भाषा

ENहिગુ
ग्रंथ पाठ

श्रीविष्णो: षोडशनामस्तोत्रम् · अध्याय 1

1

श्रीविष्णोः षोडशनामस्तोत्रम् ।
श्रीगणेशाय नमः॥
औषधे चिन्तयेद्विष्णुं भोजने च जनार्दनम् ।
शयने पद्मनाभं च विवाहे च प्रजापतिम्

2

युद्धे चक्रधरं देवं प्रवासे च त्रिविक्रमम् ।
नारायणं तनुत्यागे श्रीधरं प्रियसंगमे

3

दुःस्वप्ने स्मर गोविन्दं संकटे मधुसुदनम् ।
कानने नारसिंहं च पावके जलशायिनम्

4

जलमध्ये वराहं च पर्वते रघुनन्दनम् ।
गमने वामनं चैव सर्वकार्येषु माधवम्

5

षोडशैतानि नामानि प्रातरुत्थाय यः पठेत् ।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते

इति श्रीविष्णोः षोडशनामस्तोत्रं संपूर्णम्॥

मूल पाठ: śrīviṣṇo: ṣoḍaśanāmastotram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc