भाषा

ENहिગુ
ग्रंथ पाठ

स्तूपलक्षणकारिकाविवेचन · अध्याय 2

2.1

स्ल्क्व् §3
1. दानं पृथिवी
2. शीलन् नेमि
3. चत्वार्य् आर्यवंशा अङ्गणां
4. चत्वार्य् आर्यसत्यानि सोपानानि
5. वैशारद्यानि स्तम्भाः
6. स्मृत्युपस्थानानि अधरा वेदी
7. सम्यक्प्रहाणानि द्वितीया वेदी
स्ल्क्व् प्. 211
8. ऋद्धिपादास् तृतीया वेदी
9. श्रद्धादीनि पंचेन्द्रियानि चतुर्थी जंघावेदी
10. श्रद्धादीनि पञ्चबलानि कण्ठकं
11. अनित्यादीनि धर्ममुखानि चतस्रः पुष्पग्रहण्याः
12. अनास्रवाः प्रथमध्यानभूमिजा प्रस्रब्धिसंबोध्यङ्गं कण्ठकं
13. द्वितीयतृतीयध्यानभूमिजा प्रीतिप्रीति संबोध्यङ्गं कण्ठकवलयं वलितकं
14. अनागम्यचतुर्थध्यानादिभूमिजा उपेक्षावेदना-उपेक्षासंबोध्यङ्गं हर्मिका
15. स्मृतिधर्मप्रविचयवीर्यसमाधिसंबोध्यङ्गानि चत्वारो लोकपालाः
स्ल्क्व् प्. 212
16. आर्याष्टाङ्गो मार्गो यष्टिः
17. क्षीणास्रवबलानि त्रीणि चावेनिकानि स्मृत्युपस्थानानि त्रयोदश च्छत्रवल्याः
18. उष्णीषो महाकरुणाविशुद्धिः (ब्éनिस्ति: तद् उपरि अनुत्तरमहाकरुणाविशुद्ध्या उष्णीषं ॥)
19. विमला निर्वाणधातुः सितातपत्रा
स्ल्क्व् प्. 213
20. संवृत्तिसत्यं परमार्थसत्यं चन्द्रसूर्यौ
21. आर्यरत्नम् इदं गाथाद्वयम् सत्वविषयात्मगतं घण्टाद्वयं
22. सर्वाकारज्ञाताज्ञानं च्छत्रं
23. अलोभात्मिकचेतोविमुक्ति ध्वजं इत्य् अपि स भगवान् इत्य् आदि
24. यशस् पताकाः
प्रकीर्णकचैत्यलक्षनं समाप्तम् ॥
॥ आर्यलोकोत्तरवादिनो यत् कृतिर् आचार्य भद्रव्यूहस्य ।
स्ल्क्व् प्. 214
स्ल्क्व् §4
निर्जिताशेषदोषगं गुणोत्वाकपरागताः ।
जयन्ति जितजन्मानो भगवन्तस् तथागताः

2.2

स्तूपं कृत्वोपदेशेन येन्ऽ; अर्थो जगतः कृतः ।
तम् अहं शिरसा वन्दे भद्रव्यूहाह्वयं यतिं

2.3

सन्दिग्धाज्ञविपर्यस्तधियं संप्रतिपत्तये ।
स्तूपलक्षणशास्त्रस्य विवेचनम् इहोच्यते

मूल पाठ: Stūpalakṣaṇakārikāvivecana · Edition: ed. G. Roth, "Edition of the Stūpa-lakṣaṇa-kārikā-vivecanaṃ, Including the prakīrṇaka-caitya-lakṣaṇaṃ, Dharmadūta. Mélanges offerts au Vénérable Thích Huyên-Vi à l'occasion de son soixante-dixième anniversaire, ed. Bhikkhu T. Dhammaratana, Bhikkhu Pāsādika, Paris 1997, pp. 205-231. Cf. 2nd ed. (repr.?) in: Stupa: Cult and Symbolism, Contributions by G. Roth, F.K. Ehrhard, K. Tanaka, Lokesh Chandra · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc