ग्रंथ पाठ
विष्णुपुराण (समीक्षित संस्करण) · अध्याय 4.4
4.4.48[1]
अत्रापि श्रूयते श्लोको गीतः सप्तर्षिभिः पुरा
खट्वाङ्गेन समो नान्यः कश्चिद् उर्व्यां भविष्यति ॥
4.4.48[2]
येन स्वर्गाद् इहागम्य मुहूर्तं प्राप्य जीवितम्
त्रयो ऽभिसंधिता लोका बुद्ध्या दानेन चैव हि ॥
4.4.61
एते हीक्ष्वाकुभूपालाः प्राधान्येन मयेरिताः
एतेषां चरितं शृण्वन् सर्वपापैः प्रमुच्यते ॥
मूल पाठ: Viṣṇupurāṇa · Edition: The Critical Edition of the Viṣṇupurāṇam, critically edited by M. M. Pathak. Vadodara : Oriental Institute 1997-1999 · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0