भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुस्मृति · अध्याय 81

81.21

यावद् ऊष्मा भवत्य् अन्ने यावद् अश्नन्ति वाग्यताः
तावद् अश्नन्ति पितरो यावन् नोक्ता हविर् गुणाः ॥

81.22

सार्ववर्णिकम् अन्नाद्यं संनीयाप्लाव्य वारिणा
समुत्सृजेद् भुक्तवताम् अग्रतो विकिरन् भुवि ॥

81.23

असंस्कृतप्रमीतानां त्यागिनां कुलयोषिताम्
उच्छिष्टं भागधेयं स्याद् दर्भेषु विकिरश् च यः ॥

81.24

उच्छेषणं भूमिगतम् अजिह्मस्याशठस्य च
दासवर्गस्य तत् पित्र्ये भागधेयं प्रचक्षते ॥

मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc