.111) क_इइ,85.7-10 रो_इइइ,207-208 {5।9} षत्वतुकोः असिद्धः एकादेशः इति एकादेशस्य असिद्धत्वात् तुक् प्रसज्येत .
(प्_3,1.111) क_इइ,85.7-10 रो_इइइ,207-208 {6।9} न एतत् अस्ति .
(प्_3,1.111) क_इइ,85.7-10 रो_इइइ,207-208 {7।9} पदान्तपदाद्योः एकादेशः असिद्धः .
(प्_3,1.111) क_इइ,85.7-10 रो_इइइ,207-208 {8।9} न च एषः पदान्तपदाद्योः एकादेशः .

(प्_3,1.111) क_इइ,85.7-10 रो_इइइ,207-208 {9।9} तस्मात् इ च खनः इति एव वक्तव्यम् .
(प्_3,1.112) क_इइ,85.12-86.14 रो_इइइ,208-210 {1।40} असञ्ज्ञायाम् इति किमर्थम् .
(प्_3,1.112) क_इइ,85.12-86.14 रो_इइइ,208-210 {2।40} भार्या .
(प्_3,1.112) क_इइ,85.12-86.14 रो_इइइ,208-210 {3।40} भृञः सञ्ज्ञाप्रतिषेधे स्त्रियाम् अप्रतिषेधः अन्येन विहितत्वात् .
(प्_3,1.112) क_इइ,85.12-86.14 रो_इइइ,208-210 {4।40} भृञः सञ्ज्ञाप्रतिषेधे स्त्रियाम् अप्रतिषेधः .
(प्_3,1.112) क_इइ,85.12-86.14 रो_इइइ,208-210 {5।40} अनर्थकः प्रतिषेधः अप्रतिषेधः .
(प्_3,1.112) क_इइ,85.12-86.14 रो_इइइ,208-210 {6।40} किम् कारणम् .
(प्_3,1.112) क_इइ,85.12-86.14 रो_इइइ,208-210 {7।40} अन्येन विहितत्वात् .
(प्_3,1.112) क_इइ,85.12-86.14 रो_इइइ,208-210 {8।40} अन्येन लक्षणेन स्त्रियाम् क्यप् विधीयते .
(प्_3,1.112) क_इइ,85.12-86.14 रो_इइइ,208-210 {9।40} सञ्ज्ञायाम् समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः इति .
(प्_3,1.112) क_इइ,85.12-86.14 रो_इइइ,208-210 {10।40} प्रतिषेधः इदानीम् किमर्थः स्यात् .
(प्_3,1.112) क_इइ,85.12-86.14 रो_इइइ,208-210 {11।40} प्रतिषेधः किमर्थः इति चेत् अस्त्रीसञ्ज्ञाप्रतिषेधार्थः .
(प्_3,1.112) क_इइ,85.12-86.14 रो_इइइ,208-210 {12।40} प्रतिषेधः किमर्थः इति चेत् अस्त्रीसञ्ज्ञा अस्ति तदर्थः प्रतिषेधः स्यात् .
(प्_3,1.112) क_इइ,85.12-86.14 रो_इइइ,208-210 {13।40} भार्याः नाम क्षत्रियाः .
(प्_3,1.112) क_इइ,85.12-86.14 रो_इइइ,208-210 {14।40} सिद्धम् तु स्त्रियाम् सञ्ज्ञाप्रतिषेधात् .
(प्_3,1.112) क_इइ,85.12-86.14 रो_इइइ,208-210 {15।40} सिद्धम् एतत् .
(प्_3,1.112) क_इइ,85.12-86.14 रो_इइइ,208-210 {16।40} कथम् .
(प्_3,1.112) क_इइ,85.12-86.14 रो_इइइ,208-210 {17।40} स्त्रियाम् सञ्ज्ञाप्रतिषेधः वक्तव्यः .
(प्_3,1.112) क_इइ,85.12-86.14 रो_इइइ,208-210 {18।40} सञ्ज्ञायाम् समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः ततः न स्त्रियाम् भृञः इति .
(प्_3,1.112) क_इइ,85.12-86.14 रो_इइइ,208-210 {19।40} सिध्यति .
(प्_3,1.112) क_इइ,85.12-86.14 रो_इइइ,208-210 {20।40} सूत्रम् तर्हि भिद्यते .
(प्_3,1.112) क_इइ,85.12-86.14 रो_इइइ,208-210 {21।40} यथान्यासम् एव अस्तु .
(प्_3,1.112) क_इइ,85.12-86.14 रो_इइइ,208-210 {22।40} ननु च उक्तम् भृञः सञ्ज्ञाप्रतिषेधे स्त्रियाम् अप्रतिषेधः अन्येन विहितत्वात् इति .
(प्_3,1.112) क_इइ,85.12-86.14 रो_इइइ,208-210 {23।40} न एषः दोषः .
(प्_3,1.112) क_इइ,85.12-86.14 रो_इइइ,208-210 {24।40} भावे इति तत्र अनुवर्तते .
(प्_3,1.112) क_इइ,85.12-86.14 रो_इइइ,208-210 {25।40} कर्मसाधनः च अयम् .
(प्_3,1.112) क_इइ,85.12-86.14 रो_इइइ,208-210 {26।40} अथ वा ये एते सञ्ज्ञायाम् विधीयन्ते तेषु न एवम् विज्ञायते सञ्ज्ञायाम् अभिधेयायाम् इति .
(प्_3,1.112) क_इइ,85.12-86.14 रो_इइइ,208-210 {27।40} किम् तर्हि .
(प्_3,1.112) क_इइ,85.12-86.14 रो_इइइ,208-210 {28।40} प्रत्ययान्तेन चेत् सञ्ज्ञा गम्यते इति .
(प्_3,1.112) क_इइ,85.12-86.14 रो_इइइ,208-210 {29।40} अपरः आह : सञ्ज्ञायाम् पुंसि दृष्टत्वात् न ते भार्या प्रसिध्यति .
(प्_3,1.112) क_इइ,85.12-86.14 रो_इइइ,208-210 {30।40} सञ्ज्ञायाम् पुंसि दृष्टत्वात् तव भार्याशब्दः न सिध्यति .
(प्_3,1.112) क_इइ,85.12-86.14 रो_इइइ,208-210 {31।40} स्त्रियाम् भावाधिकारः अस्ति तेन भार्या प्रसिध्यति .
(प्_3,1.112) क_इइ,85.12-86.14 रो_इइइ,208-210 {32।40} भावे इति तत्र वर्तते .
(प्_3,1.112) क_इइ,85.12-86.14 रो_इइइ,208-210 {33।40} कर्मसाधनः च अयम् .
(प्_3,1.112) क_इइ,85.12-86.14 रो_इइइ,208-210 {34।40} अथ वा बहुलम् कृत्याः सञ्ज्ञायाम् इति तत् स्मृतम् .
(प्_3,1.112) क_इइ,85.12-86.14 रो_इइइ,208-210 {35।40} अथ वा कृत्यल्युटः बहुलम् इति एवम् अत्र अपि ण्यत् भविष्यति .
(प्_3,1.112) क_इइ,85.12-86.14 रो_इइइ,208-210 {36।40} यथा यत्यम् जन्यम् यथा भित्तिः तथा एव सा .
(प्_3,1.112) क_इइ,85.12-86.14 रो_इइइ,208-210 {37।40} समः च बहुलम् .
(प्_3,1.112) क_इइ,85.12-86.14 रो_इइइ,208-210 {38।40} समः च बहुलम् उपसङ्ख्यानम् कर्तव्यम् .
(प्_3,1.112) क_इइ,85.12-86.14 रो_इइइ,208-210 {39।40} सम्भृत्याः एव सम्भाराः .

(प्_3,1.112) क_इइ,85.12-86.14 रो_इइइ,208-210 {40।40} सम्भार्याः एव सम्भाराः .
(प्_3,1.114) क_इइ,86.16-25 रो_इइइ,210 {1।16} सूर्यरुच्याव्यथ्याः कर्तरि .
(प्_3,1.114) क_इइ,86.16-25 रो_इइइ,210 {2।16} सूर्य रुचि अव्यथ्य इति कर्तरि निपात्यन्ते .
(प्_3,1.114) क_इइ,86.16-25 रो_इइइ,210 {3।16} किम् निपात्यते .
(प्_3,1.114) क_इइ,86.16-25 रो_इइइ,210 {4।16} सूर्यः .
(प्_3,1.114) क_इइ,86.16-25 रो_इइइ,210 {5।16} सूसर्तिभ्याम् सर्तेः उत्वम् सुवतेः वा रुडागमः . सरणात् वा सुवति वा कर्मणि इति सूर्यः .
(प्_3,1.114) क_इइ,86.16-25 रो_इइइ,210 {6।16} रुच्य .
(प्_3,1.114) क_इइ,86.16-25 रो_इइइ,210 {7।16} रोचते असौ रुच्यः .
(प्_3,1.114) क_इइ,86.16-25 रो_इइइ,210 {8।16} न व्यथथे अव्यथ्यः .
(प्_3,1.114) क_इइ,86.16-25 रो_इइइ,210 {9।16} कुप्यम् सञ्ज्ञायाम् .
(प्_3,1.114) क_इइ,86.16-25 रो_इइइ,210 {10।16} कुप्यम् सञ्ज्ञायाम् इति वक्तव्यम् .
(प्_3,1.114) क_इइ,86.16-25 रो_इइइ,210 {11।16} गोप्यम् अन्यत् .
(प्_3,1.114) क_इइ,86.16-25 रो_इइइ,210 {12।16} कृष्टपच्यस्य अन्तोदात्तत्वम् च कर्मकर्तरि च .
(प्_3,1.114) क_इइ,86.16-25 रो_इइइ,210 {13।16} कृष्टपच्यस्य अन्तोदात्तत्वम् च कर्मकर्तरि च इति वक्तव्यम् .
(प्_3,1.114) क_इइ,86.16-25 रो_इइइ,210 {14।16} कृष्टे पच्यन्ते स्वयम् एव .
(प्_3,1.114) क_इइ,86.16-25 रो_इइइ,210 {15।16} कृष्टपच्याः च मे अकृष्टपच्याः च मे .
(प्_3,1.114) क_इइ,86.16-25 रो_इइइ,210 {16।16} यः हि कृष्टे पक्तव्यः क्ष्टपाक्यः स भवति .
(प्_3,1.118) क_इइ,87.2-4 रो_इइइ,211 {1।6} प्रत्यपिभ्याम् ग्रहेः छन्दसि .
(प्_3,1.118) क_इइ,87.2-4 रो_इइइ,211 {2।6} प्रत्यपिभ्याम् ग्रहेः छन्दसि इति वक्तव्यम् .
(प्_3,1.118) क_इइ,87.2-4 रो_इइइ,211 {3।6} मत्तस्य न प्रतिगृह्यम् .
(प्_3,1.118) क_इइ,87.2-4 रो_इइइ,211 {4।6} अनृतम् हि मत्तः भवति .
(प्_3,1.118) क_इइ,87.2-4 रो_इइइ,211 {5।6} तस्मात् न अपिगृह्यम् .
(प्_3,1.118) क_इइ,87.2-4 रो_इइइ,211 {6।6} प्रतिग्राह्यम् अपिग्राह्यम् इति एव अन्यत्र .
(प्_3,1.122) क_इइ,87.6-11 रो_इइइ,211-212 {1।9} कस्य अयम् अनुबन्धः .
(प्_3,1.122) क_इइ,87.6-11 रो_इइइ,211-212 {2।9} प्रधानस्य .
(प्_3,1.122) क_इइ,87.6-11 रो_इइइ,211-212 {3।9} यदि प्रधानस्य अमावस्या एवम् स्वरः प्रसज्येत .
(प्_3,1.122) क_इइ,87.6-11 रो_इइइ,211-212 {4।9} अमावस्या इति च इष्यते .
(प्_3,1.122) क_इइ,87.6-11 रो_इइइ,211-212 {5।9} तथा अमावास्याग्रहणेन अमावस्याग्रहणम् न प्राप्नोति .
(प्_3,1.122) क_इइ,87.6-11 रो_इइइ,211-212 {6।9} एवम् तर्हि निपातनस्य .
(प्_3,1.122) क_इइ,87.6-11 रो_इइइ,211-212 {7।9} यदि तर्हि निपातनानि अपि एवञ्जातीयकानि भवन्ति श्रोत्रियन् छन्दः अधीते इति व्यपवर्गाभावात् ञ्निति इति आद्युदात्तत्वम् न प्राप्नोति .
(प्_3,1.122) क_इइ,87.6-11 रो_इइइ,211-212 {8।9} एवम् तर्हि अमावसोः अहम् ण्यतोः निपातयामि अवृद्धिताम् .
(प्_3,1.122) क_इइ,87.6-11 रो_इइइ,211-212 {9।9} तथा एकवृत्तिता तयोः स्वरः च मे प्रसिध्यति .
(प्_3,1.123) क_इइ,87.15-88.4 रो_इइइ,212-213 {1।24} निष्टर्क्य इति किम् निपात्यते .
(प्_3,1.123) क_इइ,87.15-88.4 रो_इइइ,212-213 {2।24} निष्टर्क्ये कृतेः आद्यन्तविपर्ययः छन्दसि कृताद्यर्थः .
(प्_3,1.123) क_इइ,87.15-88.4 रो_इइइ,212-213 {3।24} यथा कृतेः तर्कुः कसेः सिकताः हिंसेः सिंहः .
(प्_3,1.123) क_इइ,87.15-88.4 रो_इइइ,212-213 {4।24} अपरः आह : निष्टर्क्ये व्यत्ययम् विद्यात् निसः षत्वम् निपातनात् .
(प्_3,1.123) क_इइ,87.15-88.4 रो_इइइ,212-213 {5।24} ण्यत् आयादेशः इति एतौ उपचाय्ये निपातितौ . निष्टर्क्यम् चिन्वीत पशुकामः .
(प्_3,1.123) क_इइ,87.15-88.4 रो_इइइ,212-213 {6।24} ण्यत् एकस्मात् चतुर्भ्यः क्य प् चतुर्भ्यः यतः विधिः .
(प्_3,1.123) क_इइ,87.15-88.4 रो_इइइ,212-213 {7।24} ण्यत् एकस्मात् यशब्दः च द्वौ क्यपौ ण्यद्विधिः चतुः . ण्यत् एकस्मात् .
(प्_3,1.123) क_इइ,87.15-88.4 रो_इइइ,212-213 {8।24} निष्टर्क्यः .

(प्_3,1.123) क_इइ,87.15-88.4 रो_इइइ,212-213 {9।24} चतुर्भ्यः क्यप् .
(प्_3,1.123) क_इइ,87.15-88.4 रो_इइइ,212-213 {10।24} देवहूयः प्रणीयः उन्नीयः उच्छिष्यः .
(प्_3,1.123) क_इइ,87.15-88.4 रो_इइइ,212-213 {11।24} चतुर्भ्यः च यतः विधिः .
(प्_3,1.123) क_इइ,87.15-88.4 रो_इइइ,212-213 {12।24} मर्यः स्तर्या ध्वर्यः खन्यः .
(प्_3,1.123) क_इइ,87.15-88.4 रो_इइइ,212-213 {13।24} ण्यत् एकस्मात् .
(प्_3,1.123) क_इइ,87.15-88.4 रो_इइइ,212-213 {14।24} खान्यः .
(प्_3,1.123) क_इइ,87.15-88.4 रो_इइइ,212-213 {15।24} यशब्दः च .
(प्_3,1.123) क_इइ,87.15-88.4 रो_इइइ,212-213 {16।24} देवयज्या .
(प्_3,1.123) क_इइ,87.15-88.4 रो_इइइ,212-213 {17।24} द्वौ क्यपौ .
(प्_3,1.123) क_इइ,87.15-88.4 रो_इइइ,212-213 {18।24} आपृच्छ्यः प्रतिषीव्यः .
(प्_3,1.123) क_इइ,87.15-88.4 रो_इइइ,212-213 {19।24} ण्यद्विधिः चतुः .
(प्_3,1.123) क_इइ,87.15-88.4 रो_इइइ,212-213 {20।24} ब्रह्मवाद्यः भाव्यः स्ताव्यः उपचाय्यपृडम् .
(प्_3,1.123) क_इइ,87.15-88.4 रो_इइइ,212-213 {21।24} उपपूर्वात् चिनोतेः आयादेशः निपात्यते .
(प्_3,1.123) क_इइ,87.15-88.4 रो_इइइ,212-213 {22।24} न हि ण्यता एव सिध्यति .
(प्_3,1.123) क_इइ,87.15-88.4 रो_इइइ,212-213 {23।24} हिरण्ये इति वक्तव्यम् .
(प्_3,1.123) क_इइ,87.15-88.4 रो_इइइ,212-213 {24।24} उपचेयपृडम् एव अन्यत्र .
(प्_3,1.124) क_इइ,88.6-11 रो_इइइ,213 {1।8} पाणौ सृजेः ण्यद्विधिः .
(प्_3,1.124) क_इइ,88.6-11 रो_इइइ,213 {2।8} पाणौ सृजेः ण्यत् विधेयः .
(प्_3,1.124) क_इइ,88.6-11 रो_इइइ,213 {3।8} पाणिसर्ग्या रज्जुः .
(प्_3,1.124) क_इइ,88.6-11 रो_इइइ,213 {4।8} समवपूर्वात् च .
(प्_3,1.124) क_इइ,88.6-11 रो_इइइ,213 {5।8} समवपूर्वात् च इति वक्तव्यम् .
(प्_3,1.124) क_इइ,88.6-11 रो_इइइ,213 {6।8} समवसर्ग्यः .
(प्_3,1.124) क_इइ,88.6-11 रो_इइइ,213 {7।8} लपिदमिभ्याम् च . लपिदमिभ्याम् च इति वक्तव्यम् .
(प्_3,1.124) क_इइ,88.6-11 रो_इइइ,213 {8।8} अपलप्यम् अवदाम्यम् .
(प्_3,1.125.1) क_इइ,88.16-20 रो_इइइ,214 {1।12} कथम् इदम् विज्ञायते .
(प्_3,1.125.1) क_इइ,88.16-20 रो_इइइ,214 {2।12} आवश्यके उपपदे आहोस्वित् ध्योत्ये इति .
(प्_3,1.125.1) क_इइ,88.16-20 रो_इइइ,214 {3।12} कः च अत्र विशेषः .
(प्_3,1.125.1) क_इइ,88.16-20 रो_इइइ,214 {4।12} आवश्यके उपपदे इति चेत् द्योत्ये उपसङ्ख्यानम् .
(प्_3,1.125.1) क_इइ,88.16-20 रो_इइइ,214 {5।12} आवश्यके उपपदे इति चेत् द्योत्ये उपसङ्ख्यानम् कर्तव्यम् .
(प्_3,1.125.1) क_इइ,88.16-20 रो_इइइ,214 {6।12} लाव्यम् पाव्यम् .
(प्_3,1.125.1) क_इइ,88.16-20 रो_इइइ,214 {7।12} अस्तु तर्हि द्योत्ये .
(प्_3,1.125.1) क_इइ,88.16-20 रो_इइइ,214 {8।12} द्योत्ये इति चेत् स्वरसमासानुपपत्तिः .
(प्_3,1.125.1) क_इइ,88.16-20 रो_इइइ,214 {9।12} द्योत्ये इति चेत् स्वरसमासानुपपत्तिः .
(प्_3,1.125.1) क_इइ,88.16-20 रो_इइइ,214 {10।12} आवश्यलाव्यम् आवश्यपाव्यम् .
(प्_3,1.125.1) क_इइ,88.16-20 रो_इइइ,214 {11।12} न एषः दोषः .
(प्_3,1.125.1) क_इइ,88.16-20 रो_इइइ,214 {12।12} मयूरव्यंसकादित्वात् समासः विश्पष्टादिवत् स्वरः भविष्यति .
(प्_3,1.125.2) क_इइ,88.21-89.4 रो_इइइ,214 {1।12} ओः आवश्यके ण्यतः स्तौतेः क्य प् पूर्वविप्रतिषिद्धम् . ओः आवश्यके ण्यतः स्तौतेः क्यप् भवति पूर्वविप्रतिष्धेन .
(प्_3,1.125.2) क_इइ,88.21-89.4 रो_इइइ,214 {2।12} ओः आवश्यके ण्यत् भवति इति अस्य अवकाशः .
(प्_3,1.125.2) क_इइ,88.21-89.4 रो_इइइ,214 {3।12} अवश्यलाव्यम् अवश्यपाव्यम् .
(प्_3,1.125.2) क_इइ,88.21-89.4 रो_इइइ,214 {4।12} क्यपः अवकाशः .

(प्_3,1.125.2) क_इइ,88.21-89.4 रो_इइइ,214 {5।12} स्तुत्यः .
(प्_3,1.125.2) क_इइ,88.21-89.4 रो_इइइ,214 {6।12} इह उभयम् प्राप्नोति .
(प्_3,1.125.2) क_इइ,88.21-89.4 रो_इइइ,214 {7।12} अवश्यस्तुत्यः .
(प्_3,1.125.2) क_इइ,88.21-89.4 रो_इइइ,214 {8।12} क्यप् भवति पूर्वविप्रतिष्धेन .
(प्_3,1.125.2) क_इइ,88.21-89.4 रो_इइइ,214 {9।12} सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः .
(प्_3,1.125.2) क_इइ,88.21-89.4 रो_इइइ,214 {10।12} न वक्तव्यः .
(प्_3,1.125.2) क_इइ,88.21-89.4 रो_इइइ,214 {11।12} उक्तम् तत्र क्यप् इति वर्तमाने पुनः क्यब्ग्रहणस्य प्रयोजनम् क्यप् एव यथा स्यात् .
(प्_3,1.125.2) क_इइ,88.21-89.4 रो_इइइ,214 {12।12} अन्यत् यत् प्राप्नोति तत् मा भूत् इति .
(प्_3,1.127) क_इइ,89.6-8 रो_इइइ,215 {1।5} दक्षिणाग्नौ इति वक्तव्यम् .
(प्_3,1.127) क_इइ,89.6-8 रो_इइइ,215 {2।5} आनेयः अन्यः .
(प्_3,1.127) क_इइ,89.6-8 रो_इइइ,215 {3।5} आनाय्यः अनित्यः इति चेत् दक्षिणाग्नौ कृतम् भवेत् .
(प्_3,1.127) क_इइ,89.6-8 रो_इइइ,215 {4।5} एकयोनौ तु तम् विद्यात् .
(प्_3,1.127) क_इइ,89.6-8 रो_इइइ,215 {5।5} आनेयः हि अन्यथा भवेत् .
(प्_3,1.129) क_इइ,89.11-13 रो_इइइ,215 {1।3} पाय्यनिकाय्ययोः किम् निपात्यते .
(प्_3,1.129) क_इइ,89.11-13 रो_इइइ,215 {2।3} पाय्यनिकाय्ययोः आदिपत्वकत्वनिपातनम् . पाय्यनिकाय्ययोः आदिपत्वम् आदिकत्वम् च निपात्यते .
(प्_3,1.129) क_इइ,89.11-13 रो_इइइ,215 {3।3} मेयम् निचेयम् इति एव अन्यत्र .
(प्_3,1.130) क_इइ,89.15-16 रो_इइइ,215 {1।3} कुण्डपाय्ये यद्विधिः .
(प्_3,1.130) क_इइ,89.15-16 रो_इइइ,215 {2।3} कुण्डपाय्ये यत् विधेयः .
(प्_3,1.130) क_इइ,89.15-16 रो_इइइ,215 {3।3} कुण्डपाय्यः क्रतुः .
(प्_3,1.131) क_इइ,89.18-90.9 रो_इइइ,215-216 {1।18} समूह्यः इति अनर्थकम् वचनम् सामान्येन कृतत्वात् .
(प्_3,1.131) क_इइ,89.18-90.9 रो_इइइ,215-216 {2।18} समूह्यः इति वचनम् अनर्थकम् .
(प्_3,1.131) क_इइ,89.18-90.9 रो_इइइ,215-216 {3।18} किम् कारणम् .
(प्_3,1.131) क_इइ,89.18-90.9 रो_इइइ,215-216 {4।18} सामान्येन कृतत्वात् .
(प्_3,1.131) क_इइ,89.18-90.9 रो_इइइ,215-216 {5।18} सामान्येन एव ण्यत् भविष्यति : ऋहलोः ण्यत् इति .
(प्_3,1.131) क_इइ,89.18-90.9 रो_इइइ,215-216 {6।18} वह्यर्थम् तर्हि निपातनम् कर्तव्यम् .
(प्_3,1.131) क_इइ,89.18-90.9 रो_इइइ,215-216 {7।18} वहेः ण्यत् यथा स्यात् .
(प्_3,1.131) क_इइ,89.18-90.9 रो_इइइ,215-216 {8।18} वह्यर्थम् इति चेत् ऊहेः तदर्थत्वात् सिद्धम् .
(प्_3,1.131) क_इइ,89.18-90.9 रो_इइइ,215-216 {9।18} ऊहिः अपि वह्यर्थे वर्तते .
(प्_3,1.131) क_इइ,89.18-90.9 रो_इइइ,215-216 {10।18} कथम् पुनः अन्यः नाम अन्यस्य अर्थे वर्तते .
(प्_3,1.131) क_इइ,89.18-90.9 रो_इइइ,215-216 {11।18} कथम् ऊहिः वह्यर्थे वर्तते .
(प्_3,1.131) क_इइ,89.18-90.9 रो_इइइ,215-216 {12।18} बह्वर्थाः अपि धातवः भवन्ति इति .
(प्_3,1.131) क_इइ,89.18-90.9 रो_इइइ,215-216 {13।18} अस्ति पुनः क्व चित् अन्यत्र अपि ऊहिः वह्यर्थे वर्तते .
(प्_3,1.131) क_इइ,89.18-90.9 रो_इइइ,215-216 {14।18} अस्ति इति आह .
(प्_3,1.131) क_इइ,89.18-90.9 रो_इइइ,215-216 {15।18} ऊहिविग्रहात् च ब्राह्मणे सिद्धम् . ऊहिविग्रहात् च ब्राह्मणे सिद्धम् एतत् .
(प्_3,1.131) क_इइ,89.18-90.9 रो_इइइ,215-216 {16।18} समूह्यम् चिन्वीत पशुकामः .
(प्_3,1.131) क_इइ,89.18-90.9 रो_इइइ,215-216 {17।18} पशवः वै पुरीषम् .
(प्_3,1.131) क_इइ,89.18-90.9 रो_इइइ,215-216 {18।18} पशून् एव अस्मै तत् समूहति .
(प्_3,1.132) क_इइ,90.11-12 रो_इइइ,216 {1।3} अग्निचित्या भावे अन्तोदात्तः .
(प्_3,1.132) क_इइ,90.11-12 रो_इइइ,216 {2।3} अग्निचित्या इति भावे अन्तोदात्तः .
(प्_3,1.132) क_इइ,90.11-12 रो_इइइ,216 {3।3} अग्निचयनम् एव अग्निचित्या .

(प्_3,1.133.1) क_इइ,90.14-22 रो_इइइ,216-217 {1।18} किमर्थः चकारः .
(प्_3,1.133.1) क_इइ,90.14-22 रो_इइइ,216-217 {2।18} स्वरार्थः .
(प्_3,1.133.1) क_इइ,90.14-22 रो_इइइ,216-217 {3।18} चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् .
(प्_3,1.133.1) क_इइ,90.14-22 रो_इइइ,216-217 {4।18} न एतत् अस्ति प्रयोजनम् .
(प्_3,1.133.1) क_इइ,90.14-22 रो_इइइ,216-217 {5।18} एकाच् अयम् .
(प्_3,1.133.1) क_इइ,90.14-22 रो_इइइ,216-217 {6।18} तत्र न अर्थः स्वरार्थेन चकारेण अनुबन्धेन .
(प्_3,1.133.1) क_इइ,90.14-22 रो_इइइ,216-217 {7।18} प्रत्ययस्वरेण एव सिद्धम् .
(प्_3,1.133.1) क_इइ,90.14-22 रो_इइइ,216-217 {8।18} विशेषणार्थः तर्हि .
(प्_3,1.133.1) क_इइ,90.14-22 रो_इइइ,216-217 {9।18} क्व विशेषणार्थेन अर्थः : अप्तृन्तृच् इति .
(प्_3,1.133.1) क_इइ,90.14-22 रो_इइइ,216-217 {10।18} तृ इति उच्यमाने मातरौ मातरः पितरौ पितरः अत्र अपि प्रसज्येत .
(प्_3,1.133.1) क_इइ,90.14-22 रो_इइइ,216-217 {11।18} स्वसृनप्तृग्रहणम् नियमाऋथम् भविष्यति .
(प्_3,1.133.1) क_इइ,90.14-22 रो_इइइ,216-217 {12।18} एतयोः एव योनिसम्बन्धयोः न अन्येषाम् योनिसम्बन्धानाम् इति .
(प्_3,1.133.1) क_इइ,90.14-22 रो_इइइ,216-217 {13।18} सामान्यग्रहणाविघातार्थः तर्हि .
(प्_3,1.133.1) क_इइ,90.14-22 रो_इइइ,216-217 {14।18} क्व सामान्यग्रहणाविघातार्थेन अर्थः .
(प्_3,1.133.1) क_इइ,90.14-22 रो_इइइ,216-217 {15।18} अत्र एव .
(प्_3,1.133.1) क_इइ,90.14-22 रो_इइइ,216-217 {16।18} यत् एतत् तृन्तृचोः ग्रहणम् एतत् तृ इति वक्ष्यामि .
(प्_3,1.133.1) क_इइ,90.14-22 रो_इइइ,216-217 {17।18} यदि तृ इचि उच्यते मातरौ मातरः पितरौ पितरः अत्र अपि प्रसज्येत .
(प्_3,1.133.1) क_इइ,90.14-22 रो_इइइ,216-217 {18।18} स्वसृनप्तृग्रहणम् नियमाऋथम् भविष्यति : एतयोः एव योनिसम्बन्धयोः न अन्येषाम् योनिसम्बन्धानाम् इति .
(प्_3,1.133.2) क_इइ,91.1-11 रो_इइइ,217 {1।22} ण्वुलि सकर्मकग्रहणम् .
(प्_3,1.133.2) क_इइ,91.1-11 रो_इइइ,217 {2।22} ण्वुलि सकर्मकग्रहणम् कर्तव्यम् .
(प्_3,1.133.2) क_इइ,91.1-11 रो_इइइ,217 {3।22} इह मा भूत् .
(प्_3,1.133.2) क_इइ,91.1-11 रो_इइइ,217 {4।22} आसिता शयिता इति .
(प्_3,1.133.2) क_इइ,91.1-11 रो_इइइ,217 {5।22} न वा धातुमात्रात् दर्शनात् ण्वुलः . न वा वक्तव्यम् .
(प्_3,1.133.2) क_इइ,91.1-11 रो_इइइ,217 {6।22} किम् कारणम् .
(प्_3,1.133.2) क_इइ,91.1-11 रो_इइइ,217 {7।22} धातुमात्रात् ण्वुल् दृश्यते .
(प्_3,1.133.2) क_इइ,91.1-11 रो_इइइ,217 {8।22} इमे अस्य आसकाः इमे .
(प्_3,1.133.2) क_इइ,91.1-11 रो_इइइ,217 {9।22} अस्य शायकाः .
(प्_3,1.133.2) क_इइ,91.1-11 रो_इइइ,217 {10।22} उत्थिताः आसका वैश्रवणस्य इति .
(प्_3,1.133.2) क_इइ,91.1-11 रो_इइइ,217 {11।22} तृजादिषु वर्तमानकालोपादानम् अध्यायकवेदाध्यायकार्थम् .
(प्_3,1.133.2) क_इइ,91.1-11 रो_इइइ,217 {12।22} तृजादिषु वर्तमानकालोपादानम् कर्तव्यम् .
(प्_3,1.133.2) क_इइ,91.1-11 रो_इइइ,217 {13।22} किम् कारणम् .
(प्_3,1.133.2) क_इइ,91.1-11 रो_इइइ,217 {14।22} अध्यायकवेदाध्यायकार्थम् .
(प्_3,1.133.2) क_इइ,91.1-11 रो_इइइ,217 {15।22} अध्यायकः वेदाध्यायः .
(प्_3,1.133.2) क_इइ,91.1-11 रो_इइइ,217 {16।22} अधीतवति अध्येष्यमाणे वा मा भूत् .
(प्_3,1.133.2) क_इइ,91.1-11 रो_इइइ,217 {17।22} न वा कालमात्रे दर्शनात् अन्येषाम् .
(प्_3,1.133.2) क_इइ,91.1-11 रो_इइइ,217 {18।22} न वा वक्तव्यम् .
(प्_3,1.133.2) क_इइ,91.1-11 रो_इइइ,217 {19।22} किम् कारणम् .
(प्_3,1.133.2) क_इइ,91.1-11 रो_इइइ,217 {20।22} कालमात्रे दर्शनात् अन्येषाम् .
(प्_3,1.133.2) क_इइ,91.1-11 रो_इइइ,217 {21।22} कालमात्रे हि अन्ये प्रत्ययाः दृश्यन्ते .
(प्_3,1.133.2) क_इइ,91.1-11 रो_इइइ,217 {22।22} चर्चापारः शमनीपारः .

(प्_3,1.134) क_इइ,91.13-18 रो_इइइ,217-218 {1।12} अच् अपि सर्वधातुभ्यः .
(प्_3,1.134) क_इइ,91.13-18 रो_इइइ,217-218 {2।12} अच् अपि सर्वधातुभ्यः वक्तव्यः .
(प्_3,1.134) क_इइ,91.13-18 रो_इइइ,217-218 {3।12} इह अपि यथा स्यात् .
(प्_3,1.134) क_इइ,91.13-18 रो_इइइ,217-218 {4।12} भवः शर्वः .
(प्_3,1.134) क_इइ,91.13-18 रो_इइइ,217-218 {5।12} न तर्हि इदानीम् इदम् पचाद्यनुक्रमणम् कर्तव्यम् .
(प्_3,1.134) क_इइ,91.13-18 रो_इइइ,217-218 {6।12} कर्तव्यम् च .
(प्_3,1.134) क_इइ,91.13-18 रो_इइइ,217-218 {7।12} किम् प्रयोजनम् .
(प्_3,1.134) क_इइ,91.13-18 रो_इइइ,217-218 {8।12} पचाद्यनुक्रमणम् अनुबन्धासञ्जार्थम् अपवादबाधनार्थम् च .
(प्_3,1.134) क_इइ,91.13-18 रो_इइइ,217-218 {9।12} अनुबन्धासञ्जनार्थम् तावत् .
(प्_3,1.134) क_इइ,91.13-18 रो_इइइ,217-218 {10।12} नदट् नदी चोरट् चोरी .
(प्_3,1.134) क_इइ,91.13-18 रो_इइइ,217-218 {11।12} अपवादबाधनार्थम् .
(प्_3,1.134) क_इइ,91.13-18 रो_इइइ,217-218 {12।12} जारभरा श्वपचा इति .
(प्_3,1.135) क_इइ,91.20-92.3 रो_इइइ,218 {1।11} इगुपधेभ्यः उपसर्गे कविधिः मेषाद्यर्थः .इगुपधेभ्यः उपसर्गे कः विधेयः .
(प्_3,1.135) क_इइ,91.20-92.3 रो_इइइ,218 {2।11} किम् प्रयोजनम् .
(प्_3,1.135) क_इइ,91.20-92.3 रो_इइइ,218 {3।11} मेषाद्यर्थः .
(प्_3,1.135) क_इइ,91.20-92.3 रो_इइइ,218 {4।11} मेषः देवः सेवः .
(प्_3,1.135) क_इइ,91.20-92.3 रो_इइइ,218 {5।11} न वा बुधादीनाम् दर्शनात् अनुपसर्गे अपि .
(प्_3,1.135) क_इइ,91.20-92.3 रो_इइइ,218 {6।11} न वा वक्तव्यः .
(प्_3,1.135) क_इइ,91.20-92.3 रो_इइइ,218 {7।11} किम् कारणम् .
(प्_3,1.135) क_इइ,91.20-92.3 रो_इइइ,218 {8।11} बुधादीनाम् अनुपसर्गे अपि कः दृश्यते .
(प्_3,1.135) क_इइ,91.20-92.3 रो_इइइ,218 {9।11} बुधः भिदः युधः सिवः इति .
(प्_3,1.135) क_इइ,91.20-92.3 रो_इइइ,218 {10।11} कथम् मेषः देवः सेवः इति .
(प्_3,1.135) क_इइ,91.20-92.3 रो_इइइ,218 {11।11} पचाचिषु पाठः करिष्यते .
(प्_3,1.137) क_इइ,92.5-8 रो_इइइ,218 {1।7} जिघ्रः सञ्ज्ञायाम् प्रतिषेधः .
(प्_3,1.137) क_इइ,92.5-8 रो_इइइ,218 {2।7} जिघ्रः सञ्ज्ञायाम् प्रतिषेधः वक्तव्यः .
(प्_3,1.137) क_इइ,92.5-8 रो_इइइ,218 {3।7} व्याजिघ्रति इति व्याघ्रः .
(प्_3,1.137) क_इइ,92.5-8 रो_इइइ,218 {4।7} इह के चित् शस्य एव प्रतिषेधम् आहुः के चित् जिघ्रभावस्य .
(प्_3,1.137) क_इइ,92.5-8 रो_इइइ,218 {5।7} किम् पुनः अत्र न्याय्यम् .
(प्_3,1.137) क_इइ,92.5-8 रो_इइइ,218 {6।7} शस्य एव प्रतिषेधः न्याय्यः .
(प्_3,1.137) क_इइ,92.5-8 रो_इइइ,218 {7।7} जिघ्रभावे हि प्रतिषिद्धे केन शे आकारलोपः स्यात् .
(प्_3,1.138) क_इइ,92.11-15 रो_इइइ,218-219 {1।9} अनुपसर्गात् नौ लिम्पेः .
(प्_3,1.138) क_इइ,92.11-15 रो_इइइ,218-219 {2।9} अनुपसर्गात् नौ लिम्पेः इति वक्तव्यम् .
(प्_3,1.138) क_इइ,92.11-15 रो_इइइ,218-219 {3।9} निलिम्पाः नाम देवाः .
(प्_3,1.138) क_इइ,92.11-15 रो_इइइ,218-219 {4।9} गवि च विन्देः सञ्ज्ञायाम् .
(प्_3,1.138) क_इइ,92.11-15 रो_इइइ,218-219 {5।9} गवि च उपपदे विन्देः सञ्ज्ञायाम् उपसङ्ख्यानम् कर्तव्यम् .
(प्_3,1.138) क_इइ,92.11-15 रो_इइइ,218-219 {6।9} गोविन्दः इति .
(प्_3,1.138) क_इइ,92.11-15 रो_इइइ,218-219 {7।9} अत्यल्पम् इदम् उच्यते : गवि इति .
(प्_3,1.138) क_इइ,92.11-15 रो_इइइ,218-219 {8।9} गवादिषु इति वक्तव्यम् .
(प्_3,1.138) क_इइ,92.11-15 रो_इइइ,218-219 {9।9} गोविन्दः अरविन्दः .
(प्_3,1.140) क_इइ,92.17-18 रो_इइइ,219 {1।2} तनोतेः णः उपसङ्ख्यानम् . तनोतेः णः उपसङ्ख्यानम् कर्तव्यम् .

(प्_3,1.140) क_इइ,92.17-18 रो_इइइ,219 {2।2} अवतनोति इति अवतानः .
(प्_3,1.145) क_इइ,92.20 रो_इइइ,219 {1।3} नृतिखनिरञ्जिभ्यः इति वक्तव्यम् .
(प्_3,1.145) क_इइ,92.20 रो_इइइ,219 {2।3} इह मा भूत् .
(प्_3,1.145) क_इइ,92.20 रो_इइइ,219 {3।3} ह्वायकः इति .
(प्_3,1.149) क_इइ,93.2-4 रो_इइइ,219 {1।4} प्रुसृल्वः साधुकारिणि वुन्विधानम् .
(प्_3,1.149) क_इइ,93.2-4 रो_इइइ,219 {2।4} प्रुसृल्वः साधुकारिणि वुन् विधेयः .
(प्_3,1.149) क_इइ,93.2-4 रो_इइइ,219 {3।4} सकृत् अपि यः सुष्ठु करोति तत्र यथा स्यात् .
(प्_3,1.149) क_इइ,93.2-4 रो_इइइ,219 {4।4} बहुशः यः दुष्ठु करोति तत्र मा भूत् .
(प्_3,2.1.1) क_इइ,94.2-15 रो_इइइ,220-221 {1।25} कर्मणि निर्वर्त्यमाणविक्रियमाणे इति वक्तत्व्यम् .
(प्_3,2.1.1) क_इइ,94.2-15 रो_इइइ,220-221 {2।25} इह मा भूत् .
(प्_3,2.1.1) क_इइ,94.2-15 रो_इइइ,220-221 {3।25} आदित्यम् पश्यति .
(प्_3,2.1.1) क_इइ,94.2-15 रो_इइइ,220-221 {4।25} हिववन्तम् श्र्णोति .
(प्_3,2.1.1) क_इइ,94.2-15 रो_इइइ,220-221 {5।25} ग्रामम् गच्छति इति .
(प्_3,2.1.1) क_इइ,94.2-15 रो_इइइ,220-221 {6।25} कर्मणि निर्वर्त्यमाणविक्रियमाणे चेत् वेदाध्यायादीनाम् उपसङ्ख्यानम् .
(प्_3,2.1.1) क_इइ,94.2-15 रो_इइइ,220-221 {7।25} कर्मणि निर्वर्त्यमाणविक्रियमाणे चेत् वेदाध्यायादीनाम् उपसङ्ख्यानम् कर्तव्यम् .
(प्_3,2.1.1) क_इइ,94.2-15 रो_इइइ,220-221 {8।25} वेदाध्यायः चर्चापारः शमनीपारः .
(प्_3,2.1.1) क_इइ,94.2-15 रो_इइइ,220-221 {9।25} यत्र च नियुक्तः . यत्र च नियुक्तः तत्र उपसङ्ख्यानम् कर्तत्व्यम् .
(प्_3,2.1.1) क_इइ,94.2-15 रो_इइइ,220-221 {10।25} छत्रधारः द्वारपालः .
(प्_3,2.1.1) क_इइ,94.2-15 रो_इइइ,220-221 {11।25} हृग्रहिनीवहिभ्यः च .
(प्_3,2.1.1) क_इइ,94.2-15 रो_इइइ,220-221 {12।25} हृग्रहिनीवहिभ्यः च इति वक्तव्यम् .
(प्_3,2.1.1) क_इइ,94.2-15 रो_इइइ,220-221 {13।25} हृ .
(प्_3,2.1.1) क_इइ,94.2-15 रो_इइइ,220-221 {14।25} भारहारः .
(प्_3,2.1.1) क_इइ,94.2-15 रो_इइइ,220-221 {15।25} ग्रहि .
(प्_3,2.1.1) क_इइ,94.2-15 रो_इइइ,220-221 {16।25} कमण्डलुग्राहः .
(प्_3,2.1.1) क_इइ,94.2-15 रो_इइइ,220-221 {17।25} नी. उष्ट्रप्रणायः .
(प्_3,2.1.1) क_इइ,94.2-15 रो_इइइ,220-221 {18।25} वहि .
(प्_3,2.1.1) क_इइ,94.2-15 रो_इइइ,220-221 {19।25} भारवाहः .
(प्_3,2.1.1) क_इइ,94.2-15 रो_इइइ,220-221 {20।25} अपरिगणनम् वा .
(प्_3,2.1.1) क_इइ,94.2-15 रो_इइइ,220-221 {21।25} न वा अर्थः परिगणनेन .
(प्_3,2.1.1) क_इइ,94.2-15 रो_इइइ,220-221 {22।25} कस्मात् न भवति : आदित्यम् पश्यति , हिमवन्तम् श्र्णोति .
(प्_3,2.1.1) क_इइ,94.2-15 रो_इइइ,220-221 {23।25} ग्रामम् गच्छति इति .
(प्_3,2.1.1) क_इइ,94.2-15 रो_इइइ,220-221 {24।25} अनभिधानात् .
(प्_3,2.1.1) क_इइ,94.2-15 रो_इइइ,220-221 {25।25} अनभिधानात् एव न भविष्यति .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {1।51} अकारात् अनुपपदात् कर्मोपपदः विप्रतिषेधेन .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {2।51} अकारात् अनुपपदात् कर्मोपपदः भवति विप्रतिषेधेन .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {3।51} अनुपपदस्य अवकाशः पचति इति पचः .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {4।51} कर्मोपपदस्य अवकाशः कुम्भकारः नगरकारः .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {5।51} ओदनपाचे उभयम् प्राप्नोति .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {6।51} कर्मोपदः भवति विप्रतिषेधेन .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {7।51} अनुपपदस्य अवकाशः विक्षिपः विलिखः .

(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {8।51} कर्मोपपदस्य सः एव .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {9।51} काष्ठभेदे उभयम् प्राप्नोति .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {10।51} कर्मोपदः भवति विप्रतिषेधेन .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {11।51} अनुपपदस्य अवकाशः जानाति इति ज्ञः .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {12।51} कर्मोपपदस्य सः एव .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {13।51} अर्थज्ञे उभयम् प्राप्नोति .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {14।51} कर्मोपदः भवति विप्रतिषेधेन .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {15।51} न एषः युक्तः विप्रतिषेधः .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {16।51} अनुपपदः तृतीयः .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {17।51} ण्वुल्तृजचः .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {18।51} तेषाम् णः .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {19।51} णस्य कः .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {20।51} सः यथा एव कः णम् बाधते एवम् कर्मोपपदम् अपि बाधेत .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {21।51} कर्मोपपदः अपि तृतीयः .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {22।51} ण्वुल्तृजचः .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {23।51} तेषाम् अण् .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {24।51} अणः कः .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {25।51} उभयोः तृतीययोः युक्तः विप्रतिषेधः .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {26।51} अनुपपदस्य अवकाशः लिम्पति इति लिम्पः .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {27।51} कर्मोपपदस्य सः एव .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {28।51} कुड्यलेपे उभयम् प्राप्नोति .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {29।51} कर्मोपदः भवति विप्रतिषेधेन .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {30।51} न एषः युक्तः विप्रतिषेधः .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {31।51} अनुपपदः तृतीयः .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {32।51} ण्वुल्तृजचः .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {33।51} तेषाम् कः .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {34।51} कस्य कः .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {35।51} सः यथा एव शः कम् बाधते एवम् कर्मोपपदम् अपि बाधेत .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {36।51} का तर्हि गतिः .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {37।51} मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् शः कम् बाधिष्यते .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {38।51} कर्मोपपदम् न बाधिष्यते .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {39।51} अनुपपदस्य अवकाशः सुग्लः सुम्लः .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {40।51} कर्मोपपदस्य सः एव .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {41।51} वडवासन्दाये उभयम् प्राप्नोति .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {42।51} कर्मोपदः भवति विप्रतिषेधेन .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {43।51} न एषः युक्तः विप्रतिषेधः .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {44।51} अनुपपदः तृतीयः .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {45।51} ण्वुल्तृजचः .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {46।51} तेषाम् णः .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {47।51} णस्य कः .

(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {48।51} सः यथा एव कः णम् बाधते एवम् कर्मोपपदम् अपि बाधेत .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {49।51} का तर्हि गतिः .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {50।51} पुरस्ताद् अपवादाः अनन्तराञ्विधीन् बाधन्ते इति एवम् अयम् कः णम् बाधिष्यते .
(प्_3,2.1.2) क_इइ,94.16-95.15 रो_इइइ,221-223 {51।51} कर्मोपपदम् न बाधिष्यते .
(प्_3,2.1.3) क_इइ,95.16-96.11 रो_इइइ,223-225 {1।36} शीलिकामिभक्ष्याचरिभ्यः णः पूर्वपदप्रकृतिस्वरत्वम् च .
(प्_3,2.1.3) क_इइ,95.16-96.11 रो_इइइ,223-225 {2।36} शीलिकामिभक्ष्याचरिभ्यः णः वक्तव्यः पूर्वपदप्रकृतिस्वरत्वम् च वक्तव्यम् .
(प्_3,2.1.3) क_इइ,95.16-96.11 रो_इइइ,223-225 {3।36} शीलि .
(प्_3,2.1.3) क_इइ,95.16-96.11 रो_इइइ,223-225 {4।36} मांसशीलः मांसशीला .
(प्_3,2.1.3) क_इइ,95.16-96.11 रो_इइइ,223-225 {5।36} शीलि .
(प्_3,2.1.3) क_इइ,95.16-96.11 रो_इइइ,223-225 {6।36} कामि .
(प्_3,2.1.3) क_इइ,95.16-96.11 रो_इइइ,223-225 {7।36} मांसकामः मांसकामा .
(प्_3,2.1.3) क_इइ,95.16-96.11 रो_इइइ,223-225 {8।36} कामि .
(प्_3,2.1.3) क_इइ,95.16-96.11 रो_इइइ,223-225 {9।36} भक्षि .
(प्_3,2.1.3) क_इइ,95.16-96.11 रो_इइइ,223-225 {10।36} मांसभक्षः मांसभक्षा .
(प्_3,2.1.3) क_इइ,95.16-96.11 रो_इइइ,223-225 {11।36} भक्षि आचरि .
(प्_3,2.1.3) क_इइ,95.16-96.11 रो_इइइ,223-225 {12।36} कल्याणाचारः कल्याणाचारा .
(प्_3,2.1.3) क_इइ,95.16-96.11 रो_इइइ,223-225 {13।36} ईक्षिक्षमिभ्याम् च . ईक्षिक्षमिभ्याम् च इति वक्तव्यम् .
(प्_3,2.1.3) क_इइ,95.16-96.11 रो_इइइ,223-225 {14।36} सुखप्रतीक्षः सुखप्रतीक्षा .
(प्_3,2.1.3) क_इइ,95.16-96.11 रो_इइइ,223-225 {15।36} कल्याणक्षमः कल्याणक्षमा .
(प्_3,2.1.3) क_इइ,95.16-96.11 रो_इइइ,223-225 {16।36} किमर्थम् इदम् उच्यते .
(प्_3,2.1.3) क_इइ,95.16-96.11 रो_इइइ,223-225 {17।36} पूर्वपदप्रकृत्स्वरत्वम् च वक्ष्यामि ईकारः च मा भूत् इति .
(प्_3,2.1.3) क_इइ,95.16-96.11 रो_इइइ,223-225 {18।36} न एतत् अस्ति प्रयोजनम् .
(प्_3,2.1.3) क_इइ,95.16-96.11 रो_इइइ,223-225 {19।36} इह यः मांसम् भक्षयति मांसम् तस्य भक्षः भवति .
(प्_3,2.1.3) क_इइ,95.16-96.11 रो_इइइ,223-225 {20।36} यः असौ भक्षयतेः अच् तदन्तेन बहुव्रीहिः .
(प्_3,2.1.3) क_इइ,95.16-96.11 रो_इइइ,223-225 {21।36} एवम् तर्हि सिद्धे सति यत् कर्मोपपदम् णम् शास्ति तत् ज्ञापयति आचार्यः समाने अर्थे केवलम् विग्रहभेदात् यत्र कर्मोपपदः च प्राप्नोति बहुव्रीहिः च कर्मोपपदः तत्र भवति इति .
(प्_3,2.1.3) क_इइ,95.16-96.11 रो_इइइ,223-225 {22।36} किम् एतस्य ज्ञापने प्रयोजनम् .
(प्_3,2.1.3) क_इइ,95.16-96.11 रो_इइइ,223-225 {23।36} काण्डलावः .
(प्_3,2.1.3) क_इइ,95.16-96.11 रो_इइइ,223-225 {24।36} काण्डानि लावः अस्य इति बहुव्रीहिः न भवति .
(प्_3,2.1.3) क_इइ,95.16-96.11 रो_इइइ,223-225 {25।36} भवति तु बहुर्वीहिः अपि .
(प्_3,2.1.3) क_इइ,95.16-96.11 रो_इइइ,223-225 {26।36} मांसे कामः अस्य मांसकामः मांसकामकः इति वा .
(प्_3,2.1.3) क_इइ,95.16-96.11 रो_इइइ,223-225 {27।36} न तु अम्भोभिगमा .
(प्_3,2.1.3) क_इइ,95.16-96.11 रो_इइइ,223-225 {28।36} न तु इदम् भवति अम्भः अभिगमः अस्याः इति .
(प्_3,2.1.3) क_इइ,95.16-96.11 रो_इइइ,223-225 {29।36} किम् तर्हि .
(प्_3,2.1.3) क_इइ,95.16-96.11 रो_इइइ,223-225 {30।36} अम्भोभिगामी इति एव भवति .
(प्_3,2.1.3) क_इइ,95.16-96.11 रो_इइइ,223-225 {31।36} काण्डलावे अपि च विग्रहाभावात् न ज्ञापकस्य प्रयोजनम् भवति इति .
(प्_3,2.1.3) क_इइ,95.16-96.11 रो_इइइ,223-225 {32।36} न एषः अस्ति विग्रहः काण्डानि लावः अस्य इति .
(प्_3,2.1.3) क_इइ,95.16-96.11 रो_इइइ,223-225 {33।36} आन्नादाय इति च कृताम् व्यत्ययः छन्दसि .
(प्_3,2.1.3) क_इइ,95.16-96.11 रो_इइइ,223-225 {34।36} आन्नादाय इति च कृताम् व्यत्ययः छन्दसि द्रष्टव्यः .
(प्_3,2.1.3) क_इइ,95.16-96.11 रो_इइइ,223-225 {35।36} अन्नादाय अन्नपतये .
(प्_3,2.1.3) क_इइ,95.16-96.11 रो_इइइ,223-225 {36।36} ये आहुतिम् अन्नादीम् कृत्वा .

(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {1।91} कविधौ सर्वत्र प्रसारणिभ्यः डः .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {2।91} कविधौ सर्वत्र प्रसारणिभ्यः डः वक्तव्यः .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {3।91} ब्रह्मज्यः .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {4।91} किम् उच्यते सर्वत्र इति .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {5।91} अन्यत्र अपि न अवश्यम् इह एव .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {6।91} ह्व अन्यत्र .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {7।91} आह्वः प्रह्वः इति .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {8।91} के हि सम्प्रसारणप्रसङ्गः .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {9।91} के हि सति सम्प्रसारणम् प्रसज्येत .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {10।91} सम्प्रसारणे कृते सम्प्रसारणपूर्वत्वे च उवङादेशे आहुवः इति एतत् रूपम् स्यात् .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {11।91} सः तर्हि वक्तव्यः .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {12।91} न वक्तव्यः .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {13।91} अस्तु अत्र सम्प्रसारणम् .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {14।91} सम्प्रसारणे कृते आकारलोपः .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {15।91} तस्य स्थानिवद्भावात् उवङादेशः न भविष्यति .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {16।91} पूर्वत्वे कृते प्राप्नोति .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {17।91} एवम् तर्हि इदम् इह सम्प्रधार्यम् .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {18।91} आकारलोपः क्रियताम् पूर्वत्वम् इति .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {19।91} किम् अत्र कर्तव्यम् .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {20।91} परत्वात् आकारलोपः .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {21।91} न सिध्यति .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {22।91} अन्तरङ्गत्वात् पूर्वत्वम् प्राप्नोति .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {23।91} एवम् तर्हि वार्णात् आङ्गम् बलीयः भवति इति आकारलोपः भविष्यति .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {24।91} एवम् तर्हि इदम् इह सम्प्रधार्यम् .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {25।91} आकारलोपः क्रियताम् सम्प्रसारणम् इति .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {26।91} किम् अत्र कर्तव्यम् .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {27।91} परत्वात् आकारलोपः .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {28।91} नित्यम् सम्प्रसारणम् .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {29।91} कृते अपि आकारलोपे प्राप्नोति अकृते अपि प्राप्नोति .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {30।91} आकारलोपः अपि नित्यः .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {31।91} कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि प्राप्नोति .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {32।91} अनित्यः आकारलोपः .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {33।91} न हि कृते सम्प्रसारणे प्राप्नोति .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {34।91} अन्तरङ्गम् हि पूर्वत्वम् भाधते .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {35।91} यस्य लक्षणान्तरेण निमित्तम् विहन्यते न तत् अनित्यम् .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {36।91} न च सम्प्रसारणम् एव आकारलोपस्य निमित्तम् हन्ति .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {37।91} अवश्यम् लक्षणान्तरम् पूर्वत्वम् प्रतीक्ष्यम् .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {38।91} उभयोः नित्ययोः परत्वात् आकारलोपः .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {39।91} आकारलोपे कृते सम्प्रसारणम् .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {40।91} सम्प्रसारणे कृते यणादेशे सिद्धम् रूपम् आह्वः प्रह्वः इति .

(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {41।91} एवम् अपि न सिध्यति .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {42।91} यः अनादिष्टाद् अचः पूर्वः तस्य विधिम् प्रति स्थानिवद्भावः .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {43।91} आदिष्टात् च एषः अचः पूर्वः भवति .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {44।91} एवम् तर्हि आकारलोपस्य असिद्धत्वात् उवङादेशः न भविष्यति .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {45।91} इह अपि तर्हि आकारलोपस्य असिद्धत्वात् उवङादेशः न स्यात् .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {46।91} जुहुवतुः झुहुवुः इति .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {47।91} अस्ति अत्र विशेषः .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {48।91} अकृते अत्र आत्त्वे पूर्वत्वम् भवति .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {49।91} इदम् इह सम्प्रधार्यम् आत्त्वम् क्रियताम् पूर्वत्वम् इति .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {50।91} किम् अत्र कर्तव्यम् .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {51।91} परत्वात् पूर्वत्वम् .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {52।91} न सिध्यति .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {53।91} अन्तरङ्गत्वात् आत्त्वम् प्राप्नोति .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {54।91} एवम् तर्हि इदम् इह सम्प्रधार्यम् .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {55।91} आत्त्वम् क्रियताम् सम्प्रसारणम् इति .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {56।91} किम् अत्र कर्तव्यम् .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {57।91} परत्वात् आत्त्वम् .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {58।91} नित्यम् सम्प्रसारणम् .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {59।91} कृते अपि आत्त्वे प्राप्नोति अकृते अपि .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {60।91} आत्त्वम् अपि नित्यम् .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {61।91} कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि प्राप्नोति .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {62।91} अनित्यम् आत्त्वम् .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {63।91} न हि सम्प्रसारणे कृते प्राप्नोति .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {64।91} परत्वात् पूर्वत्वेन एव भवितव्यम् .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {65।91} यस्य लक्षणान्तरेण निमित्तम् विहन्यते न तत् अनित्यम् .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {66।91} न च सम्प्रसारणम् एव आत्त्वस्य निमित्तम् विहन्ति .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {67।91} अवश्यम् लक्षणान्तरम् पूर्वत्वम् प्रतीक्ष्यम् .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {68।91} उभयोः नित्ययोः परत्वात् आत्त्त्वे कृते सम्प्रसारणम् .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {69।91} एवम् तर्हि पूर्वत्वे योगविभागः करिष्यते .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {70।91} सम्प्रसारणात् परः पूर्वः भवति .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {71।91} तत एङः .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {72।91} एङः च सम्प्रसारणात् पूर्वः भवति .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {73।91} किमर्थम् इदम् .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {74।91} अकृते आत्त्वे पूर्वत्वम् यथा स्यात् .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {75।91} ततः पदान्तात् अति .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {76।91} एङः इति एव .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {77।91} इह अपि तर्हि अकृते आत्त्वे पूर्वत्वम् स्यात् .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {78।91} आह्वः प्रह्वः इति .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {79।91} अस्ति अत्र विशेषः .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {80।91} आकारान्तलक्षणः कविधिः .

(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {81।91} तेन अनेन अवश्यम् आत्त्वम् प्रतीक्ष्यम् .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {82।91} लिट् पुनः अविशेषेण धातुमात्रात् विधीयते .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {83।91} नित्यम् प्रसारणम् .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {84।91} ह्वः यण् .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {85।91} वार्णात् आङ्गम् न पूर्वत्वम् .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {86।91} यः अनादिष्टात् अचः पूर्वः तत्कार्ये स्थानिवत्त्वम् हि प्रोवाच भगवान् कात्यः .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {87।91} तेन असिद्धिः यणः ते .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {88।91} आतः कः .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {89।91} लिट् न .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {90।91} एङः पूर्वः .
(प्_3,2.3) क_इइ,96.13-97.27 रो_इइइ,225-228 {91।91} सिद्धः आह्वः तथा सति .
(प्_3,2.4) क_इइ,98.2-12 रो_इइइ,229 {1।25} सुपि स्थः भावे च .
(प्_3,2.4) क_इइ,98.2-12 रो_इइइ,229 {2।25} सुपि स्थः इति अत्र भावे च इति वक्तव्यम् .
(प्_3,2.4) क_इइ,98.2-12 रो_इइइ,229 {3।25} इह अपि यथा स्यात् .
(प्_3,2.4) क_इइ,98.2-12 रो_इइइ,229 {4।25} आखूत्थः वर्तते .
(प्_3,2.4) क_इइ,98.2-12 रो_इइइ,229 {5।25} श्येनोत्थः शलभोत्थः .
(प्_3,2.4) क_इइ,98.2-12 रो_इइइ,229 {6।25} तत् तर्हि वक्तव्यम् .
(प्_3,2.4) क_इइ,98.2-12 रो_इइइ,229 {7।25} न वक्तव्यम् .
(प्_3,2.4) क_इइ,98.2-12 रो_इइइ,229 {8।25} योगविभागात् सिद्धम् .
(प्_3,2.4) क_इइ,98.2-12 रो_इइइ,229 {9।25} योगविभागः करिष्यते .
(प्_3,2.4) क_इइ,98.2-12 रो_इइइ,229 {10।25} आतः अनुपसर्गे कः भवति .
(प्_3,2.4) क_इइ,98.2-12 रो_इइइ,229 {11।25} ततः सुपि .
(प्_3,2.4) क_इइ,98.2-12 रो_इइइ,229 {12।25} सुपि च अतः कः भवति .
(प्_3,2.4) क_इइ,98.2-12 रो_इइइ,229 {13।25} कच्छेन पिबति कच्छपः .
(प्_3,2.4) क_इइ,98.2-12 रो_इइइ,229 {14।25} कटाहेन पिबति कटाहः .
(प्_3,2.4) क_इइ,98.2-12 रो_इइइ,229 {15।25} द्वाभ्याम् पिबति द्विपः .
(प्_3,2.4) क_इइ,98.2-12 रो_इइइ,229 {16।25} ततः स्थः .
(प्_3,2.4) क_इइ,98.2-12 रो_इइइ,229 {17।25} स्थः च कः भवति सुपि इति .
(प्_3,2.4) क_इइ,98.2-12 रो_इइइ,229 {18।25} किमर्थम् इदम् .
(प्_3,2.4) क_इइ,98.2-12 रो_इइइ,229 {19।25} भावे यथा स्यात् .
(प्_3,2.4) क_इइ,98.2-12 रो_इइइ,229 {20।25} कुतः नु खल्वु एतत् भावे भविष्यति न पुनः कर्मादिषु कारकेषु इति .
(प्_3,2.4) क_इइ,98.2-12 रो_इइइ,229 {21।25} योगविभागात् अयम् कर्तुः अपकृष्यते .
(प्_3,2.4) क_इइ,98.2-12 रो_इइइ,229 {22।25} न च अन्यस्मिन् अर्थे आदिश्यते .
(प्_3,2.4) क_इइ,98.2-12 रो_इइइ,229 {23।25} अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति इति स्वार्थे भविष्यन्ति .
(प्_3,2.4) क_इइ,98.2-12 रो_इइइ,229 {24।25} तत् यथा गुप्तिज्किद्भ्यः सन् यावादिभ्यः कन् .
(प्_3,2.4) क_इइ,98.2-12 रो_इइइ,229 {25।25} सः असौ स्वार्थे भवन् भावे भविष्यति .
(प्_3,2.5) क_इइ,98.14-20 रो_इइइ,230 {1।12} तुन्दशोकयोः परिमृजापनुदोः आलस्यसुखाहरणयोः .
(प्_3,2.5) क_इइ,98.14-20 रो_इइइ,230 {2।12} तुन्दशोकयोः परिमृजापनुदोः इति अत्र आलस्यसुखाहरणयोः इति वक्तव्यम् .
(प्_3,2.5) क_इइ,98.14-20 रो_इइइ,230 {3।12} तुन्दपरिमृजः अलसः .
(प्_3,2.5) क_इइ,98.14-20 रो_इइइ,230 {4।12} शोकापनुदः पुत्रः जातः .

(प्_3,2.5) क_इइ,98.14-20 रो_इइइ,230 {5।12} यः हि तुन्दम् परिमार्ष्टि तुन्दपरिमार्जः सः भवति .
(प्_3,2.5) क_इइ,98.14-20 रो_इइइ,230 {6।12} यः च शोकम् अपनुदति शोकापनोदः सः भवति .
(प्_3,2.5) क_इइ,98.14-20 रो_इइइ,230 {7।12} कप्रकरणे मूलिअविभुजादिभ्यः उपसङ्ख्यानम् .
(प्_3,2.5) क_इइ,98.14-20 रो_इइइ,230 {8।12} कप्रकरणे मूलिअविभुजादिभ्यः उपसङ्ख्यानम् कर्तव्यम् .
(प्_3,2.5) क_इइ,98.14-20 रो_इइइ,230 {9।12} मूलविभुजः रथः .
(प्_3,2.5) क_इइ,98.14-20 रो_इइइ,230 {10।12} नखमुचानि धनूंषि .
(प्_3,2.5) क_इइ,98.14-20 रो_इइइ,230 {11।12} काकगुहाः तिलाः .
(प्_3,2.5) क_इइ,98.14-20 रो_इइइ,230 {12।12} सरसीरुहम् कुमुदम् .
(प्_3,2.8) क_इइ,99.2-8 रो_इइइ,230-231 {1।12} सुरासीध्वोः पिबतेः .
(प्_3,2.8) क_इइ,99.2-8 रो_इइइ,230-231 {2।12} सुरासीध्वोः पिबतेः इति वक्तव्यम् .
(प्_3,2.8) क_इइ,99.2-8 रो_इइइ,230-231 {3।12} इह मा भूत् .
(प्_3,2.8) क_इइ,99.2-8 रो_इइइ,230-231 {4।12} क्षीरपा ब्राह्मणी इति .
(प्_3,2.8) क_इइ,99.2-8 रो_इइइ,230-231 {5।12} पिबतेः इति किमर्थम् .
(प्_3,2.8) क_इइ,99.2-8 रो_इइइ,230-231 {6।12} या हि सुराम् पाति सुरापा सा भवति .
(प्_3,2.8) क_इइ,99.2-8 रो_इइइ,230-231 {7।12} बहुलम् तणि .
(प्_3,2.8) क_इइ,99.2-8 रो_इइइ,230-231 {8।12} बहुलम् तणि इति वक्तव्यम् .
(प्_3,2.8) क_इइ,99.2-8 रो_इइइ,230-231 {9।12} किम् इदम् तणि इति .
(प्_3,2.8) क_इइ,99.2-8 रो_इइइ,230-231 {10।12} सञ्ज्ञाछन्दसोः ग्रहणम् .
(प्_3,2.8) क_इइ,99.2-8 रो_इइइ,230-231 {11।12} या ब्राह्मणी सुरापी भवति न एनाम् देवाः पतिलोकम् नयन्ति .
(प्_3,2.8) क_इइ,99.2-8 रो_इइइ,230-231 {12।12} या ब्राह्मणी सुरापा भवति न एनाम् देवाः पतिलोकम् नयन्ति .
(प्_3,2.9) क_इइ,99.10-18 रो_इइइ,231 {1।30} अच्प्रकरणे शक्तिलाङ्गलाङ्कुशयष्टितोमरघटघटीधनुःषु घ्रहेः उपसङ्ख्यानम् .
(प्_3,2.9) क_इइ,99.10-18 रो_इइइ,231 {2।30} अच्प्रकरणे शक्तिलाङ्गलाङ्कुशयष्टितोमरघटघटीधनुःषु घ्रहेः उपसङ्ख्यानम् कर्तव्यम् .
(प्_3,2.9) क_इइ,99.10-18 रो_इइइ,231 {3।30} शक्तिग्रहः .
(प्_3,2.9) क_इइ,99.10-18 रो_इइइ,231 {4।30} शक्ति .
(प्_3,2.9) क_इइ,99.10-18 रो_इइइ,231 {5।30} लाङ्गल .
(प्_3,2.9) क_इइ,99.10-18 रो_इइइ,231 {6।30} लाङ्गलग्रहः .
(प्_3,2.9) क_इइ,99.10-18 रो_इइइ,231 {7।30} लाङ्गल .
(प्_3,2.9) क_इइ,99.10-18 रो_इइइ,231 {8।30} आङ्कुश .
(प्_3,2.9) क_इइ,99.10-18 रो_इइइ,231 {9।30} आङ्कुशग्रहः .
(प्_3,2.9) क_इइ,99.10-18 रो_इइइ,231 {10।30} आङ्कुश .
(प्_3,2.9) क_इइ,99.10-18 रो_इइइ,231 {11।30} यष्टि .
(प्_3,2.9) क_इइ,99.10-18 रो_इइइ,231 {12।30} यष्टिग्रहः .
(प्_3,2.9) क_इइ,99.10-18 रो_इइइ,231 {13।30} यष्टि .
(प्_3,2.9) क_इइ,99.10-18 रो_इइइ,231 {14।30} तोमर .
(प्_3,2.9) क_इइ,99.10-18 रो_इइइ,231 {15।30} तोमरग्रहः .
(प्_3,2.9) क_इइ,99.10-18 रो_इइइ,231 {16।30} तोमर .
(प्_3,2.9) क_इइ,99.10-18 रो_इइइ,231 {17।30} घट .
(प्_3,2.9) क_इइ,99.10-18 रो_इइइ,231 {18।30} घटग्रहः .
(प्_3,2.9) क_इइ,99.10-18 रो_इइइ,231 {19।30} घट .
(प्_3,2.9) क_इइ,99.10-18 रो_इइइ,231 {20।30} घटी .

(प्_3,2.9) क_इइ,99.10-18 रो_इइइ,231 {21।30} घटीग्रहः .
(प्_3,2.9) क_इइ,99.10-18 रो_इइइ,231 {22।30} घटी .
(प्_3,2.9) क_इइ,99.10-18 रो_इइइ,231 {23।30} धनुस् .
(प्_3,2.9) क_इइ,99.10-18 रो_इइइ,231 {24।30} धनुर्ग्रहः .
(प्_3,2.9) क_इइ,99.10-18 रो_इइइ,231 {25।30} धनुस् .
(प्_3,2.9) क_इइ,99.10-18 रो_इइइ,231 {26।30} सूत्रे च धार्यर्थे .
(प्_3,2.9) क_इइ,99.10-18 रो_इइइ,231 {27।30} सूत्रे च धार्यर्थे ग्रहेः उपसङ्ख्यानम् .
(प्_3,2.9) क_इइ,99.10-18 रो_इइइ,231 {28।30} सूत्रग्रहः .
(प्_3,2.9) क_इइ,99.10-18 रो_इइइ,231 {29।30} धार्यर्थे इति किमर्थम् .
(प्_3,2.9) क_इइ,99.10-18 रो_इइइ,231 {30।30} यः हि सूत्रम् गृह्णाति सूत्रग्राहण् सः भवति .
(प्_3,2.13) क_इइ,99.20-22 रो_इइइ,231 {1।5} स्तम्बकर्णयोः हस्तिसूचकयोः .
(प्_3,2.13) क_इइ,99.20-22 रो_इइइ,231 {2।5} स्तम्बकर्णयोः इति अत्र हस्तिसूचकयोः इति वक्तव्यम् .
(प्_3,2.13) क_इइ,99.20-22 रो_इइइ,231 {3।5} स्तम्बेरमः हस्ती .
(प्_3,2.13) क_इइ,99.20-22 रो_इइइ,231 {4।5} कर्णेजपः सूचकः .
(प्_3,2.13) क_इइ,99.20-22 रो_इइइ,231 {5।5} सम्बे रन्ता कर्णे जपिता इति एव अन्यत्र .
(प्_3,2.14) क_इइ,100.2-9 रो_इइइ,231-232 {1।15} धातुग्रहणम् किमर्थम् .
(प्_3,2.14) क_इइ,100.2-9 रो_इइइ,231-232 {2।15} शमि सञ्ज्ञयाम् धातुग्रहणम् कृञः हेत्वादिषु टप्रतिषेधार्थम् .
(प्_3,2.14) क_इइ,100.2-9 रो_इइइ,231-232 {3।15} शमि सञ्ज्ञयाम् धातुग्रहणम् क्रियते कृञः हेत्वादिषु टः मा भूत् इति .
(प्_3,2.14) क_इइ,100.2-9 रो_इइइ,231-232 {4।15} शमि सञ्ज्ञयाम् अच् भवति इति अस्य अवकाशः शम्वदः शम्भवः .
(प्_3,2.14) क_इइ,100.2-9 रो_इइइ,231-232 {5।15} टस्य अवकाशः श्राद्धकरः पिण्डकरः .
(प्_3,2.14) क_इइ,100.2-9 रो_इइइ,231-232 {6।15} शङ्करा नाम परिव्राजिका .
(प्_3,2.14) क_इइ,100.2-9 रो_इइइ,231-232 {7।15} शङ्करा शकुनिका तच्छिला च .
(प्_3,2.14) क_इइ,100.2-9 रो_इइइ,231-232 {8।15} तस्याम् उभयम् प्राप्नोति .
(प्_3,2.14) क_इइ,100.2-9 रो_इइइ,231-232 {9।15} परत्वात् टः स्यात् .
(प्_3,2.14) क_इइ,100.2-9 रो_इइइ,231-232 {10।15} धातुग्रहणसामर्थ्यात् अच् एव भवति .
(प्_3,2.14) क_इइ,100.2-9 रो_इइइ,231-232 {11।15} कुणरवाडवः तु आह .
(प्_3,2.14) क_इइ,100.2-9 रो_इइइ,231-232 {12।15} न एषा शङ्करा .
(प्_3,2.14) क_इइ,100.2-9 रो_इइइ,231-232 {13।15} शङ्गरा एषा .
(प्_3,2.14) क_इइ,100.2-9 रो_इइइ,231-232 {14।15} गृणातिः शब्दकर्मा .
(प्_3,2.14) क_इइ,100.2-9 रो_इइइ,231-232 {15।15} तस्य एषः प्रयोगः .
(प्_3,2.15) क_इइ,100.11-21 रो_इइइ,232-233 {1।14} अधिकरणे शेतेः पार्श्वादिषु उपसङ्ख्यानम् . अधिकरणे शेतेः पार्श्वादिषु उपसङ्ख्यानम् कर्तव्यम् .
(प्_3,2.15) क_इइ,100.11-21 रो_इइइ,232-233 {2।14} पार्श्वशयः पृष्ठशयः उदरशयः .
(प्_3,2.15) क_इइ,100.11-21 रो_इइइ,232-233 {3।14} दिग्धसहपूर्वात् च .
(प्_3,2.15) क_इइ,100.11-21 रो_इइइ,232-233 {4।14} दिद्घसहपूर्वात् च इति वक्तव्यम् .
(प्_3,2.15) क_इइ,100.11-21 रो_इइइ,232-233 {5।14} दिग्धसहशयः .
(प्_3,2.15) क_इइ,100.11-21 रो_इइइ,232-233 {6।14} उत्तानादिषु कर्तृषु .
(प्_3,2.15) क_इइ,100.11-21 रो_इइइ,232-233 {7।14} उत्तानादिषु कर्तृषु इति वक्तव्यम् .
(प्_3,2.15) क_इइ,100.11-21 रो_इइइ,232-233 {8।14} उत्तानशयः अवमूर्धशयः .
(प्_3,2.15) क_इइ,100.11-21 रो_इइइ,232-233 {9।14} गिरौ डः छन्दसि .
(प्_3,2.15) क_इइ,100.11-21 रो_इइइ,232-233 {10।14} गिरौ उपपदे डः छन्दसि वक्तव्यः .

मूल पाठ: Vyākaraṇamahābhāṣya · Edition: Franz Kielhorn (Bombay 1880-1885), revised by K.V. Abhyankar (Poona 1972-1996). · Data entry George Cardona · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc