वराह पुराण · अध्याय 76
रुद्र उवाच ।
तस्यैव मेरोः पूर्वे तु देशे परमवर्चसे ।
चक्रवाटपरिक्षिप्ते नानाधातुविराजिते
तत्र सर्वामरपुरं चक्रवाटसमुद्धतम् ।
दुर्धर्षं बलदृप्तानां देवदानवरक्षसाम् ।
तत्र जाम्बूनदमयः सुप्राकारः सुतोरणः
तस्याप्युत्तरपूर्वे तु देशे परमवर्चसे ।
अलोकजनसंपूर्णा विमानशतसंकुला
महावापिसमायुक्ता नित्यं प्रमुदिता शुभा ।
शोभिता पुष्पशबलैः पताकाध्वजमालिनी
देवैर्यक्षोप्सरोभिश्च ऋषिभिश्च सुशोभिता ।
पुरन्दरपुरी रम्या समृद्धा त्वमरावती
तस्या मध्येऽमरावत्या वज्रवैदूर्यवेदिका ।
त्रैलोक्यगुणविख्याता सुधर्मा नाम वै सभा
तत्रास्ते श्रीपतेः श्रीमान् सहस्त्राक्षः शचीपतिः ।
सिद्धादिभिः परिवृतः सर्वाभिर्देवयोनिभिः
तत्र चैव सुवंशः स्याद् भास्करस्य महात्मनः ।
साक्षात् तत्र सुराध्यक्षः सर्वदेवनमस्कृतः
तस्याश्च दिक्षु विस्तीर्णा तत्तद्गुणसमन्विता ।
तेजोवती नाम पुरी हुताशस्य महात्मनः
तत्तद्गुणवती रम्या पुरी वैवस्वतस्य च ।
नाम्ना संयमनी नाम पुरी त्रैलोक्यविश्रुता
तथा चतुर्थे दिग्भागे नैरृताधिपतेः शुभा ।
नाम्ना कृष्णावती नाम विरूपाक्षस्य धीमतः
पञ्चमे ह्युत्तरपुटे नाम्ना शुद्धवती पुरी ।
उदकाधिपतेः ख्याता वरुणस्य महात्मनः
तथा पञ्चोत्तरे देवस्वस्योत्तरपुटे पुरी ।
वायोर्गन्धवती नाम ख्याता सर्वगुणोत्तरा
तस्योत्तरपुटे रम्या गुह्यकाधिपतेः पुरी ।
नाम्ना महोदया नाम शुभा वैदूर्यवेदिका
तथाष्टमेऽन्तरपुटे ईशानस्य महात्मनः ।
पुरी मनोहरा नाम भूतैर्नानाविधैर्युता ।
पुष्पैर्धन्यैश्च विविधैर्वनैराश्रमसंस्थितैः
प्रार्थ्यते देवलोकोऽयं स स्वर्ग इति कीर्तितः
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे षट्सप्ततितमोऽध्यायः
मूल पाठ: varāhapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0