भाषा

ENहिગુ
ग्रंथ पाठ

तैत्तिरीयोपनिषद · अध्याय 2.3

2.3.1

प्राणं देवा अनु प्राणन्ति । मनुष्याः पशवश्च ये । प्राणो हि भूतानामायुः । तस्मात् सर्वायुषमुच्यते । सर्वमेव त आयुर्यन्ति । ये प्राणं ब्रह्मोपासते । प्राणो हि भूतानामायुः । तस्मात् सर्वायुषमुच्यत इति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य । तस्माद्वा एतस्मात् प्राणमयात् । अन्यो ऽन्तर आत्मा मनोमयः । तेनैष पूर्णः । स वा एष पुरुषविध एव । तस्य पुरुषविधताम् । अन्वयं पुरुषविधः । तस्य यजुरेव शिरः । ऋग्दक्षिणः पक्षः । सामोत्तरः पक्षः । आदेश आत्मा । अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा । तदप्येष श्लोको भवति ॥

मूल पाठ: Taittirīya-Upaniṣad with Śaṃkarabhāṣya · Edition: Ten Principal Upaniṣads with Śaṅkarabhāṣya, Works of Śaṅkarācārya in original Sanskrit, vol. 1, Delhi: Motilal Banarsidass (first edition 1964, reprint 2007) Aitareya-Āraṇyaka Aitareya-Brāhmaṇa Aitareya-Upaniṣad Bṛhadāraṇyaka-Upaniṣad Bhagavad-Gītā Chāndogya-Upaniṣad Īśā-upaniśad Kaṭha-Upaniṣad Kauṣītaki-Upaniṣad Mānava-Dharma-Śastra Mahābhārata Muṇḍaka-Upaniṣad Praśna-Upaniśad Śatapatha-Brāhmaṇa · Data entry Ivan Andrijanić · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc