ग्रंथ पाठ
वैशेषिकसूत्र (अन्य संस्करण) · अध्याय 6.2
6.2.1
दृष्टादृष्ट प्रयोजनानां दृष्टाभावे प्रयोजनमभ्युदयाय
6.2.2
अभिषेचनोपवास ब्रह्मचर्यगुरुकुलवासवानप्रस्थ यज्ञदान प्रोक्षणदिङ्नक्षत्रमन्त्रकालनियमाश्चादृष्टाय
6.2.3
चातुराश्रम्यमुपधा अनुपधाश्च
6.2.4
भावदोष उपधादोषो ऽनुपधा
6.2.5
यदिष्टरूपरसगन्धस्पर्शं प्रोक्षितमभ्युक्षितं च तच्छुचि
6.2.6
अशुचीति शुचिप्रतिषेधः
6.2.7
अर्थान्तरं च
6.2.8
अयतस्य शुचिभोजनादभ्युदयो न विद्यते नियमाभावाद् विद्यते वार्ऽथान्तरत्वाद् यमस्य
6.2.9
असति चाभावात्
6.2.10
सुखाद्रागः
6.2.11
तन्मयत्वाच्च
6.2.12
अदृष्टाच्च
6.2.13
जातिविशेषाच्च
6.2.14
इच्छाद्वेषपूर्विका धर्माधर्म प्रवृत्तिः
6.2.15
तत्संयोगो विभागः
6.2.16
आत्मकर्मसु मोक्षो व्याख्यातः
मूल पाठ: Vaiśeṣikasūtra · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0