भाषा

ENहिગુ
ग्रंथ पाठ

वराह पुराण · अध्याय 57

57.57.1

अगस्त्य उवाच ।
अतः परं प्रवक्ष्यामि कान्तिव्रतमनुत्तमम् ।
यत्कृत्वा तु पुरा सोमः कान्तिमानभवत् पुनः

57.57.2

यक्ष्मणा दक्षशापेन पुराक्रान्तो निशाकरः ।
एतच्चीर्त्वा व्रतं सद्यः कान्तिमानभवत् किल

57.57.3

द्वितीयायां तु राजेन्द्र कार्त्तिकस्य सिते दिने ।
नक्तं कुर्वीत यत्नेन अर्चयन् बलकेशवम्

57.57.4

बलदेवाय पादौ तु केशवाय शिरोऽर्चयेत् ।
एवमभ्यर्च्य मेधावी वैष्णवं रूपमुत्तमम्

57.57.5

परस्वरूपं सोमाख्यं द्विकलं तद्दिने हि यत् ।
तस्यार्घं दापयेद् धीमान् मन्त्रेण परमेष्ठिनः

57.57.6

नमोऽस्त्वमृतरूपाय सर्वौषधिनृपाय च ।
यज्ञलोकाधिपतये सोमाय परमात्मने

57.57.7

अनेनैव च मार्गेण दत्त्वार्घ्यं परमेष्ठिनः ।
रात्रौ सविप्रो भुञ्जीत यवान्नं सघृतं नरः

57.57.8

फाल्गुनादिचतुष्के तु पायसं भोजयेच्छुचिः ।
शालिहोमं तु कुर्वीत कार्त्तिके तु यवैस्तथा

57.57.9

आषाढादिचतुष्के तु तिलहोमं तु कारयेत् ।
तद्वत् तिलान्नं भुञ्जीत एष एव विधिक्रमः

57.57.10

ततः संवत्सरे पूर्णे शशिनं कृतराजतम् ।
सितवस्त्रयुगच्छन्नं सितपुष्पानुलेपनम् ।
एवमेव द्विजं पूज्य ततस्तं प्रतिपादयेत्

57.57.11

कान्तिमानपि लोकेऽस्मिन् सर्वज्ञः प्रियदर्शनः ।
त्वत्प्रसादात् सोमरूपिन् नारायण नमोऽस्तु ते

57.57.12

अनेन किल मन्त्रेण दत्त्वा विप्राय वाग्यतः ।
दत्तमात्रे ततस्तस्मिन् कान्तिमान् जायते नरः

57.57.13

आत्रेयेणापि सोमेन कृतमेतत् पुरा नृप ।
तस्य व्रतान्ते संतुष्टः स्वयमेव जनार्दनः ।
यक्ष्माणमपनीयाशु अमृताख्यां कलां ददौ

57.57.14

तां कलां सोमराजाऽसौ तपसा लब्धवानिति ।
सोमत्वं चागमत् सोऽस्य ओषधीनां पतिर्बभौ

57.57.15

द्वितीयामश्विनौ सोमभुजौ कीर्त्येते तद्दिने नृप ।
तौ शेषविष्णू विख्यातौ मुख्यपक्षौ न संशयः

57.57.16

न विष्णोर्व्यतिरिक्तं स्याद् दैवतं नृपसत्तम ।
नामभेदेन सर्वत्र संस्थितः परमेश्वरः

57.57

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे सप्तपञ्चाशोऽध्यायः

मूल पाठ: varāhapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc