श्रीविन्ध्यवासिनिस्तोत्रम् · अध्याय 1
ध्यानम्
नंदगोप गृहे जाता यशोदागर्भसम्भवा।
ततस्तौ नाशयिष्यामि विंध्याचलनिवासिनी ॥
निशुम्भशुम्भमर्दिनीम्, प्रचंडमुंडखंडनीम् ।
वने रणे प्रकाशिनीम्, भजामि विंध्यवासिनीम्
त्रिशुलमुंडधारिणीम्, धराविघातहारणीम् ।
गृहे गृहे निवासिनीम्, भजामि विंध्यवासिनीम्
दरिद्रदु:खहारिणीम्, संता विभूतिकारिणीम् ।
वियोगशोकहारणीम्, भजामि विंध्यवासिनीम्
लसत्सुलोललोचनाम्, लता सदे वरप्रदाम् ।
कपालशूलधारिणीम्, भजामि विंध्यवासिनीम्
करे मुदागदाधरीम्, शिवा शिवप्रदायिनीम् ।
वरां वराननां शुभाम्, भजामि विंध्यवासिनीम्
ऋषीन्द्रजामिनीप्रदा,त्रिधास्वरुपधारिणीम् ।
जले थले निवासिनीम्,भजामि विंध्यवासिनीम्
विशिष्टसृष्टिकारिणीम्, विशालरुपधारिणीम् ।
महोदरे विलासिनीम्, भजामि विंध्यवासिनीम्
पुरंदरादिसेविताम्, मुरादिवंशखण्डनीम् ।
विशुद्ध बुद्धिकारिणीम्, भजामि विंध्यवासिनीम्
मूल पाठ: śrīvindhyavāsinistotram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0