भाषा

ENहिગુ
ग्रंथ पाठ

विष्णुस्मृति · अध्याय 3

3.95

यत्र श्यामो लोहिताक्षो दण्डश् चरति निर्भयः
प्रजास् तत्र विवर्धन्ते नेता चेत् साधु पश्यति ॥

3.96

स्वराष्ट्रो न्यायदण्डः स्याद् भृशदण्डश् च शत्रुषु
सुहृत्स्व् अजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः ॥

3.97

एवंवृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः
विस्तीर्यते यशो लोके तैलबिन्दुर् इवाम्भसि ॥

3.98

प्रजासुखे सुखी राजा तद्दुःखे यश् च दुःखितः
स कीर्तियुक्तो लोके ऽस्मिन् प्रेत्य स्वर्गे महीयते ॥

मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc