भाषा

ENहिગુ
ग्रंथ पाठ

तुलजाष्टकम् · अध्याय 1

1

दुग्धेन्दु कुन्दोज्जवलसुंदराङ्गीं
मुक्ताफलाहार विभूषिताङ्गीम।
शुभ्राम्बरां स्तनभरालसाङ्गीं
वन्देहमाद्यां तुलजाभवानीम्

2

बालार्कभासामतिचा रुहासां
माणिक्य मुक्ताफल हार कण्ठीम।
रक्तांबरा रक्तविशालनेत्रीं
वन्देस्हमाद्यां तुलजाभवानीम्

3

श्यामाङ्गवर्णां मृगशावनेत्रां
कौशेवस्त्रां कुसुमेषु पूज्याम।
कस्तुरिकाचन्दनचर्चितांगी,
वन्देस्हमाद्यां तुलजाभवानीम्

4

पीताम्बरां चम्पक कान्ती गौरीम
अलङकृतामुत्तममण्डनैश्च।
नाशाय भूतां भूवि दानवांनां,
वन्देस्माद्यां तुलजाभवानीम्

5

चन्द्रार्कताटङ्कधरां त्रिनेत्रां
शूल दधानामतिकालरुपम।
विपक्षनाशाय धृतायुधां तां,
वन्देस्हमाद्यां तुलजाभवानीम्

6

ब्रम्हेन्द्र नारायणरुद्रपूज्यां
देवांगनाभि: परिगीयामानाम ।
स्तुतांवचोभिर्मुनिनारदा द्यै:
वन्देस्हमाद्यां तुलजाभवानीम्

7

अष्टांग योगे: सनकादिभिश्च,
ध्यातां मुनीन्द्रैश्च समाधीगम्याम ।
भक्तस्य नित्यम भूवी कामधेनुं,
वन्देस्हमाद्यां तुलजाभवानीम्

8

सिंहासनस्थां परिवीज्यमानां
देवै: समस्तैश्च सुचामरैश्च ।
छत्रं दधाना अतिशुभ्रवर्णं
वन्देस्हमाद्यां तुलजाभवानीम्

9

पूर्णः कटाक्षोस्खिललोकमातु:
गिरीन्द्रकन्यां भजतामसुधन्याम ।
दारिद्र्यकं नैव कदा जनानां
चिन्ता कुत:स्यात भवसागरस्य

10

तुलजाष्टकमिदं स्तोत्रं
त्रिकालं यः पठेत नरः ।
आयु: कीर्ति यशो लक्ष्मी
धनपुत्रानवाप्नुयात

इति श्रीमच्छङ्कराचार्या विरचितम तुलजादेवीस्तोत्रं संपूर्णम् ॥

मूल पाठ: tulajāṣṭakam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc