भाषा

ENहिગુ
ग्रंथ पाठ

वैशेषिकसूत्र (अन्य संस्करण) · अध्याय 3.1

3.1.1

प्रसिद्धा इन्द्रियार्थाः

3.1.2

इन्द्रियार्थाप्रसिद्धिरिन्द्रियार्थेभ्योर्ऽथान्तरस्य हेतुः

3.1.3

सो ऽनपदेशः

3.1.4

कारणाज्ञानात्

3.1.5

कार्येषु ज्ञानात्

3.1.6

अज्ञानाच्च

3.1.7

अन्यदेव हेतुरित्यनपदेशः

3.1.8

अर्थान्तरं ह्यर्थान्तरस्यानपदेशः

3.1.9

संयोगि समवाय्येकार्थसमवायि विरोधि च

3.1.10

कार्यं कार्यान्तरस्य

3.1.11

विरोध्यभूतं भूतस्य

3.1.12

भूतमभूतस्य

3.1.13

भूतो भूतस्य

3.1.14

प्रसिद्धिपूर्वकत्वादपदेशस्य

3.1.15

अप्रसिद्धो ऽनपदेशो ऽसन् सन्दिग्धश्चानपदेशः

3.1.16

यस्माद्विषाणी तस्मादश्वः

3.1.17

यस्माद्विषाणी तस्माद्गौरितिचानैकान्तिकस्योदाहरणम्

3.1.18

आत्मेन्द्रियार्थसन्निकर्षाद्यन्निष्पद्यते तदन्यत्

3.1.19

प्रवृत्तिनिवृत्ती च प्रत्यगात्मनि दृष्टे परत्र लिङ्गम्

मूल पाठ: Vaiśeṣikasūtra · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc