वैखानसधर्मसूत्र · भाग 111
वैख् 01.01.(112.1)। अथ वर्ण.आश्रम.धर्मं
वैख् 01.01.(112.1-2)। ब्राह्मण.क्षत्रिय.वैश्य.शूद्रामुख.बाहु.ऊरु.पादेषु जाताश् चत्वारो वर्णा.
वैख् 01.01.(112.2-3)। यस्माद् ब्राह्मणो अस्य मुखम् \आसीद् इति श्रुतिः.
वैख् 01.01.(112.3-4)। पूर्वेषां त्रयाणां निषेक.आद्याः संस्कारा\विधीयन्ते.
वैख् 01.01.(112.4)। तेषां द्विजन्मनां वेद.अधिकारस्.
वैख् 01.01.(112.4-5)। तस्माद् ब्राह्मणस्य-अध्ययन.अध्यापन.यजन.याजन.दान.प्रतिग्रहाणि षट् कर्माणि \भवन्ति.
वैख् 01.01.(112.6)। क्षत्त्रिय.वैश्ययोर् यजन.अध्ययन.दानानि.
वैख् 01.01.(112.6-7)। क्षत्रियस्य प्रजा.पालय.दुष्ट.निग्रह.युद्धाः.
वैख् 01.01.(112.7)। वैश्यस्य पाशुपाल्य.कुसीद.वाणिज्यानि.
वैख् 01.01.(112.8)। शूद्रस्य द्विजमनां शुश्रूषा कृषिश् च-एव.
वैख् 01.01.(112.8-9)। ब्राह्मणस्य-आश्रमाश् चत्वारः क्षत्रियस्य-आद्यास् त्रयो वैश्यस्य द्वाव् एव.
वैख् 01.01.(112.9-10)। तद्.आश्रमिणश् चत्वारो ब्रह्मचारी गृहस्थोवानप्रस्थो भिक्षुर् इति.
वैख् 01.02.(112.11-13)। उपनीतो ब्रह्मचारीमेखला.उपवीत.अजिन.दण्ड.धारी स्नात्वा तर्पणं ब्रह्मयज्ञं सायं.प्रातः सन्ध्या.उपासन.समिद्द्.होमौ चकुर्वन् गुरोः पादाव् उपसंगृह्य नित्य.अभिवन्दी व्रतेन-अध्ययनं \करोति.
वैख् 01.02.(112.13-15) स्थिते गुरौ स्थेयाद् उत्थिते पूर्वम् उत्थायव्रजन्तम् \अनुगच्छेद्. आसीने शयाने च नियुक्तो नीचैर् अन्वासन.शयने \कुर्याद्.
वैख् 01.02.(112.15-16)अनुक्तो यत् किञ्चित् कर्म न-\आचरति.
वैख् 01.02.(112.16)। अनुक्तो-अपि स्वाध्याय.नित्यकर्माण्य् \आचरेद्.
वैख् 01.02.(112.16-113.3) उष्णाम्बुस्नान.दन्तधावन.अञ्जन.अनुलेपन.गन्ध.पुष्प.उपानट्.छत्र.दिवास्वाप.रेतःस्कन्द.स्त्रीदर्शन.स्पर्शन.मैथुनानिकाम.क्रोध.लोभ.मोह.मद.मात्सर्य.हिंसादीनि वर्जयित्वा सदाशुश्रूषुर् गुरोः प्रिय.हित.कर्माणि \कुर्वीत.
वैख् 01.02.(113.3)। अद्वेषी वाक्.चित्त.अनुकूलः प्रियं सत्यं \वदत्य्.
वैख् 01.02.(113.3-4)। आर्तो-अप्य् असत्य.अप्रियं निन्दं न-\आचक्षीत.
वैख् 01.02.(113.4-5) मधु.मांस.मत्स्य.रस.शुक्ताद्य्.अभोज्यभोजन.वर्जी भैक्ष.आचरणं \कृत्वा गुरुणा-अनुज्ञातो भैक्ष.अन्नम् \अश्नीयाद्.
वैख् 01.02.(113.5-6)। गुरु.वृद्ध.दीक्षितानाम् आख्यां न \ब्रूयाद्.
वैख् 01.02.(113.6-7) गुरु.अभावे तत्.पुत्रे च गुरुवत् कर्म-\आचरति.
वैख् 01.03.(113.8-9) ब्रह्मचारिणश् चतुर्विधा गायत्रो ब्राह्मःप्राजापत्यो नैष्ठिक-इति.
वैख् 01.03.(113.9-10)। गायत्र.उपनयनाद् ऊर्ध्वं त्रि.रात्रमक्षार.लवण.अशी गायत्रीम् \अधीत्य-आ सावित्र.व्रत.समाप्तेर् अत्र व्रतचारी.
वैख् 01.03.(113.10-14) ब्राह्मः सावित्र.व्रताद् ऊर्ध्वमनभिशस्त.अपतितानां गृहस्थानां गृहेषु भैक्ष.आचरणं वेद.व्रतचरणं च \कृत्वाद्वादश समा विंशति समा वा गुरु.कुले \स्थित्वा वेदान् वेदौ वेदं वा सूत्र.सहितमध्ययनं \कृत्वा गार्हस्थ्य.अनुसरणं \कुर्यात्.
वैख् 01.03.(113.14-15)। प्राजापत्यः \स्नात्वा नित्यकर्म.ब्रह्मचर्य.शीलो नारायण.परायणो वेद.वेदाङ्ग.अर्थान् \विचार्य दार.संग्रहणं \करोति.
वैख् 01.03.(113.15-16)। प्राजापत्ये त्रिसंवत्सराद् ऊर्ध्वं न \तिष्ठेदित्य् ऋषयो \वदन्ति.
वैख् 01.03.(113.16-114.3)। नैष्ठिकः काषायं धातु.वस्त्रम् अजिनंवल्कलं वा परिधाय जटी शिखी वा मेखली दण्डी सूत्र.अजिन.धारीब्रह्मचारी शुचिर् अ.क्षार.लवण.आशी यावद् आत्मनो विप्रयोगस् तावद् गुरु.कुले \स्थित्वानिवेदित.भैक्ष.भोजी \भवति.
वैख् 01.04.(114.4-7)। दारान् संगृह्य गृहस्थो-अपिस्नानादि.नियम.आचारो नित्यम् औपासनं \कृत्वा पाकयज्ञ.याजी वैश्वदेव.होमान्ते गृह.आगतं गुरुंस्नातकं च \प्रत्युत्थाय-\अभिवन्द्य-आसन.पाद्य.आचमनानि प्रदायघृत.दधि.क्षीर.मिश्रं मधुपर्कं च दत्त्वा-अन्नाद्यैर् यथाशक्ति \भोजयति.
वैख् 01.04.(114.7-10)। भिक्षून् ब्रह्मचारिणो-अतिथीन् वेदविदः श्रोत्रियान् पितृव्य.आचार्य.ऋत्विज्.मातुल.श्वशुर.आदीन् अभ्यागतान् बाल.वृद्धान् अनाथ.आर्त.अध्वश्रान्तांश् च यथार्थं \पूजयत्य्.
वैख् 01.04.(114.10)। अशक्तो-अप्य्-अग्रं भिक्षां वा स.उदकं दत्त्वाशेषं \भुञ्जीत).
वैख् 01.04.(114.11-13) दया.सत्य.शौच.आचार.युतःस्वाध्याय.तर्पणाभ्याम् ऋषीन् यज्ञ्न.बलि.होम.जल.पुष्प.आद्यैर् देवान् श्राद्धैः पुत्रैश् च पितृऋन्बलिना भूतान् अन्नाद्यैर् मनुष्यांश् च नित्यम् \अर्चयेद्.
वैख् 01.04.(114.13)। ऋण.त्रयेण मुक्तो-अनृणो \भवति).व्क्ःङ्ष्.08.05.(114.14)। गृहस्थाश् चतुर्विधा वार्ता.वृत्तिः शालीन.वृत्तिर्यायावरो घोर.आचारिकश् च-इति.व्क्ःङ्ष्.08.05.(114.14)। वार्ता.वृत्तिः कृषि.गोरक्ष्य.वाणिज्य.उपजीवी.व्क्ःङ्ष्.08.05.(114.14-15) शालीन.वृत्तिर् नियमैर् युतः पाकयज्ञैर्\ष्ट्वा-अग्नीन् \अधाय पक्षे पक्षे दर्शपूर्णमास.याजी चतुर्षु चतुर्षु मासेषु
चातुर्मास्य.याजीषट्सु षट्सु मासेषु पशुबन्ध.याजी प्रति.संवत्सरं सोम.याजी च.व्क्ःड्ष्.01.05.(115.1-3)। यायावरो हविर्यज्ञैः सोमयज्ञैश् च \यजते\याजयत्य् अधीते-\अध्यापयति ददाति \प्रतिगृह्णाति षट्.कर्म.निरतो नित्यमग्नि.परिचरणम् अतिथिभ्यो-अभ्यागतेभ्यो-अन्नाद्यं च \कुरुते).व्क्ःड्ष्.01.05.(115.3-7)। घोर.आचारिको नियमैर् युक्तो \यजते) न\याजयत्य्)
अधीते न-\अध्यापयति ददाति) न \प्रतिगृह्णात्य्) उञ्च्छ.वृत्तिम् \उपजीवति)नारायण.परायणः सायं.प्रातर् अग्निहोत्रं \हुत्वा मार्गशीर्ष.ज्येष्ठ.मासयोर् असिधारा.व्रतंवन.ओषधिभिर् अग्नि.परिचरणं \करोति).
वैख् 01.06.(115.8-11)। गृहस्थः स.पत्नीकः पञ्चाग्निभिस् त्रेताग्निभिर्वा गृहाद् वन.आश्रमं \यास्यन्न् आहित.अग्निर् अनाहित.अग्निश् च-औपासनम् अरण्याम्\आरोप्य गृहे \मथित्वा श्रामणकीय.विधानेन-\आधाय-आघारं \हुत्वाश्रामणक.अग्निम् \आदाय तृतीयम् आश्रमं \गच्छेत्).
वैख् 01.06.(115.11-12)। पूर्ववद् अग्नि.आलय.प्रोक्षण.उल्लेखन.आदिकर्म \कुर्यात्).
वैख् 01.06.(115.12-14) तृतीयाम् अपि वेदिं \परिमृज्य षड्.अङ्गुल.अग्नेर्दर्भैर् ग्रथिते-अधस् त्रिधा.कृतं रज्जुवत्- मूले बद्धं षट्त्रिंशद् अङ्गुल.प्रमाणंपरिस्तरण.कूर्चं कृत्वा मध्यवेद्यां \परिस्तृणाति) श्रामणकं.
वैख् 01.06.(115.15-17)। श्रामणक.यज्ञं यज्ञदैवविश्वान् देवानित्य्-अन्तम् \आवाह्य-आज्यं निरूप्य श्रामनकाय स्वाहा श्रामणक.यज्ञाय स्वाहायज्ञदैवतविश्वेभ्यो देवेभ्यः स्वाहा-इत्य् अन्तं \हुत्वा चरुं \जुहुयाद्) इत्य् आधार.विशेषः.
वैख् 01.06.(115.18-116.1) श्रामणक.अग्नेश् च-ऊर्ध्व.वेदिर्द्वात्रिंशद्.अङ्गुलि.आयता चतुर्.अङ्गुलि.विस्तार-उन्नता.
वैख् 01.06.(116.1-2)। मध्यमा तत्.परिगता पञ्च.अङ्गुलि.विस्ताराचतुर्.अङ्गुल.उत्सेधा.
वैख् 01.06.(116.2)। अधस्ताद् ऊर्ध्व.वेदि.विस्तार.उन्नता तृतीया वेदिर्.
वैख् 01.06.(116.2-5)। द्वादश.अङ्गुलं मध्ये निम्नं त्रि.वेदि.सहितंकुण्डं कृत्वा-\आधाय वनस्थो नित्यम् औपासनवत् सायं.प्रातर्.आहुतीर् \हुत्वा महाव्याहृतिभिः श्रामणक.अग्निं \जुहुयाद्).
वैख् 01.06.(116.5)। पत्नीको दारैर् अग्निभिर् विना वनं \गच्छेत्).
वैख् 01.07.(116.6)। वानप्रस्थाः स.पत्नीका-अ.पत्नीकाश् च-इति.
वैख् 01.07.(116.6-7)। स.पत्नीकाश् चतुर्विधा.
वैख् 01.07.(116.7)। औदुम्बरो वैरिञ्चो वालखिल्यः फेनपश् च-इति.
वैख् 01.07.(116.7-11) औदुम्बरो-अकृष्ट.फल.अवाप्य.ओषधि.भोजी मूल.फल.आशी वाअण.हिङ्गु.लशुन.मधु.मत्स्य.मांस.पूत्यन्न.धान्य.अम्ल.परस्पर्शन.परपाक.वर्जी देव.ऋषि.पितृ.मनुष्य.पूजी वन.चरो ग्राम.बहिष्कृतःसायं.प्रातर्.अग्निहोत्रं \हुत्वा श्रामणक.अग्नि.होमं वैश्वदेव.होमं \कुर्वंस् तपः \समाचरति).
वैख् 01.07.(116.12)। श्रामणक.अग्निम् एकम् एव-आधाय \जुहोति)-इत्य् एके.
वैख् 01.07.(116.12-15)। वैरिञ्चः प्रात्र्यां दिशं \प्रेक्षते तां दिशं\गत्वा तत्र प्रियङ्गु.यव.श्यामाक.नीवार.आदिभिर् लब्धैः स्वकीयान् अतिथींश् चपोषयित्वा-अग्निहोत्र.श्रामणक.वैश्वदेव.होमी नारायण.परायणस् तपः.शीलो\भवति).
वैख् 01.07.(116.15-17) वालखिल्यो जटा.धरश्चीर.वल्कल.वसनो-अर्क.अग्निः कार्त्तिक्यां पौर्णमास्यां पुष्कलं भुक्तम् \उत्सृज्य-अन्यथा शेषान् मासान् उपजीव्यतपः \कुर्यात्).
वैख् 01.07.(116.18)। अस्य सूर्य-एव-अग्निर् \भवति)-इत्य् \आमनन्ति).
वैख् 01.07.(116.18-117.2)। फेनप उद्.दण्डक उन्मत्तको निरोधकः शीर्ण.पतित.पत्त्र.आहारी चान्द्रायण.व्रतं चरन् पृथिवी.शायीनारायणं \ध्यायन् मोक्षम् एव \प्रार्थयते).
वैख् 01.08.(117.3)। अ.पत्नीका बहुविधाः.
वैख् 01.08.(117.3-11)) काल.अशिका उद्दण्ड.संवृत्ता अश्म.कुट्टा उदग्र.फलिनो दन्त.उलूखलिका उञ्छ.वृत्तिकाः संदर्शन.वृत्तिकाः कपोत.वृत्तिकामृग.चारिका हस्त.आदायिनः शैल.फलक.आदिनो-अर्क.दग्ध.अशिनो बैल्व.अशिनःकुसुम.अशिनः पाण्डु.पत्त्र.अशिनः काल.अन्तर.भोजिन एक.कालिकाश् चतुष्.कालिकाःकण्टक.शायिनो वीरासन.शायिनः पञ्चाग्नि.मध्य.शायिनो
धूम.अशिनःपाषाण.शायिनो-अभ्यवगाहिन उदकुम्भ.वासिनो मौनिनश् च-अवाक्.शिरसः सूर्य.प्रतिमुखा ऊर्ध्व.बाहुका एक.पाद.स्थिताश् च-इति विविध.आचारा \भवन्ति)-इति \विज्ञायते).
वैख् 01.09.(117.12-13)। अथ भिक्षुका मोक्ष.अर्थिनः कुटीचकाबहु.उदका हंसाः परमहंसाश् च-इति चतुर्विधा \भवन्ति).
वैख् 01.09.(117.13-15)तत्र कुटीचका गौतम.भारद्वाज.याज्ञवल्क्य.हारीत.प्रभृतीनाम् आश्रमेष्व् अष्टौ ग्रासांष् चरन्तो योगमार्ग.तत्त्वज्ञा मोक्षम् एव\प्रार्थयन्ते).
वैख् 01.09.(117.15-118.1) बहु.उदकास् त्रिदण्ड.कमण्डलु.काषाय.धातु.वस्त्र.ग्रहण.वेष.धारिणो ब्रह्मर्षि.गृहेषु च-अन्येषु साधु.वृत्तेषु मांस.लवण.पर्युषित.अन्नं वर्जयन्तः सप्त.अगारेषुभैक्षं \कृत्वा मोक्षम् एव \प्रार्थयन्ते).
वैख् 01.09.(118.1-4)। हंसा नाम ग्रामे च-एकरात्रं नगरेपञ्चरात्रं वसन्तस् तद्.उपरि न वसन्तो गोमूत्र.गोमय.आहारिणो वा मास.उप्वासिनो वानित्य.चान्द्रायण.व्रतिनो नित्यम् उत्थानम् एव \प्रार्थयन्ते).
वैख् 01.09.(118.4-5) परमहंसा नाम वृक्ष.एकमूले शून्य.अगारेश्मशाने आ वासिनः स.अम्बरा दिग्.अम्बरा वा.
वैख् 01.09.(118.5-6)। न तेषां धर्म.अधर्मौ सत्य.अनृतेशुद्धि.अशुद्धि.आदि द्वैतं.
वैख् 01.09.(118.6-7)। सर्व.समाः सर्व.आत्मनः सम.लोष्ट.काञ्चनाःसर्व.वर्णेषु भैक्ष.आचरणं \कुर्वन्ति).
वैख् 01.09.(118.7-8)। ब्राह्मणानां चातुराश्रम्यं क्षत्रियाणांत्रय.आश्रम्यं वैश्यानां द्वि.आश्रम्यं विहितं.
वैख् 01.09.(118.8-9)। तत्.फलं हि स.कामं निष्.कामं च-इति द्विविधं\भवति).
वैख् 01.09.(118.9-11) स.कामं नाम-इह संसारे-अभिवृद्धिं \ज्ञात्वा पुत्र.लाभ.आदि.अभिकाङ्क्षणम् अन्यत् स्वर्ग.आदि.फल.काङ्क्षणं वा.
वैख् 01.09.(118.11-12)। निष्.कामं नाम किञ्चिद् \अन्.अभिकाङ्क्ष्य यथाविहित.अनुष्ठानम् इति.
वैख् 01.09.(118.12-13)। तत्र निष्.कामम् द्विविधं भवति प्रवृत्तिर्निवृत्तिश् च-इति.
वैख् 01.09.(118.13-15)। प्रवृत्तिर् नाम संसारम् \अन्.आदृत्यसङ्ख्य.ज्ञानं \समाश्रित्य प्राणायाम.आसन.प्रत्याहार.धारणा.युक्तो वायु.जयं \कृत्वा-अणिम.आद्य्.ऐश्वर्य.प्रापणं.
वैख् 01.09.(118.15-119.1) तत् पुनर् अपि तपः.क्षयाज् जन्म.प्रापकत्वाद्व्याधि.बाहुल्याच् च न-\आद्रियन्ते) परमर्षयो.
वैख् 01.09.(119.1-6)। निवृत्तिर् नाम लोकानाम् अनित्यत्वं \ज्ञात्वा परमात्मनो-अन्यन् न किञ्चिद् अस्ति-इति संसारम् \अनादृत्य \च्छित्वा भार्या.मयं पाशंजित.इन्द्रियो \भूत्वा शरीरं \विहाय क्षेत्रज्ञ.परमात्मनोर् योगं \कृत्वा-अतीन्द्रियंसर्वजगद्.बीजम् अशेष.विशेषं नित्य.आनन्दम् अमृत.रस.पानवत् सर्वदा तृप्त्.करं परं ज्योतिःप्रवेशकम् इति \विज्ञायते).
वैख् 01.10.(119.7-8) निवृत्ति.आचार.भेदाद्द्-हि योगिनस् त्रिविधा\भवन्ति) सारङ्गा एक.अर्थ्या विसरगाश् च-इति.
वैख् 01.10.(119.8-9)। अ.निरोधका निरोधका मार्ग.गा विमार्ग.गाश्च-इति चतुर्विधा सारङ्गा.
वैख् 01.10.(119.9-10)। दूर.गा अदूर.गा भ्रूमध्य.गा अ.संभक्ताःसंभक्ताश् च-इत्य् एक.अर्थ्याः पञ्चधा \भवन्ति).
वैख् 01.10.(119.10-11)। न सङ्ख्यावन्तो विसरगास्.
वैख् 01.10.(119.11-13)। तत्र सारङ्गाः सारं क्षेत्रज्ञस् तं\गच्छन्ति)-इति सारङ्गास् तेष्व् अ.निरोधका अहं विष्णुर् इति \ध्यात्वा ये \चरन्ति) तेषांप्राणायाम.आदयो न \सन्ति).
वैख् 01.10.(119.13-14)। ये तु निरोधकास् तेषां प्राणायाम.प्रत्याहार.धारणा.आदयः षोडश कलाः \सन्ति).
वैख् 01.10.(119.14-15)। ये मार्ग.गास् तेषां षड् एव प्राणायाम.आदयो.
वैख् 01.10.(119.15-17) ये विमार्गास् तेषां यम.नियम.आसन.प्राणायाम.प्रत्याहार.धारणा.ध्यान.समाधयश्च-इत्य् अष्ट.अङ्गान् \कल्पयन्तो ध्येयम् अप्य् अन्यथा \कुर्वन्ति).
वैख् 01.11.(120.1)। अथ-एकार्ष्या.
वैख् 01.11.(120.1)। एक एव-ऋषिर् येषां ते एकार्ष्यास्.
वैख् 01.11.(120.1-2)। तेषु ये दूर.गास् तेषाम् अयं मार्गः.
वैख् 01.11.(120.2-5)। पिङ्गलया नाडिकया-आदित्य.मण्डलम् \अनुप्रविश्यतत्र.स्थेन पुरुषेण \संयुज्य ततश् चन्द्र.मण्डलं तत्र.स्थेन पुरुषेण ततोविद्युतं तत्र.स्थेन पुरुषेण पुनः क्रमेण वैकुण्ठ.सायुज्यं \यन्ति).
वैख् 01.11.(120.5)। ये-अदूर.गास् तेषाम् अयं धर्मः.
वैख् 01.11.(120.5-7) क्षेत्रज्ञ.परमात्मनोर् योगं क्षेत्रज्ञ.द्वारेण\कारयित्वा तत्र-एव समस्त.विनाशं ध्यात्वा-आकाशवत् सत्ता.मात्रो-अहम् इति \ध्यायन्ति).
वैख् 01.11.(120.7-10)। भ्रूमध्य.गाः क्षेत्रज्ञ.परमात्मनोर् योगे सत्त्व.रूप.अग्नि.द्वारेण भ्रूमध्यं नीत्वा पञ्चभ्यो-अङ्ग्ष्ट.आदिभ्यःस्थानेभ्य-आकर्षणं पुनः पिङ्गला.द्वारेण निष्क्रमणं प्रलय.अन्तंक्षेत्रज्ञ.योगान्तं वा \कुर्वन्ति).
वैख् 01.11.(120.10-11)। अ.संभक्ता नाम मनसा ध्यानं \कुर्वन्ति).
वैख् 01.11.(120.11)। तत्.प्रतिपादन.आगमं श्रोत्रेण \शृण्वन्ति).
वैख् 01.11.(120.11-12)। चक्षुषा देवता.अकारं \पश्यन्ति).
वैख् 01.11.(120.12)। घ्राणेन गन्धम् \अनुभवन्ति).
वैख् 01.11.(120.12-13)। पाणिना देवतां \नमस्कुर्वन्ति).
वैख् 01.11.(120.13-14)। संभक्ता नाम ब्राह्मणः सर्व.व्यापकत्वाद्युक्तम् अयुक्तं यो-असौ परमात्मा तत् स व्याप्य-आकाशवत् \तिष्ठति).
वैख् 01.11.(120.15) तस्माद् ब्रह्मणो-अन्यन् न कुत्रचिद् आत्मानं\प्रतिपद्यते)-असौ.
वैख् 01.11.(120.16)। भ्रूमध्य.गतस्य-अपि संशयान् निष्प्रमाणमेव-इत्य् उक्तं.
वैख् 01.11.(120.16-121.1)। तस्माद् ब्रह्म.व्यतिरिक्तम् अन्यन् न-\उपपद्यते).
वैख् 01.11.(121.1-2)। विविध.सरणाद् विविध.दर्शनात्कुपथ.गामित्वाद् विसर.गाः.
वैख् 01.11.(121.2-3)। पुरा प्रजापतिर् उपदेश.गूहन.अर्थंविसरग.पक्षं दृष्टवान्.
वैख् 01.11.(121.3)। तं दृष्ट्वा मुनयो-अपि मोहं \जग्मुः) किं पुनर् मनुष्याः.
वैख् 01.11.(121.4) विसरग.पशूनाम् अहंकार.युक्तानां जन्म.अन्तरेषुमुक्तिर् न-अस्मिञ् जन्मनि.
वैख् 01.11.(121.5)। तस्माद् विसरग.पक्षो न-अनुष्ठेयो.
वैख् 01.11.(121.5-8)। केचिद् विसर्गाः काय.क्लेशात् केचिन् मन्त्र.जपात्केचिद् येन केनचिद् ध्यानेन केचिद् येन केनचिद् अक्षरेण केचिद् वायु.जयाद् अन्ये परमात्मनाक्षेत्रजं संयोज्य \ध्यायन्त्य्) एते परमात्म.संयोगम् एव न-\इच्छन्ति).
वैख् 01.11.(121.8-9)। हृदि.स्थ-एव पुरुष-इति \वदन्ति).
वैख् 01.11.(121.9-10)। केचिन् न किञ्चिद् ध्यानम् इतियथा.उक्त.अनुष्ठानं योगम् इति ज्ञात्वा मुक्तिम् \इच्छन्ति).
वैख् 01.11.(121.10-11)। तेषां विसरग.पशूनांअन्तरेषु मुक्तिर् न-अस्मिञ् जन्मनि.
वैख् 01.11.(121.11-12)। तस्मिन्न् एव जन्मनि मोक्ष.काङ्क्षिणाविसरग.पक्षो न-अनुष्ठेयः.
वैख् 01.11.(121.12-15)। स.गुणे ब्रह्मणि बुद्धिं निवेश्यपश्चात्-निर्.गुणं ब्रह्म-आश्रित्य यत्नं कुर्याद् इति \विज्ञायते).
वैख् 02.01.(122.1)। अथ वनस्थस्य श्रामणक.विधानं.
वैख् 02.01.(122.1-3)। गृहस्थः सोमयाजी पुत्रं पौत्रं च दृष्ट्वातत्.पुत्र.आदीन् गृहे संस्थाप्य मौण्ड्यं कृत्वा प्राजापत्यं कृच्छ्रं \चरेत्).
वैख् 02.01.(122.3-4) वसन्ते शुक्ल.पक्षे पुण्य.क्षेत्रे पत्न्या सार्धंवन.आश्रमं \याति).
वैख् 02.01.(122.4-5)। पूर्वस्मिन् दिवसे कृत.स्नानः संकल्प्यकुश.उदकं पीत्वा-उपवासं \कुर्याद्).
वैख् 02.01.(122.5-6) औपासन.होमं हुत्वा-अग्नि.मयं ते योनिर् इत्यरण्याम् \आरोपयेद्).
वैख् 02.01.(122.6-8)। दर्शपूर्णमास.विधानेन दर्भ.आदीन् संगृह्यपूर्ववत् परिस्तरण.कूर्चान् परिधीन् समिधोवेणु.दण्ड.उपवीत.कमण्डलु.वल्कल.आदीन् \संभरति).
वैख् 02.01.(122.8)। पूर्व.उक्त.विधिना-अग्नि.कुण्डं \कुर्याद्).
वैख् 02.01.(122.8-10) अपरस्मिन् दिवसे वैश्वानर.सूक्तेन-अग्निंमथित्वा प्रज्वाल्य-अग्न-\आयाह्य्)। उपावरोह-इत्य् अग्निं निधाय पूर्ववत्- श्रामणक.अग्नि.आघारं \जुहोति).
वैख् 02.01.(122.10-13)। प्रणम्य-अग्निं परिषिच्य-अग्ने प्रायश्चित्ते त्वम् इति पञ्च.प्रायश्चित्तं हुत्वा-अपो.हिरण्य.अवमानैर् आत्मानं प्रोक्ष्यब्रह्म.दैवत्यं वैष्णवं पञ्च.वारुणं च प्रधानान् व्याहृति.अन्तं \यजेत्).
वैख् 02.02(122.14-17)। अग्नेः प्रतीच्यां द्वौ कुशौ पूर्व.अग्रौन्यस्य-ऊर्ध्वे-अश्मानं निधाय तत् सवितुर् वरेण्यम् इति दक्षिणपाद.अङ्गुष्ठाग्रेण-अश्मानम्\अधितिष्ठेत्) तेजो.वत्सव इति\ओन् थे रेअदिन्ग् ओf थे मन्त्र, च्f. चल् प्.122न्.4) वल्कलम् अजिनं चीरंवा परिधाय पूर्ववन् मेखला.आदींस् त्रीण्य् उपवीतान्य् उत्तरीयं कृष्णाजिनं च-\आददात्य्).
वैख् 02.02(122.17-123.1) आचम्य स्वस्ति देव-इति- अग्निं प्रदक्षिणंप्रणामं च कृत्वा-\आसीत).
वैख् 02.02(123.1-3)। शं नो वेदीर् इति स्व.मूर्ध्नि प्रोक्ष्य जयानभ्यातानान् राष्ट्रभृतो व्याहृतीश् च हुत्वा-आज्य.शेषं प्राणायामेन \प्राश्नीयाद्) .
वैख् 02.02(123.3-5)। योगे योग इति द्विर् आचम्य शतम् इन् नु शरद-इतिप्रणामम् आगन्त्रा समगन् महि-इति प्रदक्षिणं च-आदित्यस्य \कुर्वीत).
वैख् 02.02(123.5-6)। राष्ट्रभृद्-असि-इति- ऊर्ध्व-अग्रं कूर्चं \गृह्णीयात्).
वैख् 02.02(123.6-10)। ओं भूस् तत् सवितुर् ओं भुवो भर्गो देवस्योंसुवर्धियो यो न इति पच्छो व्यस्ताम् ओं भूर् भुवस् तत् सवितुर् ओं सुवर्धियो यो न इत्य् अर्धर्चाम् ओं भूर् भुवः सुवस् तत् सवितुर् इति समस्तां चसावित्रीं जप्त्वा वनाश्रमं प्रविश्य ब्रह्मचर्य.व्रतं \संकल्पयेत्).
वैख् 02.03(123-11)। तत्.पत्नी च तथा ब्रह्मचारिणी \स्यात्).
वैख् 02.03(123.11-14) स्वयम् एव-अग्निं प्रदक्षिणीकृत्य-आज्येन प्राजापत्यं धाता.आदीन् मिन्द.आहुती विच्छिन्नम् ऐन्द्रं वैश्वदेवं वैश्णवं बाह्यं विष्णोर्नुक.आदीन् प्राजापत्य.सूक्तं तद्.व्रत.बन्धं च पुनः प्रधानान् हुत्वाप्राजापत्य.व्रतं \बध्नाति).
वैख् 02.03(123.14-16)। स्थित्वा देवस्य त्वा यो मे दण्ड इति द्वाभ्यां पञ्च.सप्त.नव.अन्यतमैः पर्वभिर् युक्तं केशान्त.आयतंवा-अप्य्-अवक्रं वैष्णवं द्वि.दण्डम् \आददाति).
वैख् 02.03(123.16-17)। येन देवा इति कमण्डलु.मृद्.ग्रहिण्यौ पूर्ववदुपानट्.छत्रे च \गृह्णात्य्).
वैख् 02.03(123.17-20)। अग्नीन् गार्हपत्य.आदीन्-च-उज्ज्वाल्य-अग्निहोत्रंहुत्वा-आहवनीये प्राजापत्यं विष्णु.सूक्तं च सर्वत्र-अग्नये स्वाहा सोमाय विष्णवेस्वाहा-इति हुत्वा-अग्नीन् अरण्याम् \आरोपयति).
वैख् 02.03(123.20-124.1) वने-अद्रौ विविक्ते नदी.तीरे वनाश्रमंप्रक्ल्प्य यथा.उक्तम् अग्निकुण्डानि \कुर्यात्).
वैख् 02.03(124.1-2)। पत्न्या सह-अग्नीन् आदायपात्रादि.संभार.युक्तो वनाश्रमं \समाश्रयति).अव्क्ःड्ःष् 02.04(124.3-4)। अग्न्यायतने प्रोक्ष्य खनित्वा लेखाः षड् उल्लिख्यसुवर्ण.शकलं व्रीहींश् च निधाय श्रामणक.अग्निं \निदध्यात्).
वैख् 02.04(124.4-7) वन्यान् एव पार्थिवान् वानस्पत्यान्कुलीर.उद्घात.अञ्छणान् पुराणान् कुश.दर्भान् ऊर्णा.स्तुकां प्लक्ष.अग्रं सुगन्धि.तेजनं गुग्गुलुं हिरण्य.शकलान् सूर्य.कान्तं च \संभरति).
वैख् 02.04(124.7-9)। वानप्रस्थान् ऋत्विजो वृत्वा-अग्निं मथित्वागार्हपत्य.आदींस् त्रेता.अग्नीन् पञ्च.अग्नीन् वा-अग्न्याधेय.क्रमेण-आधाय-आहुती द्वे द्वेहुत्वा नित्यं द्वि.कालं वन्यैर् एव \जुहोति).
वैख् 02.04(124.9-12)। वनाश्रमी मुनिः स्नान.शौच.स्वाध्याय.तपो.दान.इज्या.उपवास.उपस्थनिग्रह.व्रत.मौनानि-इति नियमान् दश-एतान्सत्य.आनृशंस्य.आर्जव.क्षमा.दम.प्रीति.प्रसाद.मार्दव.अहिंसा.माधुर्याणि-इति यम.अन्दशामूंश् च \समाचरति).
वैख् 02.04(124.12-15)। भक्त्या विष्णुंध्यायन्न्-अग्निहोत्र.श्रामणक.अग्निहोमौ द्वि.कालं न-उत्सृजन् ग्राम्य.अशनं त्यक्त्वा वन्य.ओषधीः फलं मूलंशाकं वा नित्य.अशनं संकल्प्य तिरोधा भूर् इत्य्-आहृत्य- अपराह्णे स्वयं पत्नीवा हविष्यम् आस्रावितं \पचति).
वैख् 02.04(124.16)। वैश्वदेव.अन्ते-अथितीन् अभ्यागतान् प्राशयित्वामितं \प्राश्नाति).
वैख् 02.05.(125.1)। रात्रौ न-\अश्नीयाद्).
वैख् 02.05.(125.1-2)। अधस्ताद् दर्भांस् तृणानि पर्णानि वा-आस्तीर्यसु.व्रतः सु.व्रतां पत्नीं विना-एकः \शयीत).
वैख् 02.05.(125.2-3)। सा-अस्य शुश्रूषां \करोत्य्). एनां न-\उपगच्छेत्).
वैख् 02.05.(125.3)। मातृवन् निष्.कामः प्रेक्षेत-ऊर्ध्व.रेता जित.इन्द्रियो.
वैख् 02.05.(125.4-5)। दर्शपूर्णमासौ चातुर्मास्यं नक्षत्र.इष्टिमाग्रयण.इष्टिं च वन्य.ओषधीभिः पूर्ववद् \यजेद्) अनुक्रमान्.
वैख् 02.05.(125.5-7)। मूलैः फलैः पत्त्रैः पुष्पैर् वातत्.तत्.कालेन पक्वैः स्वयम् एव संशीर्णैः प्राणं प्रवर्तयन्न् उत्तर.उत्तरे-अप्य् अधिकं तपः.संयोगंफलादि.विशिष्तम् \आचरेद्).
वैख् 02.05.(125.7-10)। अथ वा-आहिताग्निः सर्वान् अग्नीन् अरण्यामारोप्य सर्वैः संवाप.मन्त्रैः पार्थिवान् वानस्पत्यांश् च सर्वान् समूह्यनिर्मन्थ्य-एतेन विधिना-अग्निम् अग्न्याधेय.विधानेन च मन्त्रैः सर्वैः सभ्याग्न्य्.आयतनेश्रामणक.अग्निम् आधाय-\आहरेत्).
वैख् 02.05.(125.10)। सभ्यस्य भेदः श्रामणक.अग्निर् इत्य् \आहुः).
वैख् 02.05.(125.10-13)। अ.पत्नीकश् च भिक्षुवद् अग्नौ होमंहुत्वा-अरण्यादि.पात्राणि च प्रक्षिप्य पुत्रे भार्यां निधाय तथा-अग्नीन् आत्मन्य् आरोप्यवल्कल.उपवीत.आदीन् भिक्षा.पात्रं च संगृह्य- अन्.अग्निर् अ.दारो गत्वा वने \निवसेत्).
वैख् 02.05.(125.13-15)। तपसां श्रमणम् एतन् मूलं तस्माद् एतद्विधानम् एनम् अग्निं च श्रामणकम् इत्य् \आह) विखनाः.
वैख् 02.06.(125.16-17)। संन्यास.क्रमं. सप्तत्य्.ऊर्ध्वंवृद्धो-अन्.अपत्यो विधुरो वा जन्म.मृत्यु.जरा.आदीन् विचिन्त्य योग.अर्थी यदा \स्यात्) तद्.
वैख् 02.06.(125.17-18)। अथ वा पुत्रे भार्यां निक्षिप्य परमात्मनिबुद्धिं निवेश्य वनात् संन्यासं \कुर्यात्).
वैख् 02.06.(125.19-126.4)। मुण्डितो विधिना स्नात्वा ग्रामाद् बाह्येप्राजापत्यं चरित्वा पूर्वाह्णे त्रि.दण्डं शिक्यं काषायं कमण्डलुम् अप्.पवित्रं मृद्.ग्रहणीं भिक्षा.पात्रं च संभृत्य त्रिवृतं प्राश्य- उपवासंकृत्वा दिने-अपरे प्रातः स्नात्वा-अग्निहोत्रं वैश्वदेवं च हुत्वा वैश्वानरं द्वादश.कपालं \निर्वपेत्).
वैख् 02.06.(126.4-6)। गार्हपत्य.अग्नाव् आज्यं संस्कृत्य-आहवनीयेपूर्ण.आहुती पुरुषसूक्तं च हुत्वा-अग्नये सोमाय ध्रुवाय ध्रुव.करणाय परमात्मने नारायणाय स्वाहा-इति \जुहोति).
वैख् 02.07.(126.7-8)। स्रुचि स्रुवेण चतुर् गृहीतं गृहीत्वा सर्व.अग्निष्वों स्वाहा-इति \जुहुयाद्).
वैख् 02.07.(126.8-9)। अग्निहोत्रहवणीम् आहवनीये मृत्.शिलामयेभ्यो-अन्यानि पात्राणि गार्हपत्ये \प्रक्षिपति).
वैख् 02.07.(126.9-10)। गृहस्थो-अनाहिताग्निर् औपासने वनस्थश् चश्रामणक.अग्नौ होमं हुत्वा पात्राणि \प्रक्षिपेत्).
वैख् 02.07.(126.10-12)। पच्छो-अर्धर्चशो व्यस्तां समस्तां चसावित्रीं जप्त्वा भिक्षाश्रमं प्रविशामि-इति तं \प्रविशति).
वैख् 02.07.(126.12-14) अन्तर् वेद्यां स्थित्वा गार्हपत्य.आदीन् या तेअग्ने यज्ञिय-इति प्रत्येकं त्रिर् आघ्राय भवतं नः स.मनसाव् इत्य् आत्मन्य् \आरोपयेत्).
वैख् 02.07.(126.14-16)। भूर् भुवः सुवः संन्यस्तं मया-इति त्रिरुपांशु-उच्चैश् च प्रैषम् उक्त्वा दक्षिण.हस्तेन सकृत्-जलं पीत्वा-आचम्य तथा-एव-उक्त्वा त्रिर् जल.अञ्जलिं \विसृजेन्).
वैख् 02.07.(16-17)। मेखलां चत्वार्य् उपवीतान्य् एकं वा-उपवीतंकृष्णाजिनम् उत्तरीयं च पूर्ववद् \ददाति).
वैख् 02.08.(126.18-20)। देवस्य त्वा यो मे दण्डः सखा मे गोपाय-इतित्रिभिस् त्रि.दण्डं यद् अस्य पारे रजस इति शिक्यं येन देवाः पवित्रेण- इत्य् अप्पवित्रं येनदेवा ज्योतिष-इति कमण्डलु.मृद्.ग्रहण्याव् \आददीत).
वैख् 02.08.(127.1)। स्नात्वा-अघमर्षण.सूक्तेन-अघमर्षणं कुर्यात्
वैख् 02.08.(127.1-3)। आचम्य षोडच प्राणायामान् कृत्वा सहस्रं शतं वा सावित्रीं जप्त्वा तथा भिक्षा.पात्रम् अलाबु दारवं मृन्.मयं वा\गृह्णाति).
वैख् 02.08.(127.3-5) प्रणव.आद्य्.आदिभिः\च्f.चल् प्.127न्.2) पृथक् पृथक् सप्त.व्याहृतिभिस् तर्पयामि- इति देवेभ्यो जले-अद्भिस् तर्पयित्वा-आद्याभिश् चतसृभिःस्वधा-इति पितृभ्यस् तर्पयेत्
वैख् 02.08.(127.5-6)। उद् वयं तमस इत्य् आदित्यम् \उपतिष्ठेत).
वैख् 02.08.(127.6-7)। जल.अञ्जलिं विसृज्य-अभयं सर्वभूतेभ्यो \दद्याद्).
वैख् 02.08.(127.7-8)। अध्यात्म.रतो यतिर् भिक्षा.अशी नियम.यमांश् चसमाचरन् संयत.इन्द्रियो ध्यान.योगेन परमात्मानम् \ईक्षते).
वैख् 02.09.(127.9)। धर्म्यं सद्.आचारं.
वैख् 02.09.(127.9-11) निवीती दक्षिणे कर्णे यज्ञ.उपवीतंकृत्वा-उत्कटिकम् आसीनो- अहन्य् उदङ्.मुखो रात्रौ दक्षिणा.मुखस् तृणैर् अन्तरिते मूत्र.पुरीषे \विसृजेन्)-.
वैख् 02.09.(127.11-12)। नद्यां गोष्ठे पथि छायायां भस्मन्य् अप्सुकुशे दर्भे वा न- \आचरेत्).
वैख् 02.09.(127.12-13) गो.विप्र.उदक.अग्नि.वायु.अर्क.तारा.इन्दून् नपश्यन् \कुर्यात्).
वैख् 02.09.(127.13-16) वाम.हस्तेन लिङ्गं संगृह्य-उत्थाय-उदकस्यपार्श्वे तथा- आसीनो ब्रह्मचारी गृहस्थो-अपि शिश्ने द्विर् हस्तयोश् च द्विर्.द्विर् गुदेषट्कृत्वस्- मृदं दत्त्वा-उद्धृतैर् एव जलैः शौचं \कुर्यात्).
वैख् 02.09.(127.16-17)। करं वामं दश कृत्वः कराव् उभौ च तथामृदा-अद्भिः \प्रक्षालयेत्).
वैख् 02.09.(127.17)। वनस्थस्य भिक्षोश् च-एतद् द्वि.गुणं \भवति).
वैख् 02.09.(127.17-18)। रात्रौ यथा.उक्त.अर्धं वा.
वैख् 02.09.(127.18-128.1)। रेतो.विसर्गे मूत्रवत्-शौचं कर्तव्यं.रेतसस् त्रिर् इत्य् एके.
वैख् 02.09.(128.1-3)। स.उपवीती प्राङ्.मुख उदङ्.मुखोवा-अन्यत्र-आसित्वा मृदा-अम्बुना पूर्ववत् पादौ पाणी च प्रक्षाल्य-आचम्य मन्त्रेण- \आचमति).
वैख् 02.10.(128.4-5) ब्राह्मणो हृद्गाभिः क्षत्रियः कण्ठगाभिर् वैश्यस्तालुगाभिर् अद्भिर् आचामेत.
वैख् 02.10.(128.5-6)। आत्मानं प्रोक्ष्य प्रत्य्.अर्कम् अपो विसृज्य-अर्कं पर्येत्य्.
वैख् 02.10.(128.6-8)। उदकस्य-अग्नेर् वाम.पार्श्वं प्राणान् आयम्यप्रत्येकम् ओं.कारादि.सप्त.व्याहृति.पूर्वां गायत्रीम् अन्ते स.शिरस्कां त्रिर्\जपेत्). स प्राणायामस्. त्रीन् एकं वा प्राणायामं कृत्वा पूतः.
वैख् 02.10.(128.8-10) शतं दश अष्टौ वा सावित्रींअ सायं.प्रातः सन्ध्याम् उपास्य नैशिकम् आह्निकं च-एनो-\अपमृज्यते).
वैख् 02.10.(128.10)। द्विजातिः सन्ध्या.उपासन.हीनः शूद्र.समो \भवति).
वैख् 02.10.(128.11)। ब्रह्मचारी स्व.नाम संकीर्त्य-अभिवादयेद् अहंभो इति.
वैख् 02.10.(128.11-13)। श्रोत्रे च संस्पृश्य गुरोः पादं दक्षिणंदक्षिणेन पाणिना वामं वामेन व्यत्यस्यर् आपादम्गृह्णन्न् आनत.शीर्षो-\अभिवादयत्य्).
वैख् 02.10.(128.14)। आयुष्मान् भव सौम्य-इत्य् एनं \शंसेद्).
वैख् 02.10.(128.14)। अन्.आशीर् वादी न-अभिवन्द्यो.
वैख् 02.10.(128.14-15)। माता पिता गुरुर् विद्वांसश् च प्रत्यहमभिवादनीयाः.
वैख् 02.11.(128.16)। अन्ये बान्धवा विप्रोष्य प्रत्यागत्य-अभिवन्द्याः
वैख् 02.11.(128.16-18)। ज्येष्ठो भ्राता पितृव्यो मातुलः श्वशुरश् च पितृवत् पितृ.ष्वसा मातृ.ष्वसा ज्येष्ठ.भ्हर्या भगिनी ज्येष्ठा च मातृवत्पूजितव्याः.
वैख् 02.11.(128.18-19)। सर्वेषां माता श्रेयसी गुरुश् च श्रेयान्.
वैख् 02.11.(128.19-129.1)। परस् त्रियं युवतिम् अस्पृशन् भूमाव्\अभिवादयेद्).
वैख् 02.11.(129.1)। वन्द्यानां वन्दनादायुर्.ज्ञान.बल.आरोग्य.शुभानि \भवन्ति).
वैख् 02.11.(129.2)। यज्ञ.उपवीत.मेखला.अजिन.दण्डान् परेण धृतान्न \धारयेत्).
वैख् 02.11.(129.2-4)उपाकृत्य-अन्.आलस्यः शुचिः प्रणव.आद्यं वेदमधीयानो-अमावास्यायां पौर्णमास्यां चतुर्दश्योः प्रतिपदोर् अष्टम्योश् च न-अधीयीत.
वैख् 02.11.(129.4-5)। नित्य.जपे होमे च-अन्.अध्यायो न-अस्ति.
वैख् 02.11.(129.5-8)।मार्जार.नकुल.मण्डूक.श्व.सर्प.गर्दभ.वराह.पशु.आदिष्व् अन्तरागतेष्व् अहोरात्रं सूतक.प्रेतकयोर् आशौचे तावत् कालं तिस्रो-अष्टकासु गुरौ प्रेते च त्रिरात्रम् अन्.अध्यायः \स्यात्).
वैख् 02.12.(129.9-10)। तद्.भार्या.पुत्रयोः स्व.शिष्यस्य च-उपरमेमनुष्य.यज्ञे श्राद्ध.भोजने च-एकाहम् अन्.अध्यायः स्यात् आपद्.आर्त्योर् अप्रायत्ये.
वैख् 02.12.(129.10-14)। वृक्ष.नौ.यान.शयनेष्व् आरूढः प्रसारित.पादो मूत्र.पुरीष.रेतो.विसर्गे ग्रामे-अन्तःशवे सत्य.भक्ष्यान्न.भोजने छर्दने श्मषान.देशे सन्ध्या.स्तनिते भू.कम्पे दिग्.दाहे-अशनि.उल्का.निपाते रुधिर.उपल.पांसु.वर्षे सूर्य.इन्दु.राहु.ग्रहणे च तत् तत् काले न-\अधीयीत).
वैख् 02.12.(129.14-15)। परत्र-इह श्रेयस्.करो वेदस्. तद् अध्येतव्यो.
वैख् 02.12.(129.15)। अन्ते विसृज्य प्रणवं \ब्रवीति).
वैख् 02.12.(129.15-16) लौकिक.अग्नौ समिधौ हुत्वा भिक्षा.अन्नंमेधा.प्रदं शुद्धं मौनी \भुञ्जीत).
वैख् 02.12.(129.16-130.3)। पौषे माघे वा म्सासे ग्रामाद् बहिर्जल.अन्ते पूर्ववद् व्रतविसर्ग.होमं हुत्वा स्वाध्यायम् उत्सृज्य पक्षे शुक्ले वेदं कृष्णेवेद.अङ्गं च यावद् अन्तं समधीत्य गुरोर् दक्षिणां दत्त्वा समावर्ती\स्यात्).
वैख् 02.13.(130.4-5)। मध्याह्ने शुद्धे जले मृद्.अद्भिः पादौ हस्तौ चधावयित्वा-आचम्य-अङ्गानि संशोध्य-अपः \पुनन्त्व्) इति जले \निमज्जेद्).
वैख् 02.13.(130.5-7)। आचान्तो वैष्णवैर् मन्त्रैर् विष्णुं हिरण्य.शृङ्गमिति वरुणं च प्रणम्य-अघ.मऋषण.सूक्तेन-अघ.मऋषणं कृत्वा-इदम् आपः शिवाइति\स्नायाद्). व्क्ःड्ःष् 02.13.(130.7-9) आश्रमिणश् चत्वारः स्नानं नित्यम् एवंपूर्व.उक्तेन विधिना काम्यं नैमित्तिकं च \कुर्वन्ति).
वैख् 02.13.(130.9-10)। धौत.वस्त्रेण-आछाद्य पूर्ववद् आचम्यप्रोक्ष्य-आसीनस् तिष्ठन् वा कृत.प्राणायामः सावित्रीं जप्त्वा-आदित्यम् \उपतिष्ठेत).
वैख् 02.13.(130.10-14)। दक्षिण.पाणिना तीर्थेन ब्राह्मेणभूपति.आदीन् दैवेन नारायण.अदीन् कूप्य.अदींश् च-आर्षेण विश्वामित्र.आदीन् पैतृकेणपितृ.आदीन् अद्भिस् तर्पयित्वा ब्रह्मयज्ञं करिष्यन्न् इत्य् अमिषे त्वा-ऊर्जे त्वा-इति यथा.कामंयजुः.संहिताम् आद्यां स्त्रीन् अनुवाकान् स्वाध्यायं \कुर्वीत).
वैख् 02.13.(130.14-15)। नैमित्तिकम् ऋतं च सत्यं च-इत्य् आदि.सूक्तानिचतुर् वेदादि.मन्त्रान् वा-अप्य् \अधीयीत).
वैख् 02.13.(130.15-16)। सर्वयज्ञानाम् आदिर् ब्रह्मयज्ञः.
वैख् 02.13.(130.16)। तस्माद् उपनयन.प्रभृत्य्-एव द्विजैः कर्तव्यो.
वैख् 02.13.(130.17-18)। नद्यां तीर्थे देव.खाते सरसि तटाके वासामान्ये स्नानं \कुर्यात्).
वैख् 02.14.(131.1)। परस्य-उदके मृत्.पिण्डान् पञ्च-उद्धृत्य \स्नायात्).
वैख् 02.14.(131.1-2)। कूपे तत्.तीरे त्रिः कुम्भेन-\अभिषिञ्चेद्).
वैख् 02.14.(131.2)। उच्छिष्टो नग्नो वा न \स्नायात्). तथा न \शयीत).
वैख् 02.14.(131.3)। आतुरो-अप्सु न-\अवगाहेत).
वैख् 02.14.(131.3-5)। आतुरस्य स्नाने नैमित्तिके दश कृत्वो द्वादशकृत्वो वा तम् अन्.आतुरो जले -अवगाह्य-आचम्य \स्पृशेत्). ततः स पूतो \भवति).
वैख् 02.14.(131.5-7)। द्वि.कालं होम.अन्ते पादौप्रक्षाल्य-आचम्य-आसने प्राङ्.मुखः प्रत्यङ्.मुखः वा स्थित्वा चतुरश्र.उपलिप्ते मण्डले शुद्धं पात्रं \न्यसेत्).
वैख् 02.14.(131.7)। तत्र-अन्नं प्रक्षिप्य तत् \पूजयति).
वैख् 02.14.(131.7-9)। द्वौ पादाव् एकं वा भूमौ निधाय प्रसन्नऋतं त्वा सत्येन \परिषिञ्चामि)-इति सायं \परिषिञ्चति). सत्यं त्व् अर्तेन\परिषिञ्चामि)-इति प्रातर्.
वैख् 02.14.(131.9-11)। अमृत.उपस्तरणम् असि-इत्य् आधावं पीत्वाविधिना प्राण.आहुतीर् हुत्वा-अन्नम् अनिन्दन्न् \अश्नाति).
वैख् 02.14.(131.11) भुक्त्वा-अमृत.अपिधानम् असि-इत्य् अपःपीत्वा-आचम्य-\आचामेद्).
वैख् 02.14.(131.11-12)। एक.वासाः शयानस् तिष्ठन्न् अ.स्नान.जप.होमीशुष्क.पाद उदङ्.मुखो वा न-\अश्नाति).
वैख् 02.14..(131.13)। भिन्न.पात्रे-अन्नं पर्युषितंशयन.आसन.उत्सङ्ग.स्थं वा न \भुञ्जीत).
वैख् 02.14.(131.13-14)। अञ्जलिना-अपो न \पिबेद्).
वैख् 02.14.(131.14-15)। उच्छिष्ट.अशुच्य्.आशौचि.पतिततैः स्पृष्ठंसूतक.प्रेतके च-अन्नं न-\अश्नीयात्).
वैख् 02.15.(132.1)। तिल.सक्तु.दधि.लाजं च रात्राव् अभक्ष्यम्.
वैख् 02.15.(131.1-2)। अन्नं पर्युषितम् आज्येन दध्ना वा युक्तं भोज्यं.
वैख् 02.15.(131.2-3)। क्रिमि.केश.कीट.युतं गवा.घ्रातं पक्षि.जग्धं च भस्म.अद्भिः प्रोक्षितं शुद्धं.
वैख् 02.15.(131.3-5) श्व.काकाद्य्.उपहते बह्वन्ने तस्मिन् पुरुष.आशमन.मात्रं तत्र-एव-उद्धृत्य व्यपोह्य पवमानः सुवर्जन इति भस्म.जलैः प्रोक्ष्य दर्भ.उल्कया स्पर्शयित्वा \गृह्णीयात्).
वैख् 02.15.(132.6-7)। प्रसूते-अन्तर्.दशाहे गो.क्षीरंसदा-एकशफ.उष्ट्र.स्त्रीणां पयश् च पल.अण्डुक.वकल.शुन.गृञ्चन.विड्जम् अनुक्तं\रेअदिन्ग् उन्चेर्तैन् चल् प्.132न्.1)। मत्स्य.मांसं च वर्जनीयं.
वैख् 02.15.(132.8)। यज्ञ.शिष्टं मांसं भक्षणीयम्.
वैख् 02.15.(132.8-9)। उदक्या.स्पृष्टं शूद्र.अनुलोमैः स्पृष्टं तेषामन्नं च \वर्जयेत्).
वैख् 02.15.(132.9-10)। स्वधर्म.अनुवर्तिनां शूद्र.अनुलोमानाम् आमंक्षुधितस्य संग्राह्यं.
वैख् 02.15.(132.10-11)। सर्वेषां प्रतिलोम.अन्तराल.व्रात्यानाम् आमंपक्वं च क्षुधितो-अपि यत्नान् न \गृह्णीयात्).
वैख् 02.15.(132.11-12)। तैः स्पृष्टि.संमिश्रं पर.पक्वं च \संत्यजति).
वैख् 02.15.(132.12-13) नित्यं श्रुति.स्मृति.उदितं कर्म कुर्वन्मनो.वाक्.काय.कर्मभिः शनैर् धर्मं \समाचरति).
वैख् 03.01.(133.1-2)। गृहस्थ.आश्रमी द्वे यज्ञ.उपवीते वैणवंदण्डं कमण्डलुं च \धारयेत्).
वैख् 03.01.(132.2-3)। स्नात्वा स.भार्यो गृह्य.अग्नौ गार्ह्याणि कर्माणिश्रौत.अग्निषु श्रौतानि \कुर्यात्).
वैख् 03.01.(133.3-4)। सायं च होम.अन्ते-अतिथीन् अभ्यागतान्प्राशयित्वा मितं प्राश्य पत्न्या \शयीत).
वैख् 03.01.(133.4-5)। आर्द्र.पादः प्रत्यगुत्तर.शिराश् न \स्वपित्य्)-.
वैख् 03.01.(133.5)। ऋतु.रात्रिषु स्वभार्याम् \उपगच्छेद्).
वैख् 03.01.(133.5-6) आदौ त्रि.रात्रमृतुमती.गमन.सहासन.शयनानि \वर्जयेत्).
वैख् 03.01.(133.6-7)। परदारान् न \संगच्छेत्).
वैख् 03.01.(133.7)। परदार.गमनाद् आयुः श्रीर् ब्रह्म.वर्चसं\विनश्यति).
वैख् 03.01.(133.7-8)। भार्यया सह न-\अश्नात्य्).
वैख् 03.01.(133.8)। अश्नन्तीं तां जृम्भमाणां नग्नां च न-\अवलोकयेत्).
वैख् 03.01.(133.9)। असत्यवादं \वर्जयत्य्).
वैख् 03.01.(133.9)। असत्यात् परं पापं सत्यात् परो धर्मश् च न-\अस्ति).
वैख् 03.01.(133.10-11) सर्वप्राणि.हितो-अद्रोहेण-एव\जीवेच्)-शुद्ध.अर्थवान् कुसूल.धान्यः कुम्भी.धान्यो-अ.श्वस्तनिको वा \स्यात्).
वैख् 03.01.(133.11-12)। द्विजातिः पतित.अन्त्यजातान् न \स्पृशेद्).
वैख् 03.01.(133.12)। उदये-अस्तमये च सूर्यं न-\ईक्षेत).
वैख् 03.01.(133.12-13 देव.गुरु.विप्र.घृत.क्षीर.दधि.मृत्.तोय.समिद्.दर्भ.अग्नि.वनस्पतीन्प्रदक्षिणं \गच्छेत्).
वैख् 03.02.(133.14)।स्नातक.राज.गुरु.श्रेष्ठ.रोगि.भारभृद्.अन्तर्वत्नीनां देयो.\चल् रेअद्स् ज्येष्ठ इन्स्त्. ओf श्रेष्ठ, ट्र्.प्.214न्.1)
वैख् 03.02.(133.15)। वात.अर्क.रश्मिभिः पन्थानः \शुध्यन्ति).
वैख् 03.02.(133.15-16)। परस्य-आसन.शयनान्य् अदत्तानि न-\उपयुञ्जीत).
वैख् 03.02.(133.16)। अदत्तेषु-उपयुक्तेषु स्वपुण्य.चतुर्थांशो \जहाति).
वैख् 03.02.(133.17)अन्य.उपयुक्तानि वस्त्र.माल्य.उपानट्.छत्त्राणिन-एव \धारयेद्).
वैख् 03.02.(133.17-19)। अग्नौ पादं न \तापयेन्)। न-एनं मुखेन\धमेन्) नपादेन \स्पृशेद्)। अधः पादतो न \कुर्याद्).
वैख् 03.02.(133.19-134.1)। अग्नाव् अग्निं वा देव.आलये-अग्नौ जले च मूत्र.पुरीष.पूय.शोणित.रेतः.श्लेष्म.उच्छिष्ट.अङ्गनिष्पेषान् न \प्रक्षिपेत्).
वैख् 03.02.(134.1-2)। नग्नां परस् त्रियं विण्.मूत्रे च न \पश्येद्).
वैख् 03.02.(134.2-3)। उच्छिष्टो देव.अर्क.चन्द्र.ग्रह.ऋक्ष.तारा न\-ईक्षेत).
वैख् 03.02.(134.3-4)। देव.गुरु.स्नातक.दीक्षित.राज.गो.श्रेष्ठानांछायां न- \आक्रमति).
वैख् 03.02.(134.4)। इन्द्रधनुः परस्मै न \दर्शयेन्) न \वदेत्).
वैख् 03.02.(134.4-5)। स्वपन्तं न-\अवबोधयेद्).
वैख् 03.02.(134.5)। एको-अध्वानं न \गच्छेत्).
वैख् 03.02.(134.5-6)। परक्षेत्रे चरन्तीं गां धयन्तं वत्सं च न\वारयेन्)। न- एव-\आचक्षीत).
वैख् 03.02.(134.6)। जीर्ण.मल.वासा न \स्यात्).
वैख् 03.03.(134.7)। अक्षैः क्रीडां प्रेत.धूमं बाल.आतापं च\वर्जयेत्).
वैख् 03.03.(134.7-9)। केश.रोम.तुष.अङ्गार.कपाल.अस्थि.विण्.मूत्र.पूय.शोणित.रेतः.श्लेष्म.उच्छिष्टान् न-\अधितिष्ठेत्).
वैख् 03.03.(134.9-10) अमेध्य.लिप्ते-अङ्गे यावत्तत्.लेप.गन्ध.मनःशङ्का न \स्यात्)। तावन् मृत्.तोयैः \शोधयेत्).
वैख् 03.03.(134.10-11) पतित.अन्त्यज.मूर्खा.धार्मिक.वैरिभिःसार्धं न \वसेद्).
वैख् 03.03.(134.11)। उच्छिष्टो-अशुचिर् वा देव.गो.विप्र.अग्नीन् न \स्पृशेत्).
वैख् 03.03.(134.11-12)। देवान् वेदान् राज.गुरु.माता.पितृऋन्विद्वद्.ब्राह्मणान् न- \अवमन्येत)। न \निन्देद्).
वैख् 03.03.(134.12-13)। अवमन्ता निन्दकश् च \विनश्यति).
वैख् 03.03.(134.13-14)। सर्वभूत.कुत्सां ताडनं च न \कुर्वीत).
वैख् 03.03.(134.14-15) गुरुणा माता.पितृभ्यां तत्.पितृ.आद्यैर् भ्रातृ.पितृ.भ्रातृ.मातुल.आचार्य.ऋत्विज्.आद्यैर् विवादं न-\आचरेत्).
वैख् 03.03.(134.15-16)। सर्व.शुद्धिषु पुरुषस्य-अर्थ.शुद्धिःस्त्री.शुद्धिर् अन्न.शुद्धिश् च श्रेष्ठतमा \स्यात्).
वैख् 03.03.(134.16-135.1) द्रव्येषु रत्न.सौवर्ण.रजत.मयान्य् अद्भिः\शोधयत्य्)। अग्नौ वा \स्पर्शयति).
वैख् 03.03.(135.1-3)। ताम्र.त्रपु.सीस.आयस.आद्यान्य् अम्ल.वारिभिर्दारु.दन्त.जातानि तक्षणाद् धावनाद् वा यज्ञ.पात्राणि दक्षिण.पाणिना मार्जनात्क्षालनाद् वा संशोध्यानि.
वैख् 03.04.(135.4-5) चर्ममय.संहतानि वस्त्राणि शाक.मूल.फलानिच \प्रोक्षयेद्)। अल्पानि \क्षालयेत्).
वैख् 03.04.(135.5-6)। घृत.आदीनि द्रव्याण्य् उत्पूय-उल्कया \दर्शयेत्).
वैख् 03.04.(135.6-9)। कौशेय.आविकान्य् ऊषैर् अंशुतट्टानि\चल् रेअद्संशुपट्ट- इन् हिस् त्र्. प्.216)। श्रीफलैः शङ्ख.शुक्ति.गोशृङ्गाणि सर्षपैः स.वारिभिर्मृत्मयानि पुनर् दाहेन गृहं मार्जन.उपलेपन.अप्सेकैर् भूमिं खननादन्यमृत्.पूरण.गोवासक.आद्यैर् मार्जन.आद्यैश् च \शोधयेद्).
वैख् 03.04.(135.9)। गोतृप्ति.करं भू.गतं तोयं दोष.विहीनं सु.पूतं.
वैख् 03.04.(135.9-10)। वाक्.शस्तं वारि.निर्णिक्तम् अदृष्टं.
वैख् 03.04.(135.10-11) योषिद्.आस्यं कारु.हस्तः प्रसारित.पण्यं चसर्वदा शुद्धं.
वैख् 03.04.(135.11)। शकुनि.उच्छिष्टं फलम् अनिन्द्यं.
वैख् 03.04.(135.11-12)। मशक.मक्षिका.निलीनं तद्.विप्रुषश् च न दूष्याणि.
वैख् 03.04.(135.12-13)। वायु.अग्नि.सूर्यरश्मिभिः स्पृष्टं च मेध्यम्.
वैख् 03.04.(135.13-14)। आतुरे बाले पचन.आलये च शौचं नविचारणीयं यथा.शक्ति \स्याद्).
वैख् 03.04.(135.14)। विण्.मूत्राभ्यां बहु.आपो न दूष्याः.
वैख् 03.04.(135.14-15) परस्य-आचामतस् तोय.बिन्दुभिर् भूमौनिपत्य-उद्गतैः पाद.स्पृष्तैर् आचामयन् न-अशुचिः स्यात्.
वैख् 03.05.(136.1-2)। वानप्रस्थो नित्य.स्वाध्यायी कुश.इध्म.आदीनग्नि.अर्थं शाक.मूल.फलान्य् अशन.अर्थं च शुचौ जातान्य् \आहरेद्).
वैख् 03.05.(136.2-3)। अन्य.अधीनम् अन्य.उत्सृष्टम् अशुचौ जातं गोरसंच \वर्जयेत्).
वैख् 03.05.(136.3)। धान्य.धन.संचयं न \कुर्वीत).
वैख् 03.05.(136.4)। वस्त्रं न-\आछादयेत्).
वैख् 03.05.(136.4)। मधु.उक्ते तोयं मांस.उक्ते पैष्टिकं \गृह्णाति).
वैख् 03.05.(136.5-9)। सर्वभूतेषु दयालुः समः क्षान्तः शुचिर्निर्.असूयकः सुखे निः.स्पृहो मङ्गल्य.वाणि.ईर्ष्या.कार्पण्य.वर्जी मत्स्य.आदीन् दंशकान्सीर.कृष्ट.जातानि कन्द.मूल.फल.शाक.आदीनि च त्यजन्-जटा.श्मश्रु.रोम.नखानि धारयंस् त्रिकाल.स्नायी धरा. आशयो वन्यैर् एव चरु.पुरोडशान् \निर्वपेत्).
वैख् 03.05.(136.9-11)। पलाण्डु.आदीन् निर्यासं श्वेतवृन्ताकं सुनिषण्णकं श्लेष्मातकं व्रजकलिं चित्रकं शिग्रुं भूस् तृणं कोविदारं मूलकं च\वर्जयति).
वैख् 03.05.(136.11-12)। मुनेः सर्वं मांसं गोमांस.तुल्यं धान्य.आम्लं सुरा.समं \भवति).
वैख् 03.05.(136.12)। पूर्वसंचित.आशनं पूर्वाणि वसनान्य् आश्वयुजेमासि \त्यजति).
वैख् 03.05.(136.13)। वेद.वेदान्तेन ध्यान.योगी तपः \समाचरति).
वैख् 03.05.(136.13-137.2)। अ.पत्नीको-अन्.अग्निर् अ.दारो-अ.निकेतनोवृक्षमूले वसन् वनस्थ.आश्रमेषु गृहस्थानां गृहेषु वा भिक्षांभिक्षित्वा-अम्बु.पार्श्वे शुद्धे पर्णे प्राणयात्रा.मात्रम् अन्नं भिक्षुवद् \अश्नाति).
वैख् 03.05.(137.2)। शरीरं शोषयन्न् उत्तरम् उत्तरं तीव्रं तपः \कुर्यात्).
वैख् 03.06.(137.4)। भिक्षुः स्नात्वा नित्यं प्रणवेन-आत्मानं \तर्पयेत्).
वैख् 03.06.(137.4-5)। तेन-एव \नमस्कुर्यात्).
वैख् 03.06.(137.5-6)। षड् अवरान् प्राणायामान् कृत्वा शत.अवरांसावित्रीं जप्त्वा सन्ध्याम् \उपासीत).
वैख् 03.06.(137.6)। अप्.पवित्रेण-उत्पूताभिर् अद्भिर् \आचामेत्).
वैख् 03.06.(137.6-7)। काषाय.धारणं सर्व.त्यागं मैथुन.वर्जनमस्तैन्य.आदीन् अप्य्-\आचरेत्).
वैख् 03.06.(137.7-10)। अ.सहायो-अन्.अग्निर् अ.निकेतनो निः.संशयीसंमान.अवमान.समो विवाद.क्रोध.लोभ.मोह.अनृत.वर्जी ग्रामाद् बहिर् विविक्ते मठेदेव.आलये वृक्षमूले वा \निवसेत्).
वैख् 03.06.(137.10)। चातुर्मासाद् अन्यत्र-एकाहाद् ऊर्ध्वम् एकस्मिन् देशे न \वसेद्).
वैख् 03.06.(137.10-11)। वर्षाः शरच् चातुर्मास्यम् एकत्र-एव \वसेत्).
वैख् 03.06.(137.11-13)। त्रिदण्डे काषाय.अप्.पवित्र.आदीन् योजयित्वा कण्ठे वाम.हस्तेन धारयन् दक्षिणेन भिक्षा.पात्रं गृहीत्वा-एककाले विप्राणांशुद्धानां गृहेषु वैश्वदेव.अन्ते भिक्षां \चरेत्).
वैख् 03.06.(137.14)। भूमौ वीक्ष्य जन्तून् परिहरन् पादं \न्यसेद्).
वैख् 03.06.(137.14-15)। अधो.मुखस् तिष्ठन् भिक्षाम् \आलिप्सते).
वैख् 03.07.(137.16)। गोदोहन.काल.मात्रं तद्.अर्धं वा स्थित्वा \व्रजेद्).
वैख् 03.07.(137.16-17)। अलाभे-अप्य्-अवमाने-अप्य्-अविषादी लब्धेसंमाने-अप्य् अ.संतोषी \स्यात्).
वैख् 03.07.(137.17-18)। द्रुतं विलम्बितं वा न \गच्छेत्).
वैख् 03.07.(137.18)। भिक्षा.कालाद् अन्यत्र पर.वेश्म न गन्तव्यं.
वैख् 03.07.(137.19)। भिक्षितुं क्रोशाद् ऊर्ध्वं न \गच्छेत्).
वैख् 03.07.(137.19-138.3))। भिक्षां चरित्वा तोय.पार्श्वेप्रक्षालित.पाणि.पाद- आचम्य-उद् उ त्यम् इत्य्-आदित्याय-अतो देवा इति विष्णवे ब्रह्म जज्ञाम् इति ब्रह्मणे च भिक्षा.अग्रं दत्त्वा सर्वभूतेभ्य-इति बलिं \प्रक्षिपेत्).
वैख् 03.07.(138.3-4)। पाणिना-अग्निहोत्र.विधानेन-आत्मयज्ञं संकल्प्य प्राणयात्रा.मात्रम् अष्टौ ग्रासान् वा-\अश्नीयात्). कामं न-\अश्नाति).
वैख् 03.07.(138.5)। वस्त्र.पूतं जलं पीत्वा-आचम्य-\आचामति).
वैख् 03.07.(138.5)। निन्दा.क्रोशौ न \कुर्वीत).
वैख् 03.07.(138.6)। बन्धूञ् ज्ञातींस् \त्यजेद्).
वैख् 03.07.(138.6)। वंश.चारित्रं तपः श्रुतं न \वदेत्).
वैख् 03.07.(138.6-8) सङ्गं त्यक्त्वा नियम.यमी प्रियं सत्यं वदन्सर्वभूतस्य-अविरोधी समः सदा-अध्यात्म.रतो ध्यान.योगी नारायणं परं ब्रह्मपश्यन् धारणां \धारयेद्).
वैख् 03.07.(138.8-9)। अक्षरं ब्रह्म-\आप्नोति).
वैख् 03.07.(138.9)। नारायणः परं ब्रह्म-इति श्रुतिः.
वैख् 03.08.(138.10-13)। संन्यासिनो-अन्.आहिताग्नेर् देहं मृतं पुत्रो-अन्योवा तृणैर् अन्तरीकृत्य शुद्धैर् ब्राह्मणैर् यन्त्रेण वा संनिधाय समुद्र.गाम्यांनद्यां तीरे वा सैकते देशे सृगाल.आदिभिर् अस्पृश्यं यथा तथा-अवटं \खनति).
वैख् 03.08.(138.13-139.1)। गायत्र्या स्नापयित्वा तथातत्र-आसयित्वा शाययित्वा वा दक्षिणे हस्ते वैष्णवैर् मन्त्रैस् त्रि.दण्डं संन्यस्य सव्ये यद् अस्य पारेरजस इति शिक्यम् अप्.पवित्रम् उदरे सावित्र्या भिक्षा.पात्रं गुह्यप्रदेशे भूमिर् भूमिमिति काषायं मृद्.ग्रहणीं कमण्डलुं च संन्यस्य \पिदध्यात्.
वैख् 03.08.(139.1-2) तस्मिन् सृगाल.आदिभिः स्पृष्टे तत्.कर्ता पापीयान्\भवति).
वैख् 03.08.(139.2-6)। आहिताग्नेर् अग्नीन् आत्मन्य् आरोप्य संन्यसिनो मृतंदेहं गायत्र्या स्नापयित्वा पूर्ववद् वाहयित्वा शुद्धे देशे निधाय लौकिक.अग्नौ तदग्निम् \उपावरोह)-इत्य् अवरोप्य पवित्रं त-इति घृत.क्षीरम् आस्ये प्रक्षिप्य पूर्ववत्त्रि.दण्ड.आदीन् विन्यस्य ब्रह्ममेधेन पितृमेधेन वा-आहिताग्नि.मन्त्रैस् तद्.अग्निभिर् दहनम्\आचरति).
वैख् 03.08.(139.7) तयोर् आशौच.उदक.बलि.पिण्ड.दान.एकोद्दिष्ट.आदीन्न-एव \कुर्यात्).
वैख् 03.08.(139.8)। नारायण.बलिं \करोति).
वैख् 03.08.(139.8-9)। तद्.वहनं खनित्वा पिधानं दहनंनारायण.बलिं वा यः \कुर्यात्)। सो-अश्वमेध.फलं \समाप्नुयात्).
वैख् 03.09.(139.10-14) नारायण.बलिं नारायणाद् एवसर्वार्थ.सिद्धिर् इति ब्रह्मण.आद्यैर् नरैर् हतस्य-आत्म.घातिनोरज्जु.शस्त्र.उदक.अशनि.दंष्ट्रि.पशु.सर्प.आदिभिः सर्वपाप.मृतस्य-अदाह्यानाम् अन्येषां भिक्षोश् च-एकादश.दिनाद् ऊर्ध्वं महापातकिनां पञ्चानां द्वादश.संवत्सराद् ऊर्ध्वंसपिण्डीकरण.स्थाने मृतक.अर्थम् अपरपक्षे द्वादश्यां श्रवणे वा
\करोति).
वैख् 03.09.(139.14-15)। पूर्वे-अहनि द्वादश ब्राह्मणान् \निमन्त्रयेद्).
वैख् 03.09.(139.15-16)। अपरे-अहनि विष्णोर् आलय.पार्श्वे नदी.तीरेगृहे वा-अग्नि.आयतनं कृत्वा-आघारं \जुहुयाद्).
वैख् 03.09.(139.16-150.2)। अग्निं परिस्तीर्य-अग्नेर् वायव्यां विष्टरेदर्भेषु तद्.रूपं सुवर्णं वा संस्थाप्य पुरुषं ध्यायन्न् ओं भूः पुरुषम् इत्य् -आद्यैःप्राङ्.मुखं देवं नारायणम् आवाह्य-आसन.पाद्य.आचमनानि \दद्यात्).
वैख् 03.09.(140.2-4)। पुरुषसूक्तेन \स्नापयित्वा) नारायणाय\विद्मह)-इत्य् अष्टाक्षर.मन्त्रेण वा वस्त्र.उत्तरीय.आभरण.पाद्य.आचमन.पुष्प.गन्ध.धूप.दीप.अक्षत.आचमनैर् \अर्चयति).
वैख् 03.10.(140.5)। केशव.आद्यैर् द्वादश.नामभिर् अद्भिस् \तर्पयेत्).
वैख् 03.10.(140.5-6)। परिषिच्य सहस्रशीर्ष.आद्यैर् विष्णोर् नुक.आद्यैर्द्वादश.नामभिश् च-आज्यं चरुं \जुहुयात्).
वैख् 03.10.(140.7-8)। गुड.आज्य.फल.युक्तं पायसं हविर्विष्णु.गायत्र्या देव.ईशाय निवेद्य पाद्य.आचमन.मुख.वासं \दद्यात्).
वैख् 03.10.(140.8-13) अग्नेर् दक्षिणे दर्भेषु-ऊतर.अग्रेषु दक्षिणाद्य्\अर्चयित्वा)। नारायणाय सहस्रशीर्षाय सहस्राक्षाय सहस्रपादायपरमपुरुषाय परमात्मने परंज्योतिषे परब्रह्मणे- अव्यक्ताय सर्वकारणाय यज्ञ.ईश्वराययज्ञात्मने विश्वेभ्यो देवेभ्यः सर्वाभ्यो देवताभ्यः साध्येभ्य-इत्य् अन्तैः पायसं बलिं\दत्त्वा)- आज्यम् एभिर्\जुहोति).
वैख् 03.10.(140.13-16) ब्राह्मणान् पादौ प्रक्षाल्य नवानिवस्त्र.उत्तरीय.आभरणानि दत्त्वा पुष्प.आद्यैः पूजयित्वा द्वादश.मूर्तिं ध्यायन्न् उपदंश.घृत.गुड.दधि.फल.युक्तं श्वेतम् अन्नं भोजयित्वायथा.शक्ति सुवर्णं दक्षिणां \ददाति).
वैख् 03.10.(140.16-141.1)। सहस्रशीर्ष.आद्यैः स्तुत्वाद्वादश.नामभिः \प्रणमेद्). अन्त.होमं \जुहोत्य्).
वैख् 03.10.(141.1-2)। अभीष्टां परां गतिं स गत्वा विष्णोर् लोके\महीयते).
वैख् 03.11.(141.3-4)। चातुर्वर्ण्य.संकरेण-उत्पन्नानाम् अनुलोम.प्रतिलोम.अन्तराल.व्रात्यानाम् उत्पत्तिं नाम वृत्तिं च.-
वैख् 03.11.(141.4-5)। ऊर्ध्वजाताद् अधोजातायां जातो-अनुलोमो.-
वैख् 03.11.(141.5)। अधर.उत्पन्नाद् ऊर्ध्वजातायां जातः प्रतिलोमस्.
वैख् 03.11.(141.5-6)। ततो-अनुलोमाद् अनुलोम्यां जातो-अन्तरालः.
वैख् 03.11.(141.6-7)। प्रतिलोमात् प्रतिलोम्यां जातो व्रात्यो \भवति).
वैख् 03.11.(141.7-8)। ब्रह्मणो मुखाद् उद्भूता ब्राह्मणा ब्राह्मण्यश् च ब्रह्म.ऋषयः पत्न्यो \बभूवुस्).
वैख् 03.11.(141.8-9)। तेषां गात्र.उत्पन्नाद् ब्राह्मण्यां अ.सगोत्रायांविधिना स.मन्त्रकं गृहीतायां जातो ब्राह्मणः शुद्धो \भवेत्).
वैख् 03.11.(141.10-11) विधि.हीनम् अन्य.पूर्वायां गोलकोहर्तृकायां कुण्डश् च विप्रौ द्वौ निन्दितौ \स्यातां ).
वैख् 03.11.(141.11-12)। तस्माद् अधो बाहुभ्यामात् क्षत्रियात् क्षत्रियायां विधिवत्-जातः क्षत्रियः शुद्धस्.
वैख् 03.11.(141.12-14)। तयोर् अ.विधिकं गूढ.उत्पन्नो-अशुद्धोभोज.आख्यो न-एव-\अभिषेच्यः). पट्ट.बन्धो राज्ञः सैनापत्यं \करोति).
वैख् 03.11.(141.14-15)। शुद्ध.अभावे-अ.पट्ट.बन्धो नृऋन् \पायात्.
वैख् 03.11.(141.15)। तद्.वृत्तं राजवत् \स्यात्).
वैख् 03.11.(141.15-142.1)। अधस्ताद् ऊरुभ्यामाद् वैश्याद् वैश्यायां तथा वैश्यः शुद्धो.
वैख् 03.11.(142.1-2)। विधि.वर्जं मणिकारो-अशुद्धो मणि.मुक्तादि.वेधः शङ्ख.वलय.कारी \स्यात्).
वैख् 03.12.(142.3)। अथ पद्भ्याम् उत्पन्नात्-शूद्रात्-शुद्रायां न्यायेनशूद्रः शुद्धः.
वैख् 03.12.(142.4-5)। जारान् मालवको निन्दितःशूद्रो-अश्वपालो-अश्व.तृण.हारी च.-
वैख् 03.12.(142.5)। इत्य् एते चातुर्वर्णिकास्.
वैख् 03.12.(142.5-6)। तेषाम् एव संस्करेण-उत्पन्नाः सर्वे-अनुलोम.आद्याः.
वैख् 03.12.(142.6-7)। ब्राह्मणात् क्षत्रिय.कन्यायां जातः सवर्णो-अनुलोमेषु मुख्यो.
वैख् 03.12.(142.7-8) अस्य वृत्तिर् आथर्वणंकर्म.अश्व.हस्ति.रथ.संवाहनम् आरोहणं रज्ञः सैनापत्यं च-आयुर्वेद.कृत्यं.
वैख् 03.12.(142.8)। गूढ.उत्पन्नो-अभिनिषक्त.आख्यो-.
वैख् 03.12.(142.9)। अभिषिक्तश् चेत्-नृपो भूयाद् अष्टाङ्गम् आयुर्वेदंभूत.तन्त्रं वा \संपटेत्).
वैख् 03.12.(142.9-11) तद्.उक्त.आचारो दया.युक्तः सत्य.वादीतद्.विधानेन सर्वप्राणि.हितं \कुर्यात्).
वैख् 03.12.(142.11)। ज्योतिर् गणन.आदिक.अधिक.वृत्तिर् वा.
वैख् 03.12.(142.11-12)। विप्राद् वैश्यायाम् अम्बष्ठःकक्ष्याजीव्य.आग्नेयनर्तको ध्वजविश्रावी शल्य.चिकित्सी.
वैख् 03.12.(142.13)। जरात् कुम्भकारः कुलाल.वृत्तिर् न-आपितो नाभेरूर्ध्व.वप्ता च.
वैख् 03.12.(142.14-15)। क्षत्रियाद् वैश्यायां मद्गुः श्रेष्ठित्वं प्राप्तो महानर्म.आख्यश् च वैश्य.वृत्तिः क्षात्रम् कर्म न-\आचरति).
वैख् 03.12.(142.15)। गूढाद् आश्विको-अश्व.क्रय.विक्रयी \स्यात्).
वैख् 03.13.(143.1-2)। विप्रात्-शूद्रायां पारशवो भद्रकाली.पूजन.चित्रकर्म.अङ्गविद्या.तूर्यघोषण.मर्दन.वृत्तिर्.
वैख् 03.13.(143.2-3)। जार.उत्पन्नो निषादो व्याडादि.मृगहिंसा.कारी.
वैख् 03.13.(143.3)। राजन्यतः शूद्रायाम् उग्रः सुदण्ड्य.दण्डन.कृत्यो.
वैख् 03.13.(143.3-4)। जारात्-शूलिकः शूलारोहणादि.यातना.कृत्यो.
वैख् 03.13.(143.4-5)। वैश्यतः शूद्रायां चूचुकः क्रमुकत.अम्बूल.शर्करादि.क्रय.विक्रयी.
वैख् 03.13.(143.5-6)। गूढात् कटकारः कटकारी च-इति.
वैख् 03.13.(143.6-7)। ततो-अनुलोमाद् अनुलोमायां जातश् च-अनुलोमःपितुर् मातुर् वा जातं वृत्तिं \भजेत).
वैख् 03.13.(143.7-9)। क्षत्रियाद् विप्रकन्यायां मन्त्रवत्- जातः सूतःप्रतिलोमेषु मुख्यो-अयं मन्त्रहीन.उपनीतो द्विजधर्म.हीनो.
वैख् 03.13.(143.9)। अस्य वृत्तिर् धर्म.अनुबोधनं राज्ञो-अन्न.संस्कारश् च.
वैख् 03.13.(143.10-11)। जारेण मन्त्रहीन.जो रथकारोद्विजत्व.विहीनः शूद्र.कृत्यो- अश्वानां पोषण.दमनादि.परिचर्या.जीवी.
वैख् 03.13.(143.11-13)। वैश्याद् ब्राह्मण्यां मागधः. शूद्रैर् अप्यभोज्यान् नो- अस्पृश्यः सर्ववन्दी प्रशंसा.कीर्तन.गान.प्रेषण.वृत्तिर्.
वैख् 03.13.(143.13)। गूढाच् चक्री लवण.तैल.विक्रेता \स्यात्).
वैख् 03.14.(143.14-15)। वैश्यान् नृपायाम् आयोगवस् तन्तु.वायः पट.कर्ता वस्त्र.कांस्य.उअप्जीवी.
वैख् 03.14.(143.15)। गूढ.आचारात् पुलिन्दो-अरण्य.वृत्तिर्दुष्टमृग.सत्त्व.घाती.
वैख् 03.14.(143.16-17)। शूद्रात् क्षत्रियायां पुल्कसः कृतकां वाआर्क्षां वा सुरां \हुत्वा) पाचको \विक्रीनीत).
वैख् 03.14.(143.17)। चोर.वृत्ताद् वेलवो जन्भन.नर्तन.गान.कृत्यः.
वैख् 03.14.(144.1-2)। शूद्राद् वैश्यायां वैदेहकः शूद्र.अस्पृश्यस्तैर् अप्य् अभोज्य.अन्नो वन्य.वृत्तिर् अज.महिष.गोपालस् तद्.रसान् विक्रयी.
वैख् 03.14.(144.2-3)। चौर्याच् चक्रिको लवण.तैल.पिण्याक.जीवी.
वैख् 03.14.(144.3-6)। शूद्राद् ब्राह्मण्यां चण्डालःसीसक.आलायस.आभरणो वर्ध्रा.बन्ध.कण्ठः कक्षेरी.युक्तो यतस् ततश् चरन् सर्वकर्म.बहिष्कृतः पूर्वाह्णे ग्राम.आदौ वीथ्याम् अन्यत्र-अपि मलान्य् अपकृष्य बहिर् \अपोहयति).
वैख् 03.14.(144.6)। ग्रामाद् बहिर् दूरे स्वजातीयैर् \निवसेत्).
वैख् 03.14.(144.6-7)। मध्याह्नात् परं ग्रामे न \विशत्य्)। अयं.
वैख् 03.14.(144.7)। \विशेच्) चेद् राज्ञा वध्यो.
वैख् 03.14.(144.7-8)। अन्यथा भ्रूणहत्याम् \अवाप्नोत्य्).
वैख् 03.14.(144.8)। अन्तराल्.व्रत्याश् च.
वैख् 03.14.(144.8-10)। चूचुकाद् विप्रायां तक्षको-अस्पृश्योझल्लरी.हस्तो दारुकारः सुवर्णकारो-अयस्कारः कांस्यकारो वा.
वैख् 03.14.(144.10)। क्षत्रियायां मत्स्य.बन्धुर् मत्स्यबन्धी.
वैख् 03.14.(144.10-11)वैश्यायां सामुद्रः समुद्रपण्य.जीवीमत्स्य.घाती च \स्यात्).
वैख् 03.15.(144.12-13)। अम्बष्ठाद् विप्रायां नाविकःसमुद्रपण्य.मत्स्य.जीवी समुद्र.लङ्घनां नावं \प्लावयति).
वैख् 03.15.(144.13-14)। क्षत्रियायाम् अधोनापितो नाभेर् अधो रोम.वप्ता.
वैख् 03.15.(144.14)। मद्गोर् विप्रायां वेणुको वेणु.वीणा.वादी.
वैख् 03.15.(144.14-15)। क्षत्रियायां कर्मकरः कर्मकारी.
वैख् 03.15.(144.15)। वैदेहकाद् विप्रायां चर्मकारश् चर्म.जीवी.
वैख् 03.15.(144.16)। नृपायां सूचिकः सूची.वेधन.कृत्यवान्.
वैख् 03.15.(144.16-17)। आयोगवाद् विप्रायां ताम्रस् ताम्र.जीवी.
वैख् 03.15.(144.17)। नृपायां खनकः खनन.जीवी.
वैख् 03.15.(144.17-18) खननान् नृपायाम् उद्बन्धकः शूद्र.अस्पृश्यो वस्त्र.निर्णेजकः.
वैख् 03.15.(144.18-19)। पुल्कसाद् विप्रायां रजको वस्त्राणांरजो.निर्णेजकश् .
वैख् 03.15.(144.19-145.2)। चण्डालाद् विप्रायां श्वपचः चण्डालवच्चिह्न.युक्तो नित्य.निन्द्यः सर्वकर्म.बहिष्कार्यो नगर्यादौ मल.अपोहकः श्मशाने \वसन्) हेयपात्र.ग्राही प्रेतम् अबन्धुकं \विसृजेत).
वैख् 03.15.(145.3-4)। वध्यान् हत्वा तद्.वस्त्रादि.ग्राहीपराधीन.आहारो भिन्नपात्र.भोजी श्वमांस.भक्षी चर्म.वार.वाण.वाणिज्य.कारी \स्यात्).
वैख् 03.15.(145.4-5)। तस्मान् निकृष्टे सुते समुत्पन्ने पतितो नष्टोघोरान् नरकान् \व्रजति).
वैख् 03.15.(145.5-6)। सत्.पुत्रो नरकेभ्यस् त्रायकः पितृऋन्\पावयित्वा)। शुभांल् लोकान् \नयति).
वैख् 03.15.(145.6-8)। तस्माद् ब्राह्मणाद्याः सवर्णायां विधिवत् पुत्रम् \उत्पादयेयुर्)-इति विखनाः. एन्द् ओf थे तेxत्.
मूल पाठ: Vaikhānasadharmasūtra · Edition: W. Caland, Vaikhanasasmartasutram, the domestic rules of the Vaikhanasa school belonging to the Black Yajurveda, Calcutta 1927 · Data entry Hiromichi Hikita Yuuko Matsuda Yasuke Ikari · GRETIL (Göttingen) · CC BY-NC-SA 4.0