विष्णुस्मृति · अध्याय 15
पुन्नाम्नो नरकाद् यस्मात् पितरं त्रायते सुतः
तस्मात् पुत्त्र इति प्रोक्तः स्वयम् एव स्वयंभुवा ॥
ऋणम् अस्मिन् संनयत्य् अमृतत्वं च गच्छति
पिता पुत्रस्य जातस्य पश्येच् चेज् जीवतो मुखम् ॥
पुत्रेण लोकान् जयति पौत्रेणानन्त्यम् अश्नुते
अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम् ॥
पौत्रदौहित्रयोर् लोके विशेषो नोपपद्यते
दौहित्रो ऽपि ह्य् अपुत्रं तं संतारयति पौत्रवत् ॥
मूल पाठ: Viṣṇusmṛti · Edition: V. Krishnamacharya Viṣṇusmṛti with the commentary of Keśavavaijayantī of Nandapaṇḍita Madras The Adyar Library and Research Centre 2 The Adyar Library Series 93,1-2 · Data entry I. Shima · GRETIL (Göttingen) · CC BY-NC-SA 4.0