उपसंपदाज्ञप्ति · भाग 15
उज् इइ.इ.1
यस्य कस्यचित् प्रव्रज्यापेक्ष उपसं क्रा मति स तेनान्तरायिकान् धर्म्मान् पृष्ट्वोद्ग्रहीतव्य उद्गृह्य त्रीणि शरणग् अम नानि पञ्च च शिक्षापदान्य् उपासकसंवरो दातव्यः एवञ् च पुनर् दातव्यः (उप्ज्(ज्) 16.13-16; व्ग्ल्. क्षुद्र्-व्(भी) 9 अ1-4)
उज् इइ.इ.2
समन्वाहर भदन्त अहम् एवंनामा बुद्धं शरणं गच्छामि द्विपदानाम् अग्र्यं धर्मं शरणं गच्छामि विरागाणाम् अग्र्यं संघं शरणं गच्छामि गणानाम् अग्र्यम् उपासकं मां भदन्तो धारयतु यावज्जीवं ॥ एवं द्विर् अपि त्रिर् अपि वाच्यम्* ॥ (उप्ज्(ज्) 16.16-17.2; ~ स्क्त्.च् 43 र्7-व्1; व्ग्ल्. क्षुद्र्-व्(भी) 9 अ4-ब्1)
उज् इइ.इ.3अ
समन्वाहराचार्य यथा ते आर्या अर्हन्तो यावज्जीवं प्राणातिपातं प्रहाय प्राणातिपातात् प्रतिविरताः एवम् एवाहम् एवंनामा यावज्जीवं प्राणातिपातं प्रहाय प्राणातिपातात् प्रतिविरमाम्य् अनेनाहं प्रथमेनाङ्गेन तेषाम् आर्याणाम् अर्हतां शिक्षायाम् अनुशिक्षे अनुविधीये अनुकरोमि (उप्ज्(ज्) 17.3-5; 7.2-5; ~ स्क्त्.च् 43 व्1-4; व्ग्ल्. क्षुद्र्-व्(भी) 9 ब्1-4)
उज् इइ.इ.3ब्
यथा ते आर्या अर्हन्तो यावज्जीवम् अदत्तादानं काममिथ्याचारं मृषावादं सुरामैरेयमद्यप्रमादस्थानं प्रहाय सुरामैरेयमद्यप्रमादस्थानात् प्रतिविरताः एवम् एवाहम् एवंनामा यावज्जीवम् अदत्तादानं काममिथ्याचारं मृषावादं सुरामैरेयमद्यप्रमादस्थानं प्रहाय सुरामैरेयमद्यप्रमादस्थानात् प्रतिविरमाम्य् अनेनाहं पञ्चमेनाङ्गेन तेषाम् आर्याणाम् अर्हतां शिक्षायाम् अनुशिक्षे अनुविधीये अनुकरो मि एवं द्विर् अपि त्रिर् अपि ॥ (उप्ज्(ज्) 7.6-11; ~ स्क्त्.च् 43 व्4-44 र्1; व्ग्ल्. क्षुद्र्-व्(भी) 9 ब्4-10 अ2)
उज् इइ.इइ.1.1 सिएहे उन्तेन् 1.5 .
उज् इइ.इइ.1.2
ततः पश्चाद् भिक्षुर् अध्येषितव्यो य एकम् आरोचयति आरोचकेन भिक्षुणा प्रष्टव्यं पृष्टस् ते आसमुदाचारिकान् धर्मान् इत्य् अपृष्ट्वा आरोचयति सातिसारो भवति (उप्ज्(ज्) 7.12-14; व्ग्ल्. क्षुद्र्-व्(भी) 10 अ2-4)
उज् इइ.इइ.1.3
पश्चाद् आरोचकेन भिक्षुणा आरोचयितव्यं । एवञ् च पुनर् आरोचयितव्यं सर्वसङ्घे संनिषण्णे संनिपतिते अनुपरिगणिकया वा समीचीं त्रीं कृत्वा वृद्धान्ते उत्कुटुकेन स्थित्वा अञ्जलिं प्रगृह्य इदं स्याद् वचनीयं भदन्ताः समन्वाहृयतां । अयम् एवंनामा एवंनाम्नः प्रव्रज्यापेक्षो गृही अवदातवसनः अनवतारितकेशश्मश्रुर् आकांक्षते स्वाख्याते धर्मविनये प्रव्रजितुं सो ऽयम् एवंनामा एवंनाम्ना उपाध्याये न स्वाख्याते धर्मविनये केशश्मश्रुण्य् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजिष्यति । किं प्रव्रजत्व् इति (उप्ज्(ज्) 8.1-8; ~ स्क्त्.च् 44 र्1-4; व्ग्ल्. क्षुद्र्-व्(भी) 10 अ4-ब्2)
उज् इइ.इइ.1.4
सर्वैर् वक्तव्यं सचेत् परिशुद्धो भवतीति सचेत् वदन्तीति एवं कुशलं नो चेद् वदन्ति सातिसारा भवन्ति (उप्ज्(ज्) 8.8-10; व्ग्ल्. क्षुद्र्-व्(भी) 10 ब्2)
उज् इइ.इइ.1.5
ततः पश्चाद् उपाध्यायो याचितव्यः एवञ् च पुनर् याचितव्यः समीचीं कृत्वा पुरत उत्कुटुकेन स्थित्वा इदं स्याद् वचनीयम्* । समन्वाहराचार्य अहम् एवंनामा आचार्यम् उपाध्यायं याचे आचार्यो मे उपाध्यायो भवतु आचार्येणोपाध्यायेन प्रव्रजिष्यामि एवं द्विर् अपि त्रिर् अपि तृतीयायां तु वाचि उपाध्याय इति वक्तव्यं (उप्ज्(ज्) 8.11-15; ~ स्क्त्.च् 44 र्4-5; व्ग्ल्. क्षुद्र्-व्(भी) 10 ब्2-4)
उज् इइ.इइ.1.6
ततः प्रव्राजयितव्यः एवञ् च पुनः प्रव्राजयितव्यः समन्वाहर उपाध्याय अहम् एवंनामा बुद्धं शरणं गच्छामि द्विपदानाम् अग्र्यं धर्मं शरणं गच्छामि विरागाणाम् अग्र्यं संघं शरणं गच्छामि गणानाम् अग्र्यम्* । तं भगवन्तं शाक्यमुनिं शाक्यसिंहं शाक्याधिराजं तथागतम् अर्हन्तं सम्यक्संबुद्धं प्रव्रजितम् अनुप्रव्रजामि गृहलिङ्गम् उच्छृजामि प्रव्रज्यालिङ्गं समाददे एवं द्विर् अपि त्रिर् अपि (उप्ज्(ज्) 8.16-9.4; ~ स्क्त्.च् 44 र्5-व्1; व्ग्ल्. क्षुद्र्-व्(भी) 11 अ5-ब्4)
उज् इइ.इइ.1.7
ततः पश्चात् केशा अवतारयितव्याः ते सर्वान् एवावतारयन्ति । भगवान् आह चूडा स्थापयितव्या ततः पश्चात् प्रष्टव्यः अवतार्यतां चूडेति । यदि कथयति नेति वक्तव्यः अत एव गच्छ अथ कथयत्य् अवतार्याम् इति अवतारयितव्या । (उप्ज्(ज्) 9.5-8; व्ग्ल्. क्षुद्र्-व्(भी) 10 ब्4-11 अ1)
उज् इइ.इइ.1.8
ततः पश्चात् स्नापयितव्यः यदि शीतकालो भवति उष्णेन वारिणा स्नापयितव्यः अथोष्णकालो भवति शीतलेन (उप्ज्(ज्) 9.9-10; व्ग्ल्. क्षुद्र्-व्(भी) 11 अ1-3)
उज् इइ.इइ.1.9
ततः उपाध्यायेन काषायाणि वस्त्राणि दातव्यानि तेनापि पादयोर् निपत्य प्रतिगृहीतव्यानि तत उपाध्यायेन निवासयितव्यः प्रत्यवेक्षितव्यश् च मा अव्यञ्जन उभयव्यञ्जनो वेति । उक्तं भगवता प्रत्यवेक्षितव्यः इति ते विनग्नीकृत्य प्रत्यवेक्षन्ते भगवान् आह न विनग्नीकृत्य प्रत्यवेक्षितव्य अपि तु निवसन्न् एवाप्रतिसंविदितं प्रत्यवेक्षितव्य (उप्ज्(ज्) 9.10-17; व्ग्ल्. क्षुद्र्-व्(भी) 11 अ3-5)
उज् इइ.इइ.2.1 सिएहे ओबेन् 1.6.
उज् इइ.इइ.2.2
ततः पश्चाद् भिक्षुर् अध्येष्टव्यो । यो ऽस्य शरणगमनशिक्षापदान्य् अनुप्रयच्छति तेन तस्य समीचीं कृत्वा पुरत उत्कुटुकेन निषद्यांजलिं प्रगृह्य इदं स्याद् वचनीयं समन्वाहर भदन्त अहम् एव ं नामा बुद्धं शरणं गच्छामि द्विपदानाम् अग्र्यं धर्मं शरणं गच्छामि विरागाणाम् अग्र्यम्* । संघं शरणं गच्छामि गणानाम् अग्र्यम्* । श्रामणेरकं माम् भदन्तो धारयतु यावज्जीवं ॥ एवं द्विर् अपि त्रिर् अपि तृतीयायां वाचि वक्तव्यम्* श्रामणेरक ं च माम् आचार्यो धारयतु (उप्ज्(ज्) 10.1-9; ~ स्क्त्.च् 44 व्1-3; व्ग्ल्. क्षुद्र्-व्(भी) 11 ब्4-5)
उज् इइ.इइ.2.3 च्f. तिबेतन् .
उज् इइ.इइ.2.4अ
ततः शिक्षापदानि ग्राहयितव्यः । एवञ् च पुनर् ग्राहयितव्यः समन्वाहर आचार्य यथा ते आर्या अर्हन्तो यावज्जीवं प्राणातिपातं प्रहाय प्राणातिपा ता त् प्रतिविरताः एवम् एव अहम् एवंनामा यावज्जीवं प्राणातिपातं प्रहाय प्राणातिपातात् प्रतिविरमाम्य् अनेनाहं प्रथमेनाङ्गेन तेषाम् आर्याणाम् अर्हतां शिक्षायाम् अनुशिक्षे अनुविधीये अनुकरोमि । (उप्ज्(ज्) 10.9- 13; ~ स्क्त्.च् 44 व्3-5)
उज् इइ.इइ.2.4ब्
यथा ते आर्या अर्हन्तो यावज्जीवम् अदत्तादानम् अब्रह्मचर्यं मृषावादं सुरामैरेयमद्यप्रमादस्थानं नृत्तगीतवादितमालागन्धविलेपनवर्णकधारणम् उच्चशयनमहाशयनं अकालभोज नं जातरूपरजतप्रतिग्रहं प्रहाय जातरूपरजतप्रतिग्रहात् प्रतिविरताः एवम् एवाहम् एवंनामा यावज्जीवम् अदत्तादानं अब्रह्मचर्यं मृषावादं सुरामैरेयमद्यप्रमादस्थानं नृत्तगीतवादितमालागन्धविलेपनवर्णकधारणम् उच्चशयनमहाशयनं अकालभोजनं जातरूपरजतप्रतिग्रहं प्रहाय जातरूपरजतप्रतिग्रहात् प्रतिविरमाम्य् अनेनाहं दशमेना ं गेन तेषाम् आर्याणाम् अर्हतां शिक्षायाम् अनुशिक्षे अनुविधीये अनुकरोमि एवं द्विर् अपि त्रिर् अपि (उप्ज्(ज्) 10.14-22; ~ स्क्त्.च् 44 व्5-45 र्4)
उज् इइ.इइइ.1.1.1
उपसंपदाकर्म करणीयं ॥ ॥ ततो यदि परिपूर्णविंशतिवर्षो भवति तस्य पात्रचीवरं पर्येषितव्यं रहोऽनुशासको भिक्षुर् अध्येषितव्यः कर्मकारको भिक्षुर् अध्येषितव्यो ये मण्डलकं प्रवेक्ष्यन्ति (उप्ज्(ज्) 11.1-4)
उज् इइ.इइइ.1.1.2.1
ततः सर्वसंघे संनिषण्णे संनिपतिते अपश्चिमके वा । दशवर्गे मण्डलके त्रिः समीचीं कारयितव्यः द्वे समीच्यौ पञ्चमण्डलकेन वा जांघाप्रपीडनिकया वा त्रिः समीचीं कारयित्वा उपाध्यायो याचितव्यः यद्य् उपाध्याय उपाध्याय एव अथाचार्यः आचार्यः भदन्तो भदन्तः एवञ् च पुनर् याचितव्यः उपाध्यायस्य समीचीं कृत्वा इष्टके पुरतः पार्ष्णिभ्यान् निषद्यांजलिं प्रगृह्य इदं स्याद् वचनीयं (उप्ज्(ज्) 11.5-10)
उज् इइ.इइइ.1.1.2.2
समन्वाहर उपाध्याय अहम् एव ं नामा उपाध्यायम् उपाध्यायं याचे उपाध्यायो मे उपाध्यायो भवतु उपाध्यायेन उपाध्यायेनोपसंपत्स्ये एव ं द्विर् अपि तृर् अपि आचार्ये तु भदन्ते वा तृतीये वाचि वक्तव्यं उपाध्याय इति ॥ (उप्ज्(ज्) 11.10-12; ~ स्क्त्.च् 45 र्4-5)
उज् इइ.इइइ.1.1.3.1अ
ततश् चीवराण्य् अधिष्ठापयितव्यः यदि तावच् छिन्नकानि भवन्ति एवम् अधिष्ठापयितव्यः समन्वाहर उपाध्याय अहम् एवंनामा इदं चीवरं सांघाटीम् अधितिष्ठामि कृतनिष्ठितं चीवरं कल्पिकं पारिभोगिकं एवं द्विर् अपि तृर् अपि (उप्ज्(ज्) 11.13-15; ~ स्क्त्.च् 45 र्5-6; व्ग्ल्. क्षुद्र्-व्(भी) 15 अ1-2)
उज् इइ.इइइ.1.1.3.1ब्
समन्वाहर उपाध्याय अहम् एवंनामा इदं चीवरं उत्तरासंगम् अधितिष्ठामि कृतनिष्ठितं चीवरं कल्पिकं पारिभोगिकम्* । एवं द्विर् अपि तृर् अपि वक्तव्यं (उप्ज्(ज्) 11.16-17; ~ स्क्त्.च् 45 र्6-7; व्ग्ल्. क्षुद्र्-व्(भी) 15 अ2)
उज् इइ.इइइ.1.1.3.1च्
समन्वाहर उपाध्याय अहम् एवंनामा इदं चीवरं अन्तर्वासम् अधितिष्ठामि कृतनिष्ठितं चीवरं कल्पिकं पारिभोगिकं एवं द्विर् अपि त्रिर् अपि वक्तव्यं (उप्ज्(ज्) 11.18-20; ~ स्क्त्.च् 45 र्7-व्1; व्ग्ल्. क्षुद्र्-व्(भी) 15 अ2)
उज् इइ.इइइ.1.1.3.2अ
यद्य् अच्छिन्नानि भवन्त्य् एवम् अधिष्ठातव्यानि समन्वाहर उपाध्याय अहम् एवंनामा इ दं चीवरं सांघाटीम् अधितिष्ठामि आकांक्षं नवकं करिष्यामि अर्धतृतीयमण्डलकं अनन्तरायेण धाविष्ये वितरिष्यामि च्छेत्स्यामि संभत्स्यामि संग्रन्थिष्ये सेविष्यामि र ं क्ष्ये आसेवकान् वात्रारोपयिष्ये यथाप्रत्ययं वा करिष्यामि इदं चीवरं कल्पिकं पारिभोगिकं एवं द्विर् अपि त्रिर् अपि वाच्यं ॥ ॥ (उप्ज्(ज्) 12.1-5; ~ स्क्त्.च् 45 व्1-3)
उज् इइ.इइइ.1.1.3.2ब्
समन्वाहर उपाध्याय अहम् एवंनामा इदं चीवरं उत्तरासंगम् अधितिष्ठामि । आकांक्षं सप्तकं करिष्यामि अर्धतृतीयमण्डलकं अनन्तरायेण धाविष्ये । वितरिष्यामि च्छेत्स्यामि संभत्स्यामि संग्रन्थिष्ये सीविष्यामि रंक्ष्ये आसेवकान् वात्रारोपयिष्यामि यथाप्रत्ययं करिष्यामि इदं चीवरं कल्पिकं पारिभोगिकं एवं द्विर् अप्य् एवं त्रिर् अपि वक्तव्यं ॥ ॥ (उप्ज्(ज्) 12.6-10; ~ स्क्त्.च् 45 व्3-5)
उज् इइ.इइइ.1.1.3.2च्
समन्वाहर उपाध्याय अहम् एवंनामा इदं चीवरं अन्तर्वासम् अधितिष्ठामि आकांक्षं पञ्चकं करिष्याम्य् अ ध्य र्धमण्डलकं अनन्तरायेण धाविष्ये । वितरिष्यामि च्छेत्स्यामि संभत्स्यामि संग्रन्थिष्ये सेविष्यामि रंक्ष्ये आसेवकान् वात्रारोपयिष्यामि यथाप्रत्ययं करिष्यामि । इदं चीवरं कल्पिकं पारिभोगिकं ॥ एवं द्विर् अपि त्रिर् अपि वाच्यम्* (उप्ज्(ज्) 12.11-15; ~ स्क्त्.च् 45 व्5-46 र्1)
उज् इइ.इइइ.1.1.4
ततः संघे पात्रं दर्शयितव्यं इदम् अस्य पात्रम् अप्य् एवं मा ऊनपात्रं वाधिकपात्रं वा भविष्यतीति (उप्ज्(ज्) 12.16-17; व्ग्ल्. क्षुद्र्-व्(भी) 15 अ2-3)
उज् इइ.इइइ.1.1.5
ततो ऽधिष्ठातव्यं एवञ् च पुनर् अधिष्ठातव्यं । वामे पाणौ पात्रं प्रतिष्ठाप्य दक्षिणेन पाणिना प्रतिच्छाद्य वक्तव्यं समन्वाहर उपाध्याय । अहम् एवंनामा इदं पात्रं ऋषिभाजनं भैक्षभाजनम् अधितिष्ठामि भोजने पारिभोगिकम् एवं द्विर् अप्य् एवं त्रिर् अपि वाच्यम्* (उप्ज्(ज्) 12.18-21; ~ स्क्त्.च् 46 र्1-2; व्ग्ल्. क्षुद्र्-व्(भी) 15 अ3-5)
उज् इइ.इइइ.1.2.1
ततः पश्चाच् छ्रमणोपविचारं विहाय्य दर्शनोपविचारे अञ्जलिम् प्रगृह्य गणाभिमुखः स्थापयितव्यः ततः कर्मकारकेण भिक्षुणा प्रष्टव्यं को ऽ धी ष्ट एवंनाम्ना एवंनाम्नो रहोऽनुशासक इति यो ऽधीष्टस् तेन वक्तव्यम् अहम् एवंनामेति (उप्ज्(ज्) 13.1-4; ~ स्क्त्.च् 46 र्2; व्ग्ल्. क्षुद्र्-व्(भी) 15 अ5-ब्1)
उज् इइ.इइइ.1.2.2
ततः पश्चाद् उत्साहयितव्य । उत्सहसे त्वम् एवंनामानं रहस्य् अनुशासितुं एवंनाम्ना उपाध्यायेन तेन वक्तव्यं उत्सहे (उप्ज्(ज्) 13.5-6; ~ स्क्त्.च् 46 र्2-3; व्ग्ल्. क्षुद्र्-व्(भी) 15 ब्1-3)
उज् इइ.इइइ.1.2.3
ततः कर्मकारकेण भिक्षुणा मुक्तिका ज्ञप्तिः कर्तव्या । शृणोतु भदन्ताः सङ्घः अयम् एवंनामा भिक्षु उत्सहते एवंनामानं रहोऽनुशासितुं एवंनाम्ना उपाध्यायेन सचेत् सङ्घस्य प्राप्तकालं क्षमते ऽनुजानीयात् संघो यत् सङ्घः एवंनामानं भिक्षुम् एवंनाम्नो रहोऽनुशासकं स ं मन्येत अयम् एवंनामा भिक्षुर् एवंनामानं रहोऽनुशासिष्यति एवंनाम्ना उपाध्यायेन एषा ज्ञप्तिः ॥ ॥ (उप्ज्(ज्) 13.7-12; ~ स्क्त्.च् 46 र्3-5; व्ग्ल्. क्षुद्र्-व्(भी) 15 ब्3-16 अ1)
उज् इइ.इइइ.1.3.1
ततः पश्चा रहोऽनुशासकेन भिक्षुणा आत्मनः समीचीं कारयित्वा उत्कुटुकं निषादयित्वा अञ्जलिं प्रगृह्य इदं स्याद् वचनीयम्* शृणु त्वम् आयुष्मन्न् अयं ते सत्यकालो ऽयं भूतकालः य त् त्वाहं किञ्चित् पृच्छामि सर्व ं त त् त्व या विशारदेन भूत्वा भूतञ् च भूततो वक्तव्यम् अभूतञ् चाभूततो निर्वेठयितव्यम् (उप्ज्(ज्) 13.13-17; ~ स्क्त्.च् 46 र्5-7; व्ग्ल्. क्षुद्र्-व्(भी) 16 अ1-2)
उज् इइ.इइइ.1.3.2
पुरुषो ऽसि पुरुषः पुरुषेन्द्रियेण समन्वागतः समन्वागतः परिपूर्णविंशतिवर्षः परिपूर्णविंशतिवर्षः परिपूर्णं ते त्रिचीवरं पात्रञ् च परिपूर्णम्* । जीवतस् ते मातापितरौ यदि कथयति जीवत इति वक्तव्यम् अनुज्ञातो ऽसि मातापितृभ्यां अनुज्ञातः यदि कथयति मृताव् इति वक्तव्यं मासि दासो मा प्राप्तको मा वक्तव्यको मा आहृतको मा विक्रीतको मा राजभटः मा राजकिल्विषी मा राजापथ्यकर्मकारी मा ते राजापथ्यं कर्म कृतं वा कारितम् वा । मासि चौरो ध्वजबद्धक मा षण्ढको मा पण्डको मा अव्यञ्जन मा उभयव्यञ्जनको मा भिक्षुणीदूषको मा मातृघातको मा पितृघातको मार्हन्तघातको मा संघभेदको मा तथागतस्यान्तिके दुष्टचित्तरुधिरोत्पादकः मा तीर्थिको मा तीर्थिकावक्रान्तको मा स्तेयसंवासिको मा नानासंवासिको मा असंवासिको मा निर्मितकः मा ते कस्यचि त् किंचिद् देयम् अल्पं वा प्रभूतं वा यदि कथयति देयं वक्तव्यं शक्ष्यसि प्रव्रज्य दातुं यदि कथयति नेति वक्तव्यम् अत एव गच्छ यदि कथयति शक्ष्यामीति वक्तव्यं (उप्ज्(ज्) 13.18-15.7; ~ स्क्त्.च् 46 र्7-व्6; व्ग्ल्. क्षुद्र्-व्(भी) 16 अ2-ब्2)
उज् इइ.इइइ.1.3.3
मासि पूर्वं प्रव्रजित इति । यदि कथयति प्रव्रजित इति वक्तव्यं मासि चतुर्णां पाराजिकानाम् अन्यतमान्यतमाम् आपत्तिम् आपन्नो विभ्रमता वा ते शिक्षा सम्यग् न्यस्ता यदि कथयत्य् आपन्नो ऽहं वक्तव्यम् अत एव गच्छ । अथ कथयति नेति वक्तव्यं कच्चिद् अस्य् एतर्हि प्रव्रजित इति । यदि कथयति प्रव्रजितो ऽहं वक्तव्यं सम्यक् ते ब्रह्मचर्यं चीर्णम्* । चीर्ण ं किंनामा त्वं एवंनामा किंना मा ते उपाध्यायः अर्थहेतोर् नाम गृह्णामि एवंनामा मे उपाध्यायः (उप्ज्(ज्) 15.8-17; ~ स्क्त्.च् 46 व्6-7; व्ग्ल्. क्षुद्र्-व्(भी) 16 ब्2-5)
उज् इइ.इइइ.1.3.4
शृणु त्वम् आयुष्मन् भवन्ति खलु पुरुषाणाम् इम एवंरूपाः काये कायिका आबाधा तद्यथा कुष्ठं गण्डं किटिभं किलासो दर्द्रु कण्डू कच्छू रजतं विचर्चिका हिक्का च्छर्दी विसूचिका लोहलिंगा रक्तं पित्तं गुल्मं भगन्दरो क्षयः कासः श्वासः शोषो ऽपस्मार आटक्करः पाण्डुरोगो ऽङ्गभेदास्थिभेदः पार्श्वभेदो मूत्ररोगो ऽतीसारः श्लीपदं क्लमो ज्वरः प्रज्वरः एकाहिको द्वितीयकः तृतीयकश् चतुर्थकः सांनिपातिकः सततज्वरो विषमज्वरः मा ते इम एवंरूपाः काये कायिका आबाधाः संविद्यन्ते अन्ये वा पुनर् एवंजातीया (उप्ज्(ज्) 15.18-16.6; ~ स्क्त्.च् 46 व्7-47 र्4; व्ग्ल्. क्षुद्र्-व्(भी) 16 ब्5-17 अ3)
उज् इइ.इइइ.1.3.5
यद् अस्य् एतर्हि मया पृष्टः एतद् एव ते सङ्घमध्ये सब्रह्मचारिणः प्रक्ष्यन्ति तत्रापि ते विशारदेन भूत्वा भूतं च भूततो वक्तव्यम् अभूतं चाभूततो निर्वेठयितव्यं तिष्ठ मा अशब्दित आगमिष्य सी ति (उप्ज्(ज्) 16.7-9; ~ स्क्त्.च् 47 र्4-6; व्ग्ल्. क्षुद्र्-व्(भी) 17 अ3-4)
उज् इइ.इइइ.2.1.1
ततः पश्चाद् रहोऽनुशासकेन भिक्षुणा अन्तर् मार्गे स्थित्वा वक्तव्यं शृणोतु भदन्ताः सङ्घः समनुशिष्टो मया एवंनामा रहस्य् आन्तरायिकान् धर्मान् एवंनाम्ना उपाध्यायेन किम् आगच्छतु (उप्ज्(ज्) 16.10- 12; ~ स्क्त्.च् 47 र्6-7; व्ग्ल्. क्षुद्र्-व्(भी) 17 अ4-5)
उज् इइ.इइइ.2.1.2
सर्वैर् वक्तव्यं सचेत् परिशुद्ध्यतीति । सचेद् व दन्तीत्य् एवं कुशलं नो चेद् वदन्ति सातिसारा भवन्ति । (उप्ज्(ज्) 16.12-13, 17.5-6; व्ग्ल्. क्षुद्र्-व्(भी) 17 अ5)
उज् इइ.इइइ.2.1.3अ
ततः पश्चात् कर्मकारकस्य भिक्षोः समीचीं कारयित्वा इष्टकेषु पुरस्तात् पार्ष्णिभ्यान् निषद्यांजलिं प्रगृह्योपसंपदं याचयितव्यः एवञ् च पुनः याचयितव्यः (उप्ज्(ज्) 17.7-9; व्ग्ल्. क्षुद्र्-व्(भी) 17 अ5-ब्1; 18 ब्5-19 अ2; कवा(भी) व्1)
उज् इइ.इइइ.2.1.3ब्
शृणोतु भदन्ताः संघः अहम् एवंनामा अर्थहेतोर् नाम गृह्णामि एवंनाम्न उपाध्यायस्य उपसंपत्प्रेक्षः सो ऽहम् एवंनामा संघाद् उपसंपदं याचे अर्थहेतोर् नाम गृह्णामि ए वंनाम्नोपाध्यायेन उपसंपादयतु मां भदन्ताः संघः उल्लुंपतु मां भदन्ताः संघः अनुगृह्णातु मां भदन्ताः संघः अनुकम्पतु मां भदन्ताः संघः अनुकम्पको ऽनुकम्पाम् उपादाय एवं द्विर् अपि त्रिर् अपि ॥ (उप्ज्(ज्) 17.10-14; ~ स्क्त्.च् 47 र्7-व्2; व्ग्ल्. क्षुद्र्-व्(भी) 17 ब्1-3; 19 अ2-4; कवा(भी) व्1-2)
उज् इइ.इइइ.2.2.1
ततः पश्चात् कर्मकारकेण भिक्षुणा मुक्तिका ज्ञप्तिः कर्तव्या : शृणोतु भदन्ताः संघः अय् अं एवंनामा एवंनाम्न उपसंपत्प्रेक्षः सो ऽयम् एवंनामा संघाद् उपसंपदं याचते एवंनाम्नोपाध्यायेन सचेत् संघस्य प्राप्तकालं क्षमते ऽनुजानीयात् संघो यद् वयम् एवंनामानं सङ्घमध्ये ऽन्तरायिकान् धर्मान् पृच्छेम एवंनाम्ना उपाध्यायेन एषा ज्ञप्तिः (उप्ज्(ज्) 17.15-18.2; ~ स्क्त्.च् 47 व्2-4; व्ग्ल्. क्षुद्र्-व्(भी) 17 ब्3-5; 19 अ4-ब्1; कवा(भी) व्3-4)
उज् इइ.इइइ.2.2.2
ततः पश्चाद् वक्तव्यं शृणु त्वम् आयुष्मन्न् अयं ते सत्यकालो ऽयं भूतकालः पूर्ववद् यावत् संविद्यन्ते अन्ये वा पुनर् एवंजातीयाः (उप्ज्(ज्) 18.3-4; ~ स्क्त्.च् 47 व्4-5; व्ग्ल्. क्षुद्र्-व्(भी) 17 ब्5-18 अ2; 19 ब्1-20 ब्4; कवा(भी) व्4-र्3)
उज् इइ.इइइ.2.3.1
ततः पश्चा ज्ञप्तिं कृत्वा कर्म कर्तव्यं एवञ् च पुनः कर्तव्यं शृणोतु भदन्ताः सङ्घः अयम् एवंनामा एवंनाम्नः उपसंपत्प्रेक्षः पुरुषः परिपूर्णविंशतिवर्षः परिपूर्णम् अस्य तृचीवरं पात्रञ् च । परिशुद्धम् अन्तरायिकैर् धर्मैर् आत्मानं वदति सो ऽयम् एवंनामा एवंनाम्ना उपाध्यायेन संघाद् उपसंपदं याचते । सचेत् सङ्घस्य प्राप्तकालं क्षमते ऽनुजानीयात् सङ्घः यत् संघ एवंनामानम् उपसंपादयेद् एवंनाम्ना उपाध्यायेन एषा ज्ञप्तिः (उप्ज्(ज्) 18.5-10; ~ स्क्त्.च् 47 व्5-48 र्1; व्ग्ल्. क्षुद्र्-व्(भी) 18 अ2-5; 20 ब्4-21 अ4; कवा(भी) र्3-4)
उज् इइ.इइइ.2.3.2
एवं कर्म कर्तव्यं शृणोतु भदन्ताः सङ्घः अयम् एवंनामा एवंनाम्न उपस ंप त्प्रेक्षः पुरुषः परिपूर्णविंशतिवर्षः परिपूर्णम् अस्य तृचीवरं पात्रञ् च । परिशुद्धम् अन्तरायिकैर् धर्मैर् आत्मानं वदति । सो ऽयम् एवंनामा एवंनाम्ना उपाध्यायेन संघाद् उपसंपदं याचते तत् संघ एवंनामानम् उपसंपाद य त्य् एवंनाम्ना उपाध्यायेन येषाम् आयुष्मतां क्षमते एवंनामानम् उपसंपादयितुम् एवंनाम्ना उपाध्याये न ते तूष्णीं येषां न क्षमते ते भाषन्तां इयं प्रथमा कर्मवाचना एवं द्वितीया तृतीया कर्मवाचना वक्तव्या : (उप्ज्(ज्) 18.11-19; ~ स्क्त्.च् 48 र्1-5; व्ग्ल्. क्षुद्र्-व्(भी) 18 अ5-ब्4; 21 अ4-ब्4; कवा(भी) र्4-7)
उज् इइ.इइइ.2.3.3
उपसंपादितः संघेन अयम् एवंनामा एवंनाम्ना उपाध्यायेन क्षान्तम् अनुज्ञातं संघेन यस्मात् तूष्णीम् एवम् एतद् धारयामि । (उप्ज्(ज्) 18.19-20; ~ स्क्त्.च् 48 र्5-6; व्ग्ल्. क्षुद्र्-व्(भी) 18 ब्4-5; 21 ब्4-5)
उज् इइ.इइइ.3.1
ततः पश्चाच् छाया मापयितव्या । उक्तं भगवता च्छाया मापयितव्येति । भिक्षवः पदैर् मापयन्त्य् अतिचिरं भवति भागवान् आह । न पदैर् मापयितव्या । संकुना मापयितव्या भिक्षवो ऽतिदीर्घेण मापयन्ति । तथाप्य् अतिचिरम् भवति । भगवान् आह । चतुरंगुलमात्रेण शंकुना मापयितव्या यावन्तः श ं कवस् तावन्तः पुरुषा वक्तव्याः (उप्ज्(ज्) 18.21-19.2; व्ग्ल्. क्षुद्र्-व्(भी) 21 ब्5-22 अ2)
उज् इइ.इइइ.3.2
ततः पश्चात् काल आरोचयितव्यः पूर्वाह्णो मध्याह्नः सायाह्नः रात्र्याः प्रथमो ऽर्धयामो यामः मध्यो ऽर्धयामो यामः पश्चिमो ऽर्धयामो यामः अनुद्धतो ऽरुणः उद्धतो ऽरुणः अनुदित आदित्य उदित आदित्यः अष्टभागोदित आदित्य चतुर्भागोदित आदित्यः अपरिणतो मध्याह्नः परिणतो मध्याह्नः चतुर्भागावशिष्टो दिवसो ऽष्टभागावशिष्टो दिवसः अनस्तंगत आदित्यः अस्तंगत आदित्यः । अनुदितानि नक्षत्राण्य् उदितानि नक्षत्राणि ॥ (उप्ज्(ज्) 19.3-8; व्ग्ल्. क्षुद्र्-व्(भी) 22 अ4-5)
उज् इइ.इइइ.3.3
ततः पश्चात् समया आरोचयितव्याः पञ्च समया हैमन्तिको ग्रैष्मिको वार्षिको मृतवार्षिको दीर्घवार्षिकः तत्र हैमन्तिकः चत्वारो मासा मार्गशीर्षपुष्यमाघफाल्गुनः ग्रैष्मिकः चत्वारो मासाः चैत्रवैशाखजेष्ठाषाढः वार्षि क ए को मासः श्रावणः मृतवार्षिक एकं रात्रिंदिनं भाद्रपदस्य मासस्य प्रतिपत्* दीर्घवार्षिक एकरात्र्यूनास् त्रयो मासाः भाद्रपदाश्वयुजकार्तिकः ॥ (उप्ज्(ज्) 19.9-14; व्ग्ल्. क्षुद्र्-व्(भी) 22 अ2-4)
उज् इइइ.इ.1
ततः पश्चाच् चत्वारो निश्रया आरोचयितव्याः शृणु त्वम् आयुष्मंश् चत्वार इमे तेन भगवता जानता पश्यता तथागतेनार्हता सम्यक्संबुद्धेन एवं प्रव्रजितोपसंपन्नस्य भिक्षोर् निश्रया आख्याताः यान् निश्रित्य भिक्षोः स्वाख्याते धर्मविनये प्रव्रज्योपसंपद् भिक्षुभावः कतमे चत्वारः (उप्ज्(ज्) 19.15-19; ~ स्क्त्.च् 48 र्6-7; व्ग्ल्. क्षुद्र्-व्(भी) 22 अ5-ब्2)
उज् इइइ.इ.2.1
पांसुकूलं चीवराणां कल्पिकं च सुलभञ् च यन् निश्रित्य भिक्षोः स्वाख्याते धर्मविनये प्रव्रज्योपसंपद् भिक्षुभावः उत्सहसे त्वम् एवंनामन् यावज्जीवं पांसुकूलेन चीवरेण यापयितुं तेन वक्तव्यम् उत्सहे अतिरेकलाभः पट्टा वा पटा वा । प्रावारा वा । अंशुका वा । कौशेया वा । दुकूलिका वा । क्षोमका वा । कोट्टम्बका वा । शाणका वा । कार्पासिका वा । आमिला वा । सोमिला वा कृमिला वा कृमिवर्णा वा । समवर्णा वा । सुवर्णा वा । दु र् वर्णा वा । काशिकसूक्ष्मम् वा । क्षोमकसूक्ष्मं वा दुकूलकसूक्ष्मं वा । कोट्टम्बकसूक्ष्मं वा इति यद् वा पुनर् अन्यद् अपि कल्पिकं चीवरं संघाद् वा उत्पद्येत पुद्गलतो वा तत्रापि ते प्रतिग्रहे मात्रा करणीया । कच्चिद् एवंरूपं स्थानम् अभिसंभोत्स्यसे । तेन वक्तव्यम् अभिसंभोत्स्ये । (उप्ज्(ज्) 20.1-9; ~ स्क्त्.च् 48 र्7-व्4; व्ग्ल्. क्षुद्र्-व्(भी) 22 ब्2-23 अ1)
उज् इइइ.इ.2.2
शृणु त्वम् एवंनाम पिण्डपातो भोजनानां कल्पिकश् च सुलभश् च । यन् निश्रित्य भिक्षोः स्वाख्याते धर्मविनये प्रव्रज्योपसंपद् भिक्षुभावः उत्सहसे त्वम् एवंनाम यावज्जीव ं पिण्डपातेन भोजनेन यापयितुम्* । तेन वक्तव्यं उत्सहे अतिरेकलाभः भक्तानि वा तर्पणानि वा यवागूपानानि वा । नैत्यकानि वा । निमन्त्रणकानि वा पाञ्चमिकं वा । आष्टमिकं वा । चातुर्दशिकं वा । पाञ्चदशिकं वा । औत्पातिकं वा । उत्पिण्ड ं वा इति । यद् वा पुनर् अन्यद् अपि कल्पिकं पिण्डपातं संघाद् वा उत्पद्येत पुद्गलतो वा । तत्रापि ते प्रतिग्रहे मात्रा करणीया कच्चिद् एवंरूपं स्थानम् अभिसंभोत्स्यसे । तेन वक्तव्यम् अभिसंभोत्स्ये । (उप्ज्(ज्) 20.10-17; ~ स्क्त्.च् 48 व्4-49 र्2; व्ग्ल्. क्षुद्र्-व्(भी) 23 अ1-4)
उज् इइइ.इ.2.3
शृणु त्वम् एवंनामन्* । वृक्षमूलं शयनासनानां कल्पिकं च सुलभञ् च यन् निश्रित्य भिक्षोः स्वाख्याते धर्मविनये प्रव्रज्योपसंपद् भिक्षुभावः उत्सहसे त्वम् एवंनामन् यावज्जीवं वृक्षमूलेन शयनासनेन यापयितुं तेन वक्तव्यम् उत्सहे । अतिरेकलाभः लयनानि वा माला वा । कूटागाराणि वा । हर्मिका वा रुदन्तिका वा । प्रासादा वा । वालाग्रपोतिका वा । आमलकपृष्ठिका वा । भूमिगुहा वा । गिरिगुहा वा । प्राग्भारगुहा वा । दण्डच्छदनानि वा । पत्रच्छदनानि वा । तृणकुटिका वा । पर्णकुटिका वा । कृतचंक्रमा वा । अकृतचंक्रमा वा । कृतप्राग्भारा वा । अकृतप्राग्भारा वा इति यद् वा पुनर् अन्यद् अपि कल्पिकं शयनासनं संघाद् वा उत्पद्येत पुद्गलतो वा तत्रापि ते प्रतिग्रहे मात्रा करणीया । कच्चिद् एवंरूपं स्थानम् अभिसंभोत्स्यसे । तेन वक्तव्यम् अभिसंभोत्स्ये । (उप्ज्(ज्) 20.18-21.6; ~ स्क्त्.च् 49 र्2-7)
उज् इइइ.इ.2.4
शृणु त्वम् एवंनाम पूतिमुक्तं भैषज्यानां कल्पिकञ् च सुलभञ् च यन् निश्रित्य भिक्षोः स्वाख्याते धर्मविनये प्रव्रज्योपसंपद् भिक्षुभावः उत्सहसे त्वम् एवंनामन् यावज्जीवं पूतिमुक्तेन भैषज्येन यापयितुम्* । तेन वक्तव्यम् उत्सहे । अतिरेकलाभः सर्पि स् तैलं मधु फाणितं कालिकं यामिकं साप्ताहिकं यावज्जीविकं मूलभैषज्यं गण्डभैषज्यं पत्रभैषज्यं पुष्पभैषज्यं फलभैषज्यम् इति यद् वा पुनर् अन्यद् अपि कल्पिकं भैषज्यं सङ्घाद् वा उत्पद्येत पुद्गलतो वा तत्रापि ते प्रतिग्रहे मात्रा करणीया । कच्चिद् एवंरूपं स्थानं अ भिसंभोत्स्यसे । तेन वक्तव्यम् अभिसंभोत्स्ये (उप्ज्(ज्) 21.7-14; ~ स्क्त्.च् 49 र्7-व्5; व्ग्ल्. क्षुद्र्-व्(भी) 23 अ4-ब्2)
उज् इइइ.इइ.1.1
ततः पश्चाच् चत्वारः प त नीया धर्माः आरोचयितव्या । एवञ् च पुनर् आरोचयितव्याः शृणु त्वम् एवंनामंश् चत्वार इमे तेन भगवता जानता पश्यता तथागतेनार्हता सम्यक्स ं बुद्धेन एवं प्रव्रजितोपसंपन्नस्य भिक्षोः पतनीया धर्मा आख्याता येषां भिक्षुर् अन्यतमान्यतमं स्थानम् अध्यापद्य स हाध्या प त् त्या अभिक्षुर् भवत्य् अश्रमणो ऽशाक्यपुत्रीयो ध्वस्यते भिक्षुभावाद् धत म् अ स्य भवति श्रामण्यं ध्वस्तं मथितं पतितं पराजितम् अप्रत्युद्धार्यम् अस्य भवति श्रामण्यम्* । (उप्ज्(ज्) 21.16-21; ~ स्क्त्.च् 49 व्5-50 र्1; व्ग्ल्. क्षुद्र्-व्(भी) 23 ब्2-5)
उज् इइइ.इइ.1.2
तद्यथा तालो मस्तकाच् छिन्नो ऽभव्यो हरितत्वायाभव्यो विरूढिं वृद्धिं विपुलताम् आपत्तुम् । एवम् एव भिक्षुर् एषाम् चतुर्णां स्थानानाम् अन्यतमान्यतमं स्थानम् अध्यापद्य सहाध्यापत्त्या अभिक्षुर् भवत्य् अश्रमणो ऽशाक्यपुत्रीयो ध्वस्यते भिक्षुभावाद् धतम् अस्य भवति श्रामण्यं ध्वस्तं मथितं पतितं पराजितम् अप्रत्युद्धार्यम् अस्य भवति श्रामण्यम् । कतमे चत्वारः (उप्ज्(ज्) 22.1; व्ग्ल्. क्षुद्र्-व्(भी) 23 ब्5-24 अ2)
उज् इइइ.इइ.2.1.1
अनेकपर्यायेणायुष्मं भगवता कामा विगर्हिताः कामालयः काम नियन्तिः कामाध्यवसानं कामानां प्रहाणं वर्णितं प्रतिनिःसर्गो व्यन्तीभावः क्षयो विरागो निरोधो व्युपशमो ऽस्तगमः स्तुतः स्तोमितो वर्णितः प्रशस्तः अद्याग्रेण ते आयुष्मं संरक्तचित्तेन मातृग्रामश् चक्षुषा चक्षु र् उपनिध्याय्य न व्यवलोकयितव्यः कः पुनर् वादो द्वयद्वयसमाप त् त्या अब्रह्मचर्यं मैथुनं धर्मं प्रतिसेवितुं (उप्ज्(ज्) 22.1-5; ~ स्क्त्.च् 50 र्1- 4; व्ग्ल्. क्षुद्र्-व्(भी) 24 अ2-5)
उज् इइइ.इइ.2.1.2
उक्तं चैतद् आयुष्मंस् तेन भगवता जानता पश्यता तथागतेनार्हता सम्यक्स ं बुद्धेन यः पुनर् भिक्षुर् भिक्षुभिः सार्धं शिक्षासमीचीं समापन्नः शिक्षाम् अप्रत्याख्याय शिक्षादौर्बल्यम् अनाविष्कृत्वाब्रह्मचर्यं मैथुनं धर्मं प्रतिषेवेतान्त त स् तिर्यग्योनिगतयापि सार्धम् इत्य् (उप्ज्(ज्) 22.5-8; ~ स्क्त्.च् 50 र्4-6; व्ग्ल्. क्षुद्र्-व्(भी) 24 अ5-ब्1)
उज् इइइ.इइ.2.1.3.1
एवंरूपं भिक्षुः स्थानम् अध्यापद्य सहाध्याप त् त्या अभिक्षुर् भवत्य् अश्रमणो ऽशाक्यपुत्रीयो ध्वस्यते भिक्षुभावाद् धतम् अस्य भवति श्रामण्यं ध्वस्तं मथितं पतितं पराजितम् अप्रत्युद्धार्यम् अस्य भवति श्रामण्यं (उप्ज्(ज्) 22.8-11; ~ स्क्त्.च् 50 र्6-व्1; व्ग्ल्. क्षुद्र्-व्(भी) 24 ब्1-3)
उज् इइइ.इइ.2.1.3.2
तद्यथा तालो मस्तकाच् छिन्न अभव्यो हरितत्वायाभव्यो विरूढिं वृद्धिं विपुलताम् आपत्तुं (उप्ज्(ज्) 22.11-12; ~ स्क्त्.च् 50 व्1; व्ग्ल्. क्षुद्र्-व्(भी) 24 ब्3)
उज् इइइ.इइ.2.1.4
एवम् एव भिक्षुर् एवंरूपं स्थानम् अध्यापद्य सहाध्याप त् त्या यावद् अप्रत्युद्धार्यम् अस्य भवति श्रामण्यं तत्र ते ऽद्याग्रेणानध्याचारे ऽनध्यापत्ताव् अनध्याचारवैरमण्यां तीव्रश् चेतस आरक्षा स्मृत्यप्रमादे योगः करणीयः (उप्ज्(ज्) 22.12-15; ~ स्क्त्.च् 50 व्1-2; व्ग्ल्. क्षुद्र्-व्(भी) 24 ब्3-5)
उज् इइइ.इइ.2.1.5
कच्चिद् एवंरूपं स्थानं नाध्यापत्स्यसे तेन वक्तव्यं नाध्यापत्स्ये (उप्ज्(ज्) 22.15-16; ~ स्क्त्.च् 50 व्2-3; व्ग्ल्. क्षुद्र्-व्(भी) 24 ब्5)
उज् इइइ.इइ.2.2.1
शृणु त्वम् आयुष्मंन् अनेकपर्यायेण भगवता अदत्तादानं विगर्हितं अदत्तादानविरतिः स्तुता स्तोमिता वर्णिता प्रशस्ता अद्याग्रेण ते आयुष्मं स्तेयचित्तेन अन्ततस् तिलतुषम् अपि परकीयम् अदत्तं नादातव्यं कः पुनर् वादः पञ्चमासिकं वा उत्तरपञ्चमासिकं वा । (उप्ज्(ज्) 22.17-23.1; ~ स्क्त्.च् 50 व्3-5; व्ग्ल्. क्षुद्र्-व्(भी) 24 ब्5-25 अ2)
उज् इइइ.इइ.2.2.2
उक्तं चैतद् आयुष्मन् तेन भगवता जानता पश्यता तथागतेनार्हता सम्यक्संबुद्धेन यः पुनर् भिक्षुः ग्रामगतम् अरण्यगतम् वा अदत्तम् परेषां स्तेयसंख्यातम् आददीत यद्रूपेणादत्तादानेन राजा वैनं गृहीत्वा राजमात्रो वा हन्याद् वा बध्नीयाद् वा प्रवासयेद् वा एवं चैनं वदेद् धम्भो पुरुष चौरो ऽसि बालो ऽसि मूढो ऽसि स्तेयो ऽसीत्य् (उप्ज्(ज्) 23.1-5; ~ स्क्त्.च् 50 व्5-7; व्ग्ल्. क्षुद्र्-व्(भी) 25 अ2-4)
उज् इइइ.इइ.2.2.3
एवंरूपं भिक्षुः स्थानम् अध्यापद्य सहाध्याप त् त्या अभिक्षुर् भवति यावत् तद्यथा तालो मस्तकाच् छिन्नः यावन् नाध्यापत्स्ये (उप्ज्(ज्) 23.5-6; ~ स्क्त्.च् 50 व्7-51 र्1; व्ग्ल्. क्षुद्र्-व्(भी) 25 अ4-5)
उज् इइइ.इइ.2.3.1
शृणु त्वम् आयुष्मन्न् अनेकपर्यायेण भगवता प्राणातिपातो विगर्हितः प्राणातिपातविरति ः स्तुता स्तोमिता वर्णिता प्रशस्ता अद्याग्रेण ते आयुष्मं स ं चिन्त्य अन्ततः कुन्तपिपीलिको ऽपि प्राणी जीवितान् न व्यपरोपयितव्यः कः पुनर् वादो मनुष्यो वा मनुष्यविग्रहो वा (उप्ज्(ज्) 23.7-10; ~ स्क्त्.च् 51 र्1-3; व्ग्ल्. क्षुद्र्-व्(भी) 25 अ5-ब्1)
उज् इइइ.इइ.2.3.2
उक्तं चैतद् आयुष्मंस् तेन भगवता जानता पश्यता तथागतेनार्हता सम्यक्संबुद्धेन यः पुनर् भिक्षुर् मनुष्यं वा मनुष्यविग्रहं वा स्वहस्तं संचिन्त्य जीविताद् व्यपरोपयेच् छस्त्रं वैनम् आधारयेच् छस्त्राधारकं वास्य पर्येषेत मरणाय वैनं समादापयेन् मरणावर्णं वास्यानुसंवर्णयेत्* एवं चैनं वदेद् धम्भो पुरुष किं ते ऽनेन पापकेनाशुचिना दुर्जीवितेन मृतं ते भोः पुरुष जीविताद् वरम् इति चित्तानुमतैश् चित्तसंकल्पैर् अनेकपर्यायेण मरणाय वैनं समादापयेन् मरणावर्णं वास्यानुसंवर्णयेत्* । स च तेनोपक्रमेण कालं कुर्याद् इत्य् (उप्ज्(ज्) 23.10-16; ~ स्क्त्.च् 51 र्3-व्1; व्ग्ल्. क्षुद्र्-व्(भी) 25 ब्1-4)
उज् इइइ.इइ.2.3.3
एवंरूपं भिक्षुः स्थानम् अध्यापद्य सहाध्याप त् त्या अभिक्षुर् भवत्य् अश्रमणो ऽशाक्यपुत्रीयः पूर्ववद् यावन् नाध्यापत्स्ये (उप्ज्(ज्) 23.16-17; ~ स्क्त्.च् 51 व्1-2; व्ग्ल्. क्षुद्र्-व्(भी) 25 ब्4-26 अ1)
उज् इइइ.इइ.2.4.1
शृणु त्वम् आयुष्मन् न् अनेकपर्यायेण भगवता मृषावादो विगर्हितो मृषावादविरतिः स्तुता स्तोमिता वर्णिता प्रशस्ता : अद्याग्रेण ते आयुष्मन् अन्ततो हास्यप्रेक्षिणापि संप्रजानन् मृषावादो न भाषितव्यः कः पुनर् वादो ऽसन्तम् असंविद्यमानम् उत्तरंमनुष्यधर्मं प्रलपितुं (उप्ज्(ज्) 23.18-21; ~ स्क्त्.च् 51 व्3-5; व्ग्ल्. क्षुद्र्-व्(भी) 26 अ1-2)
उज् इइइ.इइ.2.4.2.1
उक्तं चैतद् आयुष्मंस् तेन भगवता जानता पश्यता तथागतेनार्हता सम्यक्संबुद्धेन यः पुनर् भिक्षुर् अनभिजानन्न् अपरिजानन्न् असन्तम् असंविद्यमानम् उत्तरंमनुष्यधर्मम् अलमार्यविशेषाधिगमं ज्ञानं वा दर्शनम् वा स्पर्शविहारतां वा प्रतिजानीयाद् इदं जानामीदं पश्यामीति किं जानामि दुःखं जानामि समुदयं निरोधं मार्गं जानामि किम् पश्यामि देवान् पश्यामि नागान् यक्षान्* गरुडान् गन्धर्वां किन्नरान् महोरगान् प्रेतान् पिशाचान् कुम्भाण्डान् कटपूतनां पश्यामि देवा अपि मां पश्यन्ति नागा यक्षा गरुडा गन्धर्वाः किन्नराः महोरगाः प्रेताः पिशाचाः कुम्भाण्डा ः कटपूतना अपि मां पश्यन्ति (उप्ज्(ज्) 23.21-24.6; ~ स्क्त्.च् 51 व्5-52 र्3; व्ग्ल्. क्षुद्र्-व्(भी) 26 अ2-5)
उज् इइइ.इइ.2.4.2.2
देवानां शब्दं शृणोमि नागाना ं यावत् कटपूतनानां शब्दं शृणोमि देवा अपि मम शब्दं शृण्वन्ति नागा यावत् कटपूतना अपि मम शब्दं शृण्वन्ति देवानां दर्शनायोपसंक्रमामि । नागानां यावत् कटपूतनानां दर्शनायोपसंक्रमामि । देवा अपि मम दर्शनायोपसंक्रामन्ति नागा यावत् कटपूतना अपि मम दर्शनायोपसंक्रामन्ति देवैः सार्धम् आलपामि संलपामि प्रतिसंमोदे सातत्यम् अपि समापद्ये नागैर् यावत् कटपूतनैः सार्धम् आलपामि संलपामि प्रतिसंमोदे सातत्यम् अपि समापद्ये देवा अपि मया सार्धम् आलपन्ति संलपन्ति प्रतिसंमोदन्ते सातत्यम् अपि समापद्यन्ते नागा यावत् कटपूतना अपि मया सार्धम् आलपन्ति संलपन्ति प्रतिसंमोदन्ते सातत्यम् अपि समापद्यन्ते (उप्ज्(ज्) 24.6-14; ~ स्क्त्.च् 52 र्3-6; व्ग्ल्. क्षुद्र्-व्(भी) 26 अ5-ब्5)
उज् इइइ.इइ.2.4.2.3अ
अलाभ्य् एव सन्न् अनित्यसंज्ञाया लाभ्य् अहम् अस्मीत्य् आत्मानं प्रतिजानीते अनित्ये दुःखसंज्ञाया दुःखे अनात्मसंज्ञाया आहारे प्रतिकूलसंज्ञायाः सर्वलोके ऽनभिरतिसंज्ञायाः आदीनवसंज्ञायाः प्रहाणसंज्ञाया विरागसंज्ञाया निरोधसंज्ञाया मरणसंज्ञाया (उप्ज्(ज्) 24.15-18; ~ स्क्त्.च् 52 र्6-व्2; व्ग्ल्. क्षुद्र्-व्(भी) 26 ब्5-27 अ2; श्र्भ्(त्: रे-एद्) इ 214.2-5)
उज् इइइ.इइ.2.4.2.3ब्
अलाभ्य् एव सन्न् अशुभसंज्ञायाः लाभ्य् अहम् अस्मीत्य् आत्मानं प्रतिजानीते विनीलकसंज्ञाया विपूयकसंज्ञाया व्याध्मातकसंज्ञाया विपटुमकसंज्ञाया विखादितकसंज्ञाया विलोहितकसंज्ञाया विक्षि प्तकसंज्ञाया अस्थिसंज्ञायाः शून्यताप्रत्यवेक्षणसंज्ञायाः लाभ्य् अहम् अस्मीत्य् आत्मानं प्रतिजानीते (उप्ज्(ज्) 24.18-20; ~ स्क्त्.च् 52 व्2-4; व्ग्ल्. क्षुद्र्-व्(भी) 27 अ2-3; श्र्भ्(त्: रे-एद्) इ 214.5-8)
उज् इइइ.इइ.2.4.2.4
अलाभ्य् एव सन्* प्रथमस्य ध्यानस्य द्वितीयस्य तृतीयस्य चतुर्थस्य ध्यानस्य मैत्र्याः करुणाया मुदिताया उपेक्षायाः आकाशानन्त्यायत न स्य विज्ञानानन्त्यायतनस्याकिञ्चन्यायतनस्य नैवसंज्ञानासंज्ञायतनस्य श्रोतआपत्तिफलस्य सकृदागामिफलस्य अनागामिफलस्य ऋद्धिविषयस्य दिव्यश्रोत्रस्य चेतःपर्यायस्य पूर्वनिवासस्य च्युत्युपपादस्य आस्रवक्षयस्य (उप्ज्(ज्) 24.20-25; ~ स्क्त्.च् 52 व्4-53 र्1; व्ग्ल्. क्षुद्र्-व्(भी) 27 अ3-ब्1; श्र्भ्(त्: रे-एद्) इ 214.8-12)
उज् इइइ.इइ.2.4.2.5
अनर्हन्न् एव सन्न् अर्हन्न् अहम् अस्म्य् अष्टविमोक्षध्यायीत्य् आत्मानं प्रतिजानीते ऽन्यत्रा भ् इमानाद् इत्य् (उप्ज्(ज्) 24.25-25.1; ~ स्क्त्.च् 53 र्1; व्ग्ल्. क्षुद्र्-व्(भी) 27 ब्1)
उज् इइइ.इइ.2.4.3.1
एवंरूपं भिक्षुः स्थानम् अध्यापद्य सहाध्याप त् त्या अभिक्षुर् भवत्य् अश्रमणो ऽशाक्यपुत्रीयो ध्वस्यते भिक्षुभावाद् धतम् अस्य भवति श्रामण्यं ध्वस्तं मथितं पतितं पराजितम् अप्रत्युद्धार्यम् अस्य भवति श्रामण्यं (उप्ज्(ज्) 25.1-3; ~ स्क्त्.च् 53 र्1-3; व्ग्ल्. क्षुद्र्-व्(भी) 27 ब्1-2)
उज् इइइ.इइ.2.4.3.2
तद्यथा तालो मस्तकाच् छिन्नः अभव्यो हरितत्वाय अभव्यो विरूढिं वृद्धिं विपुलताम् आपत्तुं (उप्ज्(ज्) 25.4-5; ~ स्क्त्.च् 53 र्3-4; व्ग्ल्. क्षुद्र्-व्(भी) 27 ब्2-3)
उज् इइइ.इइ.2.4.4
एवम् एव भिक्षुर् एवंरूपं स्थानम् अध्यापद्य यावद् अप्रत्युद्धार्यम् अस्य भवति श्रामण्यं अत्र ते ऽद्याग्रेणानध्याचारे ऽनध्यापत्ताव् अनध्याचारवैरमण्यां तीव्रश् चेतस आरक्षा स्मृत्यप्रमादे योगः करणीयः (उप्ज्(ज्) 25.5-7; ~ स्क्त्.च् 53 र्4-5; व्ग्ल्. क्षुद्र्-व्(भी) 27 ब्3-5)
उज् इइइ.इइ.2.4.5
कच्चिद् एवंरूपं स्थानं नाध्यापत्स्यसे तेन वक्तव्यं नाध्यापत्स्ये (उप्ज्(ज्) 25.7-8; ~ स्क्त्.च् 53 र्5; व्ग्ल्. क्षुद्र्-व्(भी) 27 ब्5)
उज् इइइ.इइइ.1
ततः पश्चाच् चत्वारः श्रमणकरका धर्मा आरोचयितव्याः एवञ् च पुनर् आरोचयितव्याः शृणु त्वम् आयुष्मंश् चत्वार इमे तेन भगवता जानता पश्यता तथागतेनार्हता सम्यक्संबुद्धेन एवं प्रव्रजितोपसंपन्नस्य भिक्षोः श्रमणकरका धर्मा आख्याताः कतमे चत्वारः (उप्ज्(ज्) 25.10-13; ~ स्क्त्.च् 53 र्5-7; व्ग्ल्. क्षुद्र्-व्(भी) 31 अ3-4)
उज् इइइ.इइइ.2
अद्याग्रेण ते आयुष्मन्न् आक्रुष्टेन न प्रत्याक्रोषितव्यं रोषितेन न प्रतिरोषयितव्यं ताडितेन न प्रतिताडयितव्यं भण्डितेन न प्रतिभण्डयितव्यं कच्चिद् एवंरूपं स्थानं नाध्यापत्स्यसे तेन वक्तव्यं नाध्यापत्स्ये (उप्ज्(ज्) 25.13-16; ~ स्क्त्.च् 53र्7-व्1; व्ग्ल्. क्षुद्र्-व्(भी) 31 अ4-5; श्र्भ्(त्: रे-एद्) इ 216.2-3, 288.9-10)
उज् इइइ.इव्.1
शृणु त्वम् आयुष्मन् यस् ते ऽभूत् पूर्वम् आशासकः कच्चिद् अहं लभेय स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावं स त्वम् एतर्हि प्रव्रजित उपसंपन्नः प्रतिरूपेणोपाध्यायेन प्रतिरूपाभ्याम् आचार्याभ्या ं समग्रेण संघेन ज्ञप्तिचतुर्थेन कर्मणा अकोप्येनास्थापनार्हेण (उप्ज्(ज्) 25.17-20; ~ स्क्त्.च् 53 व्1-4; व्ग्ल्. क्षुद्र्-व्(भी) 31 अ5-ब्1)
उज् इइइ.इव्.2
यत्र वर्षशतोपसंपन्नेन भिक्षुणा शिक्षायां शिक्षितव्यं तत्र तदह उपसंपन्नेन यत्र तदह उपसंपन्नेन तत्र वर्षशतोपसंपन्नेन इति यात्र समानशीलता समानशिक्षता समानप्रातिमोक्षसूत्रोद्देशता सा ते ऽद्याग्रेणारागयितव्या न विरागयितव्या (उप्ज्(ज्) 25.20-26.1; ~ स्क्त्.च् 53 व्4-6; व्ग्ल्. क्षुद्र्-व्(भी) 31 ब्1-3)
उज् इइइ.इव्.3
अद्याग्रेण ते उपाध्या य स्यान्तिके पितृसंज्ञा उपस्थापयितव्या उपाध्यायेनापि तवान्तिके पुत्रसंज्ञा उपस्थापयितव्या । अद्याग्रेण ते उपाध्यायो यावज्जीवम् उपस्थातव्यः उपाध्यायेनापि त्वं ग्लानः उपस्थातव्यः आमरणाय वाव्युत्थानाय वा (उप्ज्(ज्) 26.1-4; ~ स्क्त्.च् 53 व्6-54 र्1; व्ग्ल्. क्षुद्र्-व्(भी) 31 ब्3-5)
उज् इइइ.इव्.4
अद्याग्रेण ते सगौरवेण विहर्तव्यं सप्रतीशेन सभयवशवर्तिना सब्रह्मचारिषु स्थविरेषु मध्येषु नवकेषु । (उप्ज्(ज्) 26.4-6; ~ स्क्त्.च् 54 र्1-2; व्ग्ल्. क्षुद्र्-व्(भी) 31 ब्5-(32 अ1))
उज् इइइ.इव्.5
अद्याग्रेण ते उद्देष्टव्यं पठितव्यं स्वाध्यायितव्यं स्कन्धकौशलं करणीयं धातुकौशलम् आयतनकौशलं प्रतीत्यसमुत्पादकौशलं स्थानास्थानकौशलम्* । धुरा च ते न निक्षेप्तव्या अप्राप्तस्य प्राप्तये अनधिगतस्याधिगमाय असाक्षात्कृतस्य साक्षात्क्रियायै (उप्ज्(ज्) 26.7-10; ~ स्क्त्.च् 54 र्2-4)
उज् इइइ.इव्.6
इमानि च ते मया औदारिकौदारिकाणि शिक्षापदान्य् आख्यातानि अन्यानि चान्वर्धमासं प्रातिमोक्षसूत्रोद्देश उद्दिश्यमाने श्रोष्यसि अन्यानि च ते आचार्योपाध्याया ग्राहयिष्यन्ति समानोपाध्यायः समानाचार्यः आलप्तकास् संलप्तकाः संस्तुतकाः सप्रेमकाः (उप्ज्(ज्) 26.11-14; ~ स्क्त्.च् 54 र्4-7)
उज् इइइ.इव्.7
एष त्वम् उपसंपन्नो वरप्रज्ञस्य शासने ।
यथेमां न विरागयसि दुर्लभां क्षणसंपदं
प्रासादिकस्य प्रव्रज्या परिशुद्धस्योपसंपदा
आख्याता सत्यनाम्ना वै संबुद्धेन प्रजानता
एष त्वम् आयुष्मन् उपसंपन्नो ऽप्रमादेन संपादय (उप्ज्(ज्) 26.15- 27.3; ~ स्क्त्.च् 54 र्7-व्2)
॥ ॥ उपसंपादज्ञप्तिः समाप्तः ॥ ॥
मूल पाठ: Upasaṃpadājñapti · Edition: Jin-il Chung: Handbuch für die buddhistische Mönchsordination bei den Mūlasarvāstivādins. Gimpo 2011 · Data entry Jin-il Chung · GRETIL (Göttingen) · CC BY-NC-SA 4.0