ग्रंथ पाठ
विष्णुस्मृति · अध्याय 73
73.28
दातारो नो ऽभिवर्धन्तां वेदाः संततिर् एव च
श्रद्धा च नो मा व्यगमद् बहु देयं च नो ऽस्त्व् इति ॥
73.30
अन्नं च नो बहु भवेद् अतिथींश् च लभेमहि
याचितारश् च नः सन्तु मा च याचिष्म कंचन ॥
73.32
वाजे वाज इत्य् च ततो ब्राह्मणांश् च विसर्जयेत्
पूजयित्वा यथान्यायम् अनुव्रज्याभिवाद्य च ॥
मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0