ग्रंथ पाठ
विष्णुस्मृति · अध्याय 77
77.7
एतांस् तु श्राद्धकालान् वै काम्यान् आह प्रजापतिः
श्राद्धम् एतेषु यद् दत्तं तद् आनन्त्याय कल्पते ॥
77.8
संध्यारात्र्योर् न कर्तव्यं श्राद्धं खलु विचक्षणैः
तयोर् अपि च कर्तव्यं यदि स्याद् राहुदर्शनम् ॥
77.9
राहुदर्शनदत्तं हि श्राद्धम् आचन्द्रतारकम्
गुणवत्सर्वकामीयं पितॄणाम् उपतिष्ठते ॥
मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0